C-and-Cpp/C3/Strings/Sanskrit
From Script | Spoken-Tutorial
Revision as of 22:24, 9 April 2020 by NaveenBhat (Talk | contribs)
Time | Narration | ||
00:01 | “Strings in c and c++” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । | ||
00:06 | अस्मिन् पाठे वयम् : | ||
00:08 | “String” नाम किम्? | ||
00:10 | “String”इत्यस्य डिक्लेर्-करणम्, | ||
00:13 | “String” इत्यस्य इनिशियलैस्-करणविधानम्, | ||
00:15 | “String” इत्यस्योपयोगस्य कानिचन उदाहरणानि च । | ||
00:17 | सामान्यतः जायमानदोषान् तेषां परिहारोपायञ्च ज्ञास्यामः । | ||
00:22 | पाठस्यास्य ध्वन्यङ्कनायाहं, “Ubuntu Operating System” इत्यस्य 11.04 तमा आवृतिः तथा gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि । | ||
00:35 | स्ट्रिङ्ग् इत्यस्य पीठिकया सह प्रारभामहे । | ||
00:38 | स्ट्रिङ्ग् इतीदमेकं डेटा ऐटम् वर्तते । अत नाना केरेक्टर्स् इतीमानि अनुक्रमं संयोजितानि भवेयुः । | ||
00:44 | स्ट्रिङ्ग् इत्यस्य परिमाणं सदा, स्ट्रिङ्ग् इत्यस्य दैर्घ्यं युत एकं (length+1) वर्तते । | ||
00:49 | अधुना स्ट्रिङ्ग् डिक्लेर् करणविषयं वदामि । | ||
00:52 | अस्य सिण्टेक्स् एवं वर्तते : | ||
00:55 | char, name of the string, अपि च size | ||
00:59 | char इतीदं डेटाटैप् वर्तते, string name इतीदं स्ट्रिङ्ग् इत्यस्मै अस्माभिः दीयमानं नाम् , अपि चात्र वयं परिमाणं दातुं शक्नुमः । | ||
01:06 | तद्यथा, वयमत्र केरेक्टर् स्ट्रिङ्ग् इतीदं 10 size इत्यनेन सह डिक्लेर् कृतवन्तः । | ||
01:13 | एकमुदाहरणं पश्याम । | ||
01:15 | अहं प्रोग्राम् इतीदं टङ्कितवानस्मि । तदुद्घाटयामि । | ||
01:19 | अस्माकं सञ्चिकायाः नाम string.c इत्यवलोक्यताम् । | ||
01:23 | अस्मिन् प्रोग्राम् मध्ये, वयं उपयोक्तृणा एकं शब्दम् इन्पुट् रूपेण प्राप्य तत् प्रिण्ट् कुर्मः । | ||
01:29 | अधुना कोड् विवरिष्यामि । | ||
01:32 | इमानि अस्माकं हेडर् फ़ैल्स् वर्तन्ते । | ||
01:34 | अत्र, string.h इतीदं, स्ट्रिङ्ग् इत्यस्योपयोगाय आवश्यकानि स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्, फ़ङ्क्षन् तथा कोन्स्टेण्ट्स् प्राप्तवदस्ति । | ||
01:43 | यदा वयं स्ट्रिङ्ग् इतीदमुपयुञ्ज्महे तदा इदं हेडर् फ़ैल् संयोजनीयम् अस्माभिः । | ||
01:47 | इदमस्माकं मेन् फ़ङ्क्षन् वर्तते । | ||
01:49 | वयमत्र, 30 सैज़् युतं strname इति स्ट्रिङ्ग् डिक्लेर् कुर्वन्तः स्मः । | ||
01:55 | वयमत्र एकं शब्दं यूसर् तः प्राप्तवन्तः स्मः । | ||
01:58 | स्ट्रिङ्ग् इतीदं रीड् कर्तुं, %s इति फ़ोर्मेट् स्पेसिफ़ैयर् इत्यनेन सह scanf इतीदं उपयोक्तुं शक्नुमः । | ||
02:05 | स्ट्रिङ्ग् इत्यनेन सह स्पेस् संयोजितुं, वयं केरेट् सैन् अपि च /n इतीदम् उपयुञ्ज्महे । | ||
02:11 | पश्चाद्वयं स्ट्रिङ्ग् मुद्रापयामः । | ||
02:13 | अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते । | ||
02:16 | अधुना save नुदन्तु । | ||
02:18 | प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । | ||
02:20 | भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु । | ||
02:30 | कम्पैल् कर्तुं, gcc space string.c space hyphen o space str इति टङ्कयित्वा Enter नुदन्तु । | ||
02:40 | एक्सिक्यूट् कर्तुं, ./str इति टङ्कयन्तु । | ||
02:43 | अधुना Enter नुदन्तु । | ||
02:46 | Enter the string इत्यत्र दृश्यते । | ||
02:49 | अहं , Talk To A Teacher इति टङ्कयामि । | ||
02:56 | अधुना Enter नुदन्तु । | ||
02:58 | The string is Talk To A Teacher इति औट्पुट् दृश्यते । | ||
03:03 | अधुना स्लैड् प्रति आगच्छाम । | ||
03:06 | एतावद्वयं स्ट्रिङ्ग् डिक्लरेशन् विषयस्य चर्चां कृतवन्तः । | ||
03:10 | अधुना स्ट्रिङ्ग् इत्यस्य इनिशियलैसेशन् कथमिति चर्चां कुर्मः । | ||
03:13 | अस्य सिण्टेक्स् एवं वर्तते : | ||
03:16 | char var_name[size] = string | ||
03:20 | तद्यथा, वयमत्र, 10 सैज़् युतं, name इति केरेक्टर् स्ट्रिङ्ग् डिक्लेर् कृतवन्तः । priya इतीदमस्माकं स्ट्रिङ्ग् वर्तते । | ||
03:28 | अन्यदेकं सिण्टेक्स् एवं वर्तते : | ||
03:31 | char var_name[ ] = {'S', 't', 'r', 'i', 'n', 'g'} | ||
03:36 | तद्यथा, char names[10] = within single quotes priya | ||
03:42 | अहमधुना, प्रथमं सिण्टेक्स् कथमुपयोक्तव्यम् इति उदाहरणेन सह दर्शयिष्यामि । | ||
03:48 | एडिटर् प्रति आगच्छन्तु । वयमेकम् मोडेल् एक्साम्पल् पश्याम । | ||
03:52 | आदौ, भवतां कीबोर्ड् मध्ये shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु । | ||
03:58 | अधुना सञ्चिकां stringinitialize इति नाम्ना सेव् कुर्वन्तु । | ||
04:03 | अधुना save नुदन्तु । | ||
04:06 | अधुना स्ट्रिङ्ग् इतीदम् इनिशियलैस् कुर्मः । | ||
04:08 | अतः पञ्चमपङ्क्तौ, is equal to inside double quotes Spoken Tutorial इति टङ्कयन्तु । | ||
04:20 | अधुना save नुदन्तु । | ||
04:22 | वयमधुना स्ट्रिङ्ग् इतीदं प्रिण्ट् कुर्मः इत्यतः, इमे पङ्क्ती निष्कासयन्तु । | ||
04:27 | save नुदन्तु । | ||
04:30 | एक्सिक्यूट् कुर्मः । अस्माकं टर्मिनल् प्रति आगच्छन्तु । | ||
04:33 | कम्पैल् कर्तुम्, gcc space stringinitialize.c space hyphen o space str2 इति टङ्कयन्तु । | ||
04:44 | string.c सञ्चिकायाः औट्पुट् पेरामीटर् इतीदम् ओवर् रैन् न भवेदित्याशास्य अत्र str2 इति लिखितवन्तः । | ||
04:54 | Enter नुदन्तु । | ||
04:56 | एक्सिक्यूट् कर्तुं, ./str2 इति टङ्कयित्वा Enter नुदन्तु । | ||
05:00 | The string is Spoken-Tutorial इति औट्पुट् दृश्यते । | ||
05:06 | अधुना अस्माकमागमिष्यमाणान् सामान्यदोषान् पश्याम । | ||
05:09 | अस्माकं प्रोग्राम् प्रति आगच्छामः । | ||
05:11 | अत्र String इत्यस्य स्थाने sting इति लिखितवन्तः इति भावयामः । | ||
05:16 | अधुना save नुदामः । | ||
05:18 | एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । | ||
05:21 | पूर्ववत् कम्पैल् कुर्वन्तु । | ||
05:23 | वयमेकम् एरर् पश्यामः । | ||
05:25 | sting.h: no such file or directory | ||
05:28 | compilation terminated. | ||
05:30 | प्रोग्राम् प्रति आगच्छन्तु । | ||
05:32 | अस्य दोषस्य कारणमस्ति यत्, sting.h इति हेडर् फ़ैल्, कम्पैलर् द्वारा न अन्विष्टम् । | ||
05:39 | अतः इदम् एरर् दृश्यते । | ||
05:41 | इदम् एरर् सम्यक्कुर्मः । | ||
05:43 | अत्र, r टङ्कयन्तु । | ||
05:45 | अधुना save नुदन्तु । | ||
05:46 | पुनः एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । | ||
05:50 | पूर्ववत् कम्पैल् तथा एक्सिक्यूट् च कुर्वन्तु । | ||
05:54 | सत्यम्, इदं कार्यं कुर्वन्नस्ति । | ||
05:56 | अधुना अन्यमेकं सामान्यम् एरर् पश्याम । | ||
05:59 | अस्माकं प्रोग्राम् प्रति आगच्छन्तु । | ||
06:02 | अत्र, char इत्यस्य स्थाएन् int इति टङ्कितमिति भावयामः । | ||
06:06 | अधुना, save नुदन्तु । किं भविष्यतीति पश्याम । | ||
06:09 | अस्माकं टर्मिनल् प्रति आगच्छन्तु । | ||
06:11 | प्रोम्प्ट् इतीदं क्लियर् कुर्मः । | ||
06:15 | पूर्ववत् कम्पैल् कुर्मः । | ||
06:17 | वयमेकम् एरर् पश्यामः । | ||
06:19 | Wide character array initialized from non-wide string. | ||
06:24 | format %s expects argument of type 'char, ' but argument 2 has type 'int'. | ||
06:32 | अस्माकं प्रोग्राम् प्रति आगच्छन्तु । | ||
06:36 | यतो हि वयं %s इतीदं स्ट्रिङ्ग् इत्यस्मै, फ़ोर्मेट् स्पेसिफ़ैयर् रूपेण उपयुक्तवन्तः । | ||
06:42 | तथा च इदं वयं integer डेटाटैप् रूपेण इनिशियलैस् कुर्वन्तः स्मः । | ||
06:47 | इदम् दोषं पर्रिमार्जयामः । | ||
06:49 | अत्र char इति टङ्कयन्तु । | ||
06:51 | save नुदन्तु । | ||
06:53 | एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । | ||
06:56 | पूर्ववत् कम्पैल् कृत्वा एक्सिक्यूट् कुर्वन्तु । | ||
07:00 | सत्यम् । इदं कार्यं करोति । | ||
07:03 | इदमेव प्रोग्राम् c++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम । | ||
07:08 | प्रोग्राम् प्रति आगच्छन्तु । | ||
07:11 | अस्माकं string.c फ़ैल् उद्घाटयाम । | ||
07:15 | वयमत्र कोड् परिवर्तनं कुर्मः । | ||
07:18 | आदौ भवतां कीबोर्ड् मध्ये shift, Ctrl तथा s कीलकानि युगपन्नुदन्तु । | ||
07:25 | अधुना सञ्चिकां .cpp इति एक्स्टेन्शन् इत्यनेन सह सेव् कुर्मः । | ||
07:29 | अधुना save नुदन्तु । | ||
07:33 | अधुना हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः । | ||
07:38 | using स्टेट्मेण्ट् संयोजयाम । | ||
07:43 | अधुना save नुदन्तु । | ||
07:47 | अधुना डिक्लरेशन् निष्कास्याम । | ||
07:50 | अपि च स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कुर्मः । | ||
07:53 | string space strname semicolon इति टङ्कयन्तु । | ||
07:59 | अधुना save नुदन्तु । | ||
08:02 | printf स्टेट्मेण्ट् इत्यस्य स्थाने cout स्टेट्मेण्ट् टङ्कयन्तु । | ||
08:07 | अत्र क्लोसिङ्ग् ब्रेकेट् उद्घाटयन्तु । | ||
08:11 | scanf स्टेट्मेण्ट् निष्कास्य , getline opening closing bracket inside the brackets cin coma strname ( getline(cin,strname) ) इति टङ्कयन्तु । | 08:24 | अन्ते सेमिकोलन् टङ्कयन्तु । |
08:28 | अधुना पुनः printf स्टेट्मेण्ट् स्थाने cout स्टेट्मेण्ट् लिखन्तु । | ||
08:36 | फ़ोर्मेट् स्पेसिफ़ैयर् तथा स्लेश् एन् च उद्घाटयन्तु । | ||
08:40 | अधुना comma उद्घाटयन्तु । | ||
08:42 | द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयित्वा, अत्र ब्रेकेट्स् उद्घाटयन्तु । | ||
08:49 | द्वे एङ्गल् ब्रेकेट्स् टङ्कयित्वा डबल् क्वोट्स् अन्तः /n टङ्कयन्तु । | ||
08:54 | अपि च save नुदन्तु । | ||
08:58 | अवयमत्र strname इत्येकं स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कृतवन्तः । | ||
09:03 | c++ मध्ये वयं फ़ोर्मेट् स्पेसिफ़ैयर् नोपयुञ्ज्महे इत्यतः, strname इतीदं स्ट्रिङ्ग् वेरियेबल् इति कम्पैलर् इत्यनेन ज्ञातं स्यात् । | ||
09:13 | अत्र केरेक्टर्स् अनुक्रमं प्राप्तुं getline इतीदमुपयुञ्ज्महे । | ||
09:18 | इदं तान् स्ट्रिङ्ग् रूपेण स्थापयति । | ||
09:22 | अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । | ||
09:27 | प्रोम्प्ट् इतीदं क्लियर् कुर्मः । | ||
09:30 | कम्पैल् कर्तुम्, g++ space string.cpp space hyphen o space str3 इति टङ्कयित्वा Enter नुदन्तु । | ||
09:41 | एक्सिक्यूट् कर्तुं, ./str3 इति टङ्कयित्वा, | ||
09:46 | Enter नुदन्तु । Enter the string इति दृश्यते । | ||
09:50 | अहं Talk To A Teacher इति ददामि । | ||
09:55 | अधुना, Enter नुदामि । | ||
09:57 | The string is Talk To A Teacher इति औट्पुट् दृश्यते । | ||
10:03 | अत्रापि औट्पुट् c प्रोग्राम् कोड् इत्यस्य औट्पुट्-वदेव वर्तते । | ||
10:07 | अधुना स्लैड् प्रति आगच्छन्तु । | ||
10:10 | सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः : | ||
10:13 | स्ट्रिङ्ग्स् तथा स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्, | ||
10:16 | तद्यथा : char strname[30] | ||
10:20 | स्ट्रिङ्ग् इत्यस्य इनिशियलैसेशन् । तद्यथा : char strname[30] = “Talk To A Teacher” | ||
10:26 | द्वितीयं सिण्टेक्स् इतीदमुपयुज्य स्ट्रिङ्ग् इतीदं प्रिण्ट् कर्तुं, असैन्मेण्ट् रूपेण एकं प्रोग्राम् लिखन्तु । | ||
10:34 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । | ||
10:37 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । | ||
10:40 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । | ||
10:44 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति । | ||
10:49 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । | ||
10:54 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । | ||
11:01 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । | ||
11:04 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । | ||
11:12 | अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । | ||
11:16 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । | ||
11:20 | धन्यवादाः । |