C-and-Cpp/C2/First-Cpp-Program/Sanskrit
From Script | Spoken-Tutorial
Revision as of 15:33, 21 April 2020 by Sandhya.np14 (Talk | contribs)
Time | Narration |
00:02 | First C++ program विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:07 | अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः , |
00:10 | C++ प्रोग्राम् कथं लेखनीयम्, |
00:13 | कथं कम्पैल् करणीयं तथा कथं एक्सीक्यूट् करणीयम्, |
00:17 | अपि चात्र सम्भवनीयसामान्यदोषाः तत्परिहारोपायञ्च । |
00:22 | पाठस्यास्य ध्वन्यङ्कनायाहं, Ubuntu operating system 11.10 आवृत्तिः तथा |
00:29 | Ubuntu इत्यस्योपरि G++ Compiler 4.5.2 आवृत्तिः अनयोरुपयोगं करोमि । |
00:35 | पाठस्यास्य अभ्यासाय, |
00:37 | भवन्तः Ubuntu Operating System तथा एकम् Editor च जानीयुः । |
00:44 | 'vim' तथा 'gedit' च एडिटर् इत्यस्य उदाहरणे स्तः । |
00:48 | अहं पाठेऽस्मिन् 'gedit' इतीदमुपयुनज्मि । |
00:50 | तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्ति । |
00:56 | अहमधुना एकेन उदाहरणेन सह C++ लिखित्वा दर्शयामि । |
01:01 | Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु । |
01:09 | टेक्स्ट् एडिटर् उद्घाटयितुम्, टर्मिनल् मध्ये एवं टङ्कयन्तु । |
01:13 | “gedit” space “talk” dot “cpp” space ampersand sign(&) |
01:21 | प्रोम्प्ट् इतीदं रिक्तं कर्तुं वयं “&” उपयुञ्ज्महे । |
01:25 | दृढीकुर्वन्तु यत्, सर्वाणि C++ फ़ैल्स् “.cpp” एक्स्टेन्शन्स् युतानि भवन्ति । |
01:31 | अधुना Enter नुदन्तु । |
01:33 | टेक्स्ट् एडिटर् उद्घाटितम् । |
01:35 | अधुना प्रोग्राम् लेखितुं प्रारभामहे । |
01:38 | double slash “//” space “My first C++ program” इति टङ्कयन्तु । |
01:44 | अत्र पङ्क्त्याः कोमेण्ट् करणाय डबल् स्लेश् उपयुक्तं वर्तते । |
01:49 | प्रोग्राम् इत्यस्य गतिं (flow) ज्ञातुं कमेण्ट्स् इतीमानि उपयुज्यन्ते । |
01:52 | इदं डोक्युमेण्टेशन् कर्तुं उपयुक्तं वर्तते । |
01:55 | इदं अस्मभ्यम् प्रोग्राम् इत्यस्य विवरणं यच्छति । |
01:59 | डबल् स्लेश् इतीदं सिङ्गल् लैन् कमेण्ट् इति कथ्यते । अधुना Enter नुदन्तु । |
02:05 | (hash) “#include”, space, opening angle bracket, closing angle bracket इति टङ्कयन्तु । |
02:13 | ब्रेकेट्स् आदौ स्थापयित्वा पश्चाल्लेखनं नाम उत्तमः अभ्यासः । |
02:20 | ब्रेकेट् इत्यस्यान्तः “iostream” इति टङ्कयन्तु । |
02:23 | अत्र iostream इतीदं हेडर् फ़ैल् (header file) वर्तते। |
02:26 | इदं फ़ैल् C++ मध्ये, स्टेण्डर्ड् इन्पुट् औट्पुट् फ़ङ्क्षन्स् इत्येतेषां डिक्लरेशन् प्राप्तवद्वर्तते । अधुना Enter नुदन्तु । |
02:35 | “using” space “namespace” space “std” semicolon “;” इति टङ्कयन्तु । |
02:45 | using स्टेट्मेण्ट् इतीदं कम्पैलर् इत्यस्मै वदति यत्, भवन्तः std namespace इतीदम् उपयोक्तुम् इच्छन्ति इति । |
02:52 | namespace इत्यस्योपयोगः नामसु सङ्घर्षणं परिहर्तुं कार्यः । |
02:56 | इदं ऐडेण्टिफ़ैयर्स् इत्येतेषां नामानि लोकलैसिङ्ग् करणेन क्रियते । |
03:00 | इदमेकं डिक्लरेटिव् रीज़िओन् रचयित्वा एकं स्कोप् डिफ़ैन् करोति । |
03:05 | यत्किमपि namespace मध्ये डिक्लेर् कृतं, तस्य नेम् स्पेस् इत्यस्य SCOPE मध्ये एव वर्तते । |
03:11 | अत्र std इतीदं namespace वर्तते यत्र, सम्पूर्णं स्टेण्डर्ड् C++ लैब्ररी इतीदं डिक्लेर् जायते । अधुना Enter नुदन्तु । |
03:20 | “int” space “main” opening bracket, closing bracket इति टङ्कयन्तु । |
03:26 | main इतीदमेकं विशिष्टं function वर्तते। |
03:30 | इदं सूचयति यत्, प्रोग्राम् इत्यस्य एक्सिक्यूशन् अस्यां पङ्क्तौ प्रारभते इति । |
03:34 | ओपनिङ्ग् ब्रेकेट् तथा क्लोसिङ्ग् ब्रेकेट् च आहत्य Parenthesis इति कथ्यते । |
03:39 | main इत्यनेन सह पेरन्थिसिस् वदति यत्, main इतीदमेकं फ़ङ्क्षन् वर्तते इति। |
03:45 | अत्र int main() फ़ङ्क्षन् न किञ्चिद् आर्ग्युमेण्ट् स्वीकरोति तथा इण्टीजर् मूल्यं प्रत्यर्पयति । |
03:52 | डेटाटैप्स् विषयं वयं अन्यस्मिन् ट्युटोरियल् मध्ये जानाम । |
03:56 | वयमधुना स्लैड्स् प्रति आगत्य main फ़ङ्क्षन् विषयं जानाम । |
04:02 | प्रत्येकं प्रोग्राम् एकं main फ़ङ्क्षन् प्राप्तवद्भवन्त्येव । |
04:04 | तत्र एकाधिकं “main” फ़ङ्क्षन् कदापि न भवेत् । |
04:09 | न चेत् कम्पैलर् प्रोग्राम् इत्यस्य आदिं ज्ञातुं न शक्नोति । |
04:13 | रिक्तं पेरन्थिसिस्-द्वयम् द्योतयति यत् main इतीदं आर्ग्युमेण्ट्स् प्राप्तवन्नास्ति इति । |
04:19 | अर्ग्युमेण्ट्स् विषयं आगामिपाठेषु चर्च्यते । |
04:24 | अधुना प्रोग्राम् प्रति आगत्य Enter नुदन्तु । |
04:29 | opening curly bracket “{” टङ्कयन्तु । |
04:32 | ओपनिङ्ग् कर्लि ब्रेकेट् इतीदं main() फ़ङ्क्षन् इत्यस्यारम्भं द्योतयति । |
04:37 | पश्चात् closing curly bracket “}” टङ्कयन्तु । |
04:40 | क्लोसिङ्ग् कर्लि ब्रेकेट् इतीदं main() फ़ङ्क्षन् इत्यस्यान्त्यं द्योतयति । |
04:45 | अधुना ब्रेकेट् इत्यस्यान्तः द्विवारम् एण्टर् नुदन्तु । |
04:49 | कर्सर् इतीदम् एकपङ्क्तिं उपरि चालयन्तु । |
04:51 | इण्डेण्टेशन् इतीदं कोड् पठितुं सुलभतरं कारयति । |
04:54 | इदं दोषान् झटिति ज्ञातुमपि साहाय्यमाचरति । |
04:58 | अतोऽत्र स्पेस् यच्छन्तु । |
05:01 | अपि च “cout” space two opening angle bracket ' इति टङ्कयन्तु । |
05:07 | अत्र cout इतीदं स्टेण्डर्ड् C++ फ़ङ्क्षन् वर्तते येन औट्पुट्, टर्मिनल् उपरि मुद्राप्यते । |
05:14 | अधुना ब्रेकेट् इत्यस्यानन्तरं डबल् कोट्स् इत्यस्यान्तः टङ्कयन्तु । |
05:18 | डबल् कोट्स् इत्यस्यान्तः अपि च cout फ़ङ्क्षन् इत्यस्यान्तः, यद्वर्तते तन्मुद्राप्यते । |
05:24 | अधुना कोट्स् इत्यस्यान्तः “Talk to a teacher backslash n” (\n) इति टङ्कयन्तु । |
05:31 | अत्र \n नूतनपङ्क्तिं द्योतयति । |
05:35 | तत्परिणामतः cout फ़ङ्क्षन् एक्सिक्यूट् जाते सति, कर्सर् इतीदं नूतनपङ्क्तिं प्रति गच्छति । |
05:41 | प्रत्येकं C++ स्टेट्मेण्ट् इतीदं सेमिकोलन् इत्यनेन सह समाप्तं भवेत् । |
05:45 | अतः इदं अस्याः पङ्क्त्याः अन्ते टङ्कयन्तु । |
05:48 | सेमिकोलन् इतीदं स्टेट्मेण्ट् टर्मिनेटर् इव कार्यं करोति । Enter नुदन्तु । |
05:53 | अत्र स्पेस् दत्वा “return” space “0” semicolon “;”. इति टङ्कयन्तु । |
06:00 | इदं स्टेट्मेण्ट् इण्टीज़र् 0 इतीदं प्रत्यर्पयति । |
06:03 | एकम् इण्टीजर् अस्मै फ़ङ्क्षन् इत्यस्मै रिटर्न् कर्तव्यं, यतो हि फ़ङ्क्षन् इतीदं int प्रकारकं वर्तते । |
06:10 | return स्टेट्मेण्ट् इतीदं, एक्सिक्यूट् जायमानानां स्टेट्मेण्ट्स् इत्येतेषां समाप्तिं मार्क् करोति । |
06:14 | वयं अन्यस्मिन् ट्युटोरियल् मध्ये प्रत्यर्पितमूल्यानां विषयम् अधिकं जानाम । |
06:20 | अधुना सञ्चिकां रक्षितुं “Save” गण्डस्योपरि नुदन्तु । |
06:23 | पदे पदे सञ्चिकारक्षणं नाम उत्तमाभ्यासः वर्तते । |
06:26 | विद्युच्छक्त्याः झटिति गमने इदं भवन्तं रक्षति । |
06:30 | एप्लिकेशन् इत्यस्य क्रेश् जायमाने सत्यपि इदं साहाय्यमाचरति । |
06:34 | अधुना प्रोग्राम् इतीदं कम्पैल् कुर्मः । |
06:36 | अस्माकं टर्मिनल् प्रति आगच्छन्तु । |
06:39 | “g++” space “talk.cpp” space hyphen “ o” space “output” इति टङ्कयन्तु । |
06:49 | अत्र g++ इतीदं C++ प्रोग्राम्स् इत्येतेषां कम्पैल् करणाय उपयुज्यमानं कम्पैलर् वर्तते । |
06:55 | talk.cpp इतीदमस्माकं फ़ैल् नेम् वर्तते । |
06:59 | hyphen -o output वदति यत्, एक्सिक्यूट् जायमानं "output" सञ्चिकां प्रति गन्तव्यमिति । |
07:05 | अधुना Enter नुदन्तु । |
07:07 | वयं पश्यामः यत् प्रोग्राम् इतीदं कम्पैल् जायते । |
07:10 | ls space hyphen lrt इति टङ्कणेन, वयं दृष्टुं शक्नुमः यत्, output इतीदं अन्तिमं विरच्यमानं फ़ैल् वर्तते । |
07:19 | प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः, “./output” (dot slash output) इति टङ्कयन्तु । |
07:24 | Enter नुदन्तु । |
07:27 | अत्र “Talk to a teacher” इति औट्पुट् प्रदर्श्यते । |
07:30 | अधुना वयं जायमानान् कांश्चन सामान्यदोषान् पश्यामः । |
07:35 | अस्माकं टेक्स्ट् एडिटर् प्रति आगच्छन्तु । |
07:38 | यदि वयं }(क्लोसिङ्ग् कर्लि ब्रेकेट्) त्यजामः तर्हि, |
07:42 | अधुना सञ्चिकां save कुर्वन्तु । |
07:44 | एक्सिक्यूट् कर्तुं टर्मिनल् प्रति आगच्छन्तु । |
07:48 | पूर्वम् यथा कृतं तथा कमाण्ड् लिखित्वा प्रोग्राम् इतीदं कम्पैल् तथा रन् च कुर्वन्तु । वयं दोषान् पश्यामः । |
07:55 | अस्माकं talk.cpp सञ्चिकायां, 7(सप्तम)पङ्क्तौ एरर् एवं वदन्नति talk.cpp file that "expected curly bracket at the end of input". |
08:07 | अधुना अस्माकं टेक्स्ट् एडिटर् प्रति आगच्छन्तु । |
08:09 | यथा मया पूर्वमुक्तं तथा, क्लोसिङ्ग् कर्लि ब्रेकेट् इतीदं, main फ़ङ्क्षन् इत्यस्य समाप्तिं मार्क् करोति । |
08:14 | अतः ब्रेकेट् इतीदं पुनः स्थापयन्तु । अधुना सञ्चिकां रक्षन्तु । |
08:19 | पुनः एक्सिक्यूट् कुर्मः । |
08:21 | अप् एरो कीलकनोदनेन पूर्वतन-कमाण्ड् पुनः प्राप्तुं शक्नुवन्ति भवन्तः । |
08:26 | मया तदेव कृतमधुना । |
08:30 | आम्, इदं कार्यं करोमि । |
08:32 | अहमन्यमेकं सामान्यदोषं दर्शयिष्यामि । |
08:35 | टेक्स्ट् एडिटर् प्रति आगच्छन्तु । |
08:37 | अधुना, यदि वयं std. इतीदं त्यजामः । |
08:41 | सञ्चिकां रक्षन्तु । |
08:44 | टर्मिनल् प्रति आगच्छन्तु । |
08:46 | कम्पैल् कुर्मः । |
08:48 | अस्माकं talk.cpp फ़ैल् मध्ये, 3(तृतीयायाम्) तथा 6(षष्ट्यां) पङ्क्त्यां एरर् दृश्यते । |
08:56 | तदेवम् - "expected identifier before 'semicolon' " and " 'cout' was not declared in this scope". |
09:05 | यतो हि cout इतीदं स्टेण्डर्ड् C++ लैब्ररी फ़ङ्क्षन् वर्तते । |
09:09 | अपि च सम्पूर्णं C++ लैब्ररी फ़ङ्क्षन् इतीदं std namespace इत्यस्याधः डिफ़ैन् जायते । |
09:15 | अतः एरर् आयातम् । |
09:18 | अधुना दोषपरिमार्जनं कुर्मः । टेक्स्ट् एडिटर् प्रति आगच्छन्तु । अत्र std इति टङ्कयन्तु । |
09:23 | अधुना सेव् कुर्मः । |
09:25 | पुनः कम्पैल् कुर्मः । |
09:29 | आम् इदं कार्यं कुर्वन्नस्ति । एकं पाठनियोजनम् । |
09:33 | भवतां नाम तथा नगरस्य नाम लेखितुम् एकं प्रोग्राम् लिखन्तु । |
09:37 | अस्मिन् पाठे वयं 'सिङ्गल् लैन् कमेण्ट्' उपयुक्तवन्तः । |
09:40 | अधुना एकं 'मल्टिलैन् कमेण्ट्' दातुं प्रयतताम् । |
09:44 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । |
09:46 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । |
09:48 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । |
09:53 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, |
09:55 | स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति । |
09:58 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । |
10:01 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । |
10:10 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । |
10:14 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । |
10:20 | अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । |
10:25 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । |
10:28 | धन्यवादाः । |