Moodle-Learning-Management-System/C2/Course-Administration-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Course Administration in Moodle इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् पाठे वयं, मूडल् मध्ये कोर्स् एड्मिनिस्ट्रेशन् अपि च कोर्स् मध्ये, एक्टिविटिस् तथा रीसोर्सस् विषयान् ज्ञास्यामः ।
00:17 अस्य पाठस्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:24 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB अपि च PHP,
00:33 Moodle 3.3 तथा Firefox वेब्-ब्रौसर् इतीमानि उपयुक्तवानस्मि ।
00:40 भवदभीष्टं यत्किमपि वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

तथापि, Internet Explorer इत्यस्योपयोगः मास्तु । तत् सम्यग् रीत्या डिस्प्ले न करोति ।

00:52 भवतां सैट् एड्मिनिस्ट्रेटर्, मूडल् जालपुटं सेट् कृत्वा भवन्तं teacher इति नामाङ्कनं कृतवान् भवेत् ।
01:03 अत्र छात्रः, मूडल् मध्ये teacher login प्राप्तवान् स्यात् ।
01:09 एड्मिनिस्ट्रेटर् न्यूनातिन्यूनम् एकं कोर्स् तेभ्यः असैन् कृतवान् स्यात् । तेषां कोर्स् इत्यस्मै किञ्चित् कोर्स् मटीरियल् अप्लोड् कृतं स्यात् ।
01:19 न चेत् तत्सम्बद्धानि Moodle ट्युटोरियल्स् जालपुटेऽस्मिन् पश्यन्तु ।
01:26 ब्रौसर् गत्वा, भवतां मूडल् सैट् उद्घाटयन्तु ।
01:31 भवतां teacher username तथा password विवरणमुपयुज्य लोगिन् कुर्वन्तु ।

अहं teacher रेबेका रेमण्ड् इति लोगिन् अकरवम् ।

01:41 वयं ‘टीचर्स् डेश् बोर्ड्’ मध्ये स्मः ।
01:44 वामतः नेविगेशन् मेन्यू मध्ये, My Courses इत्यस्याधः Calculus पश्यन्तु ।
01:51 पश्यतां, भवन्तः teacher अथवा student भूत्वा नामाङ्किताः येषु कोर्स् मध्ये सन्ति तेषाम् आवलिरत्र वर्तते ।
01:59 Calculus कोर्स् उपरि नुदन्तु ।
02:02 पूर्वतन पाठेषु course topics अपि च summaries अप्डेट् कृतवन्तः ।
02:09 यदि न कृतवन्तः भवन्तः पूर्वतनपाठानां पाठनियोजनं पश्यन्तु ।
02:16 वयमधुना कानिचन प्रयोजनवन्ति कोर्स् सेट्टिङ्ग्स् जानाम ।
02:21 विभागस्योपरि दक्षिणतः gear ऐकान् नुदन्तु ।
02:26 Edit Settings इतीदं नुदन्तु । पश्चात् सर्वेषां विभागानां विस्तारणाय, दक्षिणतः Expand All इतीदं नुदन्तु ।
02:36 अत्र दर्शितानि सेट्टिङ्ग्स्, कोर्स् इत्यस्य रचनाकाले एव एड्मिनिस्ट्रेटर् द्वारा डिफ़ैन् कृतानि ।
02:44 General विभागे, Course full name वर्तते ।

इदं नाम कोर्स्-पेज् इत्यस्य ऊर्ध्वभागे दर्श्यते ।

02:54 Course short name इतीदं, कोर्स् नेविगेशन् तथा कोर्स्-सम्बद्धेषु ई-मेल्स् मध्ये दर्श्यते ।
03:03 Course category इतीदम् एड्मिन् द्वारा सेट् कृतं वर्तते ।
03:08 Course start date, Course end date अपि च Course ID number इतीमानि, अस्माकम् आवश्यकतानुसारेण वयं परिवर्तयितुं शक्नुमः ।
03:21 Description विभागस्याधः, Course Summary टेक्स्ट्-बोक्स् पश्यन्तु ।

अहमत्रत्यं डिलीट् कृत्वा एवं टङ्कयामि ।

03:31 मम छात्राः इदं मम प्रणाल्याः मुखपुटे पश्यन्ति ।
03:37 पश्चात् Course summary files इति फ़ील्ड् वर्तते ।

इमाः सञ्चिकाः ‘कोर्स् समरि’इत्येतेन सह छात्रेभ्यः दर्श्यते ।

03:47 उत्सर्गतया jpg, gif अपि च png फ़ैल्-टैप्स् इतीमानि, कोर्स् समरि सञ्चिकार्थम् उपयोक्तुमर्हन्ति ।
03:56 फ़ैल् अप्लोड् करणाय त्रीणि विधानानि सन्ति । सञ्चिकाम् अस्मिन् बोक्स् मध्ये ड्रेग् एण्ड् ड्रोप् कर्तुं शक्नुवन्ति ।
04:03 उपरि वामतः Upload अथवा Add ऐकान् नुदन्तु ।

अथवा अधोमुखबाणं नुदन्तु ।

04:11 एवं क्रियते चेत् File picker डैलाग्-बोक्स् उद्घट्यते ।
04:21 वामतः मेन्यू मध्ये Upload a file विकल्पं नुदन्तु ।
04:26 Browse अथवा Choose File गण्डं नुदन्तु । पश्चाद् भवदभीष्टं फ़ैल् चिन्वन्तु ।
04:34 मम व्यवस्थायां calculus.jpg इतीदं चिनोमि ।
04:40 Save as फ़ील्ड् मध्ये, भवन्तः अस्यार्थं अन्यन्नाम टङ्कयितुमर्हन्ति ।
04:46 author तथा license विवरणानि, तेषां फ़ील्ड् मध्ये सूचयन्तु ।

अन्ते अधस्तन Upload this file गण्डं नुदन्तु ।

04:58 एवं वयं कोर्स् समरि सञ्चिकाम् अप्लोड् कर्तुं शक्नुमः ।
05:02 पश्चात् Course format अस्ति । कोर्स् फ़ोर्मेट् इतीदं, छात्रेभ्यः रिसोर्सस् तथा एक्टिविटिस् इत्येतेषां व्यवस्थापनं निर्दिशति ।
05:12 Format ड्रोप्-डौन् मध्ये चत्वारः विकल्पाः सन्ति :

Single Activity Format, Social Format , Topics Format अपि च Weekly Format.

05:26 अस्माकम् एड्मिन्, Topics format इतीदं चितवानस्ति । वयं तत् तथैव स्थापयाम ।
05:33 अग्रिमं सेट्टिङ्ग्, Hidden sections इत्यस्ति ।

इमानि कोर्स्-मध्ये छात्रेभ्यः गोपनीयानि विषयाणि सन्ति ।

05:44 अध्यापकेन न समाप्ताः पाठाः सन्ति चेदिदम् साहाय्यकं भवति ।

छात्रेभ्यः Hidden sections इतीदं कथं दर्शनीयमिति इदं सेट्टिङ्ग् निश्चिनोति ।

05:57 विकल्पोऽयं, विषयान् कोलाप्स् कृतमिव छात्रेभ्यः दर्शयिष्यति ।
06:04 अयं विकल्पः, विषयान् छात्रेभ्यः अदृश्यं करोति ।
06:09 सद्यः वयमेतत् डीफ़ोल्ट् स्थापयाम ।
06:13 अग्रिमं, Course Layout ड्रोप्-डौन् वर्तते । तन्नुदन्तु ।
06:19 विकल्पस्यास्य चयनेन, सर्वान् विभागान् एकस्मिन्नेव पृष्टे वयं दर्शयितुं शक्नुमः ।
06:25 अत्र Show one section per page इत्यन्यः विकल्पोऽस्ति ।

विद्यमानविभागानां सङ्ख्याम् अनुसृत्य, इदं प्रणालीं नाना पृष्टेषु विभाजयति ।

06:37 सद्यः वयं Show all sections in one page विकल्पं स्थापयामः ।
06:43 अग्रिमम् Appearance विभागः वर्तते ।
06:46 Show gradebook to students विकल्पम् अवलोकयन्तु ।

प्रणाल्यां नाना एक्टिविटिस्, ग्रेड्स् च दातुम् अध्यापकाय इदं साहाय्यमाचरति ।

06:57 छात्रः इदं ग्रेड् दृष्टुमर्हति वा इत्ययं विकल्पः निश्चिनोति ।

उत्सर्गतया विकल्पोऽयं Yes इति वर्तते । तथैव स्थापयामो वयम् ।

07:10 उत्सर्गतया चितं नास्ति चेद्वयं Show activity reports इतीदं Yes इति परिवर्तयामः ।
07:18 छात्रः स्वस्य प्रोफ़ैल्-पृष्टे, स्वस्य एक्टिविटि-रिपोर्ट्स् दृष्टुमर्हतीति इदं दृढीकरोति ।
07:27 कोर्स् इत्यस्मै अप्लोड् क्रियमाणानां सञ्चिकानां गरिष्ठपरिमाणं वयं निश्चेतुं शक्नुमः ।
07:34 additional materials, assignments इत्यादिभ्यः सञ्चिकाः अप्लोड् कर्तुं शक्नुमः ।
07:41 अस्माकम् एड्मिन् इदं 128MB इत्यस्मै सेट् कृतवानस्ति । इदं सञ्चिकायाः गरिष्ठपरिमाणं वर्तते ।

इदं वयं तथैव स्थापयाम ।

07:52 शिष्टानि सर्वाणि सेट्टिङ्ग्स्, वयम् औत्सर्गिकमूल्ये एव स्थापयामः ।
07:58 अधः स्क्रोल् कृत्वा, Save and display गण्डं नुदन्तु ।

वयमधुना Course पुटमागतवन्तः ।

08:06 टोपिक्-नेम्स् उपरि विद्यामानां Announcements पर्चनीं पश्यन्तु ।
08:11 छात्राः अत्र अनिवार्याणि विवरणानि, सद्यःकालीन-वार्ताः, उद्घोषणाश्च ज्ञातुं शक्नुवन्ति ।
08:20 पृष्टस्योपरि दक्षिणतः gear ऐकान् नुत्वा Turn Editing On नुदन्तु ।
08:28 अवलोक्यताम् : कोर्स् मध्ये यत्किमपि परिवर्तयितुं भवद्भिः Turn Editing On इत्यस्य चयनं कर्तव्यमेव ।
08:35 अधुना Announcements इत्यस्य दक्षिणतः, Edit तथा Edit Settings च अनुक्रमं नुदन्तु ।
08:44 Description मध्येऽहम् एवं टङ्कयामि ।

“Please check the announcements regularly”.

08:52 Display description on course page विकल्पं चेक् कुर्वन्तु । अनेन पर्चन्याः अधः डिस्क्रिप्शन् दृश्यते ।
09:01 अन्यानि सेट्टिङ्ग्स् तथैव त्यजन्तु ।
09:05 अधः स्क्रोल् कृत्वा, Save and return to course गण्डं नुदन्तु ।

वयं कोर्स्-पेज् प्रति आगतवन्तः ।

09:15 इतोऽप्यधिकानि अनौन्स्मेण्ट्स् संयोजितुम् Announcements टैटल् उपरि नुदन्तु ।
09:21 अधुना Add a new topic गण्डं नुदन्तु । Subject इतीदं Minimum requirements इति टङ्कयामि ।
09:31 एवं मेसेज् टङ्कयन्तु : “This course requires you to submit a minimum of 3 assignments and attempt 5 quizzes to pass”.
09:43 अवलोक्यताम्, Discussion subscription चेक्-बोक्स् चितमस्ति । अस्य एडिट् करणमसाध्यम् । यतोऽहि, अस्मै कोर्स् इत्यस्मै नामाङ्कितैः सर्वैः अनिवार्येण अस्मै अनुमतिः दातव्यः एव ।
09:59 पश्चात् Attachments अस्ति । भवन्तः अत्र, सम्बद्धसञ्च्चिकाः ड्रेग् & ड्रोप् कर्तुं शक्नुवन्ति ; अप्लोड् कर्तुञ्च ।
10:08 भवद्भिः फ़ोरम् इत्यस्योपरि उद्घोषणाः दृष्टव्याः चेत्, Pinned चेक्-बोक्स् नुदन्तु । अहमत्र टिक् करोमि ।
10:18 अग्रिममपि चेक्-बोक्स् टिक् कुर्वन्तु ।

फ़ोरम् इत्यस्मै सब्स्क्रैब् (subscribe) कृतेभ्यः सर्वेभ्यः एतत् तत्क्षणं नोटिफ़िकेशन् प्रेषयति ।

10:29 अग्रिमविभागं Display period इतीदं विस्तरन्तु ।

अत्रत्यानि सेट्टिङ्ग्स्, इदं फ़ोरम् पोस्ट् निर्दिष्टकालपर्यन्तं दृश्यते वा इति निश्चिनोति ।

10:41 उत्सर्गतया, इमानि निष्क्रियाणि कृतानि । अर्थात् पोस्ट्स् सर्वदा दृश्यन्ते ।

वयं डीफ़ोल्ट् सेट्टिङ्ग्स् तथैव स्थापयामः ।

10:52 अधः स्क्रोल् कृत्वा, Post to forum गण्डं नुदन्तु ।
10:57 एकः सफलसन्देशः दृश्यते । पोस्ट् इत्यस्य लेखकाः, स्वकीये पोस्ट् मध्ये परिवर्तनं कर्तुं त्रिंशत् मिन्ट्स् कालावकाशं प्राप्तवन्तः सन्ति ।
11:08 ब्रेड्-क्रम्ब् मध्ये Calculus लिङ्क् नुदामि ।
11:13 अस्मै विभागायाहम् अधुना विस्तृतं पाठ्यक्रमस्य एकं पृष्टं संयोजयामि ।
11:19 General विभागस्याधः दक्षिणतः Add an activity or resource लिङ्क् नुदन्तु ।

Resources आवल्यां, Page इतीदं नुदन्तु ।

11:32 भवतः चयनादनन्तरं दृश्यमानं एक्टिविटि इत्यस्य विवरणानि पठन्तु ।
11:39 पश्चात् अधस्तात् Add गण्डं नुदन्तु । वयमधुना एकं नूतनपृष्टम् आगतवन्तः ।
11:47 Name फ़ील्ड् मध्ये, Detailed syllabus इति टङ्कयन्तु ।
11:52 Description टेक्स्ट्-बोक्स् इतीदं रिक्तं त्यजामि । यतो हि अस्य शीर्षकं स्वयमेव विवरणं यच्छति ।
11:59 Page Content टेक्स्ट्-बोक्स् मध्येऽहं , अस्य काल्क्युलस् कोर्स् इत्यस्य विस्तृतं सिलेबस् ददामि ।
12:07 ट्युटोरियल् इत्यस्य Code Files पर्चन्याम् इदं लभ्यमस्ति ।

अभ्यासकाले भवन्तः इदं डौन्लोड् कर्तुं शक्नुवन्ति ।

12:18 अधः स्क्रोल् कृत्वा, Save and return to course गण्डं नुदन्तु ।

पुनः कोर्स् पृष्टं प्रति आगच्छामः ।

12:27 अस्माकम् अकौण्ट् तः लोगौट् कुर्मः । एतदर्थम् उपरि दक्षिणतः user ऐकान् नुदन्तु ।

Log out विकल्पं चिन्वन्तु ।

12:39 छात्राय पृष्टोऽयं कथं दृश्यते इत्यहं दर्शयामि ।
12:45 student ID Priya Sinha मयि विद्यते ।

एड्मिन् द्वारा छात्रोऽयमपि केल्क्यूलेस् कोर्स् इत्यस्मै संयोजितः वर्तते ।

12:55 अहं स्टुडेण्ट् Priya Sinha इति लोगिन् कृतवानस्मि । अधुना वामतः Calculus नुदामि ।
13:04 छात्राय पृष्टमेवं दृश्यते ।

पृष्टस्यास्योपरि दक्षिणभागे गेर् ऐकान् नास्ति इत्यवलोक्यताम् ।

13:14 यतो हि, छात्राः कोर्स् इत्यस्य यत्किमपि भागम् एडिट् कर्तुम् न शक्नुवन्ति ।
13:20 अहमधुना student id तः लोग् औट् भवामि ।
13:24 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
13:30 पाठेऽस्मिन् वयं, मूडल् मध्ये कोर्स् एड्मिनिस्ट्रेशन् अपि च कोर्स् मध्ये एक्टिविटिस् तथा रिसोर्सस् च ज्ञातवन्तः ।
13:40 युष्मभ्यमत्र पाठनियोजनं वर्तते ।

कोर्स् इत्यस्य फ़लितविवरणाय नूतनमेकं Page रिसोर्स् संयोजयन्तु । विवरणार्थं ट्युटोरियल् मध्ये Assignment पर्चनीं पश्यन्तु ।

13:53 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
14:02 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
14:13 फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत ।
14:17 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
14:31 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14