Avogadro/C2/Edit-molecules/Sanskrit
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Edit molecules इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
| 00:08 | अस्मिन् पाठे वयं – परमाणूनां संयोजनं निष्कासनञ्च, |
| 00:14 | बोण्ड्स् इत्येतेषां संयोजनं निष्कासनञ्च, |
| 00:16 | बोण्ड्स् इत्येतेषां परिभ्रामणम्, |
| 00:18 | बोण्ड् इत्यस्य दैर्ग्यपरिवर्तनम्, |
| 00:20 | हैड्रोजन् इतीदं 'मीथैल् ग्रुप्' इत्यस्मै परिवर्तनम्, |
| 00:23 | रचनानां कोपि-करणं, पेस्ट्-करणं, संयोजनम् – इत्येतान् विषयान् ज्ञास्यामः । |
| 00:27 | अहमत्र : Ubuntu Linux OS 14.04 आवृत्तिः,
Avogadro 1.1.1 आवृत्तिः – अनयोरुपयोगं करोमि । |
| 00:37 | पाठस्यास्य अनुसरणाय भवन्तः Avogadro इण्टर्फ़ेस् इतीदं सम्यग् जानीयुः । |
| 00:43 | न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु । |
| 00:49 | अत्र 'टर्मिनल्' उपयुज्य, Avogadro इतीदं कथमुद्घाटनीयमिति अहं दर्शयामि । |
| 00:55 | टर्मिनल् इत्यस्योद्घाटनाय, CTRL, ALT तथा T कीलकानि युगपन्नुदन्तु । |
| 01:03 | प्रोम्ट् मध्ये avogadro इति टङ्कयित्वा , Enter नुदन्तु । |
| 01:08 | Avogadro एप्लिकेशन् विण्डो उद्घट्यते । |
| 01:12 | विवरणार्थमहं, Fragment लैब्ररी तः, n-ब्यूटेन् इत्यस्याणुं प्रदर्शयामि । |
| 01:19 | Build मेन्यू इत्यस्योपरि नुत्वा, अनुक्रमम् Insert >> Fragment प्रति च गच्छन्तु । |
| 01:25 | Insert fragment डैलाग् बोक्स् उद्घट्यते । |
| 01:29 | फ़्रेग्मेण्ट् इत्येतेषाम् आवल्यां, alkanes सञ्चयम् उद्घाटयितुं तदुपरि द्विवारं नुदन्तु । |
| 01:35 | अधुना दृश्यमाने ड्रोप्-डौन्-लिस्ट् मध्ये, butane.cml इतीदं चिन्वन्तु । |
| 01:41 | Insert गण्डं नुदन्तु ।Insert Fragment संवादपेटिकायाः पिधानार्थं, X (क्लोस्) इतीदं नुदन्तु । |
| 01:49 | नीलवर्णेन हैलेट् कृतं 'ब्यूटेन्' अणुः पेनल् उपरि दृश्यते । |
| 01:54 | हैलैट् निष्कासयितुं , Ctrl, Shift तथा A कीलकानि युगपन्नुदन्तु । |
| 02:02 | सम्यक्कर्तुं, Navigation टूल् उपयुज्य रचनां परिभ्रामयन्तु । |
| 02:09 | अधुना अणवे परमाणुसंयोजनं कथमिति वयं ज्ञास्यामः । |
| 02:14 | टूल् बार् मध्ये, Draw Tool ऐकान् नुदन्तु । |
| 02:18 | अन्तिमस्य Carbon परमाणोरुपरि क्लिक् कृत्वा पेनल् इत्यस्योपरि कर्षयन्नानयन्तु । |
| 02:23 | आवश्यकेन हैड्रोजन् इत्यनेन सह कार्बन् परमाणुः संयोजितः वर्तते । |
| 02:27 | वयमधुना पेनल् मध्ये पेण्टेन् इत्यस्य अणुं प्राप्तवन्तः । |
| 02:32 | एवमेव, भवन्तः अल्केन्स् इत्येतेषां ततिं रचयितुं, Draw Tool इतीदमुपयुज्य, परमाणुं संयोजितुं शक्नुवन्ति । |
| 02:39 | एकं नूतनं गवाक्षम् उद्घाटयन्तु । Draw Tool इतीदमुपयुज्य प्रोपेन् इतीदं रचयन्तु । |
| 02:45 | अधुना 'ईथेन्' इत्यस्याणुं प्राप्तुं, अन्तिमं कार्बन्-परमाणुं हैड्रोजन् इत्यनेन सह डिलीट् कुर्मः । |
| 02:52 | परमाणूनां निष्कासनार्थं, टूल्-बार् मध्यस्थस्य Selection tool ऐकान् इत्यस्योपरि नुदन्तु । |
| 02:57 | चयनं कर्तुं, अन्तिमस्य कार्बन् परमाणोरुपरि नुत्वा कर्षयन्तु । |
| 03:02 | चिताः परमाणवः, नीलवर्णे दृश्यन्ते । |
| 03:06 | निष्कासनाय, Backspace नुदन्तु अथवा Edit मेन्यू मध्ये clear विकल्पमपि भवन्तः उपयोक्तुमर्हन्ति । |
| 03:14 | redo कर्तुं , Ctrl तथा Z कीलकानि युगपन्नुदन्तु । |
| 03:20 | अणौ बोण्ड्स् संयोजनं निष्कासनं च कथमिति वयं दर्शयामः । |
| 03:26 | बोण्ड्स् संयोजितुं, टूल् बार् मध्यस्थं Draw Tool ऐकान् नुदन्तु । |
| 03:31 | वामभागे, Draw Settings मेन्यू उद्घट्यते । |
| 03:35 | उत्सर्गतया, Element ड्रोप् डौन् लिस्ट् मध्ये, Carbon चितमस्ति । |
| 03:40 | डबल् बोण्ड् संयोजितुं, Bond Order ड्रोप् डौन् मध्ये, Double इतीदं चिन्वन्तु । |
| 03:46 | C-1 तथा C-2 अनयोः मध्यस्थं बोण्ड् इतीदं, डबल् बोण्ड् कर्तुं, तदुपरि नुदन्तु । |
| 03:52 | डबल् बोण्ड् इतीदं ट्रिपल् बोण्ड् कर्तुं , Bond Order इत्यस्मात् Triple चित्वा बोण्ड् इत्यस्योपरि नुदन्तु । |
| 03:59 | बोण्ड्स् निष्कासयितुं, मौस् इत्यस्य दक्षिणगण्डं नुत्वा बोण्ड्स् उपरि नुदन्तु । |
| 04:04 | अनेन द्वौ अन्यौ अणौ सञ्जायेते । |
| 04:08 | अधुना इमान् परमाणून् पुनः संयोजयाम । |
| 04:11 | एकस्य अणोः कार्बन्-उपरि नुदन्नेव, अन्यस्य अणोः कार्बन् उपरि कर्षयित्वा क्लिक् कुर्वन्तु । |
| 04:18 | Bond Centric Manipulation टूल् उपयुज्य, वयं बोण्ड्स् इतीमानि भ्रामयितुं शक्नुमः तथा बोण्ड् इत्यस्य दैर्घ्यं परिवर्तयितुं शक्नुमः । |
| 04:24 | टूल्-बार् मध्ये, Bond Centric Manipulation tool इत्यस्योपरि नुदन्तु । |
| 04:29 | वामपार्श्वे, Bond Centric Manipulate settings इत्येतेषां मेन्यू उदघट्यते । |
| 04:34 | उत्सर्गतया, Show Angles तथा Snap-to Bonds विकल्पानि चेक् कृतानि । |
| 04:39 | Snap-to Threshold (स्नेप् टु थ्रेशोल्ड्), 10 डिग्री इति सेट् जातम् । |
| 04:43 | उपयोक्तारः, तेषाम् आवश्यकतानुसारेण सेट्टिङ्ग्स् कर्तुं शक्नुवन्ति । |
| 04:49 | कोणान् दर्शयितुं, द्वयोः परमाणोः मध्यस्थं बोण्ड् इतीदं नुदन्तु । |
| 04:55 | अस्माभिः बोण्ड्स् इत्येतेषां रोटेशन् इत्यस्य प्लेन् इतीदं निर्णीतव्यम् । |
| 04:59 | भवदभीष्टं प्लेन् निश्चेतुं, बोण्ड् इत्यस्योपरि नुदन्तु तथा उपरि अधो वा कर्षन्तु । |
| 05:05 | परमाणूनां मध्ये प्लेन् इतीदं नीलवर्णेन पीतवर्णेन वा दृश्यते । |
| 05:11 | भ्रामयितुं, परमाणुषु एकं नुत्वा चालयन्तु । |
| 05:16 | संयुक्तं बोण्ड् इतीदं, परमाणुभिः सह निर्दिष्टे समतले भ्रामितं भवति । |
| 05:21 | बोण्ड् इत्यस्य दैर्घ्यपरिवर्तनाय, मौस् इत्यस्य दक्षिणगण्डं नुदन्नेव कर्षयन्तु । |
| 05:27 | अधुना हैड्रोजन् इतीमानि ,मिथैल् ग्रूप् रूपेण कथं परिवर्तनीयमिति वयं दर्शयामः । |
| 05:32 | Build मेन्यू इत्यस्योपरि, पश्चात् Change H To Methyl इत्यस्योपरि च नुदन्तु । |
| 05:38 | अधुनात्र सर्वेषां Hydrogen इत्येतेषां स्थाने 'मिथैल् ग्रूप्स्' सन्ति । |
| 05:43 | परिवर्तनानि undo कर्तुं, CTRL तथा Z कीलके युगपन्नुदन्तु । |
| 05:49 | वयं निर्दिष्टमेकं 'हैड्रोजन्' परमाणुं चित्वा तत् ' मिथैल् ग्रूप्' रूपेण परिवर्तयितुं शक्नुमः । |
| 05:55 | टूल् बार् मध्यस्थं Selection tool ऐकान् नुदन्तु । |
| 05:59 | चयनं कर्तुं, अन्तिमेन कार्बन्-परमाणुना सह संयुक्तं 'हैड्रोजन्' नुदन्तु । |
| 06:04 | Build मेन्यू गत्वा , Change H to Methyl इत्यस्योपरि नुदन्तु । |
| 06:10 | चितानि 'हैड्रोजन्', 'मिथैल् ग्रूप्' इत्यनेन परिवर्त्यते । |
| 06:15 | डीसेलेक्ट् कर्तुम्, Ctrl, Shift तथा A कीलकानि युगपन्नुदन्तु । |
| 06:22 | अधुना, रचनायाः कोपि पेस्ट् करणं संयोजनं च कथमिति पश्याम । |
| 06:28 | एकं नूतनं गवाक्षम् उद्घाटयितुं, File >> New इतीमे नुदन्तु । |
| 06:33 | वयमेकं माल्टोस् अणोः रचनां जानाम । |
| 06:37 | माल्टोस् इतीदं, द्वाभ्यां ग्लुकोस् अणुभ्यां रचितमस्ति । |
| 06:41 | एकं ग्लुकोस् अणुं संयोजितुं, Build मेन्यू इत्यस्योपरि नुदन्तु । |
| 06:46 | अधः स्क्रोल् कृत्वा, Insert >> Fragment अनयोरुपरि नुदन्तु । |
| 06:51 | Insert Fragment डैलाग् बोक्स् दृश्यते । |
| 06:55 | अस्याः आवल्याः अधः स्क्रोल् कृत्वा, Cyclic sugars (सैक्लिक् शुगर्स्) इति सञ्चयं नुदन्तु । |
| 07:01 | एकं सब्-मेन्यू दृश्यते । |
| 07:04 | अधः गत्वा beta-d-glucopyranose.cml (बीटा-डि-ग्लूकोपैरानोस् डोट् सि एम् एल्)इतीदं चिनोतु । |
| 07:10 | Insert गण्डण् नुत्वा संवादपेटिकायाः पिधानं कुर्वन्तु । |
| 07:16 | पेनल् मध्ये beta-D-glucopyranose.cml (बीटा-डि-ग्लूकोपैरानोस् डोट् सि एम् एल्) नीलवर्णे हैलेट् जातमिति दृश्यते । |
| 07:24 | hand टूल् उपयुज्य, इदं मध्यभागे ट्रान्स्लेट् कुर्वन्तु । |
| 07:28 | अधुना अन्यं ग्लुकोस् अणुं कोपि कृत्वा, पेस्ट् कुर्मः । |
| 07:33 | मेन्यू बार् मध्ये Edit मेन्यू नुदन्तु । |
| 07:36 | Copy इत्यस्योपरि नुदन्तु । पुनः Edit मेन्यू मध्ये अधः कर्षयन्तु । Paste नुदन्तु च । |
| 07:44 | कृपया अवलोक्यतां : कोपि-पेस्ट् करणे सति, विण्डो एकवारं मन्दं भूत्वा पश्चात् सम्यग्जायते । |
| 07:51 | पेनल् मध्ये, पूर्वं विद्यमानस्य अणोरुपरि एकं नूतनम् अणुं कोपि कृत्वा पेस्ट् कृतं वर्तते । |
| 07:58 | कर्सर् एकं हस्तवत् प्रतिभासते । |
| 08:01 | मूलाणुना, प्रतिकृताणुं कर्षयन्तु । |
| 08:06 | अधुना पेनल् मध्ये द्वे अणू स्तः । |
| 08:10 | डीसेलेक्ट् कर्तुं, Ctrl, Shift तथा A कीलकानि युगपन्नुदन्तु । |
| 08:17 | वयमधुना अणुभ्यः लेबल् कुर्मः । अनेन सर्वेषां परमाणूनां स्थानज्ञानाय साहाय्यं भविष्यति । |
| 08:25 | लेबल् कर्तुं, Display Types ड्रोप् डौन् मध्ये, Label इति चेक् बोक्स् नुदन्तु । |
| 08:32 | 'माल्टोस्' इतीदं प्राप्तुं, जलस्य एकस्य अणोः निष्कासनम् आवश्यकम् । |
| 08:37 | आदिमस्य अणोः C-1 उपरितन OH गणं तथा द्वितीयाणोः C-9 उपरितन हैड्रोजन् इतीदञ्च निष्कासयन्तु । |
| 08:46 | Draw tool settings अणौ, Carbon इतीदं निष्कासयन्तु । |
| 08:50 | Bond Order मध्ये, Single इतीदं चिन्वन्तु । |
| 08:54 | Adjust Hydrogens इति चेक्-बोक्स्, अन्चेक् क्रियताम् । |
| 08:58 | oxygen परमाणु-द्वारा, प्रथमाणोः C-1 तथा द्वितीयाणोः C-9 इतीमे संयोजितुं नुदन्नेव कर्षयन्तु । |
| 09:07 | वयमधुना ज्यामित्याः ओप्टिमैसेशन् कुर्याम । |
| 09:11 | Auto Optimization tool इतीदं चिन्वन्तु । |
| 09:15 | वामभागे, Auto Optimization settings मेन्यू दृश्यते । |
| 09:20 | MMFF94 फ़ोर्स् फ़ील्ड् चित्वा Start गण्डस्योपरि नुदन्तु । |
| 09:27 | ओप्टिमैसेशन् क्रियायाः समापनाय कानिचन सेकेण्ड्स् आवश्यकानि । भवन्तः लेबल्स् निष्कासितुं शक्नुवन्ति । |
| 09:35 | अधुना पेनल् मध्ये, ओप्टिमैस् जातस्य 'माल्टोस्' इत्यस्य रचनां वयं प्राप्तवन्तः । |
| 09:40 | सङ्क्षेपेण पाठेऽस्मिन् वयम् : परमाणूनां संयोजनं निष्कासनम् च, |
| 09:47 | बोण्ड्स् इत्येतेषां संयोजनं निष्कासनम्, |
| 09:50 | बोण्ड्स् इत्येतेषां परिभ्रामणम्, |
| 09:52 | बोण्ड् इत्यस्य दैर्घ्यपरिवर्तनम्, |
| 09:54 | हैड्रोजन् इतीदं मिथैल्-ग्रुप् इत्यस्मै परिवर्तयितुम्, |
| 09:56 | रचनायाः कोपि करणं पेस्ट् करणं संयोजनम् – एतान् विषयान् ज्ञातवन्तः । |
| 10:00 | एकं पाठनियोजनम् : Draw Tool इतीदमुपयुज्य, ब्यूटेन् अणुं रचयन्तु । |
| 10:06 | इदं 2,3 dimethyl Butane(2,3 डैमीथेल् ब्यूटेन्) रूपेण परिवर्तयन्तु । |
| 10:10 | बोण्ड्स् इतीमानि भ्रामयित्वा , बोण्ड् इत्यस्य दैर्घ्यानि परिवर्तयन्तु । |
| 10:14 | सेल्युलोस् इत्यस्य एकमणुं रचयन्तु । (सूचना : Insert fragment library मध्ये, D- glucose monomer उपलभ्यमस्ति ) |
| 10:22 | UFF फ़ोर्स् फ़ील्ड् इतीदमुपयुज्य, ज्यामित्याः ओप्टिमैसेशन् कुर्वन्तु । |
| 10:27 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमबेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् । |
| 10:36 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
| 10:44 | स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
| 10:52 | अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |