Java/C2/Parameterized-constructors/Sanskrit
From Script | Spoken-Tutorial
| Time | Narration |
| 00:02 | जावा मध्ये parameterized constructor इत्याख्ये पाठेऽस्मिन् भवद्भ्यः स्वागतम् । |
| 00:08 | पाठेऽस्मिन् वयम्, |
| 00:10 | प्यारामीटरैस्ड्-कन्स्ट्रक्टर् विषये, |
| 00:13 | तथा प्यारामीटरैस्ड् कन्स्ट्रक्टर् इतीदं रचयितुम् अपि ज्ञास्यामः । |
| 00:17 | वयमत्र,
Ubuntu version 11.10 OS, Java Development kit 1.6, Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे । |
| 00:29 | पाठमिदम् अनुसर्तुं भवन्तः, |
| 00:32 | जावा मध्ये एक्लिप्स् उपयुज्य डीफ़ाळ्ट् कन्स्ट्रक्टर् इतीदं रचयितुं समर्थाः भवेयुः । |
| 00:37 | न चेत् तत्सम्बद्धपाठार्थम् अधोनिर्दिष्टं जालपुटं पश्यन्तु । http://www.spoken-tutorial.org |
| 00:44 | किं नाम प्यारामीटरैस्ड् कन्स्ट्रक्टर् इति पश्यामः । |
| 00:48 | “प्यारामीटर् अस्य अस्तीति प्यारामीटरैस्ड् कन्स्ट्रक्टर्” इति अस्य व्याख्या । |
| 00:55 | तत् प्यारामीटर् तु एकम् , एकाधिकं वा भवेत् । |
| 00:59 | वयमधुना प्यारामीटरैस्ड् कन्स्ट्रक्टर् एकं रचयाम । |
| 01:03 | एक्लिप्स् मध्ये Student.java इति सञ्चिकाम् उद्घाटयामः । |
| 01:09 | सञ्चिकामिमां पूर्वतनपाठे वयं रचितवन्तः । |
| 01:15 | अधुना कन्स्ट्रक्टर् मध्ये वेरियेबल् अस्य डीफोल्ट्-मूल्यं दद्मः । |
| 01:21 | roll_number समं ( दशस्थाने ) 0 (शून्यं) इति टङ्कयाम । |
| 01:27 | तथा name समं (Raman-स्थाने ) null इति च टङ्कयाम । |
| 01:33 | System डोट् out डोट् println “I am a default constructor.” इति टङ्कयतु । |
| 01:55 | वयं प्यारामीटर्-रहितं कन्स्ट्रक्टर् एकं रचितवन्तः । |
| 02:00 | जावा मध्ये तादृशं कन्स्ट्रक्टर् तु डीफोल्ट् कन्स्ट्रक्टर् इति कथ्यते । |
| 02:07 | अधुना वयम् अन्यदेकं कन्स्ट्रक्टर् रचयाम । |
| 02:11 | Student इति टङ्कयतु । |
| 02:17 | ब्रेकेट् मध्ये int the_roll_number कोमा String the_name इति टङ्कयन्तु । |
| 02:36 | वयमधुना प्यारामीटर्-युक्तं कन्स्ट्रक्टर् इदं रचितवन्तः । |
| 02:43 | कन्स्ट्रक्टर् अस्मै Student इति क्लास्-नाम एव दातव्यम् । |
| 02:49 | ब्रेकेट् मध्ये कन्स्ट्रक्टर् अस्मै प्यारामीटर्-द्वयं वयं दत्तवन्तः । |
| 02:57 | कन्स्ट्रक्टर् इत्यस्मै कियदपि प्यारामीटर् इमानि दातुं शक्यम् । |
| 03:02 | अधुना कर्लि ब्रेकेट् मध्ये , |
| 03:05 | System डोट् out डोट् println “I am a parameterized constructor” इति टङ्कयतु । |
| 03:29 | तदनन्तरं roll_number समं the_roll_number सेमिकोलन् |
| 03:43 | तथा name समं the_name इति टङ्कयित्वा सेमिकोलन् नुदतु । |
| 03:53 | प्यारामीटर्-युक्तं कन्स्ट्रक्टर् इदं वयं रचितवन्तः । |
| 03:58 | अधुना कन्स्ट्रक्टर् इदम् आह्वयाम। |
| 04:02 | तदर्थं मेन् मेथड्-मध्ये student stu2 समं new student इति टङ्कयित्वा ब्रेकेट्-मध्ये 11 कोमा डबल्-कोट्स् मध्ये Raju इति टङ्कयतु । |
| 04:28 | अधुना studentDetail मेथड् इदं आह्वयाम । |
| 04:31 | तदर्थं stu2.studentDetail() इति टङ्कयतु । |
| 04:38 | सञ्चिकां रक्षयित्वा रन् करोतु । |
| 04:44 | वयं पटले फलितं पश्यन्तः स्मः । |
| 04:48 | आदौ डीफोल्ट् कन्स्ट्रक्टर् काल् भवति । |
| 04:52 | इदं तु, वेरियेबल् इमानि तेषां डीफोल्ट्-मूल्यार्थं इनिशियलैज् करोति । |
| 04:56 | तदनन्तरं प्यारामीटरैस्ड्-कन्स्ट्रक्टर् काल् सम्भवति । |
| 05:00 | इदं, वेरियेबल् इमानि पास्-कृतस्य आर्ग्युमेण्ट् निमित्तम् इनिशियलैज् करोति । |
| 05:05 | अर्थात् 11 तथा Raju । |
| 05:08 | अधुना प्यारामीटरैस्ड् कन्स्ट्रक्टर् कथं कार्यं करोतीति पश्यामः । |
| 05:12 | वयं प्यारामीटरैस्ड् कन्स्ट्रक्टर् अस्य अह्वानसमये मूल्यद्वयं पास् कुर्मः । |
| 05:18 | इमानि “आर्ग्युमेण्ट्” इति कथ्यन्ते । |
| 05:22 | 'the_roll_number' इति प्यारामीटर् अस्मै 11 इति मूल्यं कोपि भवति । |
| 05:31 | अपि च 'the_name' इति प्यारामीटर् अस्मै Raju इति कोपि भवति ।. |
| 05:41 | the_roll_number अस्य मूल्यं roll_number अस्मै असैन् सम्भवति । |
| 05:50 | तथा the_name अस्य मूल्यं name अस्मै असैन् भवति । |
| 05:55 | अतः फलिते वयं 11 अपि च Raju इति पश्यन्तः स्मः । |
| 06:00 | अधुना वयं , प्यारामीटरैस्ड् कन्ट्रक्टर् अस्य अह्वानसमये ये दोषाः सम्भवन्तीति पश्याम । |
| 06:07 | यदि अस्माभिः कन्स्ट्रक्टर् अस्मै एकमेव निरूपकं पास्-क्रियते चेत् किं भवतीति पश्यामः । |
| 06:11 | 'Raju' इतीदं निष्कासयतु । |
| 06:15 | वयं “The constructor Student with parameter (int) is undefined.” इति दोषं प्राप्तवन्तः । |
| 06:24 | अर्थात् आर्ग्यूमेण्ट्-सङ्ख्या प्यारामीटर्-सङ्ख्यायै सममेव भवितव्यम् । |
| 06:30 | अत्र वयं पुनः Raju इति टङ्कयित्वा दोषं परिहर्तुं शक्नुमः । |
| 06:36 | अधुना एकमेव प्यारामीटर्-युक्तं अन्यदेकं कन्स्ट्रक्टर्-रचयितुं शक्नुमः । |
| 06:42 | अधुना तत्कुर्मः । |
| 06:45 | Student ब्रेकेट् मध्ये int r_no इति टङ्कयतु । |
| 07:01 | कर्लि ब्रेकेट् मध्ये System डोट् out डोट् println |
| 07:13 | “I am a constructor with a single parameter” इति टङ्कयतु । |
| 07:29 | अग्रे roll_number समं r_no इति टङ्कयतु । |
| 07:48 | सञ्चिकां रक्षयतु । |
| 07:51 | वयं कन्स्ट्रक्टर् अस्य डिफैन्-करणानन्तरं दोषं परिहृतं इति पश्यन्तः स्मः । |
| 07:58 | अधुना रन् करोतु । |
| 08:02 | पटले वयं rollnumber अस्य मूल्यं 11 अस्मै एस्सैन् अभूदिति ज्ञातवन्तः । |
| 08:08 | कन्स्ट्रक्टर् एकमेव निरूपकं प्रतिगृह्णाति । अतः name अस्य मूल्यं 'null' भविष्यति । |
| 08:18 | वयमधुना प्यरामीटर्-द्वयात्मकं कन्स्ट्रक्टर् इदम् आह्वयाम । |
| 08:23 | Student stu3 समं new Student |
| 08:40 | ब्रेकेट् मध्ये 11 कोमा Raju इति टङ्कयतु । |
| 08:46 | तदनन्तरं Stu3 डोट् studentDetail इति टङ्कयतु । |
| 08:58 | यदि अस्माभिः अत्र 11 इदं String निरूपकं कृत्वा पास् क्रियते चेत् , अर्थात् अत्र डबल् कोट्स् वर्तते चेत् , |
| 09:08 | वयम्, |
| 09:10 | “The constructor Student String ,String is undefined.” इति दोषं प्राप्नुमः । |
| 09:17 | अतः अर्ग्युमेण्ट् तथा प्यरामीटर् अनयोः डेटाटैप् एकमेव भवेत् । |
| 09:25 | अतः डबल्-कोट्स् इमे निष्कासयित्वा सञ्चिकां रक्षयतु । |
| 09:32 | अधुना दोषः परिहृतः। |
| 09:35 | अतः इदानीं रन् करोतु । |
| 09:38 | फलिते कन्स्ट्रख्तर्-त्रयं पश्यन्तः स्मः । |
| 09:42 | तत्राद्यं डीफोल्ट्-कन्स्ट्रक्टर् । |
| 09:45 | द्वितीयं तु प्यारामीटर्-युक्तं कन्स्ट्रक्टर् । |
| 09:50 | तथा तृतीयं तु प्यारामीटर्-द्वयात्मकं कन्स्ट्रक्टर् । |
| 09:56 | एवं वयं जावा-मध्ये प्यारामीटरैस्ड्-कन्स्ट्रक्टर् इतीदं रचयामः । |
| 10:05 | कन्स्ट्रक्टर् इतीदं किमर्थम् उपयुञ्ज्महे इति पश्याम । |
| 10:07 | प्रतिवारम् इन्स्टेन्स्-रचनासन्दर्भे क्लास् मध्ये वेरियेबल् अस्य इनिशियलैज् करणीयम् । |
| 10:13 | सर्वाणि वेरियेबल् इमानि प्रतिवारं इनिशियलैज्-करणं दुःसाध्यम् । |
| 10:18 | अतः जावामध्ये ओब्जेक्ट् यानि सन्ति तानि तेषां रचनासमये एव इनिशियलैज् भवितुम् अर्हन्ति । |
| 10:25 | इयं क्रिया कन्स्ट्रक्टर्-द्वारा सम्भवति । |
| 10:30 | पाठेऽस्मिन् वयम्, |
| 10:33 | प्यारामीटरैस्ड्-कन्स्ट्रक्टर् अस्य रचनाविधानं, |
| 10:36 | प्यारामीटरैस्ड्-कन्स्ट्रक्टर् अस्य कार्यविधानं , |
| 10:39 | अपि च कन्स्ट्रक्टर् अस्य उपयोगः कथं भवतीति ज्ञातवन्तः । |
| 10:44 | स्वावलोकनार्थम्, Employee इति नाम्ना क्लास्-एकं रचयतु । |
| 10:48 | तस्मै अन्यदन्यत् प्यारामीटर्-युक्तं कन्स्ट्रक्टर् रचयतु । |
| 10:53 | स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं, |
| 10:56 | कृपया अधो विद्यमानं विडीयो पश्यन्तु। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
| 11:02 | एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
| 11:06 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
| 11:10 | spoken tutorial team |
| 11:12 | पाठमिदमुपयुज्य कार्यशालां चालयति। |
| 11:14 | ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति । |
| 11:18 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
| 11:24 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
| 11:28 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
| 11:34 | अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। |
| 11:43 | वयं पाठस्यान्तं प्राप्तवन्तः । |
| 11:46 | धन्यवादाः । अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् । |