Xfig/C2/Simple-block-diagram/Sanskrit
From Script | Spoken-Tutorial
Timing | Narration |
00:00 | Xfig उपयुज्य, block diagram creation विषयके अस्मिन् 'अनुशिक्षणे' भवतां स्वागतम् । |
00:07 | अस्मिन् अनुशिक्षणे वयं, अधः दत्तानि ब्लाक् डयाग्राम्स् कथं रचनीयम् इति विवरीष्यामः । |
00:17 | एतदर्थम् अपेक्षितानि टूल्स् वयं पश्यामः : |
00:19 | अहं Xfig इत्याख्यं कञ्चन ब्लाक्-डयाग्रं म्यानिपुलेषन् टूल् उपयोगं करोमि । |
00:24 | अहं 3.2 तमीम् आवृत्तिं, patch level 5 च उपयोगं कुर्वन् अस्मि । |
00:29 | अहं 'टर्मिनल्', 'pdf' ब्रौसर् इत्यनयोश्च उपयोगम् अपि करिष्यामि । |
00:37 | अहं Mac OS X द्वारा एतस्य अनुशिक्षणस्य निर्माणं कुर्वन् अस्मि । |
00:41 | Xfig, Linux, Windows इत्येतेषु अपि एतत् कार्यं करोति । |
00:45 | लिनक्स् इत्यत्र अवारोपणम् अत्यन्तं सरलम् अस्ति । |
00:50 | Xfig इत्यस्य उपयोगरीतिः, त्रिषु अपि समाना अस्ति । |
00:56 | Xfig निमित्तं, बटन्-त्रययुक्तस्य मौस्-यन्त्रस्य उपयोगः कर्तुम् उचितः । |
01:00 | किन्तु, एतस्य कार्यस्य निमित्तं, एकम् अथवा बटन्-द्वययुक्तं मौस् अपि कान्फिगर् कर्तुं शक्यते । |
01:07 | Xfig निमित्तं 'यूसर् म्यान्युयल्' (उपयोक्तृ-पुस्तिका), अन्तर्जाले उपलभ्यते । |
01:16 | वयं तत् पश्यामः । अस्मिन् पुटे, Xfig विषये प्रस्तावनां द्रष्टुं शक्नुमः । |
01:23 | अस्याः परिचयपुस्तिकायाः Table of Contents अत्र वयं द्रष्टुं शक्नुमः । |
01:28 | अस्योपरि क्लिक् कुर्मः । |
01:31 | अत्र, Xfig इत्यस्य रचयितॄणां नामानि वयं द्रष्टुं शक्नुमः । |
01:36 | वयम् एतत् पुटं पश्यामः । |
01:40 | अहमिदानीम् अस्य अनुशिक्षणस्य निमित्तं, 'स्क्रीन् कान्फिगरेषन्' इत्येतत् विवृणोमि । |
01:46 | एतत् स्लैड्स्, Xfig, इण्टर्नेट् ब्रौसर्-फैर्-फाक्स्, टर्मिनल्-युक्तं च अस्ति । |
01:58 | म्याक् द्वारा Xfig आरब्धुम्, अहमेतत् कमाण्ड् उपयोगं करोमि । |
02:04 | एकस्मात् अन्यं प्रति सरलतया यथा परिवर्तयितुं शक्यं स्यात्, तथा एकस्योपरि अन्यस्य योजनं कृतमाति । |
02:10 | श्रोतृभिः परिवर्तनं सरलतया द्रष्टुं शक्यम्, ऊहनीयं नास्ति । |
02:17 | Xfig तः आरभामहे । |
02:20 | Xfig वर्क्-शीट् वामभागः, drawing मोड् प्यानल्-युक्तः अस्ति । |
02:26 | अस्मिन् प्यानल्-मध्ये, उपरितन-अर्धभागे विद्यमान-बटन्स्, विविधानि आब्जेक्ट्स् रचयितुम् उपयोक्तुं शक्यते । |
02:33 | तैः सह कार्यं कर्तुम्, अधस्तन-बटन्स् उपयुज्यन्ते । |
02:39 | उपरितन-बटन्स् उपयुज्य, File, Edit कार्याणि च कर्तुं शक्यन्ते । |
02:46 | मध्ये विद्यमानं स्थलं 'क्यान्वास्' इति वदामः । |
02:50 | अत्रैव आकृतयः रचयितुं शक्याः । |
02:53 | इदानीं वयं ड्रा कर्तुम् आरभामहे । |
02:55 | मया क्रियमाणं प्रथमं कार्यं, क्यान्वास् उपरि ग्रिड् लेखनम् एव । |
03:01 | अधः विद्यमानस्य Grid Mode बटन् क्लिक् कृत्वा अहम् एतत् करोमि । |
03:05 | वयं विविध-ग्रिड् सैज् चेतुं शक्नुमः । अहं मध्ये विद्यमानं चिनोमि । |
03:11 | अस्माभिः योजितानि आब्जेक्ट्स् संयोजयितुं, ग्रिड्स् साहाय्यं कुर्वन्ति । |
03:16 | अस्मिन् अनुशिक्षणे, क्लिक् कुर्वन्तु इत्युक्ते, मौस् इत्यस्य वाम-बटन् गृहीत्वा तदनन्तरं त्यागः इत्यर्थः । |
03:21 | एवमेव, बटन्-चयनं नाम, भवतां वाम-मौस्-बटन् उपयुज्य क्लिक्-करणम् इत्यर्थः । |
03:29 | यदि अकस्मात् अन्यत् कार्यं भवितव्यम् अस्ति, अहं तत् पृथक् वदामि । |
03:34 | अस्माकं डैग्राम्-कृते बाक्स् अपेक्षितम् इत्यतः, वाम-प्यानल्-तः वयं तीक्ष्ण-कोणयुक्तं Box चिह्नं चिनुमः । |
03:43 | बाक्स् यत्र स्थापनीयं, तत् स्थानं प्रति गच्छामः । |
03:50 | वयं मौस् अत्र क्लिक् कुर्मः । |
03:53 | एतत् बाक्स् वायव्यदिशं चिनोति । |
03:57 | बाक्स्, यावत्पर्यन्तम्, अस्मदपेक्षितं सैज् न प्राप्नोति, तावत्, मौस् विरुद्धदिशि चालयन्तु । |
04:12 | समीचीन-सैज् बाक्स् यदा रचितं भवति, तदनन्तरं वयं मौस् पुनरपि क्लिक् कर्तुं शक्नुमः । |
04:16 | इदानीं बाक्स् रचितम् अस्ति । |
04:18 | इदानीं, Xfig मध्ये Edit इत्येतत् कथम् उपयोक्तव्यम् इति वयं विवृणुमः । एतदुपयुज्य, बाक्स् स्थौल्यं वयं वर्धयामः । |
04:26 | वामभागस्य प्यानल्-मध्ये विद्यमानं Edit बटन् नुदामः । |
04:31 | बाक्स् इत्यस्य सर्वे मुख्यांशाः प्रदर्शिताः इति वयं द्रष्टुं शक्नुमः । |
04:36 | अत्र यत्किञ्चित् पायिण्ट् क्लिक् कृत्वा, बाक्स् चिनुमः । |
04:41 | किञ्चन डयलाग् बाक्स् उद्घाटितं भवति । |
04:43 | वयं मौस् Width बाक्स् प्रति नयामः । |
04:47 | मौस्-पायिण्टर्, बाक्स् अन्तः अस्तीति निश्चिन्वन्तु । |
04:51 | डिफाल्ट् व्याल्यू, 1 इत्येतत् डिलिट् कुर्मः । |
04:55 | मौस्, बाक्स् अन्तः नास्ति चेत्, बाक्स् अन्तः विद्यमानं परिवर्तयितुं न शक्यते । |
05:01 | बाक्स् मध्ये लेखनावसरे, मौस् बहिः गतं चेत्, कृपया अन्तः आनीय, टङ्कनम् अनुवर्तयन्तु । |
05:07 | इदानीं 2 इति टङ्कनं कुर्मः । |
05:13 | वयं Done इत्येतत् क्लिक् कुर्मः । अहमेतत् भवद्भ्यः दर्शयामि । |
05:17 | Done इत्येतत् क्लिक् कृत्वा डयलाग् बाक्स् तः बहिरागच्छन्तु । |
05:20 | बाक्स् इत्यस्य स्थौल्यम् अधिकम् जातम् अस्तीति वयं पश्यामः । |
05:24 | बाणचिह्नयुक्ताः रेखाः अस्माभिः योजनीयाः । |
05:28 | वामभागस्थ-प्यानल्-तः POLYLINE इति बटन् चिनुमः । |
05:34 | अधः विद्यमानं प्यानल्, 'अट्रिब्यूट्स् प्यानल्' (Attributes panel) इति । |
05:40 | अस्मिन् प्यानल्-मध्ये, लभ्यानि बटन्स् उपयुक्य प्रत्येकं आब्जेक्ट् प्यारामीटर् परिवर्तयितुं शक्यते । |
05:45 | चितस्य आब्जेक्ट् अनुगुणं, बटन् सङ्ख्या भिन्ना भवति । |
05:52 | 'अट्रिब्यूट्स् प्यानल्'तः, Arrow Mode इति बटन् चिनुमः । |
05:57 | डयलाग्-बाक्स् मध्ये विद्यमानां द्वितीयं आप्षन् चिनुमः । एतत्, रेखायाः अन्ते बाणस्य चिह्न ददाति । |
06:04 | वयं Arrow Type बटन् क्लिक् कुर्मः । |
06:08 | इदानीं दृश्यमान-विण्डो मध्ये, अस्मदपेक्षितम् आरोहेड् वयं चिनुमः । |
06:14 | रेखा यत्र आरब्धुम् अस्माभिः उद्दिष्टा, तत्र क्लिक् कुर्मः । |
06:23 | अस्याः रेखायाः अन्तिमबिन्दुसमीपे मौस् नयामः । |
06:31 | तत्र, मध्यम-मौस्-बटन् क्लिक् कुर्मः । |
06:36 | बाणचिह्नेन सह रेखा रचिता अस्ति । |
06:39 | स्मरन्तु, आरो पूरयितुं भवद्भिः मध्यम-बटन् नोदनीयम् । |
06:43 | वाम अथवा दक्षिण-बटन् न । |
06:45 | यदि दोषः कृतः स्यात्, कृपया Edit इत्येतत् क्लिक् कृत्वा Undo इत्येतत् नुदन्तु । |
06:52 | कापि (copy) करणद्वारा, बाक्स् इत्यस्य औट्पुट्-मध्ये वयम् अन्यां रेखां रचयामः । |
06:59 | वामभागस्य प्यानल्-तः, COPY बटन् चिन्वन्तु । |
07:05 | रेखां चिन्वन्तु । |
07:09 | भवद्भ्यः यत्र रेखा अपेक्षिता, तत्र मौस् नीत्वा क्लिक् कुर्वन्तु । |
07:15 | एषा रेखा कापि कृता अस्ति । |
07:18 | इदानीं किञ्चित् टेक्स्ट् योजयामः । |
07:21 | वामभागस्य प्यानल्-तः, T द्वारा सूचितं टेक्स्ट्-बाक्स् क्लिक् कुर्मः । |
07:29 | टेक्स्ट् इत्यस्य फाण्ट् सैज् चिनुमः । |
07:35 | 'अट्रिब्यूट्स् प्यानल्' तः Text Size बटन् क्लिक् कुर्मः । किञ्चन डयलाग् विण्डो लभ्यते । |
07:41 | मौस् व्याल्यू बाक्स् अन्तः नीत्वा तत्रैव स्थापयामः । |
07:46 | डिफाल्ट् व्याल्यू 12 डिलिट् कृत्वा, 16 इत्येतत् योजयामः । |
07:52 | Set इत्येतत् बटन् चिनुमः । |
07:56 | डयलाग् बाक्स् पिहितं भवति । 'अट्रिब्यूट्स् प्यानल्' मध्ये इदानीं Text Size 16 इति च दर्शयति । |
08:05 | टेक्स्ट् सेण्टर् अलैन् कुर्मः । |
08:08 | 'अट्रिब्यूट्स् प्यानल्' मध्ये विद्यमानं Text Just बटन् क्लिक् कुर्मः । |
08:13 | किञ्चन डयलाग् बाक्स् उद्घाटितं भवति । |
08:15 | सेण्टर् अलैन् कर्तुं, मध्ये विद्यमानं चिनुमः । |
08:21 | बाक्स् मध्यभागे क्लिक् कुर्मः । |
08:29 | अहं Plant इति टैप् कृत्वा मौस् क्लिक् करोमि । |
08:36 | टेक्स्ट् रचितम् अस्ति । |
08:38 | आवश्यकं चेत्, वामभागस्य प्यानल् मध्ये विद्यमानं Move की उपयुज्य, अहं टेक्स्ट् अपसारयितुं शक्नोमि । |
08:50 | एताम् आकृतिं वयं सेव् कुर्मः । |
08:52 | Xfig इत्यस्य उपरितन-वामकोणे विद्यमानं File बटन् क्लिक् कुर्वन्तु । मौस् नोदनं कृत्वा Save पर्यन्तम् आनीय ततः त्यजन्तु । |
09:04 | एतत् प्रथमवारम् इत्यतः, Xfig, फैल् नाम पृच्छति । |
09:09 | अस्माभिः डैरेक्टरि, ततः सञ्चिकायाः नाम चेतुं शक्यते । |
09:12 | नाम "block" इति टङ्कित्वा, Save इति चिनुमः । |
09:27 | सञ्चिका, "block.fig" इति सेव् भवति । |
09:30 | भवद्भिः एतत् नाम उपरितनकोणे द्रष्टुं शक्यते । |
09:34 | इदानीं वयम् एतत् फैल् एक्स्पोर्ट् कुर्मः । |
09:36 | पुनः File बटन् क्लिक् कुर्वन्तु । ಬಟನ್ ನ್ನು ಕ್ಲಿಕ್ ಮಾಡಿ. मौस् गृहीत्वा Export पर्यन्तम् आनयन्तु । |
09:47 | Language पार्श्वे विद्यमानं बटन् क्लिक् कुर्वन्तु । PDF Format चेतुं, मौस् गृहीत्वा PDF समीपे आनीय त्यज्यन्तु । |
09:59 | इदानीं Export बटन् क्लिक् कुर्वन्तु । वयं "block.pdf" सञ्चिकां प्राप्नुमः । |
10:05 | टर्मिनल्-तः, open block.pdf कमाण्ड्-द्वारा सञ्चिकाम् उद्घाटयामः । |
10:18 | अस्मदपेक्षितं ब्लाक् डैग्राम् अस्माभिः प्राप्तम् अस्ति । |
10:21 | अस्माकम् उद्देशः अस्माभिः पूरितः अस्ति । अस्मदपेक्षिता आकृतिः अस्माभिः प्राप्ता अस्ति । |
10:30 | भवद्भ्यः अत्र किञ्चन गृहकार्यम् अस्ति । |
10:33 | बाक्स् परतया अन्यानि आब्जेक्ट्स् उपयुज्यताम् । |
10:36 | Polyline उपयुज्य किञ्चन आयतं रचयन्तु । आकृतौ विद्यमानस्य बाणस्य चिह्नं दिशां च परिवर्तयन्तु । |
10:43 | टेक्स्ट्, रेखा, बाक्स् एतेषां स्थलपरिवर्तनं कुर्वन्तु । |
10:48 | सञ्चिकां 'eps' फार्म्याट् द्वारा एक्स्पोर्ट् कृत्वा तत् पश्यन्तु । |
10:51 | एडिटर् मध्ये, "block.fig" सञ्चिकां पश्यन्तु, विभिन्नानि घटकानि अभिजानन्तु । |
10:58 | सम्पूर्णतया विभिन्नं ब्लाक् डैग्रां रचयन्तु । |
11:02 | वयम् इदानीम् अनुशिक्षणस्य अन्त्यं प्राप्तवन्तः। |
11:06 | स्पोकन् ट्युटोरियल् योजना, टाक् टु ए टीचर् योजनायाः कश्चन भागः । इदं ICT, MHRD द्वारा भारतसर्वकारस्य राष्ट्रिय साक्षरता मिशन् आधारीकृतम् अस्ति । |
11:18 | एतद् मिषन् विषये अधिकं विवरणम्, अधोनिर्दिष्टायां पर्चन्यां लभ्यते: |
11:28 | अहम् इतोपि कतिचन अन्तर्जाल-पुटानि डौन्लोड् कृतवान् अस्मि । |
11:38 | स्पोकन् ट्युटोरियल् योजनायाः जालपुटम् एवम् अस्ति: |
11:48 | “What is a Spoken Tutorial” इत्यस्यां पर्चन्यां, अस्य प्रकल्पस्य विषये विवृतं वीडियो लभ्यते । |
11:57 | अस्मिन् spoken-tutorial.org/wiki पुटे, अस्माकं प्रकल्पाधारितं FOSS टूल्स् आवली अस्माभिः कृता अस्ति । |
12:12 | वयं Xfig इत्येतत्-सम्बद्धं पुटम् अपि पश्यामः । |
12:27 | भवतां सहभागित्वं, सूचनाश्च वयं स्वागतीकुर्मः । इदम् अनुशिक्षणं, आचार्यस्य कण्णन् मौद्गल्यवर्यस्य योगदानम् ।
अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, ध्वनिः ........। धन्यवादः । |