GIMP/C2/Selecting-Sections-Part-2/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:23 | Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् । |
00:25 | इदं Rolf Steinort महाभागः Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् अस्ति । |
00:31 | अद्य, वयं Fuzzy Select Tool इत्यस्य विषयं चर्चयामः । |
00:36 | इदं Select by Colour इति साधनेन सह बहु निकटतया सम्बद्धम् अस्ति । |
00:40 | किन्तु, Fuzzy Select Tool इतीदं सन्निकृष्टप्रदेशम् अपि च colour select tool इतीदं सदृशवर्णयुक्तान् सर्वप्रदेशान् चिनोति । |
00:54 | Replace, Add, Subtract अपि च Intersect with the current selection इत्येतत्सदृशविकल्पाः केचन अत्र सन्ति । अपि च इदानीम् अहं Replace इतीदं चिनोमि । |
01:08 | Antialiasing इति समानविकल्पम् अत्र भवान् द्रष्टुं शक्नोति । |
01:13 | यदि Antialiasing इतीदं चिनुमः तर्हि चयनस्य सीमा तीक्ष्णा न भवति अपि च भवान् मृदुसीमाः प्राप्नोति । |
01:23 | अपि च इदं यदि चितं नास्ति तर्हि चित-अचितप्रदेशयोः मध्ये तीक्ष्णसीमां प्राप्नोति । |
01:33 | Feather edges अपि च Select transparent areas इतीमौ अग्रिमविकल्पौ स्तः । |
01:41 | Select transparent areas इतीदं कदाचित् mask sensor इत्यस्य उपयोगे उपयोगकरम् अस्ति । |
01:50 | Sample merged इतीदम् अन्येभ्यः समानम् अस्ति । अपि च दृग्गोचरान् layers इतीमान् सर्वान् चिनोति । |
01:58 | यदि इदम् अपचितं भवति तर्हि प्रकृतस्तरस्य उपरि कार्यं करोति । |
02:04 | यदि भवान् चित्रस्य सकलफलितात् चेतुम् इच्छति तर्हि इमं विकल्पं चिनोतु । |
02:11 | अत्र Threshold इतीदम् अस्ति । चयने भवितुम् अथवा कश्चन भागः चयनात् बहिः स्थिते वर्णयोः कीयान् भेदः भवितुम् अर्हति इति निरूपयति । |
02:24 | निर्दिष्टवर्णयुक्तचित्रकणान् चेतुम् इदं साहाय्यं करोति । |
02:30 | चयने का दशा भवते अपेक्ष्यते इति अग्रिमं मुख्यचयनम् अस्ति । |
02:37 | Composite इतीयं दशा Red, Green अपि च Blue इति वाहिनीनां योजनेन प्राप्तं धूसरवर्णस्य मूल्यम् अस्ति । |
02:44 | Red, Green, Blue इति वाहिनी अथवा Hue, Saturation अथवा Value इति वाहिन्यः, चयनस्य कृते आधाररूपेण भवान् चेतुं शक्नोति । |
02:56 | इदानीं Fuzzy Select Tool इतीदं वयं प्रयतामहे । |
03:01 | अहं नूनं चित्रे नुदामि अपि च Threshold इतीदं शून्यम् अस्ति । किं भवति इति पश्यामः । |
03:08 | एकचित्रकणस्य आकारस्य चयनम् अहम् करोमि । |
03:13 | इदानीम् अहं Threshold इत्यस्य परिमाणं 30 प्रति वर्धयित्वा चित्रे नुदामि । अपि च अत्र Toggle Quick Mask इत्यस्य उपरि नुदामि । |
03:28 | इदानीं चितप्रदेशं भवान् द्रष्टुं शक्नोति । |
03:37 | अहं Quick Mask toggle इतीदम् अपचित्य साधनपेटिकां प्राप्तुं tab इतीदं नुदामि । सर्वम् अपचेतुं Shift+Ctrl+A इतीदं नुदामि । |
03:49 | इदम् अहं विभिन्नमार्गे कर्तुं शक्नोमि । तदर्थम् Threshold इतीदं शून्यं प्रति आनीय चित्रे नुदामि । इदानीं मौस् अधः नीत्वा दक्षिणभागं प्रति कर्षयामि । |
04:03 | threshold इतीदं यदा वर्धयामि तदा अहं नीलप्रदेशे गच्छन् अस्मि इति भवान् द्रष्टुं शक्नोति । किन्तु, अहम् इतोऽपि भित्तेः उपरि एव अस्मि । |
04:13 | इदं साधनं चित्रणकल्पयितॄणां (graphic designers) बहु उपयोगकरम् अस्ति । अपि च भाचित्रकाणां (photographers) कृते न इति अहं चिन्तयामि । |
04:22 | मौस् कर्षणेन भवान् Threshold इतीदं परिवर्तयितुं शक्नोति । |
04:26 | colour selection इति साधने इदम् एवमेव कार्यं करोति । |
04:32 | Select by इतीदं Composite इत्यतः Hue प्रति परिवर्तयामि । तस्मिन् एव बिन्दौ नुत्वा अधः कर्षयामि । |
04:43 | पूर्वतनापेक्षया, भित्तेः नील-हरितप्रदेशापेक्षया बहु उत्तमचयनं मह्यं प्राप्तम् अस्ति इति भवान् द्रष्टुं शक्नोति । |
04:54 | अतः, अनेन साधनेन वर्णं व्याख्यातुं योग्यविधानस्य चयनम् उत्तमपरिणामं ददाति । |
05:05 | अहं quick mask इत्यत्र नुदामि । इदं न्यूनाधिकं परिपूर्णम् अस्ति, केवलं केचन भागाः परिष्कर्तव्याः । तत् अहं quick mask इत्यत्र रङ्गसेचनेन कर्तुं शक्नोमि स्म, एतेभ्यः चयनसाधनेभ्यः न । |
05:25 | यदि दशायाः चयने व्याकुलः अस्ति तर्हि Channels इति दशायां विभिन्नवाहिनीभ्यः भवतः चित्रं भवान् द्रष्टुं शक्नोति । |
05:41 | Blue इति वाहिनीं चिनोतु । अपि च सर्वम् अपि प्रायः एकमेव नीलवर्णस्य मूल्येन युक्तम् अस्ति इति भवान् द्रष्टुं शक्नोति । |
05:50 | Green इति वाहिन्यां केचन भेदाः सन्ति । |
05:55 | Red इति वाहिन्यां प्रायः अत्र एवमेव अस्ति । |
05:59 | अतः, चेतुम् अहं Green इति वाहिनीम् अथवा सन्दर्भे अस्मिन् Hue इति वाहिनीं चेतुं शक्नोमि स्म । |
06:10 | Selecting colour इति अग्रिमसाधनम् अस्ति । इदम् अत्र समानकार्याणि अपि च समानविकल्पयुक्तम् अस्ति । |
06:19 | इदम् एकभेदेन युक्तम् अस्ति । |
06:22 | यदि अत्र नुदति तर्हि भवान् अस्य वर्णस्य सर्वक्षेत्राणि चिनोति । अपि च सन्निकृष्टप्रदेशम् एकं त्यक्त्वा । |
06:32 | colour selection इतीदं साधनं, समानवर्णयुक्तान् सर्वप्रदेशान् चिनोति । |
06:41 | अग्रिमसाधनस्य नाम Intelligent scissors अथवा Scissors selection tool इति अस्ति । |
06:48 | अयं विधिकल्पः चयनेषु प्रान्तेभ्यः अन्विषति अपि च तान् अनुसरति । |
06:56 | अपि च अत्र मया पत्रमञ्जूषाः (letterboxes) चेतव्याः सन्ति । |
07:10 | अतः, अहं selection tool इतीदं सक्रियं कृत्वा अत्र एकं बिन्दुं कर्षयामि । अपि च मह्यं सारकस्य (cursor) समीपे धनात्मकचिह्नं प्राप्यते । अहं बिन्दून् चिनोमि । |
07:42 | अयं विधिकल्पः सीमाः अनुसरेत् । अपि च अयं मार्गान्तरं न प्राप्तवान्, अपि तु अन्तस्थं मार्गं प्राप्तवान् इति भवान् द्रष्टुं शक्नोति । |
07:56 | अहं चित्रे सर्पणं करोमि । अहम् इमं बिन्दुम् एतावत्पर्यन्तं कर्षयामि । अस्य बिन्दोः चयने एकः दोषः संवृत्तः । |
08:13 | अतः, इमान् बिन्दून् अहम् उपरि कर्षयामि । यत्र अनुसरणं कर्तव्यम् इति निर्दिश्यते चेत् तर्हि अयं विधिकल्पः सीमामेव अनुसरति इति भवान् द्रष्टुं शक्नोति । |
08:30 | इदं चारु दृश्यते किन्तु, अहं सामान्यतः इदं न उपयुञ्जे । यतोहि इदं कर्तुम् इतोऽपि उत्तममार्गाः सन्ति । |
08:44 | मया colour selection इति साधनम् उपयोक्तव्यम् आसीत् इति मे भासते । यतोहि इदं सर्वदा विमार्गं गृह्णाति । |
08:56 | एवम्, अहं selection इतीदं समापितवान् । |
09:10 | अहं नूनम् अत्र प्रथमबिन्दोः उपरि नुदामि । अपि च सारकं धनात्मकचिह्नं प्रति परिवर्त्यते । |
09:17 | इदानीम्, अहम् अग्रिमबिन्दुं स्थापयामि । अपि च मत्सविधे परिक्रमस्य (loop) रचनकारकं वर्तुलद्वयम् अस्ति । |
09:25 | अहम् इमं बिन्दुम् अत्र इतोऽपि सारयितुं शक्नोमि । अपि च चयनम् उत्तमं कर्तुं शक्नोमि । |
09:33 | इदानीं, यदा अहं द्वितीयवारं चयनस्य उपरि नुदामि तदा selection इतीदं चितं भवति । |
09:42 | अपि च गुणवत्तां द्रष्टुम् अहं Quick Mask इतीदं सक्रियं कृत्वा अस्मिन् सर्पणं करोमि । |
09:57 | इदानीं, चयनं परितः पश्यामि । |
10:04 | अत्र मम दोषः, मया अत्र नोत्तव्यम् आसीत् । |
10:10 | अतः, इमाः वृत्तिसम्पन्न (fairly) बुद्धिशालिकर्तर्यः सन्ति । |
10:17 | अद्य मया समापनीयम् अपि च अन्तिमं Foreground Selection Tool इतीदं साधनम् अस्ति । |
10:24 | पूर्वं कदाचित् अयं विधिकल्पः यदा बहिरागतः तदा संवेदनशीलः (sensation) आसीत् । GIMP इत्यत्र उपयोगसमये अयं न तावान् संवेदनशीलः । |
10:37 | किन्तु, इदम् एकधा वयं प्रयतामहे । |
10:41 | अत्र समानदशाः एव सन्ति अपि च antialiasing इतीदं सक्रियं कर्तुं नैव शक्यते । |
10:48 | अत्र, अहम् एकं प्रदेशं चेतुम् इच्छामि । अपि च मया इयं प्रतिमा चेतव्या अस्ति । |
10:57 | अतः, उत्तमं नियन्त्रणं प्राप्तुम् अहं प्रथमं चित्रे सर्पणं करोमि । |
11:06 | इदानीम्, अहं selection tool इतीदं चिनोमि । अहं सन्निकृष्टप्रदेशम् अथवा अन्यप्रदेशं चेतुं शक्नोमि । किन्तु, अहं Contiguous इति प्रदेशं चिनोमि । |
11:21 | प्रथमम् अहं automatic laser tool इत्यनेन रूक्षचयनं (rough selection) करोमि । अपि च अचितप्रदेशः नीले अस्ति इति भवान् द्रष्टुं शक्नोति । |
11:44 | अत्र अहं कूर्चमेकं चितवान् अस्मि । कूर्चस्य व्यासम् अनया अवसर्पिण्या नियन्त्रयितुं शक्नोमि । अपि च अस्मिन् मया यत् चेतव्यम् अस्ति तस्य रङ्गसेचनं करोमि । |
11:59 | चित्रे मह्यं यत् न अपेक्ष्यते तत् न चेतव्यम् इति मया द्रष्टव्यम् । |
12:17 | यदा अहं मौस् त्यजामि तदा विधिकल्पः स्वयं कार्यम् आरभते । अत्र केचन प्रदेशाः चेतव्याः सन्ति । |
12:27 | सर्वदा चयनं नवीकृतं (updated) भवति । अपि च इदानीं मया रङ्गसिक्तसदृशप्रदेशः अपि चितः अस्ति । |
12:42 | इदानीम्, अहं Mark Background इतीदं नुत्वा चित्रे मह्यम् अनपेक्षितपृष्ठदेशे रङ्गसेचनम् आरभे । |
12:54 | चित-अचितप्रदेशयोः मध्ये यदा अधिकभेदः अस्ति तदा साधनम् इदं सम्यक् कार्यं करोति । अत्र तावान् बृहत्भेदः नास्ति । |
13:12 | नूनं चयनम् अङ्गीकर्तुं Enter इतीदं नुदतु । |
13:17 | साधनम् इदं कथं कार्यं करोति इति कल्पना भवते आगता स्यात् । |
13:27 | Paths इतीदं साधनम् इमं प्रदेशं प्रत्यपि सम्बद्धम् अस्ति । किन्तु, कदाचित् अहं तत् विवृणोमि । |
13:36 | selections इत्यनेन सह भवता कर्तव्याः अन्ये केचन विषयाः Select इति सूचिकायाम् (menu) अस्ति । तदपि अहं कदाचित् विवृणोमि । |
13:48 | अतः, इदम् एतत्पाठार्थम् आसीत् । |
13:52 | मह्यं टिप्पणीं प्रयच्छन्तु । अपि च अहं वीक्षकेभ्यः प्राप्तनूतनविषयान् अग्रिमे पाठे कथयामि इति वाग्दानं कुर्वन् अस्मि । |
14:05 | meetthegimp.org इत्यत्र विद्यमानशृङ्खले (link) show notes इत्यत्र अस्याः सञ्चिकायाः कृते एकं शृङ्खलं भवान् प्राप्नोति । यदि अभिप्रायः प्रकटनीयः अस्ति तर्हि कृपया सूचयतु । |
14:19 | Spoken Tutorial परियोजनायै अनुवादकः वासुदेवः प्रवाचकश्च श्रीनवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |