Linux/C2/Ubuntu-Desktop-16.04/Sanskrit
Time | Narration |
00:01 | Ubuntu Linux Desktop 16.04 इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:09 | पाठेऽस्मिन् वयं , gnome environment मध्ये उबण्टु लिनक्स् डेस्क्-टोप् अपि च |
00:17 | उबण्टु डेस्क्-टोप् उपरि विद्यमानानि अप्लिकेशन्स् विषयं ज्ञास्यामः । |
00:22 | पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Linux 16.04 O S उपयुञ्ज्महे । |
00:29 | उबण्टु डेस्क्-टोप् दृश्यते । |
00:33 | स्क्रीन् वामभागे वयं 'लोञ्चर्' पश्यामः । |
00:37 | इदं 'लोञ्चर्' कथं अदृश्यं क्रियते? |
00:40 | तत्कर्तुं वामपार्श्वस्थं 'लोञ्चर्' प्रति गच्छन्तु ।
System Settings ऐकान् उपरि नुदन्तु । |
00:47 | System Settings गवाक्षे, Appearance उपरि नुदन्तु । |
00:51 | Appearance गवाक्षे, Behavior टेब् नुदन्तु । |
00:56 | अत्र, Auto-hide the Launcher इतीदं ON इत्यस्मै परिवर्तयन्तु । |
01:01 | अधुना 'लोञ्चर्' तिरो भवति । |
01:04 | अत्रोक्तवत् 'लोञ्चर्' अदृश्यं जातं चेत्, तत् पुनः दृश्यं कर्तुं शक्नुमः । |
01:10 | तत्कर्तुं, कर्सर् इतीदं पटलस्य वामकोणे स्थापयन्तु । |
01:15 | 'लोञ्चर्' दृश्यते । |
01:18 | कर्सर् दूरं कर्षयामः चेत्, 'लोञ्चर्' पुनः तिरो भवति । |
01:23 | Appearance गवाक्षं गत्वा Auto-hide the Launcher इतीदं OFF कुर्वन्तु । |
01:30 | गवाक्षस्य उपरि वामभागे विद्यमानं स्माल् X ऐकान् नुत्वा गवाक्षस्य पिधानं कुर्वन्तु । |
01:37 | पश्यन्तु, उत्सर्गतया 'लोञ्चर्' मध्ये कानिचन ऐकान्स् सन्ति । |
01:42 | 'लोञ्चर्' उपरि कोणे, Dash home ऐकान् वर्तते । |
01:47 | Dash home एकम् इण्टर्फ़ेस् वर्तते । इदमेकस्मिन् स्क्रीन् मध्ये, उबण्टु लिनक्स् इत्यस्य सर्वेषाम् अप्लिकेशन्स् इत्येतेषाम् एक्सेस् ददाति । |
01:55 | Dash home उद्घाटयितुं तदुपरि नुदन्तु । |
01:59 | उपरि प्राधान्येन 'सर्च् बार्' फील्ड् दृश्यते । |
02:04 | एकम् अप्लिकेशन् कथं अनन्यीक्रियते? अन्वेष्टव्यानाम् अप्लिकेशन् नाम ददातु । झटिति तद्दृश्यते ।
सुलभमस्ति तदेवम् ! |
02:16 | वयं Calculator इति अप्लिकेशन् अन्वेष्टुं प्रयत्नं कुर्मः । |
02:20 | अतः 'सर्च् बार्' फील्ड् मध्ये, C a l c (सि ए एल् सि) इति टङ्कयन्तु । |
02:26 | नाम्नि c a l c युतानां सर्वेषाम् अप्लिकेशन्स् लिस्ट् जायते । |
02:32 | अत्र पश्यन्तु - LibreOffice Calc तथा Calculator इमे द्वेऽपि आवल्याम् स्तः । |
02:37 | Calculator ऐकान् उपरि नुदन्तु ।
अधुना Calculator अप्लिकेशन् पटले उद्घाटितम् । |
02:45 | अङ्कगणितीयं, वैज्ञानिकम् आर्थिकं च गणनाय केल्क्युलेटर् साहाय्यमाचरति । |
02:52 | कानिचन सरलगणितानि करवाम । |
02:55 | 5 asterisk 8 इति टङ्कयित्वा समचिह्नस्योपरि (=) नुत्त्वा Enter नुदन्तु । |
03:02 | समचिह्नस्योपरि (=) नोदनं हित्वा कीलफलके Enter नोदनमपि साध्यमत्र । |
03:09 | उत्तरं 'केल्क्युलेटर्'मध्ये दर्शितम् । |
03:13 | एवमेव वयं Calculator अप्लिकेशन् उपयुज्य सर्वाणि गणितानि कर्तुं शक्नुमः । |
03:20 | अधुना गवाक्षस्य वामपार्श्वे , स्माल् X ऐकान् नुत्वा, Calculator तः बहिरागच्छन्तु (exit) । |
03:28 | Ubuntu Linux OS मध्ये कानिचन अप्लिकेशन्स् ज्ञानं प्राप्नुवाम । |
03:34 | तदर्थं पुनः Dash home गमिष्यामः । |
03:38 | 'सर्च् बार्' मध्ये, gedit इति टङ्कयन्तु । Ubuntu Linux OS मध्ये, gedit औत्सर्गिकं टेक्स्ट् एडिटर् वर्तते । |
03:48 | Text Editor ऐकान् अधस्तात् दृश्यते । तदुद्घाटयितुं तदुपरि नुदन्तु । |
03:55 | पटले भवद्भिः gedit Text Editor दृश्यते । |
04:00 | अहं कानिचित् अक्षराणि टङ्कयामि ।
उदाहरणार्थं, Hello World इति टैप् कुर्मः । |
04:07 | सञ्चिकां रक्षितुं, कीबोर्ड् उपरि Ctrl अपि च S कीलकानि युगपन्नुदन्तु । |
04:14 | तदतिरिच्य, वयं File अपि च Save नोदनं च कर्तुं शक्नुमः । |
04:20 | अधुना, “Save as” इति डैलाग् बोक्स् उद्घट्यते ।
तत्, filename अपि च सञ्चिकायाः रक्षणीयस्थानं(location) पृच्छति । |
04:31 | वयं filename इतीदं "Hello.txt" इति टङ्कयामः । |
04:36 | .txt इदं text file इत्यस्य औत्सर्गिकम् एक्स्टेन्शन् (extension) वर्तते । |
04:41 | लोकेशन् अर्थं वयं, Desktop चिनुमः । अधस्तात् स्थितं Save गण्डं नुदन्तु । |
04:49 | अधुना विण्डो इत्यस्योपरि वामपार्श्वे स्माल् X ऐकान् नुदन्तु । इदं gedit गवाक्षस्य पिधानं करवाम । |
04:57 | Desktop उपरि वयं Hello.txt सञ्चिकां दृष्टुं शक्नुमः ।
अस्यार्थः अस्माकं टेक्स्ट्-फैल् रक्षितम् इति । |
05:05 | सञ्चिकां द्विवारनोदनं कृत्वा उद्घाटयामि । |
05:09 | अत्र पश्यन्तु, अस्माभिः लिखितैः टेक्स्ट् इत्येतैः सह सञ्चिका उद्घाटिता । |
05:14 | gedit Text Editor विषयं अन्तर्जाले बहु विवृतम् । |
05:19 | अस्मिन् जालपुटेऽपि अस्मिन् विषये केचन पाठाः सन्ति । |
05:25 | अस्य टेक्स्ट्-एडिटर् इत्यस्य पिधानं कुर्मः । अन्यद् अप्लिकेशन् अर्थात् Terminal पश्याम । |
05:32 | एतदर्थं वयं पुनः Dash home गच्छाम ।
अधुना, 'सर्च् बार्' फील्ड् मध्ये terminal इति टङ्कयन्तु । |
05:41 | अधो विद्यमानं Terminal ऐकान् नुदन्तु । |
05:45 | Terminal गवाक्षः पटले उद्घाट्यते ।
कृपया अवलोकयन्तु : Terminal उद्घाटितुं , Ctrl+Alt+T शोर्ट्-कट् वर्तते । |
05:55 | 'टर्मिनल्' इतीदं 'कमाण्ड् लैन्' इत्यपि कथ्यते ।
यतो हि, अस्माद् भवन्तः सङ्गणकाय आदेशं दातुं शक्नुवन्ति । |
06:02 | वस्तुतः, इदं GUI इत्यस्मात् प्रबलं वर्तते । |
06:06 | पुनरहं 'टर्मिनल् ' विण्डो गमिष्यामि । |
06:09 | टर्मिनल् कार्यविधानं दृष्टुं एकं सरलं कमाण्ड् टङ्कयाम ।
'ls' इति टङ्कयित्वा, Enter नुदन्तु । |
06:18 | current directory मध्ये सर्वासां सञ्चिकानां सर्वेषां सञ्चयानाम् आवलिः दृश्यते । |
06:23 | अत्रेदं Home folder मध्ये वर्तमानानि फैल्स् फोल्डर्स् च दर्शयति । |
06:28 | Home फोल्डर् नाम किम्? पाठस्यान्ते इदं ज्ञास्यामः । |
06:33 | 'टर्मिनल्' विषयम् अलं विस्तरेण । |
06:37 | गवाक्षस्योपरि वामपार्श्वे स्माल् X ऐकान् नुदन्तु । terminal इत्यस्य पिधानं कुर्वन्तु । |
06:43 | जालपुटेऽस्मिन् Linux पाठस्य ततौ, 'टर्मिनल् कमाण्ड्स्' सम्यग् विवृतानि । |
06:49 | वयमधुना अन्यम् अप्लिकेशन्, नाम Firefox Web Browser पश्याम । |
06:55 | पुनः , Dash home उद्घाट्य सर्च्-बार् मध्ये Firefox इति टङ्कयन्तु । |
07:01 | Firefox Web Browser ऐकान् उपरि नुदन्तु । |
07:05 | world wide web इतीदं आक्सेस् (access) कर्तुं, Firefox Web Browser उपयुज्यते ।
अधुना Firefox browser विण्डो उद्घाटितं दृश्यते । |
07:15 | वयं spoken tutorial जालपुटं गच्छाम ।
एतदर्थम्, अड्रेस् बार् नुत्वा, कीबोर्ड् उपरि F6 नुदन्तु । |
07:24 | वयमधुना "spoken-tutorial.org" इति टङ्कयित्वा, Enter नुदामः । |
07:31 | भवन्तः अन्तर्जालसम्पर्कं प्राप्तवन्तः चेत्, अभीष्टाय जालपुटाय 'फैर् फोक्स्', सम्पर्कं कल्पयति । |
07:37 | ब्रौसर् मध्ये Spoken Tutorial Homepage उद्घाट्यते । |
07:41 | पूर्ववत् अस्य पिधानं कृत्वा अग्रिमम् अप्लिकेशन् गच्छाम । |
07:47 | पुनः वयं Dash home गत्वा सर्च्-बार् मध्ये office इति टङ्कयाम । |
07:53 | भवन्तः Calc, Impress, Writer अपि च Draw सदृशानि नाना LibreOffice अङ्गानि पश्यन्ति । |
08:01 | Ubuntu Linux OS मध्ये, LibreOffice औत्सर्गिकम् office अप्लिकेशन् वर्तते । |
08:07 | एतानि सर्वाणि ज्ञातुं पाठाः , 'स्पोकन् ट्युटोरियल्' जालपुटे उपलभ्यन्ते । |
08:13 | वयमधुना Video विकल्पं ज्ञास्यामः । |
08:17 | सर्च्-बार् मध्ये video इति टङ्कयन्तु । |
08:20 | दर्शितायाम् आवल्यां, Videos इत्येकम् अप्लिकेशन् वर्तते । |
08:25 | चलच्चित्राणि गानानि च चालयितुं, Videos उपयुज्यते । उत्सर्गतया तत्, केवलं open format वीडियो-फैल्स् चालयति । |
08:34 | मम 'पेन्-ड्रैव्' द्वाराहं, एकां सञ्चिकां चालयामि । |
08:38 | मम व्यवस्थायां, पेन्-ड्रैव् इतीदं usb स्लोट् मध्ये संयोजयामि ।
pen-drive फोल्डर् स्वयमेव उद्घट्यते । |
08:47 | न चेत् वयं तं 'लोञ्चर्' द्वारा आक्सेस्(access) कर्तुं शक्नुमः । |
08:52 | लोञ्चर् मध्ये pen-drive ऐकान् पश्यन्तु । |
08:56 | अस्योपरि नुदामश्चेत्, इदं पेन्-ड्रैव् मध्ये, विद्यमानानि सर्वाणि फैल्स् फोल्डर्स् च दर्शयति । |
09:02 | इदं प्ले कर्तुमहम् big buck bunny.ogv इति मूवि-फैल् चिनोमि । |
09:08 | अत्र मम सञ्चिका अस्ति । अस्योद्घाटनायाहं अस्योपरि द्विवारनोदनं करोमि । |
09:14 | उत्सर्गतया इदं Videos मध्ये उद्घाट्यते । |
09:17 | चलच्चित्रमत्र विरमितं कुर्मः । |
09:20 | Desktop गन्तुं, Ctrl, Windows अपि च D कीलकानि नुदामः । |
09:26 | वयमधुना Desktop इत्यस्य कानिचन प्रधानविषयान् पश्याम । |
09:31 | Launcher मध्यस्थं फोल्डर् ऐकान् पश्यन्तु । तन्नुदन्तु च । |
09:37 | Home फोल्डर् उद्घटते । |
09:39 | Ubuntu Linux मध्ये, प्रत्येकोऽपि उपयोक्ता एकं विशिष्टं Home सञ्चयं प्राप्तवानस्ति । |
09:44 | 'होम् फोल्डर्' इतीदमस्माकं गृहमिव । अत्र वयं फैल्स् फोल्डर्स् च सङ्गृहीष्यामः ।
अस्माकम् अनुमतिं विना तद्दृष्टुम् अशक्यम् । |
09:56 | 'फैल् पर्मिशन्' विषये अधिकविवरणं Linux पाठततौ उपलभ्यते । |
10:03 | वयं पुनरागच्छाम ।
अस्माकं Home फोल्डर् मध्ये वयं Desktop, Documents, Downloads सदृशानि अन्यानि फोल्डर्स् पश्यामः । |
10:14 | Linux मध्ये, सर्वाः सञ्चिकाः वर्तन्ते ।
वयं Desktop फोल्डर् द्विवारनोदनं कृत्वा तदुद्घाटयाम । |
10:21 | अत्र वयं, टेक्स्ट् एडिटर् मध्ये रक्षितां तामेव hello.txt सञ्चिकां दृष्टुं शक्नुमः । |
10:28 | अतः इदं फोल्डर् तथा Desktop च एकैवास्ति । |
10:32 | अहमिदं फोल्डर् क्लोस् करोमि ।
अस्मिन् पाठे एतावदेव ज्ञातव्यानि । सङ्क्षेपेण, |
10:39 | पाठेऽस्मिन् वयम्, उबण्टु डेस्क्टोप्, लोञ्चर् अपि चात्र लभ्यमानानि कानिचन ऐकान्स्, |
10:49 | Calculator, Text Editor, Terminal, Firefox Web Browser, Videos सदृशानि कानिचन सामान्यानि अप्लिकेशन्स् अपि च LibreOffice Suite इत्यस्याङ्गानि तथा Home फोल्डर् विषयञ्च ज्ञातवन्तः । |
11:04 | पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु । |
11:12 | “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु । |
11:25 | अस्मिन् 'स्पोकन् ट्युटोरियल्' विषये प्रश्नाः सन्ति वा ?
कृपया जालपुटमिदं पश्यन्तु । |
11:30 | भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये लिखन्तु ।
भवतां प्रश्नानामुत्तरम् अस्माकं गणेषु यः कोऽपि ददाति । |
11:40 | स्पोकन् ट्युटोरियल् फोरम् केवलं पाठसम्बद्धाय प्रश्नाय वर्तते । अतः असम्बद्धप्रश्नान् न लिखन्तु । |
11:50 | अनेन भ्रान्तिः सङ्कीर्णता च न जायते । ततः चर्चा अर्थपूर्णा भविष्यति । |
11:59 | "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते । |
12:11 | इदं स्क्रिप्ट्, "स्पोकन् ट्युटोरियल्" गणस्य योगदानमस्ति ।
पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |