Java/C2/while-loop/Sanskrit

From Script | Spoken-Tutorial
Revision as of 23:02, 7 April 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 जावामध्ये while loop विषयस्य स्पोकन्-ट्युटोरियल् प्रति स्वागतम् ।
00:06 पाठेऽस्मिन् वयं , while loop इत्यस्य विषयम् अपि च तस्य विनियोगः कथमिति च ज्ञास्यामः ।
00:12 पाठार्थमहं,

Ubuntu 11.10, JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुनज्मि ।

00:21 पाठमिदं अनुसर्तुं भवन्तः जावा-मध्ये relational operators इत्येतेषां विषयं जानीयुः ।
00:26 न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु । [spoken-tuitorial.org]
00:36 अत्र while loop इत्यस्य स्ट्रक्चर् वर्तते ।
00:39 अत्र द्वौ विभागौ स्तः ।
00:41 प्रथमं loop running condition अपि च द्वितीयं loop variable इति ।
00:48 अत्र एकमुदाहरणं पश्याम । तदर्थं Eclipse गमिष्यामि ।
00:55 अत्र eclipse IDE अपि च अन्येभ्यः कोड् इत्येतेभ्यः स्केलिटन् वर्तते ।
01:00 अहं class WhileDemo इतीदं रचितवानस्मि । तस्मै main method च योजितवानस्मि ।
01:05 अत्र वयं 1 इत्यस्मात् 10 पर्यन्ताः सङ्ख्याः, while loop इतीदमुपयुज्य मुद्रयितुं शक्नुमः । int n = 1; इति टङ्कयन्तु ।
01:15 वेरियेबल् 'n' इतीदं अस्माकं loop variable कुर्मः ।
01:21 while in parenthesis n less than or equal to 10 इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिधानं कुर्वन्तु ।
01:33 कण्डीशन् इतीदं loop running condition इति कथ्यते ।
01:37 यावत् कण्डीशन् सत्यं भवति तावत् लूप् इतीदं रन् जायते ।
01:42 अस्मिन्नुदाहरणे 'n' इतीदं 10इत्यस्मात् न्यूनं समं वा यावत् वर्तते तावत् लूप् रन् जायते ।
01:47 अपि च 'n' इत्यस्य मूल्यं 10इत्यस्मात् अधिकं जायते चेत् लूप् समाप्यते ।
01:53 loop इत्यस्यान्तः वयं 'n' इत्यस्य मूल्यं मुद्रयाम ।
01:58 System.out.println(n); पश्चात् वृद्धिं कुर्मः n = n + 1; इति ।
02:12 एवमादौ 1 मुद्र्यते पश्चात् 'n' इत्यस्य मूल्यं 2 जायते ।
02:18 पश्चात् loop condition परीक्ष्यते ।
02:21 तत् सत्यमस्तीत्यतः 2 मुद्र्यते । अपि च n इत्यस्य मूल्यं 3 जायते ।
02:25 एवमेव लूप् 10 यावद्भवति तावत् अनुवर्तते । पश्चात् 'n' इत्यस्य मूल्यं यदा 11 जायते तदा कण्डीशन् मिथ्या भूत्वा loop इतीदं रुद्ध्यते ।
02:37 अधुना कोड् इतीदं क्रियायां पश्याम ।
02:39 Save कृत्वा run कुर्वन्तु ।
02:47 अधुना 1 इत्यारभ्य 10 पर्यन्ताः सङ्ख्याः मुद्रिताः ।
02:52 वयमधुना 50 इत्यस्मात् 40 पर्यन्तानां सङ्ख्यानां मुद्रणं कुर्मः ।
02:58 अस्माभिः 50 इत्यस्मात् प्रारम्भः करणीय़ः इत्यतः n = 1 इतीदं n = 50 इति परिवर्तताम् ।
03:03 वयं 40 पर्यन्तं गमिष्यामः ।
03:05 अर्थात्, 'n' इत्यस्य मूल्यं 40 इत्यस्मादधिकं समं वा भवेत् । अतः कण्डीशन् इतीदं n greater than or equal to 40 इति परिवर्तताम् ।
03:16 अस्माभिः लूप् इतीदं अधिकायाः सङ्ख्यायाः न्यूनायै सङ्ख्यायै आनीतव्यम् ।
03:22 अतः n=n+1 इतीदं n=n-1 इति परिवर्तताम् ।
03:27 Save कृत्वा run कुर्वन्तु । 50 इत्यस्मात् 40 पर्यन्ताः सङ्ख्याः मुद्रिताः ।
03:42 वयमधुना 7 इत्यस्य आदिमानि 10 मल्टिपल्स् इतीमानि मुद्रयाम ।
03:48 तद्वयं 7 इत्यनेन सह प्रारभामहै ।
03:50 अतः n = 50 इतीदं n = 7 परिवर्तताम् । अस्माभिः 70 इत्यत्र समापनीयम् ।
03:57 अतः कण्डीशन् इतीदं n less than or equal to 70. इति परिवर्तताम् ।
04:03 दृढीक्रियतां यत् , लूप् 70 इत्यत्र रुद्ध्यते इति ।
04:07 मल्टिपल्स् प्राप्तुं वयं loop variable इतीदं 7 इत्यनेन वर्धेमहि ।
04:12 अतः n=n-1 इतीदं n= n+7; इति परिवर्तामहै ।
04:18 आदौ 7 मुद्र्यते । पश्चात् 'n' इत्यस्य मूल्यं 14 भविष्यति । 14 मुद्र्यते । एवमेव 70 पर्यन्तं अनुवर्तते । Save कृत्वा run कुर्वन्तु ।
04:33 पश्यामः यत् 7 इत्यस्य आदिमानि दश मल्टीपल्स् मुद्रितानि ।
04:43 अस्माभिः while loop इतीदं सङ्ख्यायाः अङ्कानां एडिशन् कर्तुमपि उपयोक्तुमर्हति ।
04:47 तत्कथमिति जानाम ।
04:49 आदौ main method इतीदं रिक्तं कुर्मः ।
04:54 int n equal to 13876; इयं सङ्ख्या वर्तते ।
05:02 पश्चात् int dSum equal to 0dsum वेरियेबल् इतीदं सङ्ख्यायाः अङ्कानां सम् इतीदं सङ्गृह्णाति ।
05:18 while n greater than 0 open and close parentheses.
05:27 कण्डीशन् इत्यस्य आवश्यकतां वयं शीघ्रमेव ज्ञास्यामः ।
05:32 अङ्कानां सम् अन्वेष्टुं आदौ अङ्काः प्राप्तव्याः ।
05:36 तत्कर्तुं वयं modulo operator उपयुञ्ज्महे ।
05:40 dSum = dSum + (n % 10) इति टङ्कयित्वा , युनिट् इत्यस्य अङ्कं प्राप्नुमः । तद्वयं dsum इत्यस्मै संयोजयाम ।
05:52 पश्चत्, 10 इत्यनेन तस्य विभजनं कृत्वा , तमङ्कं सङ्ख्यायाः निष्कासयामः । n = n / 10 ।
06:08 अतः प्रथमवारं यदा लूप् रन् भवति तदा dSum इत्यस्य मूल्यं 6 भविष्यति अपि च 'n' इत्यस्य मूल्यं 1387 भविष्यति ।
06:15 अपि च लूप् यदा द्वितीयवारं रन् जायते तदा dSum इत्यस्य मूल्यं 7 अपि च 6 इत्यनयोः सम् अर्थात् 13 भविष्यति अपि च 'n' इत्यस्य मूल्यं 138 भविष्यति ।
06:22 यथा लूप् इत्यस्य अनुवर्तनं भवति तथा अङ्काः n इत्यस्मात् निष्कास्यन्ते ।
06:28 अन्ते n इत्यस्य मूल्यं 0 भविष्यति । तदा 'n greater than 0' इति कण्डीशन् मिथ्या भूत्वा लूप् तत्र समाप्यते ।
06:36 अधुना प्रिण्ट् स्टॆट्मेण्ट् योजयाम ।
06:42 System.out.println(dSum)
06:51 अधुना कोड् कथं कार्यं करोतीति अवलोकयाम । Save कृत्वा run कुर्वन्तु ।
06:59 अत्र अङ्कानां सम् इतीदं 25 इति मुद्रितं पश्यामः ।
07:06 एवं संविधासु महत्त्वपूर्णं constructs यदस्ति तत् while loop अस्माभिः उपयुक्तम् ।
07:16 अनेन वयं पाठस्यान्तमागतवन्तः ।
07:20 पाठेऽस्मिन् वयं , while loop इत्यस्य विषयम् अपि च तस्योपयोगस्य विधानञ्च ज्ञातवन्तः ।
07:26 पाठनियोजनम् । समस्यापूरणं कुर्वन्तु ।
07:29 दत्तायाः सङ्ख्यायाः विलोमसङ्ख्यां while loop उपयुज्य अन्विषन्तु ।उदाहरणार्थम् - 19435 => 53491
07:37 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु । इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति ।
07:45 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
07:50 स्पोकन् ट्युटोरियल् टीम् स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति । जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
07:57 अधिकविवरणार्थम् - contact at spoken hyphen tutorial dot org. इत्यस्मै लिखन्तु ।
08:03 स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते ।
08:07 अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते ।
08:12 अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्रोपलभ्यते ।
08:17 इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14