Moodle-Learning-Management-System/C2/Course-Administration-in-Moodle/Sanskrit
Time | Narration |
00:01 | Course Administration in Moodle इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् । |
00:07 | अस्मिन् पाठे वयं, मूडल् मध्ये कोर्स् एड्मिनिस्ट्रेशन् अपि च कोर्स् मध्ये, एक्टिविटिस् तथा रीसोर्सस् विषयान् ज्ञास्यामः । |
00:17 | अस्य पाठस्य ध्वन्यङ्कनायाहम् :
Ubuntu Linux OS 16.04, |
00:24 | XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB अपि च PHP, |
00:33 | Moodle 3.3 तथा Firefox वेब्-ब्रौसर् इतीमानि उपयुक्तवानस्मि । |
00:40 | भवदभीष्टं यत्किमपि वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
तथापि, Internet Explorer इत्यस्योपयोगः मास्तु । तत् सम्यग् रीत्या डिस्प्ले न करोति । |
00:52 | भवतां सैट् एड्मिनिस्ट्रेटर्, मूडल् जालपुटं सेट् कृत्वा भवन्तं teacher इति नामाङ्कनं कृतवान् भवेत् । |
01:03 | अत्र छात्रः, मूडल् मध्ये teacher login प्राप्तवान् स्यात् । |
01:09 | एड्मिनिस्ट्रेटर् न्यूनातिन्यूनम् एकं कोर्स् तेभ्यः असैन् कृतवान् स्यात् । तेषां कोर्स् इत्यस्मै किञ्चित् कोर्स् मटीरियल् अप्लोड् कृतं स्यात् । |
01:19 | न चेत् तत्सम्बद्धानि Moodle ट्युटोरियल्स् जालपुटेऽस्मिन् पश्यन्तु । |
01:26 | ब्रौसर् गत्वा, भवतां मूडल् सैट् उद्घाटयन्तु । |
01:31 | भवतां teacher username तथा password विवरणमुपयुज्य लोगिन् कुर्वन्तु ।
अहं teacher रेबेका रेमण्ड् इति लोगिन् अकरवम् । |
01:41 | वयं ‘टीचर्स् डेश् बोर्ड्’ मध्ये स्मः । |
01:44 | वामतः नेविगेशन् मेन्यू मध्ये, My Courses इत्यस्याधः Calculus पश्यन्तु । |
01:51 | पश्यतां, भवन्तः teacher अथवा student भूत्वा नामाङ्किताः येषु कोर्स् मध्ये सन्ति तेषाम् आवलिरत्र वर्तते । |
01:59 | Calculus कोर्स् उपरि नुदन्तु । |
02:02 | पूर्वतन पाठेषु course topics अपि च summaries अप्डेट् कृतवन्तः । |
02:09 | यदि न कृतवन्तः भवन्तः पूर्वतनपाठानां पाठनियोजनं पश्यन्तु । |
02:16 | वयमधुना कानिचन प्रयोजनवन्ति कोर्स् सेट्टिङ्ग्स् जानाम । |
02:21 | विभागस्योपरि दक्षिणतः gear ऐकान् नुदन्तु । |
02:26 | Edit Settings इतीदं नुदन्तु । पश्चात् सर्वेषां विभागानां विस्तारणाय, दक्षिणतः Expand All इतीदं नुदन्तु । |
02:36 | अत्र दर्शितानि सेट्टिङ्ग्स्, कोर्स् इत्यस्य रचनाकाले एव एड्मिनिस्ट्रेटर् द्वारा डिफ़ैन् कृतानि । |
02:44 | General विभागे, Course full name वर्तते ।
इदं नाम कोर्स्-पेज् इत्यस्य ऊर्ध्वभागे दर्श्यते । |
02:54 | Course short name इतीदं, कोर्स् नेविगेशन् तथा कोर्स्-सम्बद्धेषु ई-मेल्स् मध्ये दर्श्यते । |
03:03 | Course category इतीदम् एड्मिन् द्वारा सेट् कृतं वर्तते । |
03:08 | Course start date, Course end date अपि च Course ID number इतीमानि, अस्माकम् आवश्यकतानुसारेण वयं परिवर्तयितुं शक्नुमः । |
03:21 | Description विभागस्याधः, Course Summary टेक्स्ट्-बोक्स् पश्यन्तु ।
अहमत्रत्यं डिलीट् कृत्वा एवं टङ्कयामि । |
03:31 | मम छात्राः इदं मम प्रणाल्याः पुखपुटे पश्यन्ति । |
03:37 | पश्चात् Course summary files इति फ़ील्ड् वर्तते ।
इमाः सञ्चिकाः ‘कोर्स् समरि’इत्येतेन सह छात्रेभ्यः दर्श्यते । |
03:47 | उत्सर्गतया jpg, gif अपि च png फ़ैल्-टैप्स् इतीमानि, कोर्स् समरि सञ्चिकार्थम् उपयोक्तुमर्हन्ति । |
03:56 | फ़ैल् अप्लोड् करणाय त्रीणि विधानानि सन्ति । सञ्चिकाम् अस्मिन् बोक्स् मध्ये ड्रेग् एण्ड् ड्रोप् कर्तुं शक्नुवन्ति । |
04:03 | उपरि वामतः Upload अथवा Add ऐकान् नुदन्तु ।
अथवा अधोमुखबाणं नुदन्तु । |
04:11 | एवं क्रियते चेत् File picker डैलाग्-बोक्स् उद्घट्यते । |
04:21 | वामतः मेन्यू मध्ये Upload a file विकल्पं नुदन्तु । |
04:26 | Browse अथवा Choose File गण्डं नुदन्तु । पश्चाद् भवदभीष्टं फ़ैल् चिन्वन्तु । |
04:34 | मम व्यवस्थायां calculus.jpg इतीदं चिनोमि । |
04:40 | Save as फ़ील्ड् मध्ये, भवन्तः अस्यार्थं अन्यन्नाम टङ्कयितुमर्हन्ति । |
04:46 | author तथा license विवरणानि, तेषां फ़ील्ड् मध्ये सूचयन्तु ।
अन्ते अधस्तन Upload this file गण्डं नुदन्तु । |
04:58 | एवं वयं कोर्स् समरि सञ्चिकाम् अप्लोड् कर्तुं शक्नुमः । |
05:02 | पश्चात् Course format अस्ति । कोर्स् फ़ोर्मेट् इतीदं, छात्रेभ्यः रिसोर्सस् तथा एक्टिविटिस् इत्येतेषां व्यवस्थापनं निर्दिशति । |
05:12 | Format ड्रोप्-डौन् मध्ये चत्वारः विकल्पाः सन्ति :
Single Activity Format, Social Format , Topics Format अपि च Weekly Format. |
05:26 | अस्माकम् एड्मिन्, Topics format इतीदं चितवानस्ति । वयं तत् तथैव स्थापयाम । |
05:33 | अग्रिमं सेट्टिङ्ग्, Hidden sections इत्यस्ति ।
इमानि कोर्स्-मध्ये छात्रेभ्यः गोपनीयानि विषयाणि सन्ति । |
05:44 | अध्यापकेन न समाप्ताः पाठाः सन्ति चेदिदम् साहाय्यकं भवति ।
छात्रेभ्यः Hidden sections इतीदं कथं दर्शनीयमिति इदं सेट्टिङ्ग् निश्चिनोति । |
05:57 | विकल्पोऽयं, विषयान् कोलाप्स् कृतमिव छात्रेभ्यः दर्शयिष्यति । |
06:04 | अयं विकल्पः, विषयान् छात्रेभ्यः अदृश्यं करोति । |
06:09 | सद्यः वयमेतत् डीफ़ोल्ट् स्थापयाम । |
06:13 | अग्रिमं, Course Layout ड्रोप्-डौन् वर्तते । तन्नुदन्तु । |
06:19 | विकल्पस्यास्य चयनेन, सर्वान् विभागान् एकस्मिन्नेव पृष्टे वयं दर्शयितुं शक्नुमः । |
06:25 | अत्र Show one section per page इत्यन्यः विकल्पोऽस्ति ।
विद्यमानविभागानां सङ्ख्याम् अनुसृत्य, इदं प्रणालीं नाना पृष्टेषु विभाजयति । |
06:37 | सद्यः वयं Show all sections in one page विकल्पं स्थापयामः । |
06:43 | अग्रिमम् Appearance विभागः वर्तते । |
06:46 | Show gradebook to students विकल्पम् अवलोकयन्तु ।
प्रणाल्यां नाना एक्टिविटिस्, ग्रेड्स् च दातुम् अध्यापकाय इदं साहाय्यमाचरति । |
06:57 | छात्रः इदं ग्रेड् दृष्टुमर्हति वा इत्ययं विकल्पः निश्चिनोति ।
उत्सर्गतया विकल्पोऽयं Yes इति वर्तते । तथैव स्थापयामो वयम् । |
07:10 | उत्सर्गतया चितं नास्ति चेद्वयं Show activity reports इतीदं Yes इति परिवर्तयामः । |
07:18 | छात्रः स्वस्य प्रोफ़ैल्-पृष्टे, स्वस्य एक्टिविटि-रिपोर्ट्स् दृष्टुमर्हतीति इदं दृढीकरोति । |
07:27 | कोर्स् इत्यस्मै अप्लोड् क्रियमाणानां सञ्चिकानां गरिष्ठपरिमाणं वयं निश्चेतुं शक्नुमः । |
07:34 | additional materials, assignments इत्यादिभ्यः सञ्चिकाः अप्लोड् कर्तुं शक्नुमः । |
07:41 | अस्माकम् एड्मिन् इदं 128MB इत्यस्मै सेट् कृतवानस्ति । इदं सञ्चिकायाः गरिष्ठपरिमाणं वर्तते ।
इदं वयं तथैव स्थापयाम । |
07:52 | शिष्टानि सर्वाणि सेट्टिङ्ग्स्, वयम् औत्सर्गिकमूल्ये एव स्थापयामः । |
07:58 | अधः स्क्रोल् कृत्वा, Save and display गण्डं नुदन्तु ।
वयमधुना Course पुटमागतवन्तः । |
08:06 | टोपिक्-नेम्स् उपरि विद्यामानां Announcements पर्चनीं पश्यन्तु । |
08:11 | छात्राः अत्र अनिवार्याणि विवरणानि, सद्यःकालीन-वार्ताः, उद्घोषणाश्च ज्ञातुं शक्नुवन्ति । |
08:20 | पृष्टस्योपरि दक्षिणतः gear ऐकान् नुत्वा Turn Editing On नुदन्तु । |
08:28 | अवलोक्यताम् : कोर्स् मध्ये यत्किमपि परिवर्तयितुं भवद्भिः Turn Editing On इत्यस्य चयनं कर्तव्यमेव । |
08:35 | अधुना Announcements इत्यस्य दक्षिणतः, Edit तथा Edit Settings च अनुक्रमं नुदन्तु । |
08:44 | Description मध्येऽहम् एवं टङ्कयामि ।
“Please check the announcements regularly”. |
08:52 | Display description on course page विकल्पं चेक् कुर्वन्तु । अनेन पर्चन्याः अधः डिस्क्रिप्शन् दृश्यते । |
09:01 | अन्यानि सेट्टिङ्ग्स् तथैव त्यजन्तु । |
09:05 | अधः स्क्रोल् कृत्वा, Save and return to course गण्डं नुदन्तु ।
वयं कोर्स्-पेज् प्रति आगतवन्तः । |
09:15 | इतोऽप्यधिकानि अनौन्स्मेण्ट्स् संयोजितुम् Announcements टैटल् उपरि नुदन्तु । |
09:21 | अधुना Add a new topic गण्डं नुदन्तु । Subject इतीदं Minimum requirements इति टङ्कयामि । |
09:31 | एवं मेसेज् टङ्कयन्तु : “This course requires you to submit a minimum of 3 assignments and attempt 5 quizzes to pass”. |
09:43 | अवलोक्यताम्, Discussion subscription चेक्-बोक्स् चितमस्ति । अस्य एडिट् करणमसाध्यम् । यतोऽहि, अस्मै कोर्स् इत्यस्मै नामाङ्कितैः सर्वैः अनिवार्येण अस्मै अनुमतिः दातव्यः एव । |
09:59 | पश्चात् Attachments अस्ति । भवन्तः अत्र, सम्बद्धसञ्च्चिकाः ड्रेग् & ड्रोप् कर्तुं शक्नुवन्ति ; अप्लोड् कर्तुञ्च । |
10:08 | भवद्भिः फ़ोरम् इत्यस्योपरि उद्घोषणाः दृष्टव्याः चेत्, Pinned चेक्-बोक्स् नुदन्तु । अहमत्र टिक् करोमि । |
10:18 | अग्रिममपि चेक्-बोक्स् टिक् कुर्वन्तु ।
फ़ोरम् इत्यस्मै सब्स्क्रैब् (subscribe) कृतेभ्यः सर्वेभ्यः एतत् तत्क्षणं नोटिफ़िकेशन् प्रेषयति । |
10:29 | अग्रिमविभागं Display period इतीदं विस्तरन्तु ।
अत्रत्यानि सेट्टिङ्ग्स्, इदं फ़ोरम् पोस्ट् निर्दिष्टकालपर्यन्तं दृश्यते वा इति निश्चिनोति । |
10:41 | उत्सर्गतया, इमानि निष्क्रियाणि कृतानि । अर्थात् पोस्ट्स् सर्वदा दृश्यन्ते ।
वयं डीफ़ोल्ट् सेट्टिङ्ग्स् तथैव स्थापयामः । |
10:52 | अधः स्क्रोल् कृत्वा, Post to forum गण्डं नुदन्तु । |
10:57 | एकः सफलसन्देशः दृश्यते । पोस्ट् इत्यस्य लेखकाः, स्वकीये पोस्ट् मध्ये परिवर्तनं कर्तुं त्रिंशत् मिन्ट्स् कालावकाशं प्राप्तवन्तः सन्ति । |
11:08 | ब्रेड्-क्रम्ब् मध्ये Calculus लिङ्क् नुदामि । |
11:13 | अस्मै विभागायाहम् अधुना विस्तृतं पाठ्यक्रमस्य एकं पृष्टं संयोजयामि । |
11:19 | General विभागस्याधः दक्षिणतः Add an activity or resource लिङ्क् नुदन्तु ।
Resources आवल्यां, Page इतीदं नुदन्तु । |
11:32 | भवतः चयनादनन्तरं दृश्यमानं एक्टिविटि इत्यस्य विवरणानि पठन्तु । |
11:39 | पश्चात् अधस्तात् Add गण्डं नुदन्तु । वयमधुना एकं नूतनपृष्टम् आगतवन्तः । |
11:47 | Name फ़ील्ड् मध्ये, Detailed syllabus इति टङ्कयन्तु । |
11:52 | Description टेक्स्ट्-बोक्स् इतीदं रिक्तं त्यजामि । यतो हि अस्य शीर्षकं स्वयमेव विवरणं यच्छति । |
11:59 | Page Content टेक्स्ट्-बोक्स् मध्येऽहं , अस्य काल्क्युलस् कोर्स् इत्यस्य विस्तृतं सिलेबस् ददामि । |
12:07 | ट्युटोरियल् इत्यस्य Code Files पर्चन्याम् इदं लभ्यमस्ति ।
अभ्यासकाले भवन्तः इदं डौन्लोड् कर्तुं शक्नुवन्ति । |
12:18 | अधः स्क्रोल् कृत्वा, Save and return to course गण्डं नुदन्तु ।
पुनः कोर्स् पृष्टं प्रति आगच्छामः । |
12:27 | अस्माकम् अकौण्ट् तः लोगौट् कुर्मः । एतदर्थम् उपरि दक्षिणतः user ऐकान् नुदन्तु ।
Log out विकल्पं चिन्वन्तु । |
12:39 | छात्राय पृष्टोऽयं कथं दृश्यते इत्यहं दर्शयामि । |
12:45 | student ID Priya Sinha मयि विद्यते ।
एड्मिन् द्वारा छात्रोऽयमपि केल्क्यूलेस् कोर्स् इत्यस्मै संयोजितः वर्तते । |
12:55 | अहं स्टुडेण्ट् Priya Sinha इति लोगिन् कृतवानस्मि । अधुना वामतः Calculus नुदामि । |
13:04 | छात्राय पृष्टमेवं दृश्यते ।
पृष्टस्यास्योपरि दक्षिणभागे गेर् ऐकान् नास्ति इत्यवलोक्यताम् । |
13:14 | यतो हि, छात्राः कोर्स् इत्यस्य यत्किमपि भागम् एडिट् कर्तुम् न शक्नुवन्ति । |
13:20 | अहमधुना student id तः लोग् औट् भवामि । |
13:24 | अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण, |
13:30 | पाठेऽस्मिन् वयं, मूडल् मध्ये कोर्स् एड्मिनिस्ट्रेशन् अपि च कोर्स् मध्ये एक्टिविटिस् तथा रिसोर्सस् च ज्ञातवन्तः । |
13:40 | युष्मभ्यमत्र पाठनियोजनं वर्तते ।
कोर्स् इत्यस्य फ़लितविवरणाय नूतनमेकं Page रिसोर्स् संयोजयन्तु । विवरणार्थं ट्युटोरियल् मध्ये Assignment पर्चनीं पश्यन्तु । |
13:53 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् । |
14:02 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु । |
14:13 | फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत । |
14:17 | स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु । |
14:31 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
धन्यवादाः । |