Linux/C2/Ubuntu-Desktop-16.04/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Ubuntu Linux Desktop 16.04 इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:09 पाठेऽस्मिन् वयं , gnome environment मध्ये उबण्टु लिनक्स् डेस्क्-टोप् अपि च
00:17 उबण्टु डेस्क्-टोप् उपरि विद्यमानानि अप्लिकेशन्स् विषयं ज्ञास्यामः ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Linux 16.04 O S उपयुञ्ज्महे ।
00:29 उबण्टु डेस्क्-टोप् दृश्यते ।
00:33 स्क्रीन् वामभागे वयं 'लोञ्चर्' पश्यामः ।
00:37 इदं 'लोञ्चर्' कथं अदृश्यं क्रियते?
00:40 तत्कर्तुं वामपार्श्वस्थं 'लोञ्चर्' प्रति गच्छन्तु ।

System Settings ऐकान् उपरि नुदन्तु ।

00:47 System Settings गवाक्षे, Appearance उपरि नुदन्तु ।
00:51 Appearance गवाक्षे, Behavior टेब् नुदन्तु ।
00:56 अत्र, Auto-hide the Launcher इतीदं ON इत्यस्मै परिवर्तयन्तु ।
01:01 अधुना 'लोञ्चर्' तिरो भवति ।
01:04 अत्रोक्तवत् 'लोञ्चर्' अदृश्यं जातं चेत्, तत् पुनः दृश्यं कर्तुं शक्नुमः ।
01:10 तत्कर्तुं, कर्सर् इतीदं पटलस्य वामकोणे स्थापयन्तु ।
01:15 'लोञ्चर्' दृश्यते ।
01:18 कर्सर् दूरं कर्षयामः चेत्, 'लोञ्चर्' पुनः तिरो भवति ।
01:23 Appearance गवाक्षं गत्वा Auto-hide the Launcher इतीदं OFF कुर्वन्तु ।
01:30 गवाक्षस्य उपरि वामभागे विद्यमानं स्माल् X ऐकान् नुत्वा गवाक्षस्य पिधानं कुर्वन्तु ।
01:37 पश्यन्तु, उत्सर्गतया 'लोञ्चर्' मध्ये कानिचन ऐकान्स् सन्ति ।
01:42 'लोञ्चर्' उपरि कोणे, Dash home ऐकान् वर्तते ।
01:47 Dash home एकम् इण्टर्फ़ेस् वर्तते । इदमेकस्मिन् स्क्रीन् मध्ये, उबण्टु लिनक्स् इत्यस्य सर्वेषाम् अप्लिकेशन्स् इत्येतेषाम् एक्सेस् ददाति ।
01:55 Dash home उद्घाटयितुं तदुपरि नुदन्तु ।
01:59 उपरि प्राधान्येन 'सर्च् बार्' फील्ड् दृश्यते ।
02:04 एकम् अप्लिकेशन् कथं अनन्यीक्रियते? अन्वेष्टव्यानाम् अप्लिकेशन् नाम ददातु । झटिति तद्दृश्यते ।

सुलभमस्ति तदेवम् !

02:16 वयं Calculator इति अप्लिकेशन् अन्वेष्टुं प्रयत्नं कुर्मः ।
02:20 अतः 'सर्च् बार्' फील्ड् मध्ये, C a l c (सि ए एल् सि) इति टङ्कयन्तु ।
02:26 नाम्नि c a l c युतानां सर्वेषाम् अप्लिकेशन्स् लिस्ट् जायते ।
02:32 अत्र पश्यन्तु - LibreOffice Calc तथा Calculator इमे द्वेऽपि आवल्याम् स्तः ।
02:37 Calculator ऐकान् उपरि नुदन्तु ।

अधुना Calculator अप्लिकेशन् पटले उद्घाटितम् ।

02:45 अङ्कगणितीयं, वैज्ञानिकम् आर्थिकं च गणनाय केल्क्युलेटर् साहाय्यमाचरति ।
02:52 कानिचन सरलगणितानि करवाम ।
02:55 5 asterisk 8 इति टङ्कयित्वा समचिह्नस्योपरि (=) नुत्त्वा Enter नुदन्तु ।
03:02 समचिह्नस्योपरि (=) नोदनं हित्वा कीलफलके Enter नोदनमपि साध्यमत्र ।
03:09 उत्तरं 'केल्क्युलेटर्'मध्ये दर्शितम् ।
03:13 एवमेव वयं Calculator अप्लिकेशन् उपयुज्य सर्वाणि गणितानि कर्तुं शक्नुमः ।
03:20 अधुना गवाक्षस्य वामपार्श्वे , स्माल् X ऐकान् नुत्वा, Calculator तः बहिरागच्छन्तु (exit) ।
03:28 Ubuntu Linux OS मध्ये कानिचन अप्लिकेशन्स् ज्ञानं प्राप्नुवाम ।
03:34 तदर्थं पुनः Dash home गमिष्यामः ।
03:38 'सर्च् बार्' मध्ये, gedit इति टङ्कयन्तु । Ubuntu Linux OS मध्ये, gedit औत्सर्गिकं टेक्स्ट् एडिटर् वर्तते ।
03:48 Text Editor ऐकान् अधस्तात् दृश्यते । तदुद्घाटयितुं तदुपरि नुदन्तु ।
03:55 पटले भवद्भिः gedit Text Editor दृश्यते ।
04:00 अहं कानिचित् अक्षराणि टङ्कयामि ।

उदाहरणार्थं, Hello World इति टैप् कुर्मः ।

04:07 सञ्चिकां रक्षितुं, कीबोर्ड् उपरि Ctrl अपि च S कीलकानि युगपन्नुदन्तु ।
04:14 तदतिरिच्य, वयं File अपि च Save नोदनं च कर्तुं शक्नुमः ।
04:20 अधुना, “Save as” इति डैलाग् बोक्स् उद्घट्यते ।

तत्, filename अपि च सञ्चिकायाः रक्षणीयस्थानं(location) पृच्छति ।

04:31 वयं filename इतीदं "Hello.txt" इति टङ्कयामः ।
04:36 .txt इदं text file इत्यस्य औत्सर्गिकम् एक्स्टेन्शन् (extension) वर्तते ।
04:41 लोकेशन् अर्थं वयं, Desktop चिनुमः । अधस्तात् स्थितं Save गण्डं नुदन्तु ।
04:49 अधुना विण्डो इत्यस्योपरि वामपार्श्वे स्माल् X ऐकान् नुदन्तु । इदं gedit गवाक्षस्य पिधानं करवाम ।
04:57 Desktop उपरि वयं Hello.txt सञ्चिकां दृष्टुं शक्नुमः ।

अस्यार्थः अस्माकं टेक्स्ट्-फैल् रक्षितम् इति ।

05:05 सञ्चिकां द्विवारनोदनं कृत्वा उद्घाटयामि ।
05:09 अत्र पश्यन्तु, अस्माभिः लिखितैः टेक्स्ट् इत्येतैः सह सञ्चिका उद्घाटिता ।
05:14 gedit Text Editor विषयं अन्तर्जाले बहु विवृतम् ।
05:19 अस्मिन् जालपुटेऽपि अस्मिन् विषये केचन पाठाः सन्ति ।
05:25 अस्य टेक्स्ट्-एडिटर् इत्यस्य पिधानं कुर्मः । अन्यद् अप्लिकेशन् अर्थात् Terminal पश्याम ।
05:32 एतदर्थं वयं पुनः Dash home गच्छाम ।

अधुना, 'सर्च् बार्' फील्ड् मध्ये terminal इति टङ्कयन्तु ।

05:41 अधो विद्यमानं Terminal ऐकान् नुदन्तु ।
05:45 Terminal गवाक्षः पटले उद्घाट्यते ।

कृपया अवलोकयन्तु : Terminal उद्घाटितुं , Ctrl+Alt+T शोर्ट्-कट् वर्तते ।

05:55 'टर्मिनल्' इतीदं 'कमाण्ड् लैन्' इत्यपि कथ्यते ।

यतो हि, अस्माद् भवन्तः सङ्गणकाय आदेशं दातुं शक्नुवन्ति ।

06:02 वस्तुतः, इदं GUI इत्यस्मात् प्रबलं वर्तते ।
06:06 पुनरहं 'टर्मिनल् ' विण्डो गमिष्यामि ।
06:09 टर्मिनल् कार्यविधानं दृष्टुं एकं सरलं कमाण्ड् टङ्कयाम ।

'ls' इति टङ्कयित्वा, Enter नुदन्तु ।

06:18 current directory मध्ये सर्वासां सञ्चिकानां सर्वेषां सञ्चयानाम् आवलिः दृश्यते ।
06:23 अत्रेदं Home folder मध्ये वर्तमानानि फैल्स् फोल्डर्स् च दर्शयति ।
06:28 Home फोल्डर् नाम किम्? पाठस्यान्ते इदं ज्ञास्यामः ।
06:33 'टर्मिनल्' विषयम् अलं विस्तरेण ।
06:37 गवाक्षस्योपरि वामपार्श्वे स्माल् X ऐकान् नुदन्तु । terminal इत्यस्य पिधानं कुर्वन्तु ।
06:43 जालपुटेऽस्मिन् Linux पाठस्य ततौ, 'टर्मिनल् कमाण्ड्स्' सम्यग् विवृतानि ।
06:49 वयमधुना अन्यम् अप्लिकेशन्, नाम Firefox Web Browser पश्याम ।
06:55 पुनः , Dash home उद्घाट्य सर्च्-बार् मध्ये Firefox इति टङ्कयन्तु ।
07:01 Firefox Web Browser ऐकान् उपरि नुदन्तु ।
07:05 world wide web इतीदं आक्सेस् (access) कर्तुं, Firefox Web Browser उपयुज्यते ।

अधुना Firefox browser विण्डो उद्घाटितं दृश्यते ।

07:15 वयं spoken tutorial जालपुटं गच्छाम ।

एतदर्थम्, अड्रेस् बार् नुत्वा, कीबोर्ड् उपरि F6 नुदन्तु ।

07:24 वयमधुना "spoken-tutorial.org" इति टङ्कयित्वा, Enter नुदामः ।
07:31 भवन्तः अन्तर्जालसम्पर्कं प्राप्तवन्तः चेत्, अभीष्टाय जालपुटाय 'फैर् फोक्स्', सम्पर्कं कल्पयति ।
07:37 ब्रौसर् मध्ये Spoken Tutorial Homepage उद्घाट्यते ।
07:41 पूर्ववत् अस्य पिधानं कृत्वा अग्रिमम् अप्लिकेशन् गच्छाम ।
07:47 पुनः वयं Dash home गत्वा सर्च्-बार् मध्ये office इति टङ्कयाम ।
07:53 भवन्तः Calc, Impress, Writer अपि च Draw सदृशानि नाना LibreOffice अङ्गानि पश्यन्ति ।
08:01 Ubuntu Linux OS मध्ये, LibreOffice औत्सर्गिकम् office अप्लिकेशन् वर्तते ।
08:07 एतानि सर्वाणि ज्ञातुं पाठाः , 'स्पोकन् ट्युटोरियल्' जालपुटे उपलभ्यन्ते ।
08:13 वयमधुना Video विकल्पं ज्ञास्यामः ।
08:17 सर्च्-बार् मध्ये video इति टङ्कयन्तु ।
08:20 दर्शितायाम् आवल्यां, Videos इत्येकम् अप्लिकेशन् वर्तते ।
08:25 चलच्चित्राणि गानानि च चालयितुं, Videos उपयुज्यते । उत्सर्गतया तत्, केवलं open format वीडियो-फैल्स् चालयति ।
08:34 मम 'पेन्-ड्रैव्' द्वाराहं, एकां सञ्चिकां चालयामि ।
08:38 मम व्यवस्थायां, पेन्-ड्रैव् इतीदं usb स्लोट् मध्ये संयोजयामि ।

pen-drive फोल्डर् स्वयमेव उद्घट्यते ।

08:47 न चेत् वयं तं 'लोञ्चर्' द्वारा आक्सेस्(access) कर्तुं शक्नुमः ।
08:52 लोञ्चर् मध्ये pen-drive ऐकान् पश्यन्तु ।
08:56 अस्योपरि नुदामश्चेत्, इदं पेन्-ड्रैव् मध्ये, विद्यमानानि सर्वाणि फैल्स् फोल्डर्स् च दर्शयति ।
09:02 इदं प्ले कर्तुमहम् big buck bunny.ogv इति मूवि-फैल् चिनोमि ।
09:08 अत्र मम सञ्चिका अस्ति । अस्योद्घाटनायाहं अस्योपरि द्विवारनोदनं करोमि ।
09:14 उत्सर्गतया इदं Videos मध्ये उद्घाट्यते ।
09:17 चलच्चित्रमत्र विरमितं कुर्मः ।
09:20 Desktop गन्तुं, Ctrl, Windows अपि च D कीलकानि नुदामः ।
09:26 वयमधुना Desktop इत्यस्य कानिचन प्रधानविषयान् पश्याम ।
09:31 Launcher मध्यस्थं फोल्डर् ऐकान् पश्यन्तु । तन्नुदन्तु च ।
09:37 Home फोल्डर् उद्घटते ।
09:39 Ubuntu Linux मध्ये, प्रत्येकोऽपि उपयोक्ता एकं विशिष्टं Home सञ्चयं प्राप्तवानस्ति ।
09:44 'होम् फोल्डर्' इतीदमस्माकं गृहमिव । अत्र वयं फैल्स् फोल्डर्स् च सङ्गृहीष्यामः ।

अस्माकम् अनुमतिं विना तद्दृष्टुम् अशक्यम् ।

09:56 'फैल् पर्मिशन्' विषये अधिकविवरणं Linux पाठततौ उपलभ्यते ।
10:03 वयं पुनरागच्छाम ।

अस्माकं Home फोल्डर् मध्ये वयं Desktop, Documents, Downloads सदृशानि अन्यानि फोल्डर्स् पश्यामः ।

10:14 Linux मध्ये, सर्वाः सञ्चिकाः वर्तन्ते ।

वयं Desktop फोल्डर् द्विवारनोदनं कृत्वा तदुद्घाटयाम ।

10:21 अत्र वयं, टेक्स्ट् एडिटर् मध्ये रक्षितां तामेव hello.txt सञ्चिकां दृष्टुं शक्नुमः ।
10:28 अतः इदं फोल्डर् तथा Desktop च एकैवास्ति ।
10:32 अहमिदं फोल्डर् क्लोस् करोमि ।

अस्मिन् पाठे एतावदेव ज्ञातव्यानि । सङ्क्षेपेण,

10:39 पाठेऽस्मिन् वयम्, उबण्टु डेस्क्टोप्, लोञ्चर् अपि चात्र लभ्यमानानि कानिचन ऐकान्स्,
10:49 Calculator, Text Editor, Terminal, Firefox Web Browser, Videos सदृशानि कानिचन सामान्यानि अप्लिकेशन्स् अपि च LibreOffice Suite इत्यस्याङ्गानि तथा Home फोल्डर् विषयञ्च ज्ञातवन्तः ।
11:04 पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु ।
11:12 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
11:25 अस्मिन् 'स्पोकन् ट्युटोरियल्' विषये प्रश्नाः सन्ति वा ?

कृपया जालपुटमिदं पश्यन्तु ।

11:30 भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये लिखन्तु ।

भवतां प्रश्नानामुत्तरम् अस्माकं गणेषु यः कोऽपि ददाति ।

11:40 स्पोकन् ट्युटोरियल् फोरम् केवलं पाठसम्बद्धाय प्रश्नाय वर्तते । अतः असम्बद्धप्रश्नान् न लिखन्तु ।
11:50 अनेन भ्रान्तिः सङ्कीर्णता च न जायते । ततः चर्चा अर्थपूर्णा भविष्यति ।
11:59 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते ।
12:11 इदं स्क्रिप्ट्, "स्पोकन् ट्युटोरियल्" गणस्य योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14