C-and-Cpp/C3/Strings/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 “Strings in C and C++” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् :
00:08 “String” नाम किम्?
00:10 “String” इत्यस्य डिक्लेर्-करणम्,
00:13 “String” इत्यस्य इनिशियलैस्-करणविधानम्,
00:15 “String” इत्यस्योपयोगस्य कानिचन उदाहरणानि च ।
00:17 सामान्यतः जायमानदोषान् तेषां परिहारोपायञ्च ज्ञास्यामः ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहं, “Ubuntu Operating System” इत्यस्य 11.04 तमा आवृतिः तथा gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।
00:35 स्ट्रिङ्ग् इत्यस्य पीठिकया सह प्रारभामहे ।
00:38 स्ट्रिङ्ग् इतीदमेकं डेटा ऐटम् वर्तते । अत नाना केरेक्टर्स् इतीमानि अनुक्रमं संयोजितानि भवेयुः ।
00:44 स्ट्रिङ्ग् इत्यस्य परिमाणं सदा, स्ट्रिङ्ग् इत्यस्य दैर्घ्यं युत एकं (length+1) वर्तते ।
00:49 अधुना स्ट्रिङ्ग् डिक्लेर् करणविषयं वदामि ।
00:52 अस्य सिण्टेक्स् एवं वर्तते :
00:55 char, name of the string, अपि च size
00:59 char इतीदं डेटाटैप् वर्तते, string name इतीदं स्ट्रिङ्ग् इत्यस्मै अस्माभिः दीयमानं नाम , अपि चात्र वयं परिमाणं दातुं शक्नुमः ।
01:06 तद्यथा, वयमत्र केरेक्टर् स्ट्रिङ्ग् इतीदं 10 size इत्यनेन सह डिक्लेर् कृतवन्तः ।
01:13 एकमुदाहरणं पश्याम ।
01:15 अहं प्रोग्राम् इतीदं टङ्कितवानस्मि । तदुद्घाटयामि ।
01:19 अस्माकं सञ्चिकायाः नाम string.c इत्यवलोक्यताम् ।
01:23 अस्मिन् प्रोग्राम् मध्ये, वयं उपयोक्तृणा एकं शब्दम् इन्पुट् रूपेण प्राप्य तत् प्रिण्ट् कुर्मः ।
01:29 अधुना कोड् विवरिष्यामि ।
01:32 इमानि अस्माकं हेडर् फ़ैल्स् वर्तन्ते ।
01:34 अत्र, string.h इतीदं, स्ट्रिङ्ग् इत्यस्योपयोगाय आवश्यकानि स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्, फ़ङ्क्षन् तथा कोन्स्टेण्ट्स् प्राप्तवदस्ति ।
01:43 यदा वयं स्ट्रिङ्ग् इतीदमुपयुञ्ज्महे तदा इदं हेडर् फ़ैल् संयोजनीयम् अस्माभिः ।
01:47 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
01:49 वयमत्र, 30 सैज़् युतं strname इति स्ट्रिङ्ग् डिक्लेर् कुर्वन्तः स्मः ।
01:55 वयमत्र एकं शब्दं यूसर् तः प्राप्तवन्तः स्मः ।
01:58 स्ट्रिङ्ग् इतीदं रीड् कर्तुं, %s इति फ़ोर्मेट् स्पेसिफ़ैयर् इत्यनेन सह scanf इतीदं उपयोक्तुं शक्नुमः ।
02:05 स्ट्रिङ्ग् इत्यनेन सह स्पेस् संयोजितुं, वयं केरेट् सैन् अपि च \n इतीदम् उपयुञ्ज्महे ।
02:11 पश्चाद्वयं स्ट्रिङ्ग् मुद्रापयामः ।
02:13 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:16 अधुना save नुदन्तु ।
02:18 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:20 भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
02:30 कम्पैल् कर्तुं, gcc space string.c space hyphen o space str इति टङ्कयित्वा Enter नुदन्तु ।
02:40 एक्सिक्यूट् कर्तुं, ./str इति टङ्कयन्तु ।
02:43 अधुना Enter नुदन्तु ।
02:46 Enter the string इत्यत्र दृश्यते ।
02:49 अहं , Talk To A Teacher इति टङ्कयामि ।
02:56 अधुना Enter नुदन्तु ।
02:58 The string is Talk To A Teacher इति औट्पुट् दृश्यते ।
03:03 अधुना स्लैड् प्रति आगच्छाम ।
03:06 एतावद्वयं स्ट्रिङ्ग् डिक्लरेशन् विषयस्य चर्चां कृतवन्तः ।
03:10 अधुना स्ट्रिङ्ग् इत्यस्य इनिशियलैसेशन् कथमिति चर्चां कुर्मः ।
03:13 अस्य सिण्टेक्स् एवं वर्तते :
03:16 char var_name[size] = string
03:20 तद्यथा, वयमत्र, 10 सैज़् युतं, name इति केरेक्टर् स्ट्रिङ्ग् डिक्लेर् कृतवन्तः । priya इतीदमस्माकं स्ट्रिङ्ग् वर्तते ।
03:28 अन्यदेकं सिण्टेक्स् एवं वर्तते :
03:31 char var_name[ ] = {'S', 't', 'r', 'i', 'n', 'g'}
03:36 तद्यथा, char names[10] = within single quotes priya
03:42 अहमधुना, प्रथमं सिण्टेक्स् कथमुपयोक्तव्यम् इति उदाहरणेन सह दर्शयिष्यामि ।
03:48 एडिटर् प्रति आगच्छन्तु । वयमेकम् मोडेल् एक्साम्पल् पश्याम ।
03:52 आदौ, भवतां कीबोर्ड् मध्ये shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
03:58 अधुना सञ्चिकां stringinitialize इति नाम्ना सेव् कुर्वन्तु ।
04:03 अधुना save नुदन्तु ।
04:06 अधुना स्ट्रिङ्ग् इतीदम् इनिशियलैस् कुर्मः ।
04:08 अतः पञ्चमपङ्क्तौ, is equal to inside double quotes Spoken Tutorial इति टङ्कयन्तु ।
04:20 अधुना save नुदन्तु ।
04:22 वयमधुना स्ट्रिङ्ग् इतीदं प्रिण्ट् कुर्मः इत्यतः, इमे पङ्क्ती निष्कासयन्तु ।
04:27 save नुदन्तु ।
04:30 एक्सिक्यूट् कुर्मः । अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
04:33 कम्पैल् कर्तुम्, gcc space stringinitialize.c space hyphen o space str2 इति टङ्कयन्तु ।
04:44 string.c सञ्चिकायाः औट्पुट् पेरामीटर् इतीदम् ओवर्रैड् न भवेदित्याशास्य अत्र str2 इति लिखितवन्तः ।
04:54 Enter नुदन्तु ।
04:56 एक्सिक्यूट् कर्तुं, ./str2 इति टङ्कयित्वा Enter नुदन्तु ।
05:00 The string is Spoken-Tutorial इति औट्पुट् दृश्यते ।
05:06 अधुना अस्माकमागमिष्यमाणान् सामान्यदोषान् पश्याम ।
05:09 अस्माकं प्रोग्राम् प्रति आगच्छामः ।
05:11 अत्र String इत्यस्य स्थाने sting इति लिखितवन्तः इति भावयामः ।
05:16 अधुना save नुदामः ।
05:18 एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
05:21 पूर्ववत् कम्पैल् कुर्वन्तु ।
05:23 वयमेकम् एरर् पश्यामः ।
05:25 sting.h: no such file or directory
05:28 compilation terminated.
05:30 प्रोग्राम् प्रति आगच्छन्तु ।
05:32 अस्य दोषस्य कारणमस्ति यत्, sting.h इति हेडर् फ़ैल्, कम्पैलर् द्वारा न अन्विष्टम् ।
05:39 अतः इदम् एरर् दृश्यते ।
05:41 इदम् एरर् सम्यक्कुर्मः ।
05:43 अत्र, r टङ्कयन्तु ।
05:45 अधुना save कुर्वन्तु ।
05:46 पुनः एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
05:50 पूर्ववत् कम्पैल् तथा एक्सिक्यूट् च कुर्वन्तु ।
05:54 सत्यम्, इदं कार्यं कुर्वन्नस्ति ।
05:56 अधुना अन्यमेकं सामान्यम् एरर् पश्याम ।
05:59 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
06:02 अत्र, char इत्यस्य स्थानॆ int इति टङ्कितमिति भावयामः ।
06:06 अधुना, save नुदन्तु । किं भविष्यतीति पश्याम ।
06:09 अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
06:11 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
06:15 पूर्ववत् कम्पैल् कुर्मः ।
06:17 वयमेकम् एरर् पश्यामः ।
06:19 Wide character array initialized from non-wide string.
06:24 format %s expects argument of type 'char, ' but argument 2 has type 'int'.
06:32 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
06:36 यतो हि वयं %s इतीदं स्ट्रिङ्ग् इत्यस्मै, फ़ोर्मेट् स्पेसिफ़ैयर् रूपेण उपयुक्तवन्तः ।
06:42 तथा च इदं वयं integer डेटाटैप् रूपेण इनिशियलैस् कुर्वन्तः स्मः ।
06:47 इदम् दोषं पर्रिमार्जयामः ।
06:49 अत्र char इति टङ्कयामि ।
06:51 save नुदन्तु ।
06:53 एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
06:56 पूर्ववत् कम्पैल् कृत्वा एक्सिक्यूट् कुर्वन्तु ।
07:00 सत्यम् । इदं कार्यं करोति ।
07:03 इदमेव प्रोग्राम् C++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।
07:08 प्रोग्राम् प्रति आगच्छन्तु ।
07:11 अस्माकं string.c फ़ैल् उद्घाटयाम ।
07:15 वयमत्र कोड् परिवर्तनं कुर्मः ।
07:18 आदौ भवतां कीबोर्ड् मध्ये shift, Ctrl तथा s कीलकानि युगपन्नुदन्तु ।
07:25 अधुना सञ्चिकां .cpp इति एक्स्टेन्शन् इत्यनेन सह सेव् कुर्मः ।
07:29 अधुना save कुर्वन्तु ।
07:33 अधुना हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः ।
07:38 using स्टेट्मेण्ट् संयोजयाम ।
07:43 अधुना save नुदन्तु ।
07:47 अधुना डिक्लरेशन् निष्कास्याम ।
07:50 अपि च स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कुर्मः ।
07:53 string space strname semicolon इति टङ्कयन्तु ।
07:59 अधुना save नुदन्तु ।
08:02 printf स्टेट्मेण्ट् इत्यस्य स्थाने cout स्टेट्मेण्ट् टङ्कयन्तु ।
08:07 अत्र क्लोसिङ्ग् ब्रेकेट् उद्घाटयन्तु ।
08:11 scanf स्टेट्मेण्ट् निष्कास्य , getline opening closing bracket inside the brackets cin coma strname ( getline(cin,strname) ) इति टङ्कयन्तु ।
08:24 अन्ते सेमिकोलन् टङ्कयन्तु ।
08:28 अधुना पुनः printf स्टेट्मेण्ट् स्थाने cout स्टेट्मेण्ट् लिखन्तु ।
08:36 फ़ोर्मेट् स्पेसिफ़ैयर् तथा स्लेश् एन् च उद्घाटयन्तु ।
08:40 अधुना comma उद्घाटयन्तु ।
08:42 द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयित्वा, अत्र ब्रेकेट्स् उद्घाटयन्तु ।
08:49 द्वे एङ्गल् ब्रेकेट्स् टङ्कयित्वा डबल् क्वोट्स् अन्तः /n टङ्कयन्तु ।
08:54 अपि च save नुदन्तु ।
08:58 अवयमत्र strname इत्येकं स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कृतवन्तः ।
09:03 C++ मध्ये वयं फ़ोर्मेट् स्पेसिफ़ैयर् नोपयुञ्ज्महे इत्यतः, strname इतीदं स्ट्रिङ्ग् वेरियेबल् इति कम्पैलर् इत्यनेन ज्ञातं स्यात् ।
09:13 अत्र केरेक्टर्स् अनुक्रमं प्राप्तुं getline इतीदमुपयुञ्ज्महे ।
09:18 इदं तान् स्ट्रिङ्ग् रूपेण स्थापयति ।
09:22 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
09:27 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
09:30 कम्पैल् कर्तुम्, g++ space string.cpp space hyphen o space str3 इति टङ्कयित्वा Enter नुदन्तु ।
09:41 एक्सिक्यूट् कर्तुं, ./str3 इति टङ्कयित्वा,
09:46 Enter नुदन्तु । Enter the string इति दृश्यते ।
09:50 अहं Talk To A Teacher इति ददामि ।
09:55 अधुना, Enter नुदामि ।
09:57 The string is Talk To A Teacher इति औट्पुट् दृश्यते ।
10:03 अत्रापि औट्पुट् C प्रोग्राम् कोड् इत्यस्य औट्पुट्-वदेव वर्तते ।
10:07 अधुना स्लैड् प्रति आगच्छन्तु ।
10:10 सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः :
10:13 स्ट्रिङ्ग्स् तथा स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्,
10:16 तद्यथा : char strname[30]
10:20 स्ट्रिङ्ग् इत्यस्य इनिशियलैसेशन् । तद्यथा : char strname[30] = “Talk To A Teacher”
10:26 द्वितीयं सिण्टेक्स् इतीदमुपयुज्य स्ट्रिङ्ग् इतीदं प्रिण्ट् कर्तुं, असैन्मेण्ट् रूपेण एकं प्रोग्राम् लिखन्तु ।
10:34 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
10:37 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
10:40 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
10:44 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
10:49 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
10:54 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
11:01 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
11:04 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
11:12 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
11:16 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
11:20 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14