C-and-Cpp/C3/Arrays/Sanskrit
From Script | Spoken-Tutorial
Revision as of 19:40, 21 April 2020 by NaveenBhat (Talk | contribs)
Time | Narration |
00:01 | “Arrays in c and c++” विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:07 | अस्मिन् पाठे वयं इमान् विषयान् ज्ञास्यामः : |
00:09 | अरे नाम किम्? |
00:11 | अरे कथं डिक्लेर् करणीयम्? |
00:13 | अरे इत्यस्य इनिशियलयिज़ेशन्, |
00:16 | अरे इत्यस्य उदाहरणानि च । |
00:18 | वयं सामान्यतः जायमानानि एरर्स् तथा तेषां परिहाराणि च पश्यामः । |
00:22 | ट्युटोरियल् इत्यस्य रेकोर्ड् करणकाले, अहम् उबण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य 11.04 तमा आवृत्तिः अपि च gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिम् उपयुक्तवानस्मि । |
00:36 | अरे इत्यस्य पीठिकया सह प्रारभामहे । |
00:39 | अरे इतीदं डेटा अथवा एकप्रकारकस्य डेटा-टैप् इत्यस्य अंशानां सङ्ग्रहः वर्तते । |
00:44 | अरे इत्यस्य इण्डेक्स् शून्यतः प्रारभ्यते । |
00:48 | प्रथमं डेटा, शून्य-इण्डेक्स् मध्ये वर्तते । |
00:52 | अरे त्रिप्रकारकः वर्तते । |
00:55 | एकविमात्मकं अरे(सिङ्गल् डैमेन्शनल् अरे) |
00:57 | द्विविमात्मकं अरे(टु डैमेन्शनल् अरे) अपि च |
00:59 | बहुविमात्मकं अरे(मल्टि डैमेन्शनल् अरे) । |
01:01 | वयमस्मिन् ट्युटोरियल् मध्ये एकविमात्मक-अरे विषये चर्चां कुर्मः । |
01:06 | सिङ्गल्-डैमेन्शनल् अरे कथं डिक्लेर् करणीयमिति पश्याम । |
01:09 | अस्य सिण्टेक्स् एवं वर्तते । |
01:11 | डेटा टैप्, अरे इत्यस्य नाम तथा अरे इत्यस्य परिमाणं, |
01:16 | उदाहरणार्थमत्र, वयं पञ्चानां एलिमेण्ट्स् इत्येतेषां, star इति इण्टीजर् अरे इतीदं डिक्लेर् कृतवन्तः । |
01:24 | star अरे इत्यस्य इण्डेक्स् शून्यतः आरभ्य चत्वारि पर्यन्तं वर्तते । |
01:29 | वयम् अरे इत्यस्य डिक्लरेशन् दृष्टवन्तः । |
01:32 | वयमधुना अरे इनिशियलैसेशन् जानाम । |
01:35 | तस्य सिण्टेक्स् एवमस्ति : |
01:38 | Data type, array name , size equal to elements. |
01:44 | उदाहरणार्थमत्र वयं इण्टीजर् अरे star अपि च तस्य परिमाणं 3 इति डिक्लेर् कृतवन्तः । अरे इत्यस्य एलिमेण्ट्स् इतीमानि एकं, द्वे तथा त्रीणि । |
01:54 | अत्र, star इत्यस्य इण्डेक्स्, शून्यतः द्वे-पर्यन्तं भवति । |
01:59 | अधुना उदाहरणं पश्याम । |
02:01 | अहं प्रोग्राम् इतीदं एडिटर् मध्ये टङ्कितवानस्मि । |
02:04 | अतः, तदुद्घाटयामि । |
02:06 | अस्माकं सञ्चिकानाम array.c इति स्मरन्तु । |
02:10 | अस्मिन् प्रोग्राम् मध्ये वयं, अरे मध्ये स्थापितानि एलिमेण्ट्स् इत्येतेषां योजनं(sum) अन्विषामः । |
02:16 | अधुना कोड् विवरिष्यामि । |
02:18 | इदमस्माकं हेडर् फ़ैल् वर्तते । |
02:20 | इदमस्माकम् मेन् फ़ङ्क्षन् वर्तते । |
02:22 | वयमत्र star नाम्नः अरे इतीदं, त्रीणि परिमाणयुतं डुक्लेर् कृत्वा इनिशियलैस् कृतवन्तः । |
02:28 | अरे इत्यस्य एलिमेण्ट्स् चत्वारि, पञ्च तथा षट् । |
02:33 | पश्चाद्वयं sum इत्येकं इण्टीजर् वेरियेबल् डिक्लेर् कृतवन्तः । |
02:36 | वयमत्र अये एलिमेण्ट्स् योजयित्वा, योजनमौल्यं sum मध्ये स्थापयामः । |
02:41 | चत्वारि इण्डेक्स् शून्यं वर्तन्ते । पञ्च इण्डेक्स् एकं वर्तन्ते । षट् इण्डेक्स् द्वे वर्तन्ते इति च स्मर्यताम् । |
02:50 | पश्चाद्वयं sum मुद्रापयामः । |
02:52 | इदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते । |
02:54 | अधुना save नुदन्तु । |
02:57 | प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । |
02:59 | भवतां की-बोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु । |
03:09 | कम्पैल् कर्तुं , gcc array.c -o array (gcc स्पेस् array डोट् c स्पेस् हैफ़न् o array) इति टङ्कयित्वा , Enter नुदन्तु । |
03:19 | एक्सिक्यूट् कर्तुं , ./array (डोट् स्लेश् array) इति टङ्कयित्वा Enter नुदन्तु । |
03:24 | अत्र फलितम् एवं दृश्यते । |
03:26 | The sum is 15 |
03:28 | अधुना कानिचन एरर्स् तथा तानि सम्यक् कर्तुं विधानानि पश्याम । |
03:32 | अस्माकं प्रोग्राम् प्रति गच्छन्तु । |
03:34 | अत्र चतुर्थे लैन् नम्बर् मध्ये कर्लि ब्रेकेट् त्यजामः इति कल्पयामः । |
03:39 | Save नुदन्तु । अधुना किं भवतीति पश्याम । |
03:42 | टर्मिनल् गच्छन्तु । |
03:44 | पूर्ववत् कम्पैल् कुर्मः । |
03:47 | वयमेकम् एरर् पश्यामः । |
03:49 | Invalid initializer अपि च Expected identifier or bracket before numeric constant. |
03:56 | यतो हि, अरेस् इतीमानि कर्लि ब्रेकेट् मध्ये एव इनिशियलैस् कर्तव्यानि । |
04:01 | प्रोग्राम् गत्वा एरर् इतीदं सम्यक् कुर्मः । |
04:04 | अत्र चतुर्थे लैन् नम्बर् मध्ये कर्लि ब्रेकेट् स्थापयाम । |
04:09 | अधुना save नुदन्तु । |
04:12 | एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । |
04:15 | पूर्ववत् कम्पैल् कुर्मः । पूर्ववदेव एक्सिक्यूट् अपि कुर्मः । |
04:19 | आम्, इदं कार्यं करोति । |
04:21 | अधुना, वयम इदमेव प्रोग्राम् c++ मध्ये एक्सिक्यूट् कुर्मः । |
04:25 | अस्माकं प्रोग्राम् प्रति आगच्छन्तु । |
04:28 | अत्र कानिचन कोड्स् परिवर्तयामि । |
04:30 | आदौ भवतां कीबोर्ड् मध्ये Shift , Ctrl तथा S कीलकानि युगपन्नुदन्तु । |
04:38 | अधुना सञ्चिकां .cpp एक्स्टेन्शन् इत्यनेन सह रक्षितुं , save नुदन्तु । |
04:44 | हेडर् सञ्चिकां iostream(ऐ ओ स्ट्रीम्) इति परिवर्तयामः । |
04:49 | अधुना using स्टेटमेण्ट् संयोजयन्तु । |
04:55 | अरे इत्यस्य डिक्लरेशन् तथा इनिशियलैसेशन् c++ मध्येऽपि तथैव वर्तते । |
05:01 | अतः यत्किमपि परिवर्तनं नावश्यकम् । |
05:04 | अधुना printf स्टेट्मेण्ट् स्थाने cout स्टेट्मेण्ट् टङ्कयन्तु । |
05:09 | फ़ोर्मेट् स्पेसिफ़ैयर् अपि च \n(बेक् स्लेश् एन्) इतीमे डिलीट् कुर्वन्तु । अधुना comma इतीदं डिलीट् कुर्वन्तु । द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट् टङ्कयन्तु । |
05:17 | अत्र ब्रेकेट् इतीदं डिलीट् कुर्वन्तु । पुनः द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु । डबल् कोट्स् इत्यस्यान्तः \n(बेक् स्लेश् एन्) टङ्कयन्तु । |
05:26 | अधुना save नुदन्तु । |
05:29 | एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । |
05:32 | कम्पैल् कर्तुं, g++ array.cpp -o array1 (g++ स्पेस् अरे डोट् सिपिपि स्पेस् हैफ़न् ओ स्पेस् अरे ओन्) इति टङ्कयन्तु । |
05:42 | array.c (अरे डोट् सि) सञ्चिकायाः औट्-पुट् पेरामीटर् इतीदं रक्षितुं, अत्र वयं array1 इति टङ्कयामः । |
05:51 | अधुना Enter नुदन्तु । |
05:54 | एक्सिक्यूट् कर्तुं , ./array1(डोट् स्लेश् अरे ओन्) इति टङ्कयित्वा, Enter नुदन्तु । |
05:59 | The sum is 15 इति औट् पुट् दृश्यते । |
06:02 | इदमस्माकं सि कोड् इव वर्तते इति वयं अवलोकयामः । |
06:07 | वयमधुना, अन्यं सामान्यं एरर् पश्यामः । |
06:10 | अस्माकं प्रोग्राम् प्रति आगच्छन्तु । |
06:12 | अत्र लैन् नम्बर् सप्तमे, star1, star2 तथा star3 इति टङ्कयामि इति भावयामः । |
06:23 | save नुत्वा एक्सिक्यूट् कुर्मः । अस्माकं टर्मिनल् प्रति आगछन्तु । |
06:28 | प्रोम्प्ट् क्लियर् करोमि । |
06:30 | पूर्ववत् कम्पैल् कुर्मः । |
06:33 | पूर्ववत् एक्सिक्यूट् कुर्मः । |
06:36 | वयम् अनिरीक्षितम् औट् पुट् प्राप्नुमः । |
06:39 | यतो हि, अरे इत्यस्य इण्डेक्स् शून्यतः आरभ्यते । |
06:43 | अस्माकं प्रोग्राम् प्रति आगच्छन्तु । अत्र अरे इत्यस्य इण्डेक्स् एकतः आरभ्यते इति दृष्टुं शक्नुमः । |
06:49 | अतः इदम् एरर् यच्छति । एतद्दोशं सम्यक्कुर्मः । |
06:54 | अत्र 0 (शून्यं), 1(एकं), 2(द्वे) इति टङ्कयित्वा, save नुदन्तु । |
07:02 | एक्सिक्यूत् कुर्मः । अस्माकं टर्मिनल् प्रति आगच्छन्तु । |
07:05 | पूर्ववत् कम्पैल् कुर्मः । एक्सिक्यूट् कुर्मः च । |
07:09 | आम्, इदं कार्यं करोति । |
07:12 | अधुना, अस्माकं स्लैड् प्रति आगच्छामः । |
07:14 | सारं पश्यामः । |
07:16 | अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञातविषयाः : |
07:19 | अरेस्, सिङ्गल्-डैमेन्शनल् अरे डिक्लेर् करणम् । |
07:23 | सिङ्गल्-डैमेन्शनल् अरे इत्यस्य इनिशियलैस् करणम् । |
07:26 | उदाहरणार्थं, int star 3 is equal to four five six . |
07:31 | अरे एलिमेण्ट् योजनम् । तद्यथा , sum is equal to star[0] plus star[1] plus star[2] |
07:40 | अरे इत्यस्य एलिमेण्ट्स् इत्येतेषां डिफ़रेन्स् अन्वेष्टुं एकं प्रोग्राम् असैन्मेण्ट् रूपेण लिखन्तु । |
07:47 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । |
07:50 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । |
07:53 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । |
07:57 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति । |
08:03 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । |
08:06 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । |
08:13 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । |
08:17 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । |
08:25 | अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । |
08:30 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |