Java/C2/while-loop/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:02 | जावामध्ये while loop विषयस्य स्पोकन्-ट्युटोरियल् प्रति स्वागतम् । |
00:06 | पाठेऽस्मिन् वयं , while loop इत्यस्य विषयम् अपि च तस्य विनियोगः कथमिति च ज्ञास्यामः । |
00:12 | पाठार्थमहं,
Ubuntu v 11.10, JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुनज्मि । |
00:21 | पाठमिदं अनुसर्तुं भवन्तः जावा-मध्ये relational operators इत्येतेषां विषयं जानीयुः । |
00:26 | न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु । [spoken-tuitorial.org] |
00:36 | अत्र while loop इत्यस्य स्ट्रक्चर् वर्तते । |
00:39 | अत्र द्वौ विभागौ स्तः । |
00:41 | प्रथमं loop running condition अपि च द्वितीयं loop variable इति । |
00:48 | अत्र एकमुदाहरणं पश्याम । तदर्थं Eclipse गमिष्यामि । |
00:55 | अत्र eclipse IDE अपि च अन्येभ्यः कोड् इत्येतेभ्यः स्केलिटन् वर्तते । |
01:00 | अहं class WhileDemo इतीदं रचितवानस्मि । तस्मै main method च योजितवानस्मि । |
01:05 | अत्र वयं 1 इत्यस्मात् 10 पर्यन्ताः सङ्ख्याः, while loop इतीदमुपयुज्य मुद्रयितुं शक्नुमः । int n = 1; इति टङ्कयन्तु । |
01:15 | वेरियेबल् 'n' इतीदं अस्माकं loop variable कुर्मः । |
01:21 | while in parenthesis n less than or equal to 10 इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिधानं कुर्वन्तु । |
01:33 | कण्डीशन् इतीदं loop running condition इति कथ्यते । |
01:37 | यावत् कण्डीशन् सत्यं भवति तावत् लूप् इतीदं रन् जायते । |
01:42 | अस्मिन्नुदाहरणे 'n' इतीदं 10इत्यस्मात् न्यूनं समं वा यावत् वर्तते तावत् लूप् रन् जायते । |
01:47 | अपि च 'n' इत्यस्य मूल्यं 10इत्यस्मात् अधिकं जायते चेत् लूप् समाप्यते । |
01:53 | loop इत्यस्यान्तः वयं 'n' इत्यस्य मूल्यं मुद्रयाम । |
01:58 | System.out.println(n); पश्चात् वृद्धिं कुर्मः n = n + 1; इति । |
02:12 | एवमादौ 1 मुद्र्यते पश्चात् 'n' इत्यस्य मूल्यं 2 जायते । |
02:18 | पश्चात् loop condition परीक्ष्यते । |
02:21 | तत् सत्यमस्तीत्यतः 2 मुद्र्यते । अपि च n इत्यस्य मूल्यं 3 जायते । |
02:25 | एवमेव लूप् 10 यावद्भवति तावत् अनुवर्तते । पश्चात् 'n' इत्यस्य मूल्यं यदा 11 जायते तदा कण्डीशन् मिथ्या भूत्वा loop इतीदं रुद्ध्यते । |
02:37 | अधुना कोड् इतीदं क्रियायां पश्याम । |
02:39 | Save कृत्वा run कुर्वन्तु । |
02:47 | अधुना 1 इत्यारभ्य 10 पर्यन्ताः सङ्ख्याः मुद्रिताः । |
02:52 | वयमधुना 50 इत्यस्मात् 40 पर्यन्तानां सङ्ख्यानां मुद्रणं कुर्मः । |
02:58 | अस्माभिः 50 इत्यस्मात् प्रारम्भः करणीय़ः इत्यतः n = 1 इतीदं n = 50 इति परिवर्तताम् । |
03:03 | वयं 40 पर्यन्तं गमिष्यामः । |
03:05 | अर्थात्, 'n' इत्यस्य मूल्यं 40 इत्यस्मादधिकं समं वा भवेत् । अतः कण्डीशन् इतीदं n greater than or equal to 40 इति परिवर्तताम् । |
03:16 | अस्माभिः लूप् इतीदं अधिकायाः सङ्ख्यायाः न्यूनायै सङ्ख्यायै आनीतव्यम् । |
03:22 | अतः n=n+1 इतीदं n=n-1 इति परिवर्तताम् । |
03:27 | Save कृत्वा run कुर्वन्तु । 50 इत्यस्मात् 40 पर्यन्ताः सङ्ख्याः मुद्रिताः । |
03:42 | वयमधुना 7 इत्यस्य आदिमानि 10 मल्टिपल्स् इतीमानि मुद्रयाम । |
03:48 | तद्वयं 7 इत्यनेन सह प्रारभामहै । |
03:50 | अतः n = 50 इतीदं n = 7 परिवर्तताम् । अस्माभिः 70 इत्यत्र समापनीयम् । |
03:57 | अतः कण्डीशन् इतीदं n less than or equal to 70. इति परिवर्तताम् । |
04:03 | दृढीक्रियतां यत् , लूप् 70 इत्यत्र रुद्ध्यते इति । |
04:07 | मल्टिपल्स् प्राप्तुं वयं loop variable इतीदं 7 इत्यनेन वर्धेमहि । |
04:12 | अतः n=n-1 इतीदं n= n+7; इति परिवर्तामहै । |
04:18 | आदौ 7 मुद्र्यते । पश्चात् 'n' इत्यस्य मूल्यं 14 भविष्यति । 14 मुद्र्यते । एवमेव 70 पर्यन्तं अनुवर्तते । Save कृत्वा run कुर्वन्तु । |
04:33 | पश्यामः यत् 7 इत्यस्य आदिमानि दश मल्टीपल्स् मुद्रितानि । |
04:43 | अस्माभिः while loop इतीदं सङ्ख्यायाः अङ्कानां एडिशन् कर्तुमपि उपयोक्तुमर्हति । |
04:47 | तत्कथमिति जानाम । |
04:49 | आदौ main method इतीदं रिक्तं कुर्मः । |
04:54 | int n equal to 13876; इयं सङ्ख्या वर्तते । |
05:02 | पश्चात् int dSum equal to 0 । dsum वेरियेबल् इतीदं सङ्ख्यायाः अङ्कानां सम् इतीदं सङ्गृह्णाति । |
05:18 | while n greater than 0 open and close parentheses. |
05:27 | कण्डीशन् इत्यस्य आवश्यकतां वयं शीघ्रमेव ज्ञास्यामः । |
05:32 | अङ्कानां सम् अन्वेष्टुं आदौ अङ्काः प्राप्तव्याः । |
05:36 | तत्कर्तुं वयं modulo operator उपयुञ्ज्महे । |
05:40 | dSum = dSum + (n % 10) इति टङ्कयित्वा , युनिट् इत्यस्य अङ्कं प्राप्नुमः । तद्वयं dsum इत्यस्मै संयोजयाम । |
05:52 | पश्चत्, 10 इत्यनेन तस्य विभजनं कृत्वा , तमङ्कं सङ्ख्यायाः निष्कासयामः । n = n / 10 । |
06:08 | अतः प्रथमवारं यदा लूप् रन् भवति तदा dSum इत्यस्य मूल्यं 6 भविष्यति अपि च 'n' इत्यस्य मूल्यं 1387 भविष्यति । |
06:15 | अपि च लूप् यदा द्वितीयवारं रन् जायते तदा dSum इत्यस्य मूल्यं 7 अपि च 6 इत्यनयोः सम् अर्थात् 13 भविष्यति अपि च 'n' इत्यस्य मूल्यं 138 भविष्यति । |
06:22 | यथा लूप् इत्यस्य अनुवर्तनं भवति तथा अङ्काः n इत्यस्मात् निष्कास्यन्ते । |
06:28 | अन्ते n इत्यस्य मूल्यं 0 भविष्यति । तदा 'n greater than 0' इति कण्डीशन् मिथ्या भूत्वा लूप् तत्र समाप्यते । |
06:36 | अधुना प्रिण्ट् स्टॆट्मेण्ट् योजयाम । |
06:42 | System.out.println(dSum) |
06:51 | अधुना कोड् कथं कार्यं करोतीति अवलोकयाम । Save कृत्वा run कुर्वन्तु । |
06:59 | अत्र अङ्कानां सम् इतीदं 25 इति मुद्रितं पश्यामः । |
07:06 | एवं संविधासु महत्त्वपूर्णं constructs यदस्ति तत् while loop अस्माभिः उपयुक्तम् । |
07:16 | अनेन वयं पाठस्यान्तमागतवन्तः । |
07:20 | पाठेऽस्मिन् वयं , while loop इत्यस्य विषयम् अपि च तस्योपयोगस्य विधानञ्च ज्ञातवन्तः । |
07:26 | पाठनियोजनम् । समस्यापूरणं कुर्वन्तु । |
07:29 | दत्तायाः सङ्ख्यायाः विलोमसङ्ख्यां while loop उपयुज्य अन्विषन्तु ।उदाहरणार्थम् - 19435 => 53491 |
07:37 | स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु । इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति । |
07:45 | उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु । |
07:50 | स्पोकन् ट्युटोरियल् टीम् स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति । जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति । |
07:57 | अधिकविवरणार्थम् - contact at spoken hyphen tutorial dot org. इत्यस्मै लिखन्तु । |
08:03 | स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते । |
08:07 | अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते । |
08:12 | अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्रोपलभ्यते । |
08:17 | इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |