Java/C2/Parameterized-constructors/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:48, 20 November 2014 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search
Time Narration
00:02 जावा मध्ये parameterized constructor'’ इत्याख्ये पाठेऽस्मिन् भवद्भ्यः स्वागतम् ।
00:08 पाठेऽस्मिन् वयम्,
00:10 प्यारामीटरैस्ड्-कन्स्ट्रक्टर् विषये,
00:13 तथा प्यारामीटरैस्ड् कन्स्ट्रक्टर् इतीदं रचयितुम् अपि ज्ञास्यामः ।
00:17 वयमत्र,
  • Ubuntu version 11.10 OS
  • Java Development kit 1.6
  • And Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे ।
00:29 पाठमिदम् अनुसर्तुं भवन्तः,
00:32 जावा मध्ये एक्लिप्स् उपयुज्य डीफ़ाळ्ट् कन्स्ट्रक्टर् इतीदं रचयितुं समर्थाः भवेयुः ।
00:37 न चेत् तत्सम्बद्धपाठार्थम् अधोनिर्दिष्टं जालपुटं पश्यन्तु ।

(http://www.spoken-tutorial.org)

00:44 किं नाम प्यारामीटरैस्ड् कन्स्ट्रक्टर् इति पश्यामः ।
00:48 “प्यारामीटर् अस्य अस्तीति प्यारामीटरैस्ड् कन्स्ट्रक्टर्” इति अस्य व्याख्या ।
00:55 तत् प्यारामीटर् तु एकम् , एकाधिकं वा भवेत् ।
00:59 वयमधुना प्यारामीटरैस्ड् कन्स्ट्रक्टर् एकं रचयाम ।
01:03 एक्लिप्स् मध्ये Student.java इति सञ्चिकाम् उद्घाटयामः ।
01:09 सञ्चिकामियं पूर्वतनपाठे वयं रचितवन्तः ।
01:15 अधुना कन्स्ट्रक्टर् मध्ये वेरियेबल् अस्य डीफोल्ट्-मूल्यं दद्मः ।
01:21 roll_number समं ( दशस्थाने ) 0 (शून्यं) इति टङ्कयाम ।
01:27 तथा name समं (Raman-स्थाने ) null इति च टङ्कयाम ।
01:33 System डोट् out डोट् println “I am a default constructor.” इति टङ्कयतु ।
01:55 वयं प्यारामीटर्-रहितं कन्स्ट्रक्टर् एकं रचितवन्तः ।
02:00 जावा मध्ये तादृशं कन्स्ट्रक्टर् तु डीफोल्ट् कन्स्ट्रक्टर् इति कथ्यते ।
02:07 अधुना वयम् अन्यदेकं कन्स्ट्रक्टर् रचयाम ।
02:11 Student इति टङ्कयतु ।
02:17 ब्रेकेट् मध्ये int the_roll_number कोमा String the_name इति टङ्कयन्तु ।
02:36 वयमधुना प्यारामीटर्-युक्तं कन्स्ट्रक्टर् इदं रचितवन्तः ।
02:43 कन्स्ट्रक्टर् अस्मै Student इति क्लास्-नाम एव दातव्यम् ।
02:49 ब्रेकेट् मध्ये कन्स्ट्रक्टर् अस्मै प्यारामीटर्-द्वयं वयं दत्तवन्तः ।
02:57 कन्स्ट्रक्टर् इत्यस्मै कियदपि प्यारामीटर् इमानि दातुं शक्यम् ।
03:02 अधुना कर्लि ब्रेकेट् मध्ये ,
03:05 System डोट् out डोट् println “I am a parameterized constructor” इति टङ्कयतु ।
03:29 तदनन्तरं roll_number समं the_roll_number सेमिकोलन्
03:43 तथा name समं the_name इति टङ्कयित्वा सेमिकोलन् नुदतु ।
03:53 प्यारामीटर्-युक्तं कन्स्ट्रक्टर् इदं वयं रचितवन्तः ।
03:58 अधुना कन्स्ट्रक्टर् इदम् आह्वयाम।
04:02 तदर्थं मेन् मेथड्-मध्ये student stu2 समं new student इति टङ्कयित्वा ब्रेकेट्-मध्ये 11 कोमा डबल्-कोट्स् मध्ये Raju इति टङ्कयतु ।
04:28 अधुना studentDetail मेथड् इदं आह्वयाम ।
04:31 तदर्थं stu2.studentDetail() इति टङ्कयतु ।
04:38 सञ्चिकां रक्षयित्वा रन् करोतु ।
04:44 वयं पटले फलितं पश्यन्तः स्मः ।
04:48 आदौ डीफोल्ट् कन्स्ट्रक्टर् काल् भवति ।
04:52 इदं तु, वेरियेबल् इमानि तेषां डीफोल्ट्-मूल्यार्थं इनिशियलैज् करोति ।
04:56 तदनन्तरं प्यारामीटरैस्ड्-कन्स्ट्रक्टर् काल् सम्भवति ।
05:00 इदं, वेरियेबल् इमानि पास्-कृतस्य आर्ग्युमेण्ट् निमित्तम् इनिशियलैज् करोति ।
05:05 अर्थात् 11 तथा Raju ।
05:08 अधुना प्यारामीटरैस्ड् कन्स्ट्रक्टर् कथं कार्यं करोतीति पश्यामः ।
05:12 वयं प्यारामीटरैस्ड् कन्स्ट्रक्टर् इदम् अह्वानसमये मूल्यद्वयं पास् कुर्मः ।
05:18 इमानि “आर्ग्युमेण्ट्” इति कथ्यन्ते ।
05:22 'the_roll_number' इति प्यारामीटर् अस्मै 11 इति मूल्यं कोपि भवति ।
05:31 अपि च 'the_name' इति प्यारामीटर् अस्मै Raju इति कोपि भवति ।.
05:41 the_roll_number अस्य मूल्यं roll_number अस्मै असैन् सम्भवति ।
05:50 तथा the_name अस्य मूल्यं name अस्मै असैन् भवति ।
05:55 अतः फलिते वयं 11 अपि च Raju इति पश्यन्तः स्मः ।
06:00 अधुना वयं , प्यारामीटरैस्ड् कन्ट्रक्टर् अस्य अह्वानसमये ये दोषाः सम्भवन्तीति पश्याम ।
06:07 यदि अस्माभिः कन्स्ट्रक्टर् अस्मै एकमेव निरूपकं पास्-क्रियते चेत् किं भवतीति पश्यामः ।
06:11 'Raju' इतीदं निष्कासयतु ।
06:15 वयं “The constructor Student with parameter (int) is undefined.” इति दोषं प्राप्तवन्तः ।
06:24 अर्थात् आर्ग्यूमेण्ट्-सङ्ख्या प्यारामीटर्-सङ्ख्यायै सममेव भवितव्यम् ।
06:30 अत्र वयं पुनः Raju इति टङ्कयित्वा दोषं परिहर्तुं शक्नुमः ।
06:36 अधुना एकमेव प्यारामीटर्-युक्तं अन्यदेकं कन्स्ट्रक्टर्-रचयितुं शक्नुमः ।
06:42 अधुना तत्कुर्मः ।
06:45 Student ब्रेकेट् मध्ये int r_no इति टङ्कयतु ।
07:01 कर्लि ब्रेकेट् मध्ये System डोट् out डोट् printl
07:13 “I am a constructor with a single parameter” इति टङ्कयतु ।
07:29 अग्रे roll_number समं r_no इति टङ्कयतु ।
07:48 सञ्चिकां रक्षयतु ।
07:51 वयं कन्स्ट्रक्टर् अस्य डिफैन्-करणानन्तरं दोषं परिहृतं इति पश्यन्तः स्मः ।
07:58 अधुना रन् करोतु ।
08:02 पटले वयं rollnumber अस्य मूल्यं 11 अस्मै एस्सैन् अभूदिति ज्ञातवन्तः ।
08:08 कन्स्ट्रक्टर् एकमेव निरूपकं प्रतिगृह्णाति । अतः name अस्य मूल्यं 'null' भविष्यति ।
08:18 वयमधुना प्यरामीटर्-द्वयात्मकं कन्स्ट्रक्टर् इदम् आह्वयाम ।
08:23 Student stu3 समं new Student
08:40 ब्रेकेट् मध्ये 11 कोमा Raju इति टङ्कयतु ।
08:46 तदनन्तरं Stu3 डोट् studentDetail इति टङ्कयतु ।
08:58 यदि अस्माभिः अत्र 11 इदं String निरूपकं कृत्वा पास् क्रियते चेत् , अर्थात् अत्र डबल् कोट्स् वर्तते चेत् ,
09:08 वयम्,
09:10 “The constructor Student String ,String is undefined.” इति दोषं प्राप्नुमः ।
09:17 अतः अर्ग्युमेण्ट् तथा प्यरामीटर् अनयोः डेटाटैप् एकमेव भवेत् ।
09:25 अतः डबल्-कोट्स् इमे निष्कासयित्वा सञ्चिकां रक्षयतु ।
09:32 अधुना दोषः परिहृतम् ।
09:35 अतः इदानीं रन् करोतु ।
09:38 फलिते कन्स्ट्रख्तर्-त्रयं पश्यन्तः स्मः ।
09:42 तत्राद्यं डीफोल्ट्-कन्स्ट्रक्टर् ।
09:45 द्वितीयं तु प्यारामीटर्-युक्तं कन्स्ट्रक्टर् ।
09:50 तथा तृतीयं तु प्यारामीटर्-द्वयात्मकं कन्स्ट्रक्टर् ।
09:56 एवं वयं जावा-मध्ये प्यारामीटरैस्ड्-कन्स्ट्रक्टर् इतीदं रचयामः ।
10:05 कन्स्ट्रक्टर् इतीदं किमर्थं उपयुञ्ज्महे इति पश्याम ।
10:07 प्रतिवारम् इन्स्टेन्स्-रचनासन्दर्भे क्लास् मध्ये वेरियेबल् अस्य इनिशियलैज् करणीयम् ।
10:13 सर्वाणि वेरियेबल् इमानि प्रतिवारं इनिशियलैज्-करणं दुःसाध्यम् ।
10:18 अतः जावामध्ये ओब्जेक्ट् यानि सन्ति तानि तेषां रचनासमये एव इनिशियलैज् भवितुं अर्हन्ति ।
10:25 इयं क्रिया कन्स्ट्रक्टर्-द्वारा सम्भवति ।
10:30 पाठेऽस्मिन् वयम्,
10:33 प्यारामीटरैस्ड्-कन्स्ट्रक्टर् अस्य रचनाविधानं,
10:36 प्यारामीटरैस्ड्-कन्स्ट्रक्टर् अस्य कार्यविधानं ,
10:39 अपि च कन्स्ट्रक्टर् अस्य उपयोगः कथं भवतीति ज्ञातवन्तः ।
10:44 स्वावलोकनार्थम्, Employee इति नाम्ना क्लास्-एकं रचयतु ।
10:48 तस्मै अन्यदन्यत् प्यारामीटर्-युक्तं कन्स्ट्रक्टर् इदं रचयतु ।
10:53 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
10:56 कृपया अधो विद्यमानं विडीयो पश्यन्तु।
[1]  
11:02 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
11:06 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
11:10 spoken tutorial team
11:12 पाठमिदमुपयुज्य कार्यशालां चालयति।
11:14 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति ।
11:18 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
11:24 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
11:28 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
11:34 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
11:43 वयं पाठस्यान्तं प्राप्तवन्तः ।
11:46 धन्यवादाः ।
11:47 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal