C-and-Cpp/C2/First-C-Program/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 First C program इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः -
00:08 C प्रोग्राम् कथं लेखनीयम्,
00:11 कथमिदं समापनीयम्,
00:13 कथमिदम् एक्सिक्यूट् करणीयम् तथा अत्रत्याः केचनदोषाः अपि च तेषां परिहारः च ।
00:18 पाठस्यास्या ध्वन्यङ्कनायाहम्,
00:21 Ubuntu operating system इत्यस्य 11.10 तमा आवृत्तिः अपि च उबण्टु मध्ये gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।
00:31 पाठस्यास्य अभ्यासाय,
00:33 भवन्तः उबण्टु ओपरेटिङ्ग् सिस्टम् तथा एकं एडिटर् च जानीयुः ।
00:38 vim तथा gedit इतीमे एडिटर् इत्यस्योदाहरणे ।
00:42 वयमत्र 'gedit' उपयुञ्ज्महे ।
00:45 तत्सम्बद्धपाठार्थं कृपया http://spoken-tutorial.org जालपुटं पश्यन्तु ।
00:51 एकेन उदाहरणेन सह C प्रोग्राम् कथं लेखनीयमिति दर्शयिष्यामि ।
00:55 Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
01:07 अधुना टेक्स्ट् एडिटर् उद्घाट्य प्रोम्प्ट् मध्ये एवं टङ्कयन्तु ,
01:12 “gedit” space “talk” dot “c” space “&” sign.
01:20 वयम् एम्पर्सेण्ड् चिह्नं (&) प्रोम्प्ट् इतीदं क्लियर् कर्तुं उपयुञ्ज्महे ।
01:24 अवगच्छन्तु यत् सर्वाणि C फ़ैल्स् “.c”(dot C) एक्स्टेन्शन् युतानि भवन्ति ।
01:30 अधुना Enter नुदन्तु ।
01:32 टेक्स्ट् एडिटर् उद्घाटितम् ।
01:36 प्रोग्राम् लेखितुं प्रारभामहे ।
01:39 double slash “//” space टङ्कयन्तु ।
01:42 “My first C program”
01:48 अत्र, डबल् स्लेश् इतीदं पङ्क्त्याः कमेण्ट् करणाय उपयुज्यते ।
01:52 कमेण्ट्स् इतीमानि प्रोग्राम् इत्यस्य गतिं(flow) ज्ञातुम् उपयुज्यन्ते ।
01:56 इदं डोक्युमेण्टेशन् करणाय उपयुक्तमस्ति ।
01:58 इदं प्रोग्राम् विअषये विवरणं यच्छति ।
02:01 डबल् स्लेश् इतीदं सिङ्गल् लैन् कोमेण्ट् इति कथ्यते ।
02:07 अधुना Enter नुदन्तु ।
02:09 (hash) “#include” space opening bracket , closing bracket इति टङ्कयन्तु ।
02:17 आदौ ब्रेकेट्स् समाप्य पश्चाल्लेखनं नाम उत्तमोऽभ्यासः ।
02:24 अधुना ब्रेकेट्स् इत्यस्यान्तः “stdio” “(dot).” “h” इति टङ्कयन्तु ।
02:30 stdio.h इतीदं header file वर्तते ।
02:33 एकं program यदा स्टेण्डर्ड् input/output functions उपयुज्यते तदा तत् हेडर् फ़ैल्-युतं भवेदेव ।
02:41 अधुना Enter नुदन्तु ।
02:43 एवं टङ्कयन्तु “int” space “main” opening bracket, closing bracket.
02:50 main इतीदमेकं विशिष्टं function वर्तते ।
02:52 इदं सूचयति यत्, प्रोग्राम् इत्यस्य एक्सिक्यूशन् अस्यां पङ्क्तौ आरभ्यते ।
02:58 ओपनिङ्ग् ब्रेकेट् तथा क्लोसिङ्ग् ब्रेकेट् च आहत्य पेरेन्थिसिस् इति कथ्यते ।
03:04 पेरेन्थिसिस् इत्यनेन सह main इतीदं उपयोक्तारं वदति यत् main इतीदमेकं function वर्तते इति ।
03:11 अत्र एकं int इति main फ़ङ्क्षन् वर्तते यत् किमपि आर्ग्यूमेण्ट्स् नोपयुज्यते ।
03:15 इदम् integer प्रकारकस्य वेल्यू प्रतिददाति ।
03:18 वयं data types विषयं अन्यस्मिन् ट्युटोरियल् मध्ये पठिष्यामः ।
03:23 अधुना main फ़ङ्क्षन् विषयम् अधिकं ज्ञातुं स्लैड्स् प्रति गच्छामः ।
03:29 प्रत्येकं प्रोग्राम् main() फ़ङ्क्षन् युतं स्यात् ।
03:33 एकाधिकं main फ़ङ्क्षन् न भवेयुः ।
03:36 न चेत् कम्पैलर् प्रोग्राम् इत्यस्यारम्भं अन्वेष्टुं न शक्नोति ।
03:41 रिक्तं पेरेन्थिसिस्-द्वयं द्योतयति यत्, main मध्ये आर्ग्युमेण्ट्स् न सन्ति इति ।
03:46 आर्ग्यूमेण्ट् इत्यस्य विषयम् आगामिपाठेषु विवरिष्यते ।
03:52 अधुनास्माकं प्रोग्राम् प्रति आगच्छन्तु ।
03:55 Enter नुदन्तु ।
03:58 ओपनिङ्ग् कर्लि ब्रेकेट् “{” टङ्कयन्तु ।
04:00 ओपनिङ्ग् कर्लि ब्रेकेट् इतीदं main फ़ङ्क्षन् इत्यस्यारम्भं सूचयति ।
04:04 पश्चात् क्लोसिङ्ग् कर्लि ब्रेकेट् “}” टङ्कयन्तु ।
04:08 क्लोसिङ्ग् कर्लि ब्रेकेट् इतीदं main फ़ङ्क्षन् इत्यस्यान्त्यं सूचयति ।
04:13 अधुना ब्रेकेट् इत्यस्यान्तः द्विवारं Enter नुदन्तु ।
04:16 कर्सर् इतीदं एकपङ्क्तिम् उपरि चालयन्तु ।
04:20 इण्डेण्टेशन् इतीदं कोड् पठितुं साहाय्यमाचरति ।
04:23 इदं दोषान् अभिज्ञातुं साहाय्यमाचरति ।
04:25 अतोऽत्र त्रीणि स्पेस् दद्मः ।
04:29 अपि च “printf” opening bracket closing bracket “()” टङ्कयामः ।
04:34 printf इतीदमेकं स्टेण्डर्ड् C फ़ङ्क्षन् वर्तते येन टर्मिनल् मध्ये औट्पुट् मुद्राप्यते ।
04:39 अत्र ब्रेकेट् इत्यस्यान्तः डबल् कोट्स् मध्ये ।
04:43 printf स्टेट्मेण्ट् मध्ये डबल् कोट्स् अन्तः यत्किमपि लिखितं, तत् टर्मिनल् उपरि मुद्राप्यते ।
04:50 टङ्कयन्तु “Talk To a Teacher backslash n” इति ।
04:59 बेक् स्लेश् n “\n” नूतनं लैन् द्योतयति ।
05:03 तत्परिणामतः, printf फ़ङ्क्षन् इत्यस्य एक्सिक्यूशन् इत्यस्यानन्तरं, कर्सर् नूतनं लैन् प्रति गच्छति ।
05:10 प्रत्येकं C स्टेट्मेण्ट् सेमिकोलन् “;” इत्यनेन सह समाप्तं भवेत् ।
05:15 अतः, अस्याः पङ्क्याः अन्ते तट्टङ्कयन्तु ।
05:19 सेमिकोलन् इतीदं स्टेट्मेण्ट् टर्मिनेटर् भूत्वा कार्यं करोति ।
05:24 अधुना Enter नुत्वा त्रीणि स्पेस् यच्छन्तु ।
05:27 तथा “return” space “0” semicolon च टङ्कयन्तु ।
05:34 इदं स्टेट्मेण्ट् शून्यमिति इण्टीजर् प्रत्यर्पयति ।
05:38 एकम् इण्टीजर् एव अस्मै फ़ङ्क्षन् इत्यस्मै प्रत्यर्पणीयम् । यतो हि फ़ङ्क्षन् इत्यस्य विधः int वर्तते ।
05:45 return स्टेट्मेण्ट् इतीदं, एक्सिक्यूट् जायमानानां स्टेट्मेण्ट्स् इत्येतेषां मार्क् करोति ।
05:51 अन्यस्मिन् पाठे वयं प्रत्यर्पितमूल्यानां विषयम् अधिकं ज्ञास्यामः ।
05:55 अधुना सञ्चिकां रक्षितुं "Save" गण्डं नुदन्तु ।
06:00 पदे पदे फ़ैल् सेव्-करणम् उत्तमाभ्यासः वर्तते ।
06:03 विद्युच्छक्त्याः सहसा गमने इदमभ्यासः अस्मान् रक्षति ।
06:05 अप्लिकेशन् क्रेश् जाते सत्यपि इदमस्माकं साहाय्यमाचरति ।
06:10 अधुना प्रोग्राम् इतीदं कम्पैल् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
06:15 “gcc” space “talk.c” space hyphen “-o” space “myoutput”, इति टङ्कयन्तु ।
06:24 gcc इतीदं कम्पैलर् वर्तते ।
06:27 talk.c इतीदमस्माकं फ़ैल् नेम् वर्तते ।
06:30 -o myoutput वदन्नस्ति यत्, एक्सिक्यूट् जायमानं myoutput फ़ैल् प्रति गन्तव्यमिति ।
06:37 अधुना Enter नुदन्तु ।
06:39 प्रोग्राम् कम्पैल् जातमिति पश्यताम् ।
06:42 ls space (hypen) -lrt, इति टैप्-करणेन वयं myoutput इतीदं अन्तिमं फ़ैल् रचितं इति दृष्टुं शक्नुमः ।
06:54 प्रोग्राम् इतीदम् एक्सिक्यूट् कर्तुं, (dot slash)“./myoutput” , इति टङ्कयित्वा Enter नुदन्तु ।
07:01 अत्र “Talk To a Teacher” इति औट्पुट् प्रदर्श्यते ।
07:06 मया पूर्वोक्तरीत्या, return इतीदं अन्तिमम् एक्सिक्यूट् जायमानं स्टेट्मेण्ट् वर्तते ।
07:10 अतः, return स्टेट्मेण्ट् इत्यस्यानन्तरं न किञ्चिदपि एक्सिक्यूट् जायते । अधुना तत् प्रयतामहे ।
07:15 प्रोग्राम् प्रति आगच्छन्तु ।
07:17 return स्टेट्मेण्ट् इत्यस्यानन्तरं, अन्यदेकं printf स्टेट्मेण्ट् संयोजयाम ।
07:22 अत्र space यच्छन्तु, printf opening bracket, closing bracket टङ्कयन्तु ।
07:27 ब्रेकेट् इत्यस्यान्तः, डबल् कोट्स् अन्तः, Welcome backslash n, अन्ते सेमिकोलन् टङ्कयन्तु ।
07:35 अधुना save नुदन्तु ।
07:37 पुनः टर्मिनल् आगत्य कम्पैल् तथा एक्सिक्यूट् कुर्वन्तु ।
07:41 भवन्तः पूर्वदत्तानि कमाण्ड्स् up arrow कीलकेन रीकाल् कर्तुं शक्नुवन्ति ।
07:46 तदेव मया कृतमधुना ।
07:51 वयं पश्यामः यत् द्वितीयं स्टेट्मेण्ट् welcome इतीदम् एक्सिक्यूट् न जातम् ।
07:58 अधुना अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
08:00 अधुना return स्टेट्मेण्ट् उपरि, 'Welcome' स्टेट्मेण्ट् लिखन्तु ।
08:06 Save उपरि नुदन्तु ।
08:09 अधुना कम्पैल् तथा एक्सिक्यूट् कुर्मः ।
08:15 वयं पश्यामः यत् द्वितीयं printf स्टेट्मेण्ट् welcome इतीदमपि एक्सिक्यूट् जातम् ।
08:23 अधुना वयं जायमानानि सामान्यदोषान् पश्यामः । अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
08:29 यद्यहं “stdio.h” मध्ये डोट् विना लिखामि, Save नुदन्तु ।
08:36 अधुना कम्पैल् तथा एक्सिक्यूट् कुर्वन्तु ।
08:41 अस्माकं talk.c मध्ये लैन् नम्बर् 2 मध्ये, एकं फ़ेटल् एरर् दृश्यते ।
08:48 “stdioh” नाम्ना सह हेडर् फ़ैल् इतीदं कम्पैलर् द्वारा नान्विष्टम् । अतः इदं "no such file or directory" इति दोषं दर्शयति ।
08:59 अपि च कम्पैलेशन् समाप्यते ।
09:03 पुनः प्रोग्राम् प्रति आगत्य एरर् अभिजानाम । डोट् “.” इतीदं पुनः स्थापयित्वा, Save नुदन्तु ।
09:11 कम्पैल् कृत्वा एक्सिक्यूट् करवाम । आम्, कार्यं करोतीदम् ।
09:19 अहं पुनः अन्यदेकं सामान्यदोषं दर्शयामि ।
09:22 प्रोग्राम् प्रति आगच्छाम ।
09:25 अधुना, यद्यहमत्र पङ्क्त्याः अन्ते सेमिकोलन् परित्यजामि तर्हि,
09:31 Save नुत्वा कम्पैल् एक्सिक्यूट् च कुर्मः ।
09:41 पश्यामः यत् talk.c सञ्चिकायाः लैन् नम्बर् 6 मध्ये दोषः दर्श्यते । तत्तु "expected ';' (semicolon) before 'printf'" इत्यस्ति ।
09:51 प्रोग्राम् प्रति आगच्छन्तु ।
09:54 यथा मया पूर्वमुक्तं तथा, सेमिकोलन् इतीदं स्टेट्मेण्ट् टर्मिनेटर् रूपेण कार्यं करोति ।
09:58 अतः इदं तदर्थं लैन् 5 इत्यस्यान्ते तथा लैन् 6 इत्यस्यारम्भे च अन्वेक्षते ।
10:06 इदं लैन् 6 वर्तते ।
10:09 इदं सेमिकोलन् दातुम् अन्तिमस्थानं वर्तते ।
10:12 स्मरन्तु यत् कम्पैलर् इतीदमपि लैन् 6 मध्ये एव दोषं दर्शयति ।
10:18 अत्र सेमिकोलन् स्थापयित्वा किं भविष्यतीति पश्याम ।
10:23 Save नुदन्तु ।
10:26 कम्पैल् कृत्वा एक्सिक्यूट् कुर्मः ।
10:30 आम्, इदं कार्यं करोति ।
10:32 अधुना प्रोग्राम् प्रति आगच्छाम । अत्र अस्यां पङ्क्तौ अन्ते सेमिकोलन् स्थापयाम ।
10:40 यतो हि अन्ते सेमिकोलन् स्थापनं नाम पूर्वतनाभ्यासः ।
10:46 अधुना Save नुदन्तु ।
10:49 अधुना कम्पैल् कृत्वा एक्सिक्यूट् कुर्मः । आम् इदं कार्यं करोति ।
10:54 स्लैड् प्रति आगच्छामः ।
10:57 एकं पाठनियोजनम् ।
10:59 "Welcome to the World of C" इति मुद्रापयितुम् एकं प्रोग्राम् लिखन्तु ।
11:02 “\n” इतीदं printf स्टेट्मेण्ट् मध्ये न स्थापितञ्चेत् किं भविषतीति अवलोकयन्तु ।
11:08 अनेन वयं पाठस्यान्तमागतवन्तः ।
11:12 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
11:15 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
11:18 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
11:22 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
11:24 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति ।
11:28 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
11:31 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
11:38 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
11:42 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
11:47 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
11:51 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14