Moodle-Learning-Management-System/C2/Getting-Ready-for-Moodle-Installation/Sanskrit
From Script | Spoken-Tutorial
Revision as of 22:15, 23 February 2020 by NaveenBhat (Talk | contribs)
Time | Narration |
00:01 | Getting ready for Moodle installation इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:07 | पाठेऽस्मिन् वयं, Moodle इत्यस्य इन्स्टालेशन् कर्तुं किमावश्यकमिति ज्ञास्यामः । |
00:14 | लोकल् होस्ट् मध्ये पेकेज् परिशीलनं तथा डेटाबेस् सेट् अप् करणञ्च ज्ञास्यामः । |
00:22 | पाठस्यास्य ध्वन्यङ्कनायाहम् :
Ubuntu Linux OS 16.04, |
00:30 | XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP अपि च Firefox वेब्-ब्रौसर् इतीमन्युपयुञ्जे । |
00:42 | भवदभीष्टं वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः । |
00:46 | भवतां सिस्टम् मध्ये Moodle 3.3 इन्स्टाल् कर्तुं, भवन्तः अधोदर्शितानि सपोर्ट् कर्तुं यन्त्रं प्राप्तवन्तः स्युः - |
00:52 | Apache 2.x (तदधिका वा आवृत्तिः),
MariaDB 5.5.30 (तदधिका वा आवृत्तिः), अपि च PHP 5.4.4 + (तदधिका वा आवृत्तिः) |
01:08 | भवन्तः पूर्वतन आवृत्तिं प्राप्तवन्तः चेत्, अग्रे गमनात् प्राक् तेषां अन्-इन्स्टाल् करणमुत्तमम् । |
01:16 | MariaDB इतीदमेकं शीघ्रं वर्धमानं सत् ओपन् सोर्स् डेटाबेस् वर्तते । |
01:21 | इदं MySQL डेटाबेस् इत्यस्य पर्यायः वर्तते । |
01:26 | Web-server distributions भवद्भ्यः Apache, MariaDB तथा PHP इतीमानि युगपद्ददति । |
01:34 | इमानि पृथक् पृथक् अथवा XAMPP, WAMPP अथवा LAMPP सदृशानि Web server distribution उपयुज्य इन्स्टाल् कर्तुम् अर्हन्ति । |
01:44 | अहं मम यन्त्रे XAMPP इतीदम् इन्स्टाल् कृतवानस्मि । |
01:49 | मम यन्त्रे XAMPP रन् जायमानमस्ति वा इति परिशीलनं भवेत् । |
01:54 | वेब् ब्रौसर् मध्ये एवं टङ्कयन्तु : http colon double slash 127 dot 0 dot 0 dot 1 तथा Enter नुदन्तु च । |
02:08 | इदम् Unable to connect इति सन्देशं दर्शयति । |
02:12 | अस्यार्थोऽस्ति यत् XAMPP सेवा रन् जायमानं नास्ति । |
02:16 | अतः अस्माभिः XAMPP सेवायाः आरम्भः करणीयः । |
02:20 | Ctrl + Alt + T कीलकानि युगपन्नोदनेन टर्मिनल् उद्घाटयन्तु । |
02:26 | sudo space slash opt slash lampp slash lampp space start इति टङ्कयित्वा XAMPP इतीदमुद्घाटयन्तु । |
02:38 | यदा पृच्छ्यते तदा administrative पास्वर्ड् दत्वा Enter नुदन्तु । |
02:44 | भवद्भिः एतादृशसन्देशः प्राप्तश्चेत्,
Starting XAMPP for Linux …. XAMPP: Starting Apache...ok. XAMPP: Starting MySQL...ok. XAMPP: Starting ProFTPD...ok. |
02:59 | XAMPP इतीदं भवतां व्यवस्थायां इन्स्टाल् जातम् अपि च भवन्तः सर्वीस् इत्यस्यारम्भं कृतवन्तः इत्यर्थः । |
03:05 | कृपया अवलोक्यताम्, XAMPP 5.6.30, MySQL इत्यस्य स्थाने MariaDB इत्यस्योपयोगं करोति । |
03:13 | कमाण्ड्स् तथा टूल्स् च उभयत्र समानानि वर्तन्ते । |
03:17 | वयं ब्रौसर् गत्वा पृष्टं रीफ़्रेश् कुर्मः । |
03:21 | वयमधुना XAMPP स्क्रीन् दृष्टुं शक्नुमः । |
03:25 | टर्मिनल् मध्ये भवद्भिः Command not found इति सन्देशः प्राप्यते । |
03:30 | अस्यार्थः भवतां यन्त्रे XAMPP इन्स्टाल् न जातम् । |
03:34 | एवञ्चेत् अस्मिन् जालपुटस्य PHP and MySQL ततौ, XAMPP Installation इति ट्युटोरियल् पश्यन्तु । |
03:42 | ट्युटोरियल् मध्ये उक्ताः सूचनाः अनुसरन्तु । XAMPP इत्यस्य सद्यःकालीनावृत्तिम् इन्स्टाल् कुर्वन्तु । |
03:49 | वयं 'टर्मिनल्' प्रति गच्छाम । |
03:52 | XAMPP सेवाम् आरब्धुम् उपरितन स्तरान् अनुसरन्तु । |
03:57 | अधुना अस्माकं सिस्टम् मध्ये PHP इत्यस्य आवृत्तेः परीक्षां कुर्मः । |
04:02 | 'टर्मिनल्' मध्ये एवं टङ्कयन्तु : sudo space slash opt slash lampp slash bin slash php space hyphen v अपि च Enter नुदन्तु । |
04:17 | पृष्टश्चेत् administrative पास्वर्ड् दत्वा Enter नुदन्तु । |
04:23 | मम PHP इत्यस्य आवृत्तिः 5.6.30 वर्तते । |
04:29 | PHP इत्यस्य इन्स्टाल् जातम् इति सन्देशः दृश्यते । |
04:34 | भवद्भिः 5.4.4 इत्यस्मात् न्यूनतमा आवृत्तिः प्राप्ता चेत् भवन्तः XAMPP इत्यस्य सद्यःकालीनावृत्तेः इन्स्टाल् कुर्युः । |
04:42 | पश्चात् अस्माकं सिस्टम् मध्ये MariaDB आवृत्तिं परीक्षामहे । |
04:48 | 'टर्मिनल्' मध्ये एवं टङ्कयन्तु : sudo space slash opt slash lampp slash bin slash mysql space hyphen v तथा Enter नुदन्तु च । |
05:03 | पृष्टश्चेत् administrative पास्वर्ड् दत्वा Enter नुदन्तु च । |
05:08 | मम तु MariaDB इत्यस्य 10.1.21 तमा आवृत्तिः वर्तते । |
05:14 | भवद्भिः 5.5.30 इत्यस्मात् न्यूनतमा आवृत्तिः मिलितञ्चेत् भवन्तः XAMPP इत्यस्य सद्यःकालीनावृत्तिः इन्स्टाल् कुर्युः । |
05:23 | अवलोक्यताम् : PHP तथा डेटाबेस् इत्यनयोः आवृत्तीः परीक्षितुं भवतां XAMPP रन् जायमानं स्यात् । |
05:29 | अधुना 'कमाण्ड् प्रोम्प्ट्' परिवर्तितमिति अवलोकयन्तु । |
05:34 | MariaDB इत्यस्माय् बहिरागन्तुं (exit), backslash q इतीदं टङ्कयित्वा Enter नुदन्तु । |
05:40 | अत्र यथा दर्शितं तथा भवद्भिः दोषः प्राप्यते । |
05:44 | “An apache daemon is already running” इति सन्देशः भवद्भिः प्राप्यते । |
05:50 | अस्यार्थः, आदिमं स्क्रिप्ट् XAMPP-Apache इत्यस्यारम्भं नाकरोत् । |
05:55 | अत्र अन्यत् ‘अपाचे इन्स्टन्स्’ (Apache instance) रन् जायमानमस्ति इति सूचयति । |
06:01 | XAMPP इत्यस्य प्रारम्भाय, भवन्तः 'डीमन्' (daemon) इतीदं विरमयेरन् । |
06:06 | Apache इत्यस्मै विरामं दातुं कमाण्ड् एवमस्ति :
sudo /etc/init.d/apache2 space stop |
06:19 | MySQL daemon failed to start इति सन्देशः प्राप्येत । |
06:25 | अस्यार्थः आदिमं स्क्रिप्ट् MySQL इत्यस्यारम्भं नाकरोत् । |
06:30 | अत्र अन्यत् ‘डेटाबेस् इन्स्टेन्स्’ (database instance) रन् जायमानमस्तीति इदं सूचयति । |
06:36 | XAMPP इत्यस्यारम्भाय, भवद्भिः 'डीमन्' (daemon) इत्यस्मै विरामः दातव्यः । |
06:41 | इदं कमाण्ड् MySQL इतीदं विरामयते : sudo space /etc/init.d/mysql space stop |
06:54 | सर्वान् दोषान् परिहृत्य XAMPP रन् भवितुम् अवकाशं कल्पयन्तु । |
06:59 | पश्चात् भवतां वेब्-ब्रौसर् प्रत्यागत्य पृष्टं रिफ़्रेश् कुर्वन्तु । |
07:03 | भाषाविकल्पः पृष्टश्चेत्, English इतीदं चिन्वन्तु । |
07:08 | अधुना एकः उपयोक्ता संयोजनीयः । तथा मूडल् इत्यस्मै डेटाबेस् निर्मातव्यम् । |
07:14 | इदं phpmyadmin मध्ये कुर्मः । इदं MariaDB इत्यस्मै ग्राफ़िकल् यूसर् इण्टर्फ़ेस् वर्तते । |
07:21 | इदं XAMPP इत्यस्य इन्स्टालेशन् इत्यनेन सह आगच्छति । |
07:25 | वयं वेब् ब्रौसर् प्रति आगच्छाम । |
07:28 | XAMPP पृष्टे, उपरितन मेन्यू मध्ये, phpMyadmin उपरि नुदन्तु । |
07:34 | उपरितन मेन्यु मध्ये, User Accounts इतीदं नुत्वा Add User Account उपरि नुदन्तु । |
07:42 | अत्र उद्घाटिते नूतनगवाक्षे, भवदभीष्टं username यच्छन्तु । |
07:48 | मम username इतीदं, moodle hyphen st इति टङ्कयामि । |
07:53 | Host ड्रोप्-डौन् लिस्ट् तः, Local इतीदं चिन्वन्तु । |
07:57 | Password टेक्स्ट्-बोक्स् मध्ये, भवदभीष्टं पास्वर्ड् यच्छन्तु । . |
08:02 | मम पास्वर्ड् इतीदं moodle hyphen st इति टङ्कयामि । |
08:07 | Re-type टेक्स्ट्-बोक्स् मध्ये, तदेव पास्वर्ड् टङ्कयन्तु । |
08:12 | Authentication Plugin विकल्पं तथैव स्थापयन्तु । |
08:17 | कृपया Generate Password प्रोम्प्ट् उपरि सद्यः नोदनं मास्तु । |
08:22 | Database for user account इत्यस्याधः वयम्, |
08:26 | Create database with same name and grant all privileges विकल्पं दृष्टुं शक्नुमः । |
08:31 | तं विकल्पं चेक् कृत्वा, पृष्टस्याधः दक्षिणपार्श्वे Go गण्डं नुदामः । |
08:38 | गवाक्षस्योपरि, “You have added a new user” इति सन्देशः दृश्यते । |
08:44 | अस्यार्थः - moodle-st नाम्नः एकं नूतनं डेटाबेस् अपि च moodle-st इति उपयोक्ता च रचितौ । |
08:54 | यूसर् नेम्, पास्वर्ड् अपि च डेटाबेस् इत्येतेषां नामानां टिप्पणीं करोतु । |
08:59 | 'मूडल्' इत्यस्य इन्स्टालेशन् पूर्णं कर्तुं इमानि पश्चात् आवश्यकानि भवन्ति । |
09:04 | अवलोक्यताम् : Database इत्यस्य नाम अपि च username एकैव भवेदिति नास्ति । |
09:10 | नाना नामभ्यः, आदौ डेटाबेस् रचयित्वा तत् डेटाबेस् इत्यस्मै यूसर् रचयन्तु । |
09:18 | तथा च, नामप्रदाननियमानुसारं, username मध्ये स्पेस् न भवितव्यम् । |
09:25 | अधुना अस्माकं XAMPP जायमानमस्ति । डेटाबेस् सिद्धः वर्तते । |
09:29 | Moodle इतीदम् इन्स्टाल् कर्तुं वयं सिद्धाः स्मः । |
09:32 | अग्रिमपाठे, 'मूडल्' इत्यस्य इन्स्टालेशन् इत्यनेन सह वयं अग्रे गमिष्यामः । |
09:37 | अनेन वयं पाठस्यान्तमागतवन्तः । |
09:41 | सङ्क्षेपेण, |
09:43 | पाठेऽस्मिन् वयम् : |
09:45 | Moodle इत्यस्य इन्स्टालेशन् इत्यस्यावश्यकताः, |
09:49 | इमानि कथं परीक्षितव्यानि, डेटाबेस् कथं सेट् अप् करणीयम् अपि च यूसर् कथं संयोजनीयः इत्यादिविषयान् ज्ञातवन्तः । |
09:57 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । |
10:03 | उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् । |
10:06 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । |
10:11 | अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
10:15 | अस्मिन् 'स्पोकन् ट्युटोरियल्' मध्ये प्रश्नाः सन्ति वा? |
10:18 | कृपया जालपुटमिदं पश्यन्तु : |
10:27 | भवतां प्रश्नस्य मिनिट् सेकेण्ड् च चिन्वन्तु । |
10:30 | भवतां प्रश्नान् सङ्क्षेपेण विवृण्वन्तु । अस्माकं गणेषु यः कोऽपि उत्तरं यच्छति । |
10:36 | स्पोकन् ट्युटोरियल् फ़ोरम्, पाठसम्बद्धाय प्रश्नाय वर्तते । |
10:41 | कृपया अस्मबद्धप्रश्नान् न पृच्छन्तु । |
10:46 | अनेन भ्रान्तिः सङ्कीर्णता च न जायते । |
10:48 | अनेन चर्चा अर्थपूर्णाभूत्वा ज्ञानाय सुलभः भविष्यति । |
10:54 | स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
11:01 | अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु । |
11:06 | लेखोऽयं प्रियाङ्का-महाभागायाः योगदानमस्ति । |
11:10 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |