Moodle-Learning-Management-System/C2/Getting-Ready-for-Moodle-Installation/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Getting ready for Moodle installation इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयं, Moodle इत्यस्य इन्स्टालेशन् कर्तुं किमावश्यकमिति ज्ञास्यामः ।
00:14 लोकल् होस्ट् मध्ये पेकेज् परिशीलनं तथा डेटाबेस् सेट् अप् करणञ्च ज्ञास्यामः ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:30 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP अपि च Firefox वेब्-ब्रौसर् इतीमन्युपयुञ्जे ।
00:42 भवदभीष्टं वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:46 भवतां सिस्टम् मध्ये Moodle 3.3 इन्स्टाल् कर्तुं, भवन्तः अधोदर्शितानि सपोर्ट् कर्तुं यन्त्रं प्राप्तवन्तः स्युः -
00:52 Apache 2.x (तदधिका वा आवृत्तिः),

MariaDB 5.5.30 (तदधिका वा आवृत्तिः), अपि च

PHP 5.4.4 + (तदधिका वा आवृत्तिः)

01:08 भवन्तः पूर्वतन आवृत्तिं प्राप्तवन्तः चेत्, अग्रे गमनात् प्राक् तेषां अन्-इन्स्टाल् करणमुत्तमम् ।
01:16 MariaDB इतीदमेकं शीघ्रं वर्धमानं सत् ओपन् सोर्स् डेटाबेस् वर्तते ।
01:21 इदं MySQL डेटाबेस् इत्यस्य पर्यायः वर्तते ।
01:26 Web-server distributions भवद्भ्यः Apache, MariaDB तथा PHP इतीमानि युगपद्ददति ।
01:34 इमानि पृथक् पृथक् अथवा XAMPP, WAMPP अथवा LAMPP सदृशानि Web server distribution उपयुज्य इन्स्टाल् कर्तुम् अर्हन्ति ।
01:44 अहं मम यन्त्रे XAMPP इतीदम् इन्स्टाल् कृतवानस्मि ।
01:49 मम यन्त्रे XAMPP रन् जायमानमस्ति वा इति परिशीलनं भवेत् ।
01:54 वेब् ब्रौसर् मध्ये एवं टङ्कयन्तु : http colon double slash 127 dot 0 dot 0 dot 1 तथा Enter नुदन्तु च ।
02:08 इदम् Unable to connect इति सन्देशं दर्शयति ।
02:12 अस्यार्थोऽस्ति यत् XAMPP सेवा रन् जायमानं नास्ति ।
02:16 अतः अस्माभिः XAMPP सेवायाः आरम्भः करणीयः ।
02:20 Ctrl + Alt + T कीलकानि युगपन्नोदनेन टर्मिनल् उद्घाटयन्तु ।
02:26 sudo space slash opt slash lampp slash lampp space start इति टङ्कयित्वा XAMPP इतीदमुद्घाटयन्तु ।
02:38 यदा पृच्छ्यते तदा administrative पास्वर्ड् दत्वा Enter नुदन्तु ।
02:44 भवद्भिः एतादृशसन्देशः प्राप्तश्चेत्,

Starting XAMPP for Linux ….

XAMPP: Starting Apache...ok.

XAMPP: Starting MySQL...ok.

XAMPP: Starting ProFTPD...ok.

02:59 XAMPP इतीदं भवतां व्यवस्थायां इन्स्टाल् जातम् अपि च भवन्तः सर्वीस् इत्यस्यारम्भं कृतवन्तः इत्यर्थः ।
03:05 कृपया अवलोक्यताम्, XAMPP 5.6.30, MySQL इत्यस्य स्थाने MariaDB इत्यस्योपयोगं करोति ।
03:13 कमाण्ड्स् तथा टूल्स् च उभयत्र समानानि वर्तन्ते ।
03:17 वयं ब्रौसर् गत्वा पृष्टं रीफ़्रेश् कुर्मः ।
03:21 वयमधुना XAMPP स्क्रीन् दृष्टुं शक्नुमः ।
03:25 टर्मिनल् मध्ये भवद्भिः Command not found इति सन्देशः प्राप्यते ।
03:30 अस्यार्थः भवतां यन्त्रे XAMPP इन्स्टाल् न जातम् ।
03:34 एवञ्चेत् अस्मिन् जालपुटस्य PHP and MySQL ततौ, XAMPP Installation इति ट्युटोरियल् पश्यन्तु ।
03:42 ट्युटोरियल् मध्ये उक्ताः सूचनाः अनुसरन्तु । XAMPP इत्यस्य सद्यःकालीनावृत्तिम् इन्स्टाल् कुर्वन्तु ।
03:49 वयं 'टर्मिनल्' प्रति गच्छाम ।
03:52 XAMPP सेवाम् आरब्धुम् उपरितन स्तरान् अनुसरन्तु ।
03:57 अधुना अस्माकं सिस्टम् मध्ये PHP इत्यस्य आवृत्तेः परीक्षां कुर्मः ।
04:02 'टर्मिनल्' मध्ये एवं टङ्कयन्तु : sudo space slash opt slash lampp slash bin slash php space hyphen v अपि च Enter नुदन्तु ।
04:17 पृष्टश्चेत् administrative पास्वर्ड् दत्वा Enter नुदन्तु ।
04:23 मम PHP इत्यस्य आवृत्तिः 5.6.30 वर्तते ।
04:29 PHP इत्यस्य इन्स्टाल् जातम् इति सन्देशः दृश्यते ।
04:34 भवद्भिः 5.4.4 इत्यस्मात् न्यूनतमा आवृत्तिः प्राप्ता चेत् भवन्तः XAMPP इत्यस्य सद्यःकालीनावृत्तेः इन्स्टाल् कुर्युः ।
04:42 पश्चात् अस्माकं सिस्टम् मध्ये MariaDB आवृत्तिं परीक्षामहे ।
04:48 'टर्मिनल्' मध्ये एवं टङ्कयन्तु : sudo space slash opt slash lampp slash bin slash mysql space hyphen v तथा Enter नुदन्तु च ।
05:03 पृष्टश्चेत् administrative पास्वर्ड् दत्वा Enter नुदन्तु च ।
05:08 मम तु MariaDB इत्यस्य 10.1.21 तमा आवृत्तिः वर्तते ।
05:14 भवद्भिः 5.5.30 इत्यस्मात् न्यूनतमा आवृत्तिः मिलितञ्चेत् भवन्तः XAMPP इत्यस्य सद्यःकालीनावृत्तिः इन्स्टाल् कुर्युः ।
05:23 अवलोक्यताम् : PHP तथा डेटाबेस् इत्यनयोः आवृत्तीः परीक्षितुं भवतां XAMPP रन् जायमानं स्यात् ।
05:29 अधुना 'कमाण्ड् प्रोम्प्ट्' परिवर्तितमिति अवलोकयन्तु ।
05:34 MariaDB इत्यस्माय् बहिरागन्तुं (exit), backslash q इतीदं टङ्कयित्वा Enter नुदन्तु ।
05:40 अत्र यथा दर्शितं तथा भवद्भिः दोषः प्राप्यते ।
05:44 An apache daemon is already running” इति सन्देशः भवद्भिः प्राप्यते ।
05:50 अस्यार्थः, आदिमं स्क्रिप्ट् XAMPP-Apache इत्यस्यारम्भं नाकरोत् ।
05:55 अत्र अन्यत् ‘अपाचे इन्स्टन्स्’ (Apache instance) रन् जायमानमस्ति इति सूचयति ।
06:01 XAMPP इत्यस्य प्रारम्भाय, भवन्तः 'डीमन्' (daemon) इतीदं विरमयेरन् ।
06:06 Apache इत्यस्मै विरामं दातुं कमाण्ड् एवमस्ति :

sudo /etc/init.d/apache2 space stop

06:19 MySQL daemon failed to start इति सन्देशः प्राप्येत ।
06:25 अस्यार्थः आदिमं स्क्रिप्ट् MySQL इत्यस्यारम्भं नाकरोत् ।
06:30 अत्र अन्यत् ‘डेटाबेस् इन्स्टेन्स्’ (database instance) रन् जायमानमस्तीति इदं सूचयति ।
06:36 XAMPP इत्यस्यारम्भाय, भवद्भिः 'डीमन्' (daemon) इत्यस्मै विरामः दातव्यः ।
06:41 इदं कमाण्ड् MySQL इतीदं विरामयते : sudo space /etc/init.d/mysql space stop
06:54 सर्वान् दोषान् परिहृत्य XAMPP रन् भवितुम् अवकाशं कल्पयन्तु ।
06:59 पश्चात् भवतां वेब्-ब्रौसर् प्रत्यागत्य पृष्टं रिफ़्रेश् कुर्वन्तु ।
07:03 भाषाविकल्पः पृष्टश्चेत्, English इतीदं चिन्वन्तु ।
07:08 अधुना एकः उपयोक्ता संयोजनीयः । तथा मूडल् इत्यस्मै डेटाबेस् निर्मातव्यम् ।
07:14 इदं phpmyadmin मध्ये कुर्मः । इदं MariaDB इत्यस्मै ग्राफ़िकल् यूसर् इण्टर्फ़ेस् वर्तते ।
07:21 इदं XAMPP इत्यस्य इन्स्टालेशन् इत्यनेन सह आगच्छति ।
07:25 वयं वेब् ब्रौसर् प्रति आगच्छाम ।
07:28 XAMPP पृष्टे, उपरितन मेन्यू मध्ये, phpMyadmin उपरि नुदन्तु ।
07:34 उपरितन मेन्यु मध्ये, User Accounts इतीदं नुत्वा Add User Account उपरि नुदन्तु ।
07:42 अत्र उद्घाटिते नूतनगवाक्षे, भवदभीष्टं username यच्छन्तु ।
07:48 मम username इतीदं, moodle hyphen st इति टङ्कयामि ।
07:53 Host ड्रोप्-डौन् लिस्ट् तः, Local इतीदं चिन्वन्तु ।
07:57 Password टेक्स्ट्-बोक्स् मध्ये, भवदभीष्टं पास्वर्ड् यच्छन्तु । .
08:02 मम पास्वर्ड् इतीदं moodle hyphen st इति टङ्कयामि ।
08:07 Re-type टेक्स्ट्-बोक्स् मध्ये, तदेव पास्वर्ड् टङ्कयन्तु ।
08:12 Authentication Plugin विकल्पं तथैव स्थापयन्तु ।
08:17 कृपया Generate Password प्रोम्प्ट् उपरि सद्यः नोदनं मास्तु ।
08:22 Database for user account इत्यस्याधः वयम्,
08:26 Create database with same name and grant all privileges विकल्पं दृष्टुं शक्नुमः ।
08:31 तं विकल्पं चेक् कृत्वा, पृष्टस्याधः दक्षिणपार्श्वे Go गण्डं नुदामः ।
08:38 गवाक्षस्योपरि, “You have added a new user” इति सन्देशः दृश्यते ।
08:44 अस्यार्थः - moodle-st नाम्नः एकं नूतनं डेटाबेस् अपि च moodle-st इति उपयोक्ता च रचितौ ।
08:54 यूसर् नेम्, पास्वर्ड् अपि च डेटाबेस् इत्येतेषां नामानां टिप्पणीं करोतु ।
08:59 'मूडल्' इत्यस्य इन्स्टालेशन् पूर्णं कर्तुं इमानि पश्चात् आवश्यकानि भवन्ति ।
09:04 अवलोक्यताम् : Database इत्यस्य नाम अपि च username एकैव भवेदिति नास्ति ।
09:10 नाना नामभ्यः, आदौ डेटाबेस् रचयित्वा तत् डेटाबेस् इत्यस्मै यूसर् रचयन्तु ।
09:18 तथा च, नामप्रदाननियमानुसारं, username मध्ये स्पेस् न भवितव्यम् ।
09:25 अधुना अस्माकं XAMPP जायमानमस्ति । डेटाबेस् सिद्धः वर्तते ।
09:29 Moodle इतीदम् इन्स्टाल् कर्तुं वयं सिद्धाः स्मः ।
09:32 अग्रिमपाठे, 'मूडल्' इत्यस्य इन्स्टालेशन् इत्यनेन सह वयं अग्रे गमिष्यामः ।
09:37 अनेन वयं पाठस्यान्तमागतवन्तः ।
09:41 सङ्क्षेपेण,
09:43 पाठेऽस्मिन् वयम् :
09:45 Moodle इत्यस्य इन्स्टालेशन् इत्यस्यावश्यकताः,
09:49 इमानि कथं परीक्षितव्यानि, डेटाबेस् कथं सेट् अप् करणीयम् अपि च यूसर् कथं संयोजनीयः इत्यादिविषयान् ज्ञातवन्तः ।
09:57 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।
10:03 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
10:06 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति ।
10:11 अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:15 अस्मिन् 'स्पोकन् ट्युटोरियल्' मध्ये प्रश्नाः सन्ति वा?
10:18 कृपया जालपुटमिदं पश्यन्तु :

http://forums.spoken-tutorial.org

10:27 भवतां प्रश्नस्य मिनिट् सेकेण्ड् च चिन्वन्तु ।
10:30 भवतां प्रश्नान् सङ्क्षेपेण विवृण्वन्तु । अस्माकं गणेषु यः कोऽपि उत्तरं यच्छति ।
10:36 स्पोकन् ट्युटोरियल् फ़ोरम्, पाठसम्बद्धाय प्रश्नाय वर्तते ।
10:41 कृपया अस्मबद्धप्रश्नान् न पृच्छन्तु ।
10:46 अनेन भ्रान्तिः सङ्कीर्णता च न जायते ।
10:48 अनेन चर्चा अर्थपूर्णाभूत्वा ज्ञानाय सुलभः भविष्यति ।
10:54 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
11:01 अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
11:06 लेखोऽयं प्रियाङ्का-महाभागायाः योगदानमस्ति ।
11:10 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat