Avogadro/C2/Edit-molecules/Sanskrit

From Script | Spoken-Tutorial
Revision as of 23:18, 21 December 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Edit molecules इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयं – परमाणूनां संयोजनं निष्कासनञ्च,
00:14 बोण्ड्स् इत्येतेषां संयोजनं निष्कासनञ्च,
00:16 बोण्ड्स् इत्येतेषां परिभ्रामणम्,
00:18 बोण्ड् इत्यस्य दैर्ग्यपरिवर्तनम्,
00:20 हैड्रोजन् इतीदं 'मीथैल् ग्रुप्' इत्यस्मै परिवर्तनम्,
00:23 रचनानां कोपि-करणं, पेस्ट्-करणं, संयोजनम् – इत्येतान् विषयान् ज्ञास्यामः ।
00:27 अहमत्र : Ubuntu Linux OS 14.04 आवृत्तिः,

Avogadro 1.1.1 आवृत्तिः – अनयोरुपयोगं करोमि ।

00:37 पाठस्यास्य अनुसरणाय भवन्तः Avogadro इण्टर्फ़ेस् इतीदं सम्यग् जानीयुः ।
00:43 न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:49 अत्र 'टर्मिनल्' उपयुज्य, Avogadro इतीदं कथमुद्घाटनीयमिति अहं दर्शयामि ।
00:55 टर्मिनल् इत्यस्योद्घाटनाय, CTRL, ALT तथा T कीलकानि युगपन्नुदन्तु ।
01:03 प्रोम्ट् मध्ये avogadro इति टङ्कयित्वा , Enter नुदन्तु ।
01:08 Avogadro एप्लिकेशन् विण्डो उद्घट्यते ।
01:12 विवरणार्थमहं, Fragment लैब्ररी तः, n-ब्यूटेन् इत्यस्याणुं प्रदर्शयामि ।
01:19 Build मेन्यू इत्यस्योपरि नुत्वा, अनुक्रमम् Insert >> Fragment प्रति च गच्छन्तु ।
01:25 Insert fragment डैलाग् बोक्स् उद्घट्यते ।
01:29 फ़्रेग्मेण्ट् इत्येतेषाम् आवल्यां, alkanes सञ्चयम् उद्घाटयितुं तदुपरि द्विवारं नुदन्तु ।
01:35 अधुना दृश्यमाने ड्रोप्-डौन्-लिस्ट् मध्ये, butane.cml इतीदं चिन्वन्तु ।
01:41 Insert गण्डं नुदन्तु ।Insert Fragment संवादपेटिकायाः पिधानार्थं, X (क्लोस्) इतीदं नुदन्तु ।
01:49 नीलवर्णेन हैलेट् कृतं 'ब्यूटेन्' अणुः पेनल् उपरि दृश्यते ।
01:54 हैलैट् निष्कासयितुं , Ctrl, Shift तथा A कीलकानि युगपन्नुदन्तु ।
02:02 सम्यक्कर्तुं, Navigation टूल् उपयुज्य रचनां परिभ्रामयन्तु ।
02:09 अधुना अणवे परमाणुसंयोजनं कथमिति वयं ज्ञास्यामः ।
02:14 टूल् बार् मध्ये, Draw Tool ऐकान् नुदन्तु ।
02:18 अन्तिमस्य Carbon परमाणोरुपरि क्लिक् कृत्वा पेनल् इत्यस्योपरि कर्षयन्नानयन्तु ।
02:23 आवश्यकेन हैड्रोजन् इत्यनेन सह कार्बन् परमाणुः संयोजितः वर्तते ।
02:27 वयमधुना पेनल् मध्ये पेण्टेन् इत्यस्य अणुं प्राप्तवन्तः ।
02:32 एवमेव, भवन्तः अल्केन्स् इत्येतेषां ततिं रचयितुं, Draw Tool इतीदमुपयुज्य, परमाणुं संयोजितुं शक्नुवन्ति ।
02:39 एकं नूतनं गवाक्षम् उद्घाटयन्तु । Draw Tool इतीदमुपयुज्य प्रोपेन् इतीदं रचयन्तु ।
02:45 अधुना 'ईथेन्' इत्यस्याणुं प्राप्तुं, अन्तिमं कार्बन्-परमाणुं हैड्रोजन् इत्यनेन सह डिलीट् कुर्मः ।
02:52 परमाणूनां निष्कासनार्थं, टूल्-बार् मध्यस्थस्य Selection tool ऐकान् इत्यस्योपरि नुदन्तु ।
02:57 चयनं कर्तुं, अन्तिमस्य कार्बन् परमाणोरुपरि नुत्वा कर्षयन्तु ।
03:02 चिताः परमाणवः, नीलवर्णे दृश्यन्ते ।
03:06 निष्कासनाय, Backspace नुदन्तु अथवा Edit मेन्यू मध्ये clear विकल्पमपि भवन्तः उपयोक्तुमर्हन्ति ।
03:14 redo कर्तुं , Ctrl तथा Z कीलकानि युगपन्नुदन्तु ।
03:20 अणौ बोण्ड्स् संयोजनं निष्कासनं च कथमिति वयं दर्शयामः ।
03:26 बोण्ड्स् संयोजितुं, टूल् बार् मध्यस्थं Draw Tool ऐकान् नुदन्तु ।
03:31 वामभागे, Draw Settings मेन्यू उद्घट्यते ।
03:35 उत्सर्गतया, Element ड्रोप् डौन् लिस्ट् मध्ये, Carbon चितमस्ति ।
03:40 डबल् बोण्ड् संयोजितुं, Bond Order ड्रोप् डौन् मध्ये, Double इतीदं चिन्वन्तु ।
03:46 C-1 तथा C-2 अनयोः मध्यस्थं बोण्ड् इतीदं, डबल् बोण्ड् कर्तुं, तदुपरि नुदन्तु ।
03:52 डबल् बोण्ड् इतीदं ट्रिपल् बोण्ड् कर्तुं , Bond Order इत्यस्मात् Triple चित्वा बोण्ड् इत्यस्योपरि नुदन्तु ।
03:59 बोण्ड्स् निष्कासयितुं, मौस् इत्यस्य दक्षिणगण्डं नुत्वा बोण्ड्स् उपरि नुदन्तु ।
04:04 अनेन द्वौ अन्यौ अणौ सञ्जायेते ।
04:08 अधुना इमान् परमाणून् पुनः संयोजयाम ।
04:11 एकस्य अणोः कार्बन्-उपरि नुदन्नेव, अन्यस्य अणोः कार्बन् उपरि कर्षयित्वा क्लिक् कुर्वन्तु ।
04:18 Bond Centric Manipulation टूल् उपयुज्य, वयं बोण्ड्स् इतीमानि भ्रामयितुं शक्नुमः तथा बोण्ड् इत्यस्य दैर्घ्यं परिवर्तयितुं शक्नुमः ।
04:24 टूल्-बार् मध्ये, Bond Centric Manipulation tool इत्यस्योपरि नुदन्तु ।
04:29 वामपार्श्वे, Bond Centric Manipulate settings इत्येतेषां मेन्यू उदघट्यते ।
04:34 उत्सर्गतया, Show Angles तथा Snap-to Bonds विकल्पानि चेक् कृतानि ।
04:39 Snap-to Threshold (स्नेप् टु थ्रेशोल्ड्), 10 डिग्री इति सेट् जातम् ।
04:43 उपयोक्तारः, तेषाम् आवश्यकतानुसारेण सेट्टिङ्ग्स् कर्तुं शक्नुवन्ति ।
04:49 कोणान् दर्शयितुं, द्वयोः परमाणोः मध्यस्थं बोण्ड् इतीदं नुदन्तु ।
04:55 अस्माभिः बोण्ड्स् इत्येतेषां रोटेशन् इत्यस्य प्लेन् इतीदं निर्णीतव्यम् ।
04:59 भवदभीष्टं प्लेन् निश्चेतुं, बोण्ड् इत्यस्योपरि नुदन्तु तथा उपरि अधो वा कर्षन्तु ।
05:05 परमाणूनां मध्ये प्लेन् इतीदं नीलवर्णेन पीतवर्णेन वा दृश्यते ।
05:11 भ्रामयितुं, परमाणुषु एकं नुत्वा चालयन्तु ।
05:16 संयुक्तं बोण्ड् इतीदं, परमाणुभिः सह निर्दिष्टे समतले भ्रामितं भवति ।
05:21 बोण्ड् इत्यस्य दैर्घ्यपरिवर्तनाय, मौस् इत्यस्य दक्षिणगण्डं नुदन्नेव कर्षयन्तु ।
05:27 अधुना हैड्रोजन् इतीमानि ,मिथैल् ग्रूप् रूपेण कथं परिवर्तनीयमिति वयं दर्शयामः ।
05:32 Build मेन्यू इत्यस्योपरि, पश्चात् Change H To Methyl इत्यस्योपरि च नुदन्तु ।
05:38 अधुनात्र सर्वेषां Hydrogen इत्येतेषां स्थाने 'मिथैल् ग्रूप्स्' सन्ति ।
05:43 परिवर्तनानि undo कर्तुं, CTRL तथा Z कीलके युगपन्नुदन्तु ।
05:49 वयं निर्दिष्टमेकं 'हैड्रोजन्' परमाणुं चित्वा तत् ' मिथैल् ग्रूप्' रूपेण परिवर्तयितुं शक्नुमः ।
05:55 टूल् बार् मध्यस्थं Selection tool ऐकान् नुदन्तु ।
05:59 चयनं कर्तुं, अन्तिमेन कार्बन्-परमाणुना सह संयुक्तं 'हैड्रोजन्' नुदन्तु ।
06:04 Build मेन्यू गत्वा , Change H to Methyl इत्यस्योपरि नुदन्तु ।
06:10 चितानि 'हैड्रोजन्', 'मिथैल् ग्रूप्' इत्यनेन परिवर्त्यते ।
06:15 डीसेलेक्ट् कर्तुम्, Ctrl, Shift तथा A कीलकानि युगपन्नुदन्तु ।
06:22 अधुना, रचनायाः कोपि पेस्ट् करणं संयोजनं च कथमिति पश्याम ।
06:28 एकं नूतनं गवाक्षम् उद्घाटयितुं, File >> New इतीमे नुदन्तु ।
06:33 वयमेकं माल्टोस् अणोः रचनां जानाम ।
06:37 माल्टोस् इतीदं, द्वाभ्यां ग्लुकोस् अणुभ्यां रचितमस्ति ।
06:41 एकं ग्लुकोस् अणुं संयोजितुं, Build मेन्यू इत्यस्योपरि नुदन्तु ।
06:46 अधः स्क्रोल् कृत्वा, Insert >> Fragment अनयोरुपरि नुदन्तु ।
06:51 Insert Fragment डैलाग् बोक्स् दृश्यते ।
06:55 अस्याः आवल्याः अधः स्क्रोल् कृत्वा, Cyclic sugars (सैक्लिक् शुगर्स्) इति सञ्चयं नुदन्तु ।
07:01 एकं सब्-मेन्यू दृश्यते ।
07:04 अधः गत्वा beta-d-glucopyranose.cml (बीटा-डि-ग्लूकोपैरानोस् डोट् सि एम् एल्)इतीदं चिनोतु ।
07:10 Insert गण्डण् नुत्वा संवादपेटिकायाः पिधानं कुर्वन्तु ।
07:16 पेनल् मध्ये beta-D-glucopyranose.cml (बीटा-डि-ग्लूकोपैरानोस् डोट् सि एम् एल्) नीलवर्णे हैलेट् जातमिति दृश्यते ।
07:24 hand टूल् उपयुज्य, इदं मध्यभागे ट्रान्स्लेट् कुर्वन्तु ।
07:28 अधुना अन्यं ग्लुकोस् अणुं कोपि कृत्वा, पेस्ट् कुर्मः ।
07:33 मेन्यू बार् मध्ये Edit मेन्यू नुदन्तु ।
07:36 Copy इत्यस्योपरि नुदन्तु । पुनः Edit मेन्यू मध्ये अधः कर्षयन्तु । Paste नुदन्तु च ।
07:44 कृपया अवलोक्यतां : कोपि-पेस्ट् करणे सति, विण्डो एकवारं मन्दं भूत्वा पश्चात् सम्यग्जायते ।
07:51 पेनल् मध्ये, पूर्वं विद्यमानस्य अणोरुपरि एकं नूतनम् अणुं कोपि कृत्वा पेस्ट् कृतं वर्तते ।
07:58 कर्सर् एकं हस्तवत् प्रतिभासते ।
08:01 मूलाणुना, प्रतिकृताणुं कर्षयन्तु ।
08:06 अधुना पेनल् मध्ये द्वे अणू स्तः ।
08:10 डीसेलेक्ट् कर्तुं, Ctrl, Shift तथा A कीलकानि युगपन्नुदन्तु ।
08:17 वयमधुना अणुभ्यः लेबल् कुर्मः । अनेन सर्वेषां परमाणूनां स्थानज्ञानाय साहाय्यं भविष्यति ।
08:25 लेबल् कर्तुं, Display Types ड्रोप् डौन् मध्ये, Label इति चेक् बोक्स् नुदन्तु ।
08:32 'माल्टोस्' इतीदं प्राप्तुं, जलस्य एकस्य अणोः निष्कासनम् आवश्यकम् ।
08:37 आदिमस्य अणोः C-1 उपरितन OH गणं तथा द्वितीयाणोः C-9 उपरितन हैड्रोजन् इतीदञ्च निष्कासयन्तु ।
08:46 Draw tool settings अणौ, Carbon इतीदं निष्कासयन्तु ।
08:50 Bond Order मध्ये, Single इतीदं चिन्वन्तु ।
08:54 Adjust Hydrogens इति चेक्-बोक्स्, अन्चेक् क्रियताम् ।
08:58 oxygen परमाणु-द्वारा, प्रथमाणोः C-1 तथा द्वितीयाणोः C-9 इतीमे संयोजितुं नुदन्नेव कर्षयन्तु ।
09:07 वयमधुना ज्यामित्याः ओप्टिमैसेशन् कुर्याम ।
09:11 Auto Optimization tool इतीदं चिन्वन्तु ।
09:15 वामभागे, Auto Optimization settings मेन्यू दृश्यते ।
09:20 MMFF94 फ़ोर्स् फ़ील्ड् चित्वा Start गण्डस्योपरि नुदन्तु ।
09:27 ओप्टिमैसेशन् क्रियायाः समापनाय कानिचन सेकेण्ड्स् आवश्यकानि । भवन्तः लेबल्स् निष्कासितुं शक्नुवन्ति ।
09:35 अधुना पेनल् मध्ये, ओप्टिमैस् जातस्य 'माल्टोस्' इत्यस्य रचनां वयं प्राप्तवन्तः ।
09:40 सङ्क्षेपेण पाठेऽस्मिन् वयम् : परमाणूनां संयोजनं निष्कासनम् च,
09:47 बोण्ड्स् इत्येतेषां संयोजनं निष्कासनम्,
09:50 बोण्ड्स् इत्येतेषां परिभ्रामणम्,
09:52 बोण्ड् इत्यस्य दैर्घ्यपरिवर्तनम्,
09:54 हैड्रोजन् इतीदं मिथैल्-ग्रुप् इत्यस्मै परिवर्तयितुम्,
09:56 रचनायाः कोपि करणं पेस्ट् करणं संयोजनम् – एतान् विषयान् ज्ञातवन्तः ।
10:00 एकं पाठनियोजनम् : Draw Tool इतीदमुपयुज्य, ब्यूटेन् अणुं रचयन्तु ।
10:06 इदं 2,3 dimethyl Butane(2,3 डैमीथेल् ब्यूटेन्) रूपेण परिवर्तयन्तु ।
10:10 बोण्ड्स् इतीमानि भ्रामयित्वा , बोण्ड् इत्यस्य दैर्घ्यानि परिवर्तयन्तु ।
10:14 सेल्युलोस् इत्यस्य एकमणुं रचयन्तु । (सूचना : Insert fragment library मध्ये, D- glucose monomer उपलभ्यमस्ति )
10:22 UFF फ़ोर्स् फ़ील्ड् इतीदमुपयुज्य, ज्यामित्याः ओप्टिमैसेशन् कुर्वन्तु ।
10:27 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमबेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
10:36 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:44 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
10:52 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat