Xfig/C2/Simple-block-diagram/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Xfig उपयुज्य, block diagram creation विषयके अस्मिन् 'अनुशिक्षणे' भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे वयं, अधः दत्तानि ब्लाक् डयाग्राम्स् कथं रचनीयम् इति विवरीष्यामः ।
00:17 एतदर्थम् अपेक्षितानि टूल्स् वयं पश्यामः :
00:19 अहं Xfig इत्याख्यं कञ्चन ब्लाक्-डयाग्रं म्यानिपुलेषन् टूल् उपयोगं करोमि ।
00:24 3.2 तमीम् आवृत्तिं, patch level 5 च उपयोगं कुर्वन् अस्मि ।
00:29 'टर्मिनल्', 'pdf' ब्रौसर् इत्यनयोश्च उपयोगम् अपि करिष्यामि ।
00:37 अहं Mac OS X द्वारा एतस्य अनुशिक्षणस्य निर्माणं कुर्वन् अस्मि ।
00:41 Xfig, Linux, Windows इत्येतेषु अपि एतत् कार्यं करोति ।
00:45 लिनक्स् इत्यत्र अवारोपणम् अत्यन्तं सरलम् अस्ति ।
00:50 Xfig इत्यस्य उपयोगरीतिः, त्रिषु अपि समाना अस्ति ।
00:56 Xfig निमित्तं, बटन्-त्रययुक्तस्य मौस्-यन्त्रस्य उपयोगः कर्तुम् उचितः ।
01:00 किन्तु, एतस्य कार्यस्य निमित्तं, एकम् अथवा बटन्-द्वययुक्तं मौस् अपि कान्फिगर् कर्तुं शक्यते ।
01:07 Xfig निमित्तं 'यूसर् म्यान्युयल्' (उपयोक्तृ-पुस्तिका), अन्तर्जाले उपलभ्यते ।
01:16 वयं तत् पश्यामः । अस्मिन् पुटे, Xfig विषये प्रस्तावनां द्रष्टुं शक्नुमः ।
01:23 अस्याः परिचयपुस्तिकायाः Table of Contents अत्र वयं द्रष्टुं शक्नुमः ।
01:28 अस्योपरि क्लिक् कुर्मः ।
01:31 अत्र, Xfig इत्यस्य रचयितॄणां नामानि वयं द्रष्टुं शक्नुमः ।
01:36 वयम् एतत् पुटं पश्यामः ।
01:40 अहमिदानीम् अस्य अनुशिक्षणस्य निमित्तं, 'स्क्रीन् कान्फिगरेषन्' इत्येतत् विवृणोमि ।
01:46 एतत् स्लैड्स्, Xfig, इण्टर्नेट् ब्रौसर्-फैर्-फाक्स्, टर्मिनल्-युक्तं च अस्ति ।
01:58 म्याक् द्वारा Xfig आरब्धुम्, अहमेतत् कमाण्ड् उपयोगं करोमि ।
02:04 एकस्मात् अन्यं प्रति सरलतया यथा परिवर्तयितुं शक्यं स्यात्, तथा एकस्योपरि अन्यस्य योजनं कृतमस्ति ।
02:10 श्रोतृभिः परिवर्तनं सरलतया द्रष्टुं शक्यम्, ऊहनीयं नास्ति ।
02:17 Xfig तः आरभामहे ।
02:20 Xfig वर्क्-शीट् वामभागः, drawing मोड् प्यानल्-युक्तः अस्ति ।
02:26 अस्मिन् प्यानल्-मध्ये, उपरितन-अर्धभागे विद्यमान-बटन्स्, विविधानि आब्जेक्ट्स् रचयितुम् उपयोक्तुं शक्यते ।
02:33 तैः सह कार्यं कर्तुम्, अधस्तन-बटन्स् उपयुज्यन्ते ।
02:39 उपरितन-बटन्स् उपयुज्य, File, Edit कार्याणि च कर्तुं शक्यन्ते ।
02:46 मध्ये विद्यमानं स्थलं 'क्यान्वास्' इति वदामः ।
02:50 अत्रैव आकृतयः रचयितुं शक्याः ।
02:53 इदानीं वयं ड्रा कर्तुम् आरभामहे ।
02:55 मया क्रियमाणं प्रथमं कार्यं, क्यान्वास् उपरि ग्रिड् लेखनम् एव ।
03:01 अधः विद्यमानस्य Grid Mode बटन् क्लिक् कृत्वा अहम् एतत् करोमि ।
03:05 वयं विविध-ग्रिड् सैज् चेतुं शक्नुमः । अहं मध्ये विद्यमानं चिनोमि ।
03:11 अस्माभिः योजितानि आब्जेक्ट्स् संयोजयितुं, ग्रिड्स् साहाय्यं कुर्वन्ति ।
03:16 अस्मिन् अनुशिक्षणे, क्लिक् कुर्वन्तु इत्युक्ते, मौस् इत्यस्य वाम-बटन् गृहीत्वा तदनन्तरं त्यागः इत्यर्थः ।
03:21 एवमेव, बटन्-चयनं नाम, भवतां वाम-मौस्-बटन् उपयुज्य क्लिक्-करणम् इत्यर्थः ।
03:29 यदि अकस्मात् अन्यत् कार्यं भवितव्यम् अस्ति, अहं तत् पृथक् वदामि ।
03:34 अस्माकं डैग्राम्-कृते बाक्स् अपेक्षितम् इत्यतः, वाम-प्यानल्-तः वयं तीक्ष्ण-कोणयुक्तं Box चिह्नं चिनुमः ।
03:43 बाक्स् यत्र स्थापनीयं, तत् स्थानं प्रति गच्छामः ।
03:50 वयं मौस् अत्र क्लिक् कुर्मः ।
03:53 एतत् बाक्स् वायव्यदिशं चिनोति ।
03:57 बाक्स्, यावत्पर्यन्तम्, अस्मदपेक्षितं सैज् न प्राप्नोति, तावत्, मौस् विरुद्धदिशि चालयन्तु ।
04:12 समीचीन-सैज् बाक्स् यदा रचितं भवति, तदनन्तरं वयं मौस् पुनरपि क्लिक् कर्तुं शक्नुमः ।
04:16 इदानीं बाक्स् रचितम् अस्ति ।
04:18 इदानीं, Xfig मध्ये Edit इत्येतत् कथम् उपयोक्तव्यम् इति वयं विवृणुमः । एतदुपयुज्य, बाक्स् स्थौल्यं वयं वर्धयामः ।
04:26 वामभागस्य प्यानल्-मध्ये विद्यमानं Edit बटन् नुदामः ।
04:31 बाक्स् इत्यस्य सर्वे मुख्यांशाः प्रदर्शिताः इति वयं द्रष्टुं शक्नुमः ।
04:36 अत्र यत्किञ्चित् पायिण्ट् क्लिक् कृत्वा, बाक्स् चिनुमः ।
04:41 किञ्चन डयलाग् बाक्स् उद्घाटितं भवति ।
04:43 वयं मौस् Width बाक्स् प्रति नयामः ।
04:47 मौस्-पायिण्टर्, बाक्स् अन्तः अस्तीति निश्चिन्वन्तु ।
04:51 डिफाल्ट् व्याल्यू, 1 इत्येतत् डिलिट् कुर्मः ।
04:55 मौस्, बाक्स् अन्तः नास्ति चेत्, बाक्स् अन्तः विद्यमानं परिवर्तयितुं न शक्यते ।
05:01 बाक्स् मध्ये लेखनावसरे, मौस् बहिः गतं चेत्, कृपया अन्तः आनीय, टङ्कनम् अनुवर्तयन्तु ।
05:07 इदानीं 2 इति टङ्कनं कुर्मः ।
05:13 वयं Done इत्येतत् क्लिक् कुर्मः । अहमेतत् भवद्भ्यः दर्शयामि ।
05:17 Done इत्येतत् क्लिक् कृत्वा डयलाग् बाक्स् तः बहिरागच्छन्तु ।
05:20 बाक्स् इत्यस्य स्थौल्यम् अधिकम् जातम् अस्तीति वयं पश्यामः ।
05:24 बाणचिह्नयुक्ताः रेखाः अस्माभिः योजनीयाः ।
05:28 वामभागस्थ-प्यानल्-तः POLYLINE इति बटन् चिनुमः ।
05:34 अधः विद्यमानं प्यानल्, 'अट्रिब्यूट्स् प्यानल्' (Attributes panel) इति ।
05:40 अस्मिन् प्यानल्-मध्ये, लभ्यानि बटन्स् उपयुज्य प्रत्येकं आब्जेक्ट् प्यारामीटर् परिवर्तयितुं शक्यते ।
05:45 चितस्य आब्जेक्ट् अनुगुणं, बटन् सङ्ख्या भिन्ना भवति ।
05:52 'अट्रिब्यूट्स् प्यानल्'तः, Arrow Mode इति बटन् चिनुमः ।
05:57 डयलाग्-बाक्स् मध्ये विद्यमानं द्वितीयं आप्षन् चिनुमः । एतत्, रेखायाः अन्ते बाणस्य चिह्नं ददाति ।
06:04 वयं Arrow Type बटन् क्लिक् कुर्मः ।
06:08 इदानीं दृश्यमान-विण्डो मध्ये, अस्मदपेक्षितम् आरोहेड् वयं चिनुमः ।
06:14 रेखा यत्र आरब्धुम् अस्माभिः उद्दिष्टा, तत्र क्लिक् कुर्मः ।
06:23 अस्याः रेखायाः अन्तिमबिन्दुसमीपे मौस् नयामः ।
06:31 तत्र, मध्यम-मौस्-बटन् क्लिक् कुर्मः ।
06:36 बाणचिह्नेन सह रेखा रचिता अस्ति ।
06:39 स्मरन्तु, आरो पूरयितुं भवद्भिः मध्यम-बटन् नोदनीयम् ।
06:43 वाम अथवा दक्षिण-बटन् न ।
06:45 यदि दोषः कृतः स्यात्, कृपया Edit इत्येतत् क्लिक् कृत्वा Undo इत्येतत् नुदन्तु ।
06:52 कापि (copy) करणद्वारा, बाक्स् इत्यस्य औट्पुट्-मध्ये वयम् अन्यां रेखां रचयामः ।
06:59 वामभागस्य प्यानल्-तः, COPY बटन् चिन्वन्तु ।
07:05 रेखां चिन्वन्तु ।
07:09 भवद्भिः यत्र रेखा अपेक्षिता, तत्र मौस् नीत्वा क्लिक् कुर्वन्तु ।
07:15 एषा रेखा कापि कृता अस्ति ।
07:18 इदानीं किञ्चित् टेक्स्ट् योजयाम ।
07:21 वामभागस्य प्यानल्-तः, T द्वारा सूचितं टेक्स्ट्-बाक्स् क्लिक् कुर्मः ।
07:29 टेक्स्ट् इत्यस्य फाण्ट् सैज् चिनुमः ।
07:35 'अट्रिब्यूट्स् प्यानल्' तः Text Size बटन् क्लिक् कुर्मः । किञ्चन डयलाग् विण्डो लभ्यते ।
07:41 मौस् व्याल्यू बाक्स् अन्तः नीत्वा तत्रैव स्थापयामः ।
07:46 डिफाल्ट् व्याल्यू 12 डिलिट् कृत्वा, 16 इत्येतत् योजयामः ।
07:52 Set इत्येतत् बटन् चिनुमः ।
07:56 डयलाग् बाक्स् पिहितं भवति । 'अट्रिब्यूट्स् प्यानल्' मध्ये इदानीं Text Size 16 इति च दर्शयति ।
08:05 टेक्स्ट् सेण्टर् अलैन् कुर्मः ।
08:08 'अट्रिब्यूट्स् प्यानल्' मध्ये विद्यमानं Text Just बटन् क्लिक् कुर्मः ।
08:13 किञ्चन डयलाग् बाक्स् उद्घाटितं भवति ।
08:15 सेण्टर् अलैन् कर्तुं, मध्ये विद्यमानं चिनुमः ।
08:21 बाक्स् मध्यभागे क्लिक् कुर्मः ।
08:29 अहं Plant इति टैप् कृत्वा मौस् क्लिक् करोमि ।
08:36 टेक्स्ट् रचितम् अस्ति ।
08:38 आवश्यकं चेत्, वामभागस्य प्यानल् मध्ये विद्यमानं Move की उपयुज्य, अहं टेक्स्ट् अपसारयितुं शक्नोमि ।
08:50 एताम् आकृतिं वयं सेव् कुर्मः ।
08:52 Xfig इत्यस्य उपरितन-वामकोणे विद्यमानं File बटन् क्लिक् कुर्वन्तु । मौस् नोदनं कृत्वा Save पर्यन्तम् आनीय ततः त्यजन्तु ।
09:04 एतत् प्रथमवारम् इत्यतः, Xfig, फैल् नाम पृच्छति ।
09:09 अस्माभिः डैरेक्टरि, ततः सञ्चिकायाः नाम चेतुं शक्यते ।
09:12 नाम "block" इति टङ्कित्वा, Save इति चिनुमः ।
09:27 सञ्चिका, "block.fig" इति सेव् भवति ।
09:30 भवद्भिः एतन्नाम उपरितनकोणे द्रष्टुं शक्यते ।
09:34 इदानीं वयम् एतत् फैल् एक्स्पोर्ट् कुर्मः ।
09:36 पुनः File बटन् क्लिक् कुर्वन्तु । मौस् गृहीत्वा Export पर्यन्तम् आनयन्तु ।
09:47 Language पार्श्वे विद्यमानं बटन् क्लिक् कुर्वन्तु । PDF Format चेतुं, मौस् गृहीत्वा PDF समीपे आनीय त्यज्यन्तु ।
09:59 इदानीं Export बटन् क्लिक् कुर्वन्तु । वयं "block.pdf" सञ्चिकां प्राप्नुमः ।
10:05 टर्मिनल्-तः, open block.pdf कमाण्ड्-द्वारा सञ्चिकाम् उद्घाटयामः ।
10:18 अस्मदपेक्षितं ब्लाक् डैग्राम् अस्माभिः प्राप्तम् अस्ति ।
10:21 अस्माकम् उद्देशः अस्माभिः पूरितः अस्ति । अस्मदपेक्षिता आकृतिः अस्माभिः प्राप्ता अस्ति ।
10:30 भवद्भ्यः अत्र किञ्चन गृहकार्यम् अस्ति ।
10:33 बाक्स् परतया अन्यानि आब्जेक्ट्स् उपयुज्यताम् ।
10:36 Polyline उपयुज्य किञ्चन आयतं रचयन्तु । आकृतौ विद्यमानस्य बाणस्य चिह्नं दिशां च परिवर्तयन्तु ।
10:43 टेक्स्ट्, रेखा, बाक्स् एतेषां स्थलपरिवर्तनं कुर्वन्तु ।
10:48 सञ्चिकां 'eps' फार्म्याट् द्वारा एक्स्पोर्ट् कृत्वा तत् पश्यन्तु ।
10:51 एडिटर् मध्ये, "block.fig" सञ्चिकां पश्यन्तु, विभिन्नानि घटकानि अभिजानन्तु ।
10:58 सम्पूर्णतया विभिन्नं ब्लाक् डैग्रां रचयन्तु ।
11:02 वयम् इदानीम् अनुशिक्षणस्य अन्त्यं प्राप्तवन्तः।
11:06 स्पोकन् ट्युटोरियल् योजना, टाक् टु ए टीचर् योजनायाः कश्चन भागः । इदं ICT, MHRD द्वारा भारतसर्वकारस्य राष्ट्रिय साक्षरता मिशन् आधारीकृतम् अस्ति ।
11:18 एतद् मिषन् विषये अधिकं विवरणम्, अधोनिर्दिष्टायां पर्चन्यां लभ्यते:

http://spoken-tutorial.org/NMEICT-Intro

11:28 अहम् इतोपि कतिचन अन्तर्जाल-पुटानि डौन्लोड् कृतवान् अस्मि ।
11:38 स्पोकन् ट्युटोरियल् योजनायाः जालपुटम् एवम् अस्ति:

http://spoken-tutorial.org/

11:48 “What is a Spoken Tutorial” इत्यस्यां पर्चन्यां, अस्य प्रकल्पस्य विषये विवृतं वीडियो लभ्यते ।
11:57 अस्मिन् spoken-tutorial.org/wiki पुटे, अस्माकं प्रकल्पाधारितं FOSS टूल्स् आवली अस्माभिः कृता अस्ति ।
12:12 वयं Xfig इत्येतत्-सम्बद्धं पुटम् अपि पश्यामः ।
12:27 भवतां सहभागित्वं, सूचनाश्च वयं स्वागतीकुर्मः । इदम् अनुशिक्षणं, आचार्यस्य कण्णन् मौद्गल्यवर्यस्य योगदानम् ।

अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, ध्वनिः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Udayana