C-and-Cpp/C3/Arrays/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 “Arrays in c and c++” विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं इमान् विषयान् ज्ञास्यामः :
00:09 अरे नाम किम्?
00:11 अरे कथं डिक्लेर् करणीयम्?
00:13 अरे इत्यस्य इनिशियलयिज़ेशन्,
00:16 अरे इत्यस्य उदाहरणानि च ।
00:18 वयं सामान्यतः जायमानानि एरर्स् तथा तेषां परिहाराणि च पश्यामः ।
00:22 ट्युटोरियल् इत्यस्य रेकोर्ड् करणकाले, अहम् उबण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य 11.04 तमा आवृत्तिः अपि च gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिम् उपयुक्तवानस्मि ।
00:36 अरे इत्यस्य पीठिकया सह प्रारभामहे ।
00:39 अरे इतीदं डेटा अथवा एकप्रकारकस्य डेटा-टैप् इत्यस्य अंशानां सङ्ग्रहः वर्तते ।
00:44 अरे इत्यस्य इण्डेक्स् शून्यतः प्रारभ्यते ।
00:48 प्रथमं डेटा, शून्य-इण्डेक्स् मध्ये वर्तते ।
00:52 अरे त्रिप्रकारकः वर्तते ।
00:55 एकविमात्मकं अरे(सिङ्गल् डैमेन्शनल् अरे)
00:57 द्विविमात्मकं अरे(टु डैमेन्शनल् अरे) अपि च
00:59 बहुविमात्मकं अरे(मल्टि डैमेन्शनल् अरे) ।
01:01 वयमस्मिन् ट्युटोरियल् मध्ये एकविमात्मक-अरे विषये चर्चां कुर्मः ।
01:06 सिङ्गल्-डैमेन्शनल् अरे कथं डिक्लेर् करणीयमिति पश्याम ।
01:09 अस्य सिण्टेक्स् एवं वर्तते ।
01:11 डेटा टैप्, अरे इत्यस्य नाम तथा अरे इत्यस्य परिमाणं,
01:16 उदाहरणार्थमत्र, वयं पञ्चानां एलिमेण्ट्स् इत्येतेषां, star इति इण्टीजर् अरे इतीदं डिक्लेर् कृतवन्तः ।
01:24 star अरे इत्यस्य इण्डेक्स् शून्यतः आरभ्य चत्वारि पर्यन्तं वर्तते ।
01:29 वयम् अरे इत्यस्य डिक्लरेशन् दृष्टवन्तः ।
01:32 वयमधुना अरे इनिशियलैसेशन् जानाम ।
01:35 तस्य सिण्टेक्स् एवमस्ति :
01:38 Data type, array name , size equal to elements.
01:44 उदाहरणार्थमत्र वयं इण्टीजर् अरे star अपि च तस्य परिमाणं 3 इति डिक्लेर् कृतवन्तः । अरे इत्यस्य एलिमेण्ट्स् इतीमानि एकं, द्वे तथा त्रीणि ।
01:54 अत्र, star इत्यस्य इण्डेक्स्, शून्यतः द्वे-पर्यन्तं भवति ।
01:59 अधुना उदाहरणं पश्याम ।
02:01 अहं प्रोग्राम् इतीदं एडिटर् मध्ये टङ्कितवानस्मि ।
02:04 अतः, तदुद्घाटयामि ।
02:06 अस्माकं सञ्चिकानाम array.c इति स्मरन्तु ।
02:10 अस्मिन् प्रोग्राम् मध्ये वयं, अरे मध्ये स्थापितानि एलिमेण्ट्स् इत्येतेषां योजनं(sum) अन्विषामः ।
02:16 अधुना कोड् विवरिष्यामि ।
02:18 इदमस्माकं हेडर् फ़ैल् वर्तते ।
02:20 इदमस्माकम् मेन् फ़ङ्क्षन् वर्तते ।
02:22 वयमत्र star नाम्नः अरे इतीदं, त्रीणि परिमाणयुतं डुक्लेर् कृत्वा इनिशियलैस् कृतवन्तः ।
02:28 अरे इत्यस्य एलिमेण्ट्स् चत्वारि, पञ्च तथा षट् ।
02:33 पश्चाद्वयं sum इत्येकं इण्टीजर् वेरियेबल् डिक्लेर् कृतवन्तः ।
02:36 वयमत्र अये एलिमेण्ट्स् योजयित्वा, योजनमौल्यं sum मध्ये स्थापयामः ।
02:41 चत्वारि इण्डेक्स् शून्यं वर्तन्ते । पञ्च इण्डेक्स् एकं वर्तन्ते । षट् इण्डेक्स् द्वे वर्तन्ते इति च स्मर्यताम् ।
02:50 पश्चाद्वयं sum मुद्रापयामः ।
02:52 इदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:54 अधुना save नुदन्तु ।
02:57 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:59 भवतां की-बोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
03:09 कम्पैल् कर्तुं , gcc array.c -o array (gcc स्पेस् array डोट् c स्पेस् हैफ़न् o array) इति टङ्कयित्वा , Enter नुदन्तु ।
03:19 एक्सिक्यूट् कर्तुं , ./array (डोट् स्लेश् array) इति टङ्कयित्वा Enter नुदन्तु ।
03:24 अत्र फलितम् एवं दृश्यते ।
03:26 The sum is 15
03:28 अधुना कानिचन एरर्स् तथा तानि सम्यक् कर्तुं विधानानि पश्याम ।
03:32 अस्माकं प्रोग्राम् प्रति गच्छन्तु ।
03:34 अत्र चतुर्थे लैन् नम्बर् मध्ये कर्लि ब्रेकेट् त्यजामः इति कल्पयामः ।
03:39 Save नुदन्तु । अधुना किं भवतीति पश्याम ।
03:42 टर्मिनल् गच्छन्तु ।
03:44 पूर्ववत् कम्पैल् कुर्मः ।
03:47 वयमेकम् एरर् पश्यामः ।
03:49 Invalid initializer अपि च Expected identifier or bracket before numeric constant.
03:56 यतो हि, अरेस् इतीमानि कर्लि ब्रेकेट् मध्ये एव इनिशियलैस् कर्तव्यानि ।
04:01 प्रोग्राम् गत्वा एरर् इतीदं सम्यक् कुर्मः ।
04:04 अत्र चतुर्थे लैन् नम्बर् मध्ये कर्लि ब्रेकेट् स्थापयाम ।
04:09 अधुना save नुदन्तु ।
04:12 एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
04:15 पूर्ववत् कम्पैल् कुर्मः । पूर्ववदेव एक्सिक्यूट् अपि कुर्मः ।
04:19 आम्, इदं कार्यं करोति ।
04:21 अधुना, वयम इदमेव प्रोग्राम् c++ मध्ये एक्सिक्यूट् कुर्मः ।
04:25 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
04:28 अत्र कानिचन कोड्स् परिवर्तयामि ।
04:30 आदौ भवतां कीबोर्ड् मध्ये Shift , Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
04:38 अधुना सञ्चिकां .cpp एक्स्टेन्शन् इत्यनेन सह रक्षितुं , save नुदन्तु ।
04:44 हेडर् सञ्चिकां iostream(ऐ ओ स्ट्रीम्) इति परिवर्तयामः ।
04:49 अधुना using स्टेटमेण्ट् संयोजयन्तु ।
04:55 अरे इत्यस्य डिक्लरेशन् तथा इनिशियलैसेशन् c++ मध्येऽपि तथैव वर्तते ।
05:01 अतः यत्किमपि परिवर्तनं नावश्यकम् ।
05:04 अधुना printf स्टेट्मेण्ट् स्थाने cout स्टेट्मेण्ट् टङ्कयन्तु ।
05:09 फ़ोर्मेट् स्पेसिफ़ैयर् अपि च \n(बेक् स्लेश् एन्) इतीमे डिलीट् कुर्वन्तु । अधुना comma इतीदं डिलीट् कुर्वन्तु । द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट् टङ्कयन्तु ।
05:17 अत्र ब्रेकेट् इतीदं डिलीट् कुर्वन्तु । पुनः द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु । डबल् कोट्स् इत्यस्यान्तः \n(बेक् स्लेश् एन्) टङ्कयन्तु ।
05:26 अधुना save नुदन्तु ।
05:29 एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
05:32 कम्पैल् कर्तुं, g++ array.cpp -o array1 (g++ स्पेस् अरे डोट् सिपिपि स्पेस् हैफ़न् ओ स्पेस् अरे ओन्) इति टङ्कयन्तु ।
05:42 array.c (अरे डोट् सि) सञ्चिकायाः औट्-पुट् पेरामीटर् इतीदं रक्षितुं, अत्र वयं array1 इति टङ्कयामः ।
05:51 अधुना Enter नुदन्तु ।
05:54 एक्सिक्यूट् कर्तुं , ./array1(डोट् स्लेश् अरे ओन्) इति टङ्कयित्वा, Enter नुदन्तु ।
05:59 The sum is 15 इति औट् पुट् दृश्यते ।
06:02 इदमस्माकं सि कोड् इव वर्तते इति वयं अवलोकयामः ।
06:07 वयमधुना, अन्यं सामान्यं एरर् पश्यामः ।
06:10 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
06:12 अत्र लैन् नम्बर् सप्तमे, star1, star2 तथा star3 इति टङ्कयामि इति भावयामः ।
06:23 save नुत्वा एक्सिक्यूट् कुर्मः । अस्माकं टर्मिनल् प्रति आगछन्तु ।
06:28 प्रोम्प्ट् क्लियर् करोमि ।
06:30 पूर्ववत् कम्पैल् कुर्मः ।
06:33 पूर्ववत् एक्सिक्यूट् कुर्मः ।
06:36 वयम् अनिरीक्षितम् औट् पुट् प्राप्नुमः ।
06:39 यतो हि, अरे इत्यस्य इण्डेक्स् शून्यतः आरभ्यते ।
06:43 अस्माकं प्रोग्राम् प्रति आगच्छन्तु । अत्र अरे इत्यस्य इण्डेक्स् एकतः आरभ्यते इति दृष्टुं शक्नुमः ।
06:49 अतः इदम् एरर् यच्छति । एतद्दोशं सम्यक्कुर्मः ।
06:54 अत्र 0 (शून्यं), 1(एकं), 2(द्वे) इति टङ्कयित्वा, save नुदन्तु ।
07:02 एक्सिक्यूत् कुर्मः । अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
07:05 पूर्ववत् कम्पैल् कुर्मः । एक्सिक्यूट् कुर्मः च ।
07:09 आम्, इदं कार्यं करोति ।
07:12 अधुना, अस्माकं स्लैड् प्रति आगच्छामः ।
07:14 सारं पश्यामः ।
07:16 अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञातविषयाः :
07:19 अरेस्, सिङ्गल्-डैमेन्शनल् अरे डिक्लेर् करणम् ।
07:23 सिङ्गल्-डैमेन्शनल् अरे इत्यस्य इनिशियलैस् करणम् ।
07:26 उदाहरणार्थं, int star 3 is equal to four five six .
07:31 अरे एलिमेण्ट् योजनम् । तद्यथा , sum is equal to star[0] plus star[1] plus star[2]
07:40 अरे इत्यस्य एलिमेण्ट्स् इत्येतेषां डिफ़रेन्स् अन्वेष्टुं एकं प्रोग्राम् असैन्मेण्ट् रूपेण लिखन्तु ।
07:47 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
07:50 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
07:53 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
07:57 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
08:03 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
08:06 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
08:13 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
08:17 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
08:25 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
08:30 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14