C-and-Cpp/C2/First-Cpp-Program/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 First C++ program विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः ,
00:10 C++ प्रोग्राम् कथं लेखनीयम्,
00:13 कथं कम्पैल् करणीयं तथा कथं एक्सीक्यूट् करणीयम्,
00:17 अपि चात्र सम्भवनीयसामान्यदोषाः तत्परिहारोपायञ्च ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहं, Ubuntu operating system 11.10 आवृत्तिः तथा
00:29 Ubuntu इत्यस्योपरि G++ Compiler 4.5.2 आवृत्तिः अनयोरुपयोगं करोमि ।
00:35 पाठस्यास्य अभ्यासाय,
00:37 भवन्तः Ubuntu Operating System तथा एकम् Editor च जानीयुः ।
00:44 'vim' तथा 'gedit' च एडिटर् इत्यस्य उदाहरणे स्तः ।
00:48 अहं पाठेऽस्मिन् 'gedit' इतीदमुपयुनज्मि ।
00:50 तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्ति ।
00:56 अहमधुना एकेन उदाहरणेन सह C++ लिखित्वा दर्शयामि ।
01:01 Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
01:09 टेक्स्ट् एडिटर् उद्घाटयितुम्, टर्मिनल् मध्ये एवं टङ्कयन्तु ।
01:13 “gedit” space “talk” dot “cpp” space ampersand sign(&)
01:21 प्रोम्प्ट् इतीदं रिक्तं कर्तुं वयं “&” उपयुञ्ज्महे ।
01:25 दृढीकुर्वन्तु यत्, सर्वाणि C++ फ़ैल्स् “.cpp” एक्स्टेन्शन्स् युतानि भवन्ति ।
01:31 अधुना Enter नुदन्तु ।
01:33 टेक्स्ट् एडिटर् उद्घाटितम् ।
01:35 अधुना प्रोग्राम् लेखितुं प्रारभामहे ।
01:38 double slash “//” space “My first C++ program” इति टङ्कयन्तु ।
01:44 अत्र पङ्क्त्याः कोमेण्ट् करणाय डबल् स्लेश् उपयुक्तं वर्तते ।
01:49 प्रोग्राम् इत्यस्य गतिं (flow) ज्ञातुं कमेण्ट्स् इतीमानि उपयुज्यन्ते ।
01:52 इदं डोक्युमेण्टेशन् कर्तुं उपयुक्तं वर्तते ।
01:55 इदं अस्मभ्यम् प्रोग्राम् इत्यस्य विवरणं यच्छति ।
01:59 डबल् स्लेश् इतीदं सिङ्गल् लैन् कमेण्ट् इति कथ्यते । अधुना Enter नुदन्तु ।
02:05 (hash) “#include”, space, opening angle bracket, closing angle bracket इति टङ्कयन्तु ।
02:13 ब्रेकेट्स् आदौ स्थापयित्वा पश्चाल्लेखनं नाम उत्तमः अभ्यासः ।
02:20 ब्रेकेट् इत्यस्यान्तः “iostream” इति टङ्कयन्तु ।
02:23 अत्र iostream इतीदं हेडर् फ़ैल् (header file) वर्तते।
02:26 इदं फ़ैल् C++ मध्ये, स्टेण्डर्ड् इन्पुट् औट्पुट् फ़ङ्क्षन्स् इत्येतेषां डिक्लरेशन् प्राप्तवद्वर्तते । अधुना Enter नुदन्तु ।
02:35 “using” space “namespace” space “std” semicolon “;” इति टङ्कयन्तु ।
02:45 using स्टेट्मेण्ट् इतीदं कम्पैलर् इत्यस्मै वदति यत्, भवन्तः std namespace इतीदम् उपयोक्तुम् इच्छन्ति इति ।
02:52 namespace इत्यस्योपयोगः नामसु सङ्घर्षणं परिहर्तुं कार्यः ।
02:56 इदं ऐडेण्टिफ़ैयर्स् इत्येतेषां नामानि लोकलैसिङ्ग् करणेन क्रियते ।
03:00 इदमेकं डिक्लरेटिव् रीज़िओन् रचयित्वा एकं स्कोप् डिफ़ैन् करोति ।
03:05 यत्किमपि namespace मध्ये डिक्लेर् कृतं, तस्य नेम् स्पेस् इत्यस्य SCOPE मध्ये एव वर्तते ।
03:11 अत्र std इतीदं namespace वर्तते यत्र, सम्पूर्णं स्टेण्डर्ड् C++ लैब्ररी इतीदं डिक्लेर् जायते । अधुना Enter नुदन्तु ।
03:20 “int” space “main” opening bracket, closing bracket इति टङ्कयन्तु ।
03:26 main इतीदमेकं विशिष्टं function वर्तते।
03:30 इदं सूचयति यत्, प्रोग्राम् इत्यस्य एक्सिक्यूशन् अस्यां पङ्क्तौ प्रारभते इति ।
03:34 ओपनिङ्ग् ब्रेकेट् तथा क्लोसिङ्ग् ब्रेकेट् च आहत्य Parenthesis इति कथ्यते ।
03:39 main इत्यनेन सह पेरन्थिसिस् वदति यत्, main इतीदमेकं फ़ङ्क्षन् वर्तते इति।
03:45 अत्र int main() फ़ङ्क्षन् न किञ्चिद् आर्ग्युमेण्ट् स्वीकरोति तथा इण्टीजर् मूल्यं प्रत्यर्पयति ।
03:52 डेटाटैप्स् विषयं वयं अन्यस्मिन् ट्युटोरियल् मध्ये जानाम ।
03:56 वयमधुना स्लैड्स् प्रति आगत्य main फ़ङ्क्षन् विषयं जानाम ।
04:02 प्रत्येकं प्रोग्राम् एकं main फ़ङ्क्षन् प्राप्तवद्भवन्त्येव ।
04:04 तत्र एकाधिकं “main” फ़ङ्क्षन् कदापि न भवेत् ।
04:09 न चेत् कम्पैलर् प्रोग्राम् इत्यस्य आदिं ज्ञातुं न शक्नोति ।
04:13 रिक्तं पेरन्थिसिस्-द्वयम् द्योतयति यत् main इतीदं आर्ग्युमेण्ट्स् प्राप्तवन्नास्ति इति ।
04:19 अर्ग्युमेण्ट्स् विषयं आगामिपाठेषु चर्च्यते ।
04:24 अधुना प्रोग्राम् प्रति आगत्य Enter नुदन्तु ।
04:29 opening curly bracket “{” टङ्कयन्तु ।
04:32 ओपनिङ्ग् कर्लि ब्रेकेट् इतीदं main() फ़ङ्क्षन् इत्यस्यारम्भं द्योतयति ।
04:37 पश्चात् closing curly bracket “}” टङ्कयन्तु ।
04:40 क्लोसिङ्ग् कर्लि ब्रेकेट् इतीदं main() फ़ङ्क्षन् इत्यस्यान्त्यं द्योतयति ।
04:45 अधुना ब्रेकेट् इत्यस्यान्तः द्विवारम् एण्टर् नुदन्तु ।
04:49 कर्सर् इतीदम् एकपङ्क्तिं उपरि चालयन्तु ।
04:51 इण्डेण्टेशन् इतीदं कोड् पठितुं सुलभतरं कारयति ।
04:54 इदं दोषान् झटिति ज्ञातुमपि साहाय्यमाचरति ।
04:58 अतोऽत्र स्पेस् यच्छन्तु ।
05:01 अपि च “cout” space two opening angle bracket इति टङ्कयन्तु ।
05:07 अत्र cout इतीदं स्टेण्डर्ड् C++ फ़ङ्क्षन् वर्तते येन औट्पुट्, टर्मिनल् उपरि मुद्राप्यते ।
05:14 अधुना ब्रेकेट् इत्यस्यानन्तरं डबल् कोट्स् इत्यस्यान्तः टङ्कयन्तु ।
05:18 डबल् कोट्स् इत्यस्यान्तः अपि च cout फ़ङ्क्षन् इत्यस्यान्तः, यद्वर्तते तन्मुद्राप्यते ।
05:24 अधुना कोट्स् इत्यस्यान्तः “Talk to a teacher backslash n” (\n) इति टङ्कयन्तु ।
05:31 अत्र \n नूतनपङ्क्तिं द्योतयति ।
05:35 तत्परिणामतः cout फ़ङ्क्षन् एक्सिक्यूट् जाते सति, कर्सर् इतीदं नूतनपङ्क्तिं प्रति गच्छति ।
05:41 प्रत्येकं C++ स्टेट्मेण्ट् इतीदं सेमिकोलन् इत्यनेन सह समाप्तं भवेत् ।
05:45 अतः इदं अस्याः पङ्क्त्याः अन्ते टङ्कयन्तु ।
05:48 सेमिकोलन् इतीदं स्टेट्मेण्ट् टर्मिनेटर् इव कार्यं करोति । Enter नुदन्तु ।
05:53 अत्र स्पेस् दत्वा “return” space “0” semicolon “;”. इति टङ्कयन्तु ।
06:00 इदं स्टेट्मेण्ट् इण्टीज़र् 0 इतीदं प्रत्यर्पयति ।
06:03 एकम् इण्टीजर् अस्मै फ़ङ्क्षन् इत्यस्मै रिटर्न् कर्तव्यं, यतो हि फ़ङ्क्षन् इतीदं int प्रकारकं वर्तते ।
06:10 return स्टेट्मेण्ट् इतीदं, एक्सिक्यूट् जायमानानां स्टेट्मेण्ट्स् इत्येतेषां समाप्तिं मार्क् करोति ।
06:14 वयं अन्यस्मिन् ट्युटोरियल् मध्ये प्रत्यर्पितमूल्यानां विषयम् अधिकं जानाम ।
06:20 अधुना सञ्चिकां रक्षितुं “Save” गण्डस्योपरि नुदन्तु ।
06:23 पदे पदे सञ्चिकारक्षणं नाम उत्तमाभ्यासः वर्तते ।
06:26 विद्युच्छक्त्याः झटिति गमने इदं भवन्तं रक्षति ।
06:30 एप्लिकेशन् इत्यस्य क्रेश् जायमाने सत्यपि इदं साहाय्यमाचरति ।
06:34 अधुना प्रोग्राम् इतीदं कम्पैल् कुर्मः ।
06:36 अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
06:39 “g++” space “talk.cpp” space hyphen “ o” space “output” इति टङ्कयन्तु ।
06:49 अत्र g++ इतीदं C++ प्रोग्राम्स् इत्येतेषां कम्पैल् करणाय उपयुज्यमानं कम्पैलर् वर्तते ।
06:55 talk.cpp इतीदमस्माकं फ़ैल् नेम् वर्तते ।
06:59 hyphen -o output वदति यत्, एक्सिक्यूट् जायमानं "output" सञ्चिकां प्रति गन्तव्यमिति ।
07:05 अधुना Enter नुदन्तु ।
07:07 वयं पश्यामः यत् प्रोग्राम् इतीदं कम्पैल् जायते ।
07:10 ls space hyphen lrt इति टङ्कणेन, वयं दृष्टुं शक्नुमः यत्, output इतीदं अन्तिमं विरच्यमानं फ़ैल् वर्तते ।
07:19 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः, “./output” (dot slash output) इति टङ्कयन्तु ।
07:24 Enter नुदन्तु ।
07:27 अत्र “Talk to a teacher” इति औट्पुट् प्रदर्श्यते ।
07:30 अधुना वयं जायमानान् कांश्चन सामान्यदोषान् पश्यामः ।
07:35 अस्माकं टेक्स्ट् एडिटर् प्रति आगच्छन्तु ।
07:38 यदि वयं }(क्लोसिङ्ग् कर्लि ब्रेकेट्) त्यजामः तर्हि,
07:42 अधुना सञ्चिकां save कुर्वन्तु ।
07:44 एक्सिक्यूट् कर्तुं टर्मिनल् प्रति आगच्छन्तु ।
07:48 पूर्वम् यथा कृतं तथा कमाण्ड् लिखित्वा प्रोग्राम् इतीदं कम्पैल् तथा रन् च कुर्वन्तु । वयं दोषान् पश्यामः ।
07:55 अस्माकं talk.cpp सञ्चिकायां, 7(सप्तम)पङ्क्तौ एरर् एवं वदन्नस्ति "expected curly bracket at the end of input".
08:07 अधुना अस्माकं टेक्स्ट् एडिटर् प्रति आगच्छन्तु ।
08:09 यथा मया पूर्वमुक्तं तथा, क्लोसिङ्ग् कर्लि ब्रेकेट् इतीदं, main फ़ङ्क्षन् इत्यस्य समाप्तिं मार्क् करोति ।
08:14 अतः ब्रेकेट् इतीदं पुनः स्थापयन्तु । अधुना सञ्चिकां रक्षन्तु ।
08:19 पुनः एक्सिक्यूट् कुर्मः ।
08:21 अप् एरो कीलकनोदनेन पूर्वतन-कमाण्ड् पुनः प्राप्तुं शक्नुवन्ति भवन्तः ।
08:26 मया तदेव कृतमधुना ।
08:30 आम्, इदं कार्यं करोमि ।
08:32 अहमन्यमेकं सामान्यदोषं दर्शयिष्यामि ।
08:35 टेक्स्ट् एडिटर् प्रति आगच्छन्तु ।
08:37 अधुना, यदि वयं std. इतीदं त्यजामः ।
08:41 सञ्चिकां रक्षन्तु ।
08:44 टर्मिनल् प्रति आगच्छन्तु ।
08:46 कम्पैल् कुर्मः ।
08:48 अस्माकं talk.cpp फ़ैल् मध्ये, 3(तृतीयायाम्) तथा 6(षष्ट्यां) पङ्क्त्यां एरर् दृश्यते ।
08:56 तदेवम् - "expected identifier before 'semicolon' " and " 'cout' was not declared in this scope".
09:05 यतो हि cout इतीदं स्टेण्डर्ड् C++ लैब्ररी फ़ङ्क्षन् वर्तते ।
09:09 अपि च सम्पूर्णं C++ लैब्ररी फ़ङ्क्षन् इतीदं std namespace इत्यस्याधः डिफ़ैन् जायते ।
09:15 अतः एरर् आयातम् ।
09:18 अधुना दोषपरिमार्जनं कुर्मः । टेक्स्ट् एडिटर् प्रति आगच्छन्तु । अत्र std इति टङ्कयन्तु ।
09:23 अधुना सेव् कुर्मः ।
09:25 पुनः कम्पैल् कुर्मः ।
09:29 आम् इदं कार्यं कुर्वन्नस्ति । एकं पाठनियोजनम् ।
09:33 भवतां नाम तथा नगरस्य नाम लेखितुम् एकं प्रोग्राम् लिखन्तु ।
09:37 अस्मिन् पाठे वयं 'सिङ्गल् लैन् कमेण्ट्' उपयुक्तवन्तः ।
09:40 अधुना एकं 'मल्टिलैन् कमेण्ट्' दातुं प्रयतताम् ।
09:44 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
09:46 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
09:48 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
09:53 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
09:55 स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति ।
09:58 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
10:01 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
10:10 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
10:14 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
10:20 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
10:25 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
10:28 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14