GIMP/C2/Selecting-Sections-Part-2/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:28, 27 September 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:25 इदं Rolf Steinort महाभागः Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् अस्ति ।
00:31 अद्य, वयं Fuzzy Select Tool इत्यस्य विषयं चर्चयामः ।
00:36 इदं Select by Colour इति साधनेन सह बहु निकटतया सम्बद्धम् अस्ति ।
00:40 किन्तु, Fuzzy Select Tool इतीदं सन्निकृष्टप्रदेशम् अपि च colour select tool इतीदं सदृशवर्णयुक्तान् सर्वप्रदेशान् चिनोति ।
00:54 Replace, Add, Subtract अपि च Intersect with the current selection इत्येतत्सदृशविकल्पाः केचन अत्र सन्ति । अपि च इदानीम् अहं Replace इतीदं चिनोमि ।
01:08 Antialiasing इति समानविकल्पम् अत्र भवान् द्रष्टुं शक्नोति ।
01:13 यदि Antialiasing इतीदं चिनुमः तर्हि चयनस्य सीमा तीक्ष्णा न भवति अपि च भवान् मृदुसीमाः प्राप्नोति ।
01:23 अपि च इदं यदि चितं नास्ति तर्हि चित-अचितप्रदेशयोः मध्ये तीक्ष्णसीमां प्राप्नोति ।
01:33 Feather edges अपि च Select transparent areas इतीमौ अग्रिमविकल्पौ स्तः ।
01:41 Select transparent areas इतीदं कदाचित् mask sensor इत्यस्य उपयोगे उपयोगकरम् अस्ति ।
01:50 Sample merged इतीदम् अन्येभ्यः समानम् अस्ति । अपि च दृग्गोचरान् layers इतीमान् सर्वान् चिनोति ।
01:58 यदि इदम् अपचितं भवति तर्हि प्रकृतस्तरस्य उपरि कार्यं करोति ।
02:04 यदि भवान् चित्रस्य सकलफलितात् चेतुम् इच्छति तर्हि इमं विकल्पं चिनोतु ।
02:11 अत्र Threshold इतीदम् अस्ति । चयने भवितुम् अथवा कश्चन भागः चयनात् बहिः स्थिते वर्णयोः कीयान् भेदः भवितुम् अर्हति इति निरूपयति ।
02:24 निर्दिष्टवर्णयुक्तचित्रकणान् चेतुम् इदं साहाय्यं करोति ।
02:30 चयने का दशा भवते अपेक्ष्यते इति अग्रिमं मुख्यचयनम् अस्ति ।
02:37 Composite इतीयं दशा Red, Green अपि च Blue इति वाहिनीनां योजनेन प्राप्तं धूसरवर्णस्य मूल्यम् अस्ति ।
02:44 Red, Green, Blue इति वाहिनी अथवा Hue, Saturation अथवा Value इति वाहिन्यः, चयनस्य कृते आधाररूपेण भवान् चेतुं शक्नोति ।
02:56 इदानीं Fuzzy Select Tool इतीदं वयं प्रयतामहे ।
03:01 अहं नूनं चित्रे नुदामि अपि च Threshold इतीदं शून्यम् अस्ति । किं भवति इति पश्यामः ।
03:08 एकचित्रकणस्य आकारस्य चयनम् अहम् करोमि ।
03:13 इदानीम् अहं Threshold इत्यस्य परिमाणं 30 प्रति वर्धयित्वा चित्रे नुदामि । अपि च अत्र Toggle Quick Mask इत्यस्य उपरि नुदामि ।
03:28 इदानीं चितप्रदेशं भवान् द्रष्टुं शक्नोति ।
03:37 अहं Quick Mask toggle इतीदम् अपचित्य साधनपेटिकां प्राप्तुं tab इतीदं नुदामि । सर्वम् अपचेतुं Shift+Ctrl+A इतीदं नुदामि ।
03:49 इदम् अहं विभिन्नमार्गे कर्तुं शक्नोमि । तदर्थम् Threshold इतीदं शून्यं प्रति आनीय चित्रे नुदामि । इदानीं मौस् अधः नीत्वा दक्षिणभागं प्रति कर्षयामि ।
04:03 threshold इतीदं यदा वर्धयामि तदा अहं नीलप्रदेशे गच्छन् अस्मि इति भवान् द्रष्टुं शक्नोति । किन्तु, अहम् इतोऽपि भित्तेः उपरि एव अस्मि ।
04:13 इदं साधनं चित्रणकल्पयितॄणां (graphic designers) बहु उपयोगकरम् अस्ति । अपि च भाचित्रकाणां (photographers) कृते न इति अहं चिन्तयामि ।
04:22 मौस् कर्षणेन भवान् Threshold इतीदं परिवर्तयितुं शक्नोति ।
04:26 colour selection इति साधने इदम् एवमेव कार्यं करोति ।
04:32 Select by इतीदं Composite इत्यतः Hue प्रति परिवर्तयामि । तस्मिन् एव बिन्दौ नुत्वा अधः कर्षयामि ।
04:43 पूर्वतनापेक्षया, भित्तेः नील-हरितप्रदेशापेक्षया बहु उत्तमचयनं मह्यं प्राप्तम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
04:54 अतः, अनेन साधनेन वर्णं व्याख्यातुं योग्यविधानस्य चयनम् उत्तमपरिणामं ददाति ।
05:05 अहं quick mask इत्यत्र नुदामि । इदं न्यूनाधिकं परिपूर्णम् अस्ति, केवलं केचन भागाः परिष्कर्तव्याः । तत् अहं quick mask इत्यत्र रङ्गसेचनेन कर्तुं शक्नोमि स्म, एतेभ्यः चयनसाधनेभ्यः न ।
05:25 यदि दशायाः चयने व्याकुलः अस्ति तर्हि Channels इति दशायां विभिन्नवाहिनीभ्यः भवतः चित्रं भवान् द्रष्टुं शक्नोति ।
05:41 Blue इति वाहिनीं चिनोतु । अपि च सर्वम् अपि प्रायः एकमेव नीलवर्णस्य मूल्येन युक्तम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
05:50 Green इति वाहिन्यां केचन भेदाः सन्ति ।
05:55 Red इति वाहिन्यां प्रायः अत्र एवमेव अस्ति ।
05:59 अतः, चेतुम् अहं Green इति वाहिनीम् अथवा सन्दर्भे अस्मिन् Hue इति वाहिनीं चेतुं शक्नोमि स्म ।
06:10 Selecting colour इति अग्रिमसाधनम् अस्ति । इदम् अत्र समानकार्याणि अपि च समानविकल्पयुक्तम् अस्ति ।
06:19 इदम् एकभेदेन युक्तम् अस्ति ।
06:22 यदि अत्र नुदति तर्हि भवान् अस्य वर्णस्य सर्वक्षेत्राणि चिनोति । अपि च सन्निकृष्टप्रदेशम् एकं त्यक्त्वा ।
06:32 colour selection इतीदं साधनं, समानवर्णयुक्तान् सर्वप्रदेशान् चिनोति ।
06:41 अग्रिमसाधनस्य नाम Intelligent scissors अथवा Scissors selection tool इति अस्ति ।
06:48 अयं विधिकल्पः चयनेषु प्रान्तेभ्यः अन्विषति अपि च तान् अनुसरति ।
06:56 अपि च अत्र मया पत्रमञ्जूषाः (letterboxes) चेतव्याः सन्ति ।
07:10 अतः, अहं selection tool इतीदं सक्रियं कृत्वा अत्र एकं बिन्दुं कर्षयामि । अपि च मह्यं सारकस्य (cursor) समीपे धनात्मकचिह्नं प्राप्यते । अहं बिन्दून् चिनोमि ।
07:42 अयं विधिकल्पः सीमाः अनुसरेत् । अपि च अयं मार्गान्तरं न प्राप्तवान्, अपि तु अन्तस्थं मार्गं प्राप्तवान् इति भवान् द्रष्टुं शक्नोति ।
07:56 अहं चित्रे सर्पणं करोमि । अहम् इमं बिन्दुम् एतावत्पर्यन्तं कर्षयामि । अस्य बिन्दोः चयने एकः दोषः संवृत्तः ।
08:13 अतः, इमान् बिन्दून् अहम् उपरि कर्षयामि । यत्र अनुसरणं कर्तव्यम् इति निर्दिश्यते चेत् तर्हि अयं विधिकल्पः सीमामेव अनुसरति इति भवान् द्रष्टुं शक्नोति ।
08:30 इदं चारु दृश्यते किन्तु, अहं सामान्यतः इदं न उपयुञ्जे । यतोहि इदं कर्तुम् इतोऽपि उत्तममार्गाः सन्ति ।
08:44 मया colour selection इति साधनम् उपयोक्तव्यम् आसीत् इति मे भासते । यतोहि इदं सर्वदा विमार्गं गृह्णाति ।
08:56 एवम्, अहं selection इतीदं समापितवान् ।
09:10 अहं नूनम् अत्र प्रथमबिन्दोः उपरि नुदामि । अपि च सारकं धनात्मकचिह्नं प्रति परिवर्त्यते ।
09:17 इदानीम्, अहम् अग्रिमबिन्दुं स्थापयामि । अपि च मत्सविधे परिक्रमस्य (loop) रचनकारकं वर्तुलद्वयम् अस्ति ।
09:25 अहम् इमं बिन्दुम् अत्र इतोऽपि सारयितुं शक्नोमि । अपि च चयनम् उत्तमं कर्तुं शक्नोमि ।
09:33 इदानीं, यदा अहं द्वितीयवारं चयनस्य उपरि नुदामि तदा selection इतीदं चितं भवति ।
09:42 अपि च गुणवत्तां द्रष्टुम् अहं Quick Mask इतीदं सक्रियं कृत्वा अस्मिन् सर्पणं करोमि ।
09:57 इदानीं, चयनं परितः पश्यामि ।
10:04 अत्र मम दोषः, मया अत्र नोत्तव्यम् आसीत् ।
10:10 अतः, इमाः वृत्तिसम्पन्न (fairly) बुद्धिशालिकर्तर्यः सन्ति ।
10:17 अद्य मया समापनीयम् अपि च अन्तिमं Foreground Selection Tool इतीदं साधनम् अस्ति ।
10:24 पूर्वं कदाचित् अयं विधिकल्पः यदा बहिरागतः तदा संवेदनशीलः (sensation) आसीत् । GIMP इत्यत्र उपयोगसमये अयं न तावान् संवेदनशीलः ।
10:37 किन्तु, इदम् एकधा वयं प्रयतामहे ।
10:41 अत्र समानदशाः एव सन्ति अपि च antialiasing इतीदं सक्रियं कर्तुं नैव शक्यते ।
10:48 अत्र, अहम् एकं प्रदेशं चेतुम् इच्छामि । अपि च मया इयं प्रतिमा चेतव्या अस्ति ।
10:57 अतः, उत्तमं नियन्त्रणं प्राप्तुम् अहं प्रथमं चित्रे सर्पणं करोमि ।
11:06 इदानीम्, अहं selection tool इतीदं चिनोमि । अहं सन्निकृष्टप्रदेशम् अथवा अन्यप्रदेशं चेतुं शक्नोमि । किन्तु, अहं Contiguous इति प्रदेशं चिनोमि ।
11:21 प्रथमम् अहं automatic laser tool इत्यनेन रूक्षचयनं (rough selection) करोमि । अपि च अचितप्रदेशः नीले अस्ति इति भवान् द्रष्टुं शक्नोति ।
11:44 अत्र अहं कूर्चमेकं चितवान् अस्मि । कूर्चस्य व्यासम् अनया अवसर्पिण्या नियन्त्रयितुं शक्नोमि । अपि च अस्मिन् मया यत् चेतव्यम् अस्ति तस्य रङ्गसेचनं करोमि ।
11:59 चित्रे मह्यं यत् न अपेक्ष्यते तत् न चेतव्यम् इति मया द्रष्टव्यम् ।
12:17 यदा अहं मौस् त्यजामि तदा विधिकल्पः स्वयं कार्यम् आरभते । अत्र केचन प्रदेशाः चेतव्याः सन्ति ।
12:27 सर्वदा चयनं नवीकृतं (updated) भवति । अपि च इदानीं मया रङ्गसिक्तसदृशप्रदेशः अपि चितः अस्ति ।
12:42 इदानीम्, अहं Mark Background इतीदं नुत्वा चित्रे मह्यम् अनपेक्षितपृष्ठदेशे रङ्गसेचनम् आरभे ।
12:54 चित-अचितप्रदेशयोः मध्ये यदा अधिकभेदः अस्ति तदा साधनम् इदं सम्यक् कार्यं करोति । अत्र तावान् बृहत्भेदः नास्ति ।
13:12 नूनं चयनम् अङ्गीकर्तुं Enter इतीदं नुदतु ।
13:17 साधनम् इदं कथं कार्यं करोति इति कल्पना भवते आगता स्यात् ।
13:27 Paths इतीदं साधनम् इमं प्रदेशं प्रत्यपि सम्बद्धम् अस्ति । किन्तु, कदाचित् अहं तत् विवृणोमि ।
13:36 selections इत्यनेन सह भवता कर्तव्याः अन्ये केचन विषयाः Select इति सूचिकायाम् (menu) अस्ति । तदपि अहं कदाचित् विवृणोमि ।
13:48 अतः, इदम् एतत्पाठार्थम् आसीत् ।
13:52 मह्यं टिप्पणीं प्रयच्छन्तु । अपि च अहं वीक्षकेभ्यः प्राप्तनूतनविषयान् अग्रिमे पाठे कथयामि इति वाग्दानं कुर्वन् अस्मि ।
14:05 meetthegimp.org इत्यत्र विद्यमानशृङ्खले (link) show notes इत्यत्र अस्याः सञ्चिकायाः कृते एकं शृङ्खलं भवान् प्राप्नोति । यदि अभिप्रायः प्रकटनीयः अस्ति तर्हि कृपया सूचयतु ।
14:19 Spoken Tutorial परियोजनायै अनुवादकः वासुदेवः प्रवाचकश्च श्रीनवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat