C-and-Cpp/C2/First-C-Program/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | First C program इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:05 | अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः - |
00:08 | C प्रोग्राम् कथं लेखनीयम्, |
00:11 | कथमिदं समापनीयम्, |
00:13 | कथमिदम् एक्सिक्यूट् करणीयम् तथा अत्रत्याः केचनदोषाः अपि च तेषां परिहारः च । |
00:18 | पाठस्यास्या ध्वन्यङ्कनायाहम्, |
00:21 | Ubuntu operating system इत्यस्य 11.10 तमा आवृत्तिः अपि च उबण्टु मध्ये gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि । |
00:31 | पाठस्यास्य अभ्यासाय, |
00:33 | भवन्तः उबण्टु ओपरेटिङ्ग् सिस्टम् तथा एकं एडिटर् च जानीयुः । |
00:38 | vim तथा gedit इतीमे एडिटर् इत्यस्योदाहरणे । |
00:42 | वयमत्र 'gedit' उपयुञ्ज्महे । |
00:45 | तत्सम्बद्धपाठार्थं कृपया http://spoken-tutorial.org जालपुटं पश्यन्तु । |
00:51 | एकेन उदाहरणेन सह C प्रोग्राम् कथं लेखनीयमिति दर्शयिष्यामि । |
00:55 | Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु । |
01:07 | अधुना टेक्स्ट् एडिटर् उद्घाट्य प्रोम्प्ट् मध्ये एवं टङ्कयन्तु , |
01:12 | “gedit” space “talk” dot “c” space “&” sign. |
01:20 | वयम् एम्पर्सेण्ड् चिह्नं (&) प्रोम्प्ट् इतीदं क्लियर् कर्तुं उपयुञ्ज्महे । |
01:24 | अवगच्छन्तु यत् सर्वाणि C फ़ैल्स् “.c”(dot C) एक्स्टेन्शन् युतानि भवन्ति । |
01:30 | अधुना Enter नुदन्तु । |
01:32 | टेक्स्ट् एडिटर् उद्घाटितम् । |
01:36 | प्रोग्राम् लेखितुं प्रारभामहे । |
01:39 | double slash “//” space टङ्कयन्तु । |
01:42 | “My first C program” |
01:48 | अत्र, डबल् स्लेश् इतीदं पङ्क्त्याः कमेण्ट् करणाय उपयुज्यते । |
01:52 | कमेण्ट्स् इतीमानि प्रोग्राम् इत्यस्य गतिं(flow) ज्ञातुम् उपयुज्यन्ते । |
01:56 | इदं डोक्युमेण्टेशन् करणाय उपयुक्तमस्ति । |
01:58 | इदं प्रोग्राम् विअषये विवरणं यच्छति । |
02:01 | डबल् स्लेश् इतीदं सिङ्गल् लैन् कोमेण्ट् इति कथ्यते । |
02:07 | अधुना Enter नुदन्तु । |
02:09 | (hash) “#include” space opening bracket , closing bracket इति टङ्कयन्तु । |
02:17 | आदौ ब्रेकेट्स् समाप्य पश्चाल्लेखनं नाम उत्तमोऽभ्यासः । |
02:24 | अधुना ब्रेकेट्स् इत्यस्यान्तः “stdio” “(dot).” “h” इति टङ्कयन्तु । |
02:30 | stdio.h इतीदं header file वर्तते । |
02:33 | एकं program यदा स्टेण्डर्ड् input/output functions उपयुज्यते तदा तत् हेडर् फ़ैल्-युतं भवेदेव । |
02:41 | अधुना Enter नुदन्तु । |
02:43 | एवं टङ्कयन्तु “int” space “main” opening bracket, closing bracket. |
02:50 | main इतीदमेकं विशिष्टं function वर्तते । |
02:52 | इदं सूचयति यत्, प्रोग्राम् इत्यस्य एक्सिक्यूशन् अस्यां पङ्क्तौ आरभ्यते । |
02:58 | ओपनिङ्ग् ब्रेकेट् तथा क्लोसिङ्ग् ब्रेकेट् च आहत्य पेरेन्थिसिस् इति कथ्यते । |
03:04 | पेरेन्थिसिस् इत्यनेन सह main इतीदं उपयोक्तारं वदति यत् main इतीदमेकं function वर्तते इति । |
03:11 | अत्र एकं int इति main फ़ङ्क्षन् वर्तते यत् किमपि आर्ग्यूमेण्ट्स् नोपयुज्यते । |
03:15 | इदम् integer प्रकारकस्य वेल्यू प्रतिददाति । |
03:18 | वयं data types विषयं अन्यस्मिन् ट्युटोरियल् मध्ये पठिष्यामः । |
03:23 | अधुना main फ़ङ्क्षन् विषयम् अधिकं ज्ञातुं स्लैड्स् प्रति गच्छामः । |
03:29 | प्रत्येकं प्रोग्राम् main() फ़ङ्क्षन् युतं स्यात् । |
03:33 | एकाधिकं main फ़ङ्क्षन् न भवेयुः । |
03:36 | न चेत् कम्पैलर् प्रोग्राम् इत्यस्यारम्भं अन्वेष्टुं न शक्नोति । |
03:41 | रिक्तं पेरेन्थिसिस्-द्वयं द्योतयति यत्, main मध्ये आर्ग्युमेण्ट्स् न सन्ति इति । |
03:46 | आर्ग्यूमेण्ट् इत्यस्य विषयम् आगामिपाठेषु विवरिष्यते । |
03:52 | अधुनास्माकं प्रोग्राम् प्रति आगच्छन्तु । |
03:55 | Enter नुदन्तु । |
03:58 | ओपनिङ्ग् कर्लि ब्रेकेट् “{” टङ्कयन्तु । |
04:00 | ओपनिङ्ग् कर्लि ब्रेकेट् इतीदं main फ़ङ्क्षन् इत्यस्यारम्भं सूचयति । |
04:04 | पश्चात् क्लोसिङ्ग् कर्लि ब्रेकेट् “}” टङ्कयन्तु । |
04:08 | क्लोसिङ्ग् कर्लि ब्रेकेट् इतीदं main फ़ङ्क्षन् इत्यस्यान्त्यं सूचयति । |
04:13 | अधुना ब्रेकेट् इत्यस्यान्तः द्विवारं Enter नुदन्तु । |
04:16 | कर्सर् इतीदं एकपङ्क्तिम् उपरि चालयन्तु । |
04:20 | इण्डेण्टेशन् इतीदं कोड् पठितुं साहाय्यमाचरति । |
04:23 | इदं दोषान् अभिज्ञातुं साहाय्यमाचरति । |
04:25 | अतोऽत्र त्रीणि स्पेस् दद्मः । |
04:29 | अपि च “printf” opening bracket closing bracket “()” टङ्कयामः । |
04:34 | printf इतीदमेकं स्टेण्डर्ड् C फ़ङ्क्षन् वर्तते येन टर्मिनल् मध्ये औट्पुट् मुद्राप्यते । |
04:39 | अत्र ब्रेकेट् इत्यस्यान्तः डबल् कोट्स् मध्ये । |
04:43 | printf स्टेट्मेण्ट् मध्ये डबल् कोट्स् अन्तः यत्किमपि लिखितं, तत् टर्मिनल् उपरि मुद्राप्यते । |
04:50 | टङ्कयन्तु “Talk To a Teacher backslash n” इति । |
04:59 | बेक् स्लेश् n “\n” नूतनं लैन् द्योतयति । |
05:03 | तत्परिणामतः, printf फ़ङ्क्षन् इत्यस्य एक्सिक्यूशन् इत्यस्यानन्तरं, कर्सर् नूतनं लैन् प्रति गच्छति । |
05:10 | प्रत्येकं C स्टेट्मेण्ट् सेमिकोलन् “;” इत्यनेन सह समाप्तं भवेत् । |
05:15 | अतः, अस्याः पङ्क्याः अन्ते तट्टङ्कयन्तु । |
05:19 | सेमिकोलन् इतीदं स्टेट्मेण्ट् टर्मिनेटर् भूत्वा कार्यं करोति । |
05:24 | अधुना Enter नुत्वा त्रीणि स्पेस् यच्छन्तु । |
05:27 | तथा “return” space “0” semicolon च टङ्कयन्तु । |
05:34 | इदं स्टेट्मेण्ट् शून्यमिति इण्टीजर् प्रत्यर्पयति । |
05:38 | एकम् इण्टीजर् एव अस्मै फ़ङ्क्षन् इत्यस्मै प्रत्यर्पणीयम् । यतो हि फ़ङ्क्षन् इत्यस्य विधः int वर्तते । |
05:45 | return स्टेट्मेण्ट् इतीदं, एक्सिक्यूट् जायमानानां स्टेट्मेण्ट्स् इत्येतेषां मार्क् करोति । |
05:51 | अन्यस्मिन् पाठे वयं प्रत्यर्पितमूल्यानां विषयम् अधिकं ज्ञास्यामः । |
05:55 | अधुना सञ्चिकां रक्षितुं "Save" गण्डं नुदन्तु । |
06:00 | पदे पदे फ़ैल् सेव्-करणम् उत्तमाभ्यासः वर्तते । |
06:03 | विद्युच्छक्त्याः सहसा गमने इदमभ्यासः अस्मान् रक्षति । |
06:05 | अप्लिकेशन् क्रेश् जाते सत्यपि इदमस्माकं साहाय्यमाचरति । |
06:10 | अधुना प्रोग्राम् इतीदं कम्पैल् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । |
06:15 | “gcc” space “talk.c” space hyphen “-o” space “myoutput”, इति टङ्कयन्तु । |
06:24 | gcc इतीदं कम्पैलर् वर्तते । |
06:27 | talk.c इतीदमस्माकं फ़ैल् नेम् वर्तते । |
06:30 | -o myoutput वदन्नस्ति यत्, एक्सिक्यूट् जायमानं myoutput फ़ैल् प्रति गन्तव्यमिति । |
06:37 | अधुना Enter नुदन्तु । |
06:39 | प्रोग्राम् कम्पैल् जातमिति पश्यताम् । |
06:42 | ls space (hypen) -lrt, इति टैप्-करणेन वयं myoutput इतीदं अन्तिमं फ़ैल् रचितं इति दृष्टुं शक्नुमः । |
06:54 | प्रोग्राम् इतीदम् एक्सिक्यूट् कर्तुं, (dot slash)“./myoutput” , इति टङ्कयित्वा Enter नुदन्तु । |
07:01 | अत्र “Talk To a Teacher” इति औट्पुट् प्रदर्श्यते । |
07:06 | मया पूर्वोक्तरीत्या, return इतीदं अन्तिमम् एक्सिक्यूट् जायमानं स्टेट्मेण्ट् वर्तते । |
07:10 | अतः, return स्टेट्मेण्ट् इत्यस्यानन्तरं न किञ्चिदपि एक्सिक्यूट् जायते । अधुना तत् प्रयतामहे । |
07:15 | प्रोग्राम् प्रति आगच्छन्तु । |
07:17 | return स्टेट्मेण्ट् इत्यस्यानन्तरं, अन्यदेकं printf स्टेट्मेण्ट् संयोजयाम । |
07:22 | अत्र space यच्छन्तु, printf opening bracket, closing bracket टङ्कयन्तु । |
07:27 | ब्रेकेट् इत्यस्यान्तः, डबल् कोट्स् अन्तः, Welcome backslash n, अन्ते सेमिकोलन् टङ्कयन्तु । |
07:35 | अधुना save नुदन्तु । |
07:37 | पुनः टर्मिनल् आगत्य कम्पैल् तथा एक्सिक्यूट् कुर्वन्तु । |
07:41 | भवन्तः पूर्वदत्तानि कमाण्ड्स् up arrow कीलकेन रीकाल् कर्तुं शक्नुवन्ति । |
07:46 | तदेव मया कृतमधुना । |
07:51 | वयं पश्यामः यत् द्वितीयं स्टेट्मेण्ट् welcome इतीदम् एक्सिक्यूट् न जातम् । |
07:58 | अधुना अस्माकं प्रोग्राम् प्रति आगच्छन्तु । |
08:00 | अधुना return स्टेट्मेण्ट् उपरि, 'Welcome' स्टेट्मेण्ट् लिखन्तु । |
08:06 | Save उपरि नुदन्तु । |
08:09 | अधुना कम्पैल् तथा एक्सिक्यूट् कुर्मः । |
08:15 | वयं पश्यामः यत् द्वितीयं printf स्टेट्मेण्ट् welcome इतीदमपि एक्सिक्यूट् जातम् । |
08:23 | अधुना वयं जायमानानि सामान्यदोषान् पश्यामः । अस्माकं प्रोग्राम् प्रति आगच्छन्तु । |
08:29 | यद्यहं “stdio.h” मध्ये डोट् विना लिखामि, Save नुदन्तु । |
08:36 | अधुना कम्पैल् तथा एक्सिक्यूट् कुर्वन्तु । |
08:41 | अस्माकं talk.c मध्ये लैन् नम्बर् 2 मध्ये, एकं फ़ेटल् एरर् दृश्यते । |
08:48 | “stdioh” नाम्ना सह हेडर् फ़ैल् इतीदं कम्पैलर् द्वारा नान्विष्टम् । अतः इदं "no such file or directory" इति दोषं दर्शयति । |
08:59 | अपि च कम्पैलेशन् समाप्यते । |
09:03 | पुनः प्रोग्राम् प्रति आगत्य एरर् अभिजानाम । डोट् “.” इतीदं पुनः स्थापयित्वा, Save नुदन्तु । |
09:11 | कम्पैल् कृत्वा एक्सिक्यूट् करवाम । आम्, कार्यं करोतीदम् । |
09:19 | अहं पुनः अन्यदेकं सामान्यदोषं दर्शयामि । |
09:22 | प्रोग्राम् प्रति आगच्छाम । |
09:25 | अधुना, यद्यहमत्र पङ्क्त्याः अन्ते सेमिकोलन् परित्यजामि तर्हि, |
09:31 | Save नुत्वा कम्पैल् एक्सिक्यूट् च कुर्मः । |
09:41 | पश्यामः यत् talk.c सञ्चिकायाः लैन् नम्बर् 6 मध्ये दोषः दर्श्यते । तत्तु "expected ';' (semicolon) before 'printf'" इत्यस्ति । |
09:51 | प्रोग्राम् प्रति आगच्छन्तु । |
09:54 | यथा मया पूर्वमुक्तं तथा, सेमिकोलन् इतीदं स्टेट्मेण्ट् टर्मिनेटर् रूपेण कार्यं करोति । |
09:58 | अतः इदं तदर्थं लैन् 5 इत्यस्यान्ते तथा लैन् 6 इत्यस्यारम्भे च अन्वेक्षते । |
10:06 | इदं लैन् 6 वर्तते । |
10:09 | इदं सेमिकोलन् दातुम् अन्तिमस्थानं वर्तते । |
10:12 | स्मरन्तु यत् कम्पैलर् इतीदमपि लैन् 6 मध्ये एव दोषं दर्शयति । |
10:18 | अत्र सेमिकोलन् स्थापयित्वा किं भविष्यतीति पश्याम । |
10:23 | Save नुदन्तु । |
10:26 | कम्पैल् कृत्वा एक्सिक्यूट् कुर्मः । |
10:30 | आम्, इदं कार्यं करोति । |
10:32 | अधुना प्रोग्राम् प्रति आगच्छाम । अत्र अस्यां पङ्क्तौ अन्ते सेमिकोलन् स्थापयाम । |
10:40 | यतो हि अन्ते सेमिकोलन् स्थापनं नाम पूर्वतनाभ्यासः । |
10:46 | अधुना Save नुदन्तु । |
10:49 | अधुना कम्पैल् कृत्वा एक्सिक्यूट् कुर्मः । आम् इदं कार्यं करोति । |
10:54 | स्लैड् प्रति आगच्छामः । |
10:57 | एकं पाठनियोजनम् । |
10:59 | "Welcome to the World of C" इति मुद्रापयितुम् एकं प्रोग्राम् लिखन्तु । |
11:02 | “\n” इतीदं printf स्टेट्मेण्ट् मध्ये न स्थापितञ्चेत् किं भविषतीति अवलोकयन्तु । |
11:08 | अनेन वयं पाठस्यान्तमागतवन्तः । |
11:12 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । |
11:15 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । |
11:18 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । |
11:22 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, |
11:24 | स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति । |
11:28 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । |
11:31 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । |
11:38 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । |
11:42 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । |
11:47 | अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । |
11:51 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |