Java/C2/if-else/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:02 | जावामध्ये If else constructs इति विषयस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:07 | पाठेऽस्मिन् वयम्, |
00:09 | conditional statements इत्यस्य विषयम्, |
00:11 | conditional statement इत्यस्य प्रकारान्, |
00:13 | जावाप्रोग्रां मध्ये conditional statement इत्यस्य विनियोगः कथमिति च ज्ञास्यामः । |
00:18 | पाठार्थं वयम्,
Ubuntu v 11.10 JDK 1.6 अपि च Eclipse 3.7.0. इतीमानि उपयुञ्ज्महे । |
00:27 | पाठमिदमनुसर्तुं भवन्तः, |
00:31 | जावामध्ये Arithmetic, Relational अपि च Logical ओपरेटर्स् विषयं जानीयुः । |
00:35 | न चेत् अस्माकं जालपुटं पश्यन्तु - spoken-tuitorial.org |
00:42 | Conditional statements । यूयं युष्माकं कोड्-मध्ये प्रथक् प्रथक् निर्णयार्थं प्रथक् प्रथक् क्रियाः क्रियास्त । |
00:48 | तत्सन्दर्भे यूयं conditional statements इत्यस्य प्रयोगं क्रियास्त । |
00:52 | कण्डीशनल् स्टेट्मेण्ट् इतीदं , प्रोग्राम् एक्सिक्यूशन् इत्यस्य फ्लो नियन्त्रयितुं साहाय्यमाचरति । |
00:57 | जावा मध्ये वयं अधोनिर्दिष्टानि कण्डीशनल् स्टेट्मेण्ट् प्राप्तवन्तः । |
01:01 | If स्टेट्मेण्ट् ,If...Else स्टेट्मेण्ट् , |
01:03 | If...Else if स्टेट्मेण्ट् , |
01:05 | Nested If स्टेट्मेण्ट् अपि च Switch स्टेट्मेण्ट् । |
01:08 | पाठेऽस्मिन् वयं If, If...Else अपि च If...Else If स्टेट्मेण्ट् इत्येतेषां विषयान् विस्तरेण ज्ञास्यामः । |
01:15 | if statement: । if स्टेट्मेण्ट् इतीदं वयं, एकस्य कण्डीशन् इत्यस्याधारेण , स्टेट्मेण्ट् इत्येतेषां समूहं एक्सिक्यूट् कर्तुम् उपयुञ्ज्महे । |
01:22 | इदं single conditional statement इत्यपि च आहुः । |
01:26 | If इत्यस्य सिण्टेक्स् एवमस्ति : |
01:28 | if स्टेट्मेण्ट् इत्यस्मिन् कण्डीशन् सत्यमस्ति चेत् ब्लोक् एक्सिक्यूट् जायते । |
01:34 | कण्डीशन् असत्यमस्ति चेत् , ब्लोक् इतीदं त्यक्त्वा अग्रे सरति । अपि च तत् ब्लोक् एक्सिक्य़ूट् न जायते । |
01:40 | वयमधुना if स्टेट्मेण्ट् इत्यस्य विनियोगम् अवगन्तुं एकमुदाहरणं पश्याम । |
01:45 | अतोऽधुना eclipse गमिष्यामः । |
01:48 | वयमधुना एकः मनुष्यः Minor इति वेदितुं एकं प्रोग्राम् लिखाम । |
01:53 | पूर्वमेवाहं Person इति क्लास् रचितवानस्मि । |
01:56 | अधुना main method मध्ये , int. प्राकारकस्य ‘age’ इति वेरियेबल् डिक्लेर् करवाम । |
02:02 | तदर्थं main method मध्ये : int space age equal to 20 इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
02:14 | वयमधुना अधोनिर्धिष्टप्रकारेण If स्टेट्मेण्ट् लिखामः । |
02:18 | अग्रिमपङ्क्तौ , if ब्रेकेट् मध्ये age < 21 इति टङ्कयित्वा कर्लिब्रेकेट् उद्घाट्य एण्टर् नुदन्तु । |
02:30 | वयमत्र age इतीदं 21 इत्यस्मात् न्यूनमस्ति वा इति परीक्षामहे । |
02:34 | ब्रेकेट् इत्यस्यान्तः विद्यमानानि सर्वाणि if मध्ये आयान्ति । |
02:38 | अतः ब्रेकेट् मध्ये , |
02:41 | System dot out dot println ब्रेकेट् मध्ये कोट्स् मध्ये च The person is Minor इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
02:56 | अत्र age इतीदं 21, इत्यस्मात् न्यूनमस्ति चेत् तदा, “The person is minor” इति प्रदर्श्यते । |
03:03 | सञ्चिकां save कृत्वा run कुर्वन्तु । |
03:08 | वयं "The person is minor" इति फलितं प्राप्नुमः । |
03:14 | अस्मिन्नुदाहरणे व्यक्तेःवयः 20 इति भावयामः । इदं 21 इत्यस्मात् न्यूनमस्ति । |
03:20 | अतः “The person is minor” इति फलितं प्राप्नुमः । |
03:24 | वयमधुना if...else स्टेट्मेण्ट् जानाम । |
03:27 | वैकल्पिकानि कथनानि (alternative statement) एक्सिक्यूट् कर्तुं, If...Else स्टेट्मेण्ट् उपयुञ्ज्महे । |
03:31 | इमानि सिङ्गल्-कण्डीशन् आधारितानि । |
03:34 | वयमधुना If…Else statement. इत्यस्य सिण्टेक्स् पश्याम । |
03:38 | कण्डीशन् true वर्तते चेत् स्टेट्मेण्ट् अथवा कोड्-ब्लोक् एक्सिक्यूट् जायते । |
03:44 | न चेत् अन्यत् स्टेट्मेण्ट् अथवा कोड्-ब्लोक् एक्सिक्यूट् जायते । |
03:49 | वयमधुना If…else स्टेट्मेण्ट् इतीदं , प्रोग्रां मध्ये कथमुपयुज्यते इति जानाम । |
03:54 | तदर्थं eclipse प्रति गमिष्यामः । |
03:57 | वयमधुना एकः व्यक्तिः कालपक्वो वा न वा इति परीक्षितुं प्रोग्राम् लिखाम । |
04:03 | तदर्थं main method मध्ये int age equal to 25 इति टङ्कयन्तु । |
04:12 | पश्चात् if ब्रेकेट् मध्ये age greater than 21 इति टङ्कयन्तु । |
04:19 | कर्लि ब्रेकेट् मध्ये System dot out dot println ब्रेकेट् मध्ये The person is Major. इति टङ्कयन्तु । |
04:28 | पश्चादग्रिमपङ्क्तौ , |
04:32 | else इति टङ्कयित्वा , कर्लि ब्रेकेट् मध्ये |
04:38 | System dot out dot println ब्रेकेट् मध्ये डबल् कोट्स् इत्यस्यान्तः The person is Minor इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
04:51 | अत्र age इतीदं 21 इत्यस्मात् न्यूनमस्ति चेत् , “The person is Minor” इति प्रदर्श्यते । |
04:58 | न चेत् “The person is Major” इति प्रदर्श्यते । |
05:02 | वयमधुना प्रोग्राम् इतीदं save कृत्वा run करवाम । |
05:07 | वयम्, : "The person is Major" इति फलितं प्राप्नुमः । |
05:11 | अत्र व्यक्तेः वयः 25, अस्ति । इदं 21 इत्यस्मादधिकमस्ति । |
05:17 | अतः प्रोग्राम् “The person is Major” इति फलितं दर्शयति । |
05:22 | अधुना If…Else If स्टेट्मेण्ट् । If…Else If स्टेट्मेण्ट् इतीदं , बहूनां स्टेट्मेण्ट्स् इत्येतेषां समूहं एक्सिक्यूट् कर्तुम् उपयुज्यते । |
05:29 | इमानि, दत्ते द्वे कण्डीशन् आधृत्य वर्तन्ते । |
05:33 | युष्माकम् आवश्यकतानुसारेण कण्डीशन् इतीदं योक्तुमर्हन्ति । |
05:38 | इदं branching इत्यपि उच्यते । डिसिशन् मेकिङ्ग् इत्यपि उच्यते । |
05:43 | अधुना If…Else If स्टेट्मेण्ट् इत्यस्य सिण्टेक्स् पश्याम । |
05:48 | If स्टेट्मेण्ट् , आदौ condition 1 इतीदं परीक्षते । |
05:53 | condition 1 सत्यमस्ति चेत् statement-or-block 1 code इतीदं एक्सिक्यूट् जायते । |
05:59 | न चेत्, तत् condition 2 इतीदं परीक्षते । |
06:02 | condition 2 सत्यञ्चेत् statement-or-block 2 इतीदम् एक्सिक्यूट् करोति । |
06:09 | न चेत् statement 3 अथवा block code 3 इतीदम् एक्सिक्यूट् करोति । |
06:13 | एवमेव वयं If…Else ब्लोक् इत्यनेन कोड् इत्यस्य विस्तारं कर्तुं शक्नुमः । |
06:17 | इमानि ब्लोक्स् बहूनि कण्डीशन्-युतानि भूयासुः । |
06:20 | यावत् ट्र्यू-कण्डीशन् प्राप्यते तावत् , तत्सम्बद्धं कोड् एक्सिक्यूट जायते । |
06:25 | सर्वाणि कण्डीशन्स् मिथ्या भवन्ति चेत् , अन्तिमः Else विभागः एक्सिक्यूट् जायते । |
06:30 | वयमधुना प्रोग्राम् मध्ये If…Else If statement इत्यस्य विनियोगः कथमिति जानाम । |
06:35 | तदर्थं Eclipse उद्घाटयन्तु । |
06:37 | अहं पूर्वमेव Student इति नाम्ना एकं क्लास् रचितवानस्मि । |
06:40 | अधुना वयं विद्यार्थिनः ग्रेड् अन्वेष्टुं एकं प्रोग्राम् लिखाम । |
06:44 | इदं प्रतिशतं कति अङ्काः इतीदम् अवलम्ब्य अन्विष्यते । |
06:47 | अतः main method मध्ये int space testScore equal to 70 इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
06:58 | testScore नाम्नः वेरियेबल् इतीदं प्रतिशताङ्कं प्राप्तुम् उपयुञ्ज्महे । |
07:05 | अग्रिमपङ्क्तौ , if ब्रेकेट् मध्ये testScore lesser than 35 इति टङ्कयित्वा कर्लिब्रेकेट् इत्यस्यान्तः System dot out dot println ब्रेकेट् मध्ये डबल्कोट्स् मध्ये च C grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
07:28 | 'testScore' 35 इत्यस्मात् न्यूनमस्ति चेत् , प्रोग्राम् "C Grade" इति प्रदर्श्यते । |
07:34 | अग्रिमपङ्क्तौ else इति टङ्कयतु । |
07:37 | अग्रिमपङ्क्तौ if ब्रेकेट्-मध्ये testScore greater than or equal to 35 AND (&&) testScore lesser than or equal to 60 इति टङ्कयित्वा , पूर्णं कण्डीशन् इतीदं ब्रेकेट् इत्यस्यान्तः स्थापयन्तु । कर्लि ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु । |
08:03 | System dot out dot println ब्रेकेट् मध्ये B grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
08:13 | अत्र प्रोग्राम्, द्वितीयं कण्डीशन् इतीदं Else If विभागे परीक्षते । |
08:18 | 'testScore' इतीदं 35 अपि च 60 इत्यनयोः मध्ये अस्ति चेत् , "B Grade" इति फलितः प्रदर्श्यते । |
08:24 | अग्रिमपङ्क्तौ else इति टङ्कयित्वा ब्रेकेट्-मध्ये System dot out dot println ब्रेकेट् मध्ये डबल् कोट्स् मध्ये च A grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
08:42 | अन्ते द्वेऽपि कण्डीशन्स् मिथ्या भवतः चेत् , प्रोग्राम् “A Grade" इति प्रदर्शयति । |
08:48 | अधुना save कृत्वा run करवाम । |
08:51 | वयं A Grade इति फलितं प्राप्नुमः । |
08:55 | अस्मिन् प्रोग्राम् मध्ये विद्यार्थिनः 'testScore' इत्यस्य मूल्यं 70 वर्तते । |
09:00 | अतः फलितः “A Grade” इति प्रदर्श्यते । |
09:02 | अधुना testScore इतीदं 55 इति परिवर्तामहै । |
09:07 | अधुना संविधिं save कृत्वा run करवाम । |
09:10 | अस्मिन् सन्दर्भे फलितः “B Grade” इति प्रदर्श्यते । |
09:16 | वयं कण्डीशन् इत्यस्य सङ्ख्यामपि अधिकं कर्तुं शक्नुमः । |
09:19 | अधुना “B grade” फलितस्यानन्तरं अन्यत् कण्डीशन् योजयाम । |
09:23 | अतोऽत्र
else, इति टङ्कयित्वा अग्रिमपङ्क्तौ if ब्रेकेट् मध्ये testScore greater than or equal to 60 AND (&&) testScore lesser than or equal to 70 इति टङ्कयन्तु । |
09:47 | कर्लि ब्रेकेट् उद्घाट्य Enter नुदन्तु । System dot out dot println ब्रेकेट् तथा च डबल् कोट्स् मध्ये O grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
10:01 | अत्र 'testScore' इत्यस्य मोल्यं 60 अपि च 70 इत्यनयोः मध्ये वर्तते चेत्, संविधा "O Grade" इति प्रदर्शयति । |
10:07 | अधुना विद्यार्थिनः testScore इतीदं 70 इति परिवर्तताम् । |
10:12 | अधुना संविधां save कृत्वा run कुर्मः । |
10:15 | वयमेवं फलितं प्राप्नुमः । |
10:17 | संविधा फलितं “O grade”इति प्रदर्शयति । |
10:20 | तत् पूर्ववत् “A grade” इति न प्रदर्शयति । |
10:23 | संविधा testScore इत्यस्य मूल्यं 70 इत्यस्मात् अधिकमस्ति चेत् “A grade” इति दर्शयति । |
10:28 | conditional structures इत्यस्य कोडिङ्ग् क्रियमाणे सति |
10:30 | स्टेट्मेण्ट् इत्यस्य अन्ते सेमिकोलन् स्थापनीयमेव । |
10:35 | परन्तु कण्डीशन् इत्यस्यानन्तरं सेमिकोलन् न योजयन्तु । |
10:40 | कोड् ब्लोक् इतीदं कर्लि ब्रेकेट् मध्ये एव स्थापयन्तु । |
10:43 | ब्लोक् एकैव स्टेट्मेण्ट् युतमस्ति चेत् कर्लि ब्रेकेट् स्थापनं वैकल्पिकम् । |
10:49 | एवं वयं पाठस्यान्तमागतवन्तः । |
10:51 | पाठेऽस्मिन् वयम्, |
10:53 | * conditional statements इत्यस्य विवरणं दत्तवन्तः । |
10:56 | कण्डीशनल् स्टेट्मेण्ट् इत्येतेषां प्रकारान् ज्ञातवतः । |
10:59 | if, if...else अपि च if...else if स्टेट्मेण्ट् इत्येतेषां विनियोगं जावाप्रोग्राम् मध्ये कृतवन्तः । |
11:04 | अधुना if, if...else अपि च if...else if स्टेट्मेण्ट् इतीमान्युपयुज्य जावा प्रोग्राम् लेखितुम् एकं पाठनियोजनम् । |
11:12 | if स्टेट्मेण्ट् उपयुज्य द्वयोः मूल्ययोः तुलनां कर्तुं जावाप्रोग्राम् लिखन्तु । |
11:17 | दता सङ्ख्या समसङ्ख्या वा विषमसङ्ख्या वा इति अन्वेषितुं जावाप्रोग्राम् लिखन्तु । अभिज्ञापनम् if...else स्टेट्मेण्ट् इत्यस्योपयोगं कुर्वन्तु । |
11:23 | तिसृषु सङ्ख्यासु अधिकतमां अन्वेषितुं जावा प्रोग्रां लिखन्तु । अभिज्ञापनम् - if...else if स्टेट्मेण्ट् इत्यस्योपयोगं कुर्वन्तु । |
11:29 | स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, |
11:32 | लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु । |
11:35 | इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति । |
11:38 | उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु । |
11:42 | स्पोकन् ट्युटोरियल् टीम् |
11:44 | स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां कारयति । |
11:47 | जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
अधिकविवरणार्थम् - contact एट् spoken हैफन् tutorial डोट् org. इत्यस्मै लिखन्तु । |
11:56 | स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते । |
12:00 | अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते । |
12:06 | अधिकविवरणं spoken हैफन् tutorial डोट् org स्लेश् NMEICT हैफन् Intro इत्यत्रोपलभ्यते । |
12:15 | इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |