Inkscape/C2/Create-and-edit-shapes/Sanskrit

From Script | Spoken-Tutorial
Revision as of 08:11, 26 November 2017 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 नमस्कारः, क्रियेट् एण्ड् एडिट् शेप्स् इति इङ्क्-स्केप्-पाठार्थं स्वागतम् ।
00:06 पाठेऽस्मिन् वयम् : इङ्क्-स्केप् इत्यस्य विषयम् ,
00:10 इङ्क्-स्केप्-इण्टर्-फेस् विषयं अपि च आकृतीनां रचनाविषयं ,
00:16 वर्णपूरणम् अपि च हेण्डल् इतीमानि उपयुज्य आकृतीनां रूपान्तरकरणम् च कथमिति ज्ञास्यामः ।
00:20 पाठमिदं रेकोर्ड्-कर्तुं – अहम् उबण्टु लिनक्स् 12.04 ओपरेटिङ्ग्-सिस्टम्, इङ्क्स्केप्-वर्शन् 0.48.4 च उपयुञ्ज्महे ।
00:29 डेश्-होम्-गत्वा इङ्क्-स्केप् इति टङ्कयतु ।
00:34 लोगो इतीदं द्विवारं नुत्वा इङ्क्-स्केप्-इतीदम् उद्घाटयतु ।
00:38 इण्टर्फेस् इत्यस्योपरि , मेन्यूबार् अपि च टूल्-कण्ट्रोल्-बार् इतीमे पश्यामः ।
00:44 अस्यानन्तरम् ऊर्ध्वभागे पार्श्वे च रूलर्स् वर्तन्ते ।
00:48 इण्टर्-फेस् इत्यस्य दक्षिणपार्श्वे ,कमाण्ड्-बार् अपि च स्नेप्-कण्ट्रोल्-बार् इतीमानि दृश्यन्ते ।
00:54 टूल्-बोक्स् इतीदं, इण्टर्-फेस्-इत्यस्य वामपार्श्वे वर्तते ।
00:58 मध्ये केन्वास्-वर्तते । अत्रैव वयं ग्राफिक्स् रचयाम ।
01:03 इण्टर्-फेस्-इत्यस्याधः , कलप्-पेलेट् अपि च स्टेटस्-बार् पश्यामः ।
01:09 अधुना ,इङ्क्-स्केप्-मध्ये केचन मूलाकृतीः रचयितुम् अपि च परिवतितुं शक्नुमः ।
01:14 आदौ सेलेक्ट् अपि च ट्रान्स्फोर्म् टूल् विषयं ज्ञास्यामः । इदं सेलेक्टर्-टूल् इति कथयन्ति ।
01:22 इदं प्रमुखं साधनं वर्तते । इदं टूल्-बोक्स्-इत्यस्य वामपार्श्वे वर्तते ।
01:28 अनेन साधनेन, ओब्जेक्ट्स्-इतीमानि चेतुं , रूपान्तरं कर्तुं च शक्नुमः । अपि च केन्वास्-मध्ये तेषां स्थानपरिवर्तनञ्च कर्तुं शक्नुमः ।
01:34 नूतनं इङ्क्-स्केप्-सञ्चिकामारचयितुं ,file इतीदं नुदतु । पश्चात् new चित्वा default इतीदं नुदतु ।
01:41 विद्यमानां सञ्चिकामुद्घाटयितुं ,file इतीदं चित्वा open इतीदं नुदतु ।
01:47 पूर्वेकृतां drawing_1.svg सञ्चिकाम् उद्घाटयाम ।
01:53 अहमिदं document सञ्चये रक्षितवान् । दक्षिणपार्श्वस्थं open गण्डं नुदन्तु ।
02:01 वयम् आयतं रचितवन्तः आसम् ।
02:04 अधुना तन्नुदतु ।
02:06 सामान्यतः आयतस्य हरिद्वर्णं भविष्यति ।
02:09 वर्णं परिवर्तितुं अधस्ताद्विद्यमानं कलर्-पेलेट् इत्यस्योपयोगं करवाम ।
02:14 अतोऽहं ,कर्सर् इतीदं अधः चालयामि अपि च रक्तवर्णं नुदामि ।
02:18 आयतस्य वर्णं परिवर्तितम् ।
02:22 आयतस्य स्थानं परिवर्तयाम । तत्कर्तुं तदूर्ध्वभागे यत्रकुत्रापि नुदतु ।
02:27 अधुना, मूषकगण्डं नुत्वैव, केन्वास् मध्ये आवश्यकस्थानाय कर्षयतु ।
02:33 पश्चात् मूषकगण्डं त्यजतु ।
02:37 सम्यग्दृष्टुं ,ज़ूम्-करोतु । तदर्थं ctrl कीलकं नुत्वा मौस्-इत्यय्स स्क्रोल्-बटन्-उपयोगं करोतु ।
02:46 आयतस्य परितः बाणान् पश्यामः । इमानि हेण्डल्स्-इति कथ्यन्ते । इमानि मापनं कर्तुं परिभ्रमणं कर्तुं च उपयुज्यन्ते ।
02:57 कर्सर्-इतीदं यस्यकस्यापि हेण्डल्-इत्यस्योपरि स्थापयामः चेत् , हेण्डल्-इत्यस्य वर्णः परिवर्तते ।
03:02 इदं निर्धिष्टस्य हेण्डल् इत्यस्य चयनं वर्तते अपि च रीसैज़्-कर्तुं सिद्धं वर्तते ।
03:08 आयतस्य मापनं कर्तुम् अथवा रेसैज़्-कर्तुं यत्किमपि कोर्नेर्-हेण्डल् नुत्वा कर्षयतु ।
03:17 भवन्तः तदेवाकृतिं अनुपातञ्च स्थापितुमिच्छन्ति चेत् रीसैज़्-करणकाले Ctrl कीलकं नुदन्नेव करोतु ।
03:24 अयतस्य दैर्घ्यं विस्तारं च परिवर्तितुं , आयतस्य पार्श्वस्थं हेण्डल् उपयुज्यताम् ।
03:32 हेण्डल् नुत्वा वामतः दक्षिणतश्च कर्षयतु ।
03:39 आयतस्य विस्तारे परिवर्तनं पश्यन्तु ।
03:43 अधुना, आयतस्य दैर्घ्यं परिवर्तयाम ।
03:46 अतः वयं ,आयतस्य ऊर्ध्वस्थं अधस्थं च हेण्डल् नुत्वा कर्षयाम ।
03:51 आयतस्य दैर्घ्ये परिवर्तनं पश्यन्तु ।
03:54 टूल्-कण्टोल्-बार् इत्यत्र width अपि च height पेरमीटर्-इतीदं परिवर्त्यापि आयतस्य लम्बं विस्तारञ्च परिवर्तितुं शक्नुमः ।
04:03 अहं width इतीदं 400 इति अपि च height इतीदं 200 इति परिवर्तयामि ।
04:07 अधुना आयतस्य परिमाणे परिवर्तनं पश्यन्तु ।
04:10 एवमेव x अपि च y एक्सिस् परिवर्तनेन ओब्जेक्ट्-इत्यस्य स्थानपरिवर्तनं कर्तुं शक्नुमः ।
04:19 अधुना, आयतस्य परिभ्रमणं कथं करणीयमिति ज्ञास्यामः ।
04:24 तत्कर्तुं आयतस्योपरि पुनः नुदतु ।
04:27 अधुना अश्रिस्थितस्य हेण्डल्-इत्यस्य आकृतिः परिवर्तितम् अपि च परिभ्रमणार्थं सिद्धमस्तीति अवलोकयन्तु ।
04:34 अहं दक्षिणाश्रिस्थितं हेण्डल् नुत्वा आयतस्य परिभ्रमणं करोमि ।
04:44 पार्श्वस्थं यत्किमपि हेण्डल् नुत्वा कर्षयित्वा च आयतपरिभ्रमणं कर्तुं शक्नुवन्ति ।
04:50 अहं वामपार्श्वस्य हेण्डल् नुत्वा उपरि अधश्च कर्षयित्वा आयतं परिभ्रमामि ।
04:56 एवं क्रियमाणे परिवर्तनं पश्यन्तु ।
04:59 आगामिपाठे हेण्डल् इत्यस्य विषयमधिकं ज्ञास्यामः ।
05:04 अधुना आकृतेः चयनात् विरमाम ।
05:06 इदं कर्तुं केन्वास् इत्यस्य उपरि अथवा बहिः यत्रकुत्रापि नुदन्तु ।
05:11 मूषकम् अहं पुनः टूल्बोक्स्-इत्यत्र तदेव रेक्टाङ्गल् मध्ये आनयामि ।
05:17 इदं टूल् उपयुज्य, वयं आयतं चतुरश्रं वा चित्रितुं शक्नुमः इति टूल्-टिप् वदति ।
05:22 अतः, आदौ इदं टूल् नुदामि ।
05:25 चतुरश्रं चित्रितुं, ctrl कीलकं नुत्वा केवास् मध्ये कर्षयतु ।
05:30 अस्य वर्णं पाटलं करोतु ।
05:32 युष्मभ्यम् एकः अभ्यासः वर्तते ।
05:34 create circle and ellipse इति टूल् , टूल्-बोक्स् इत्यस्मात् चिनोतु ।
05:38 ctrl कीलकमुपयुज्य केन्वास् इत्यस्योपरि वृत्तं रचयतु ।
05:42 अस्मै नीलवर्णं पूरयतु ।
05:44 इदमस्माकं वृत्तम् ।
05:46 अधुना, इदं वृत्तस्य रूपान्तरं कथं करणीयमिति ज्ञास्यामः ।
05:49 स्ट्रोक् अपि च एण्ड् पेरामीटर् इतीमे परिवर्तयतु । वृत्तं धनुराकारं कर्तुं शक्नुमः ।
05:56 आकृतीः परिवर्तितुं ,टूल्-कण्ट्रोल्-बार् मध्ये ३ विकल्पानि सन्ति ।
06:03 अहमधुना स्ट्रोक्-पेरामीटर्-इतीदं 100 इति अपि च एण्ड्-पेरामीटर् इतीदं -50 इति च परिवर्तयामि ।
06:09 वृत्तस्याकृतिः धनुर्रूपं प्राप्तवतीति ज्ञायते ।
06:14 अहमधुना, arc ऐकान् नुदामि । आकृत्यां परिवर्तनं पश्यन्तु ।
06:19 वयं circle ऐकान् नुत्वा, आकृतिं पुनः वृत्तं कर्तुं शक्नुमः ।
06:25 अधुना, केन्वास् इत्यस्योपरि स्थितस्य वृत्तस्याकृतिं परिशीलयाम ।
06:30 द्वे स्क्वेर्-हेण्डल्स् अपि च द्वे सर्कल्-हेण्डल्स् अथवा आर्क्-हेण्डल्स् इतीमानि आकृतौ पश्यन्तु ।
06:37 द्वे स्क्वेर्-हेण्डल्स् , वृत्ताकृतिं दीर्घवृत्तं कर्तुं उपयुज्येते ।
06:44 हेण्दल्स्-इतीमानि उपरि अधः अथवा वामतः दक्षिणतः च कर्षयन्तु ।
06:53 आकृतौ परिवर्तनानि पश्यन्तु ।
06:56 द्वे आर्क्-हेण्डल्स् एकस्योपरि अन्यत् स्थाप्येते । आर्क् हेण्डल् नुत्वा तत्, अप्रदक्षिणं चालयतु ।
07:04 अधुना द्वेऽपि आर्क्-हेण्डल् दृष्टुं शक्नुमः ।
07:08 इदम् आर्क्-हेण्डल् उपयुज्य , वृत्तं धनुरिव कर्तुं शक्नुमः ।
07:14 इमानि प्रदक्षिणम् अप्रदक्षिणं वा चालयित्वा आकृतौ परिवर्तनानि पश्यन्तु ।
07:24 अधुना, टूल्-बोक्स् इत्यत्र ,रेक्टाङ्गल्-टूल् इत्यस्योपरि नुत्वा चतुरश्रोपरि नुदन्तु ।
07:30 द्वे रीसैज़्-हेण्डल्स् अपि च द्वे आर्क्-हेण्डल्स् आकृत्याः उपरि दक्षिणतः दृश्यन्ते ।
07:40 पूर्ववत् , द्वे आर्क्-हेण्डल्स् एकस्योपरि अन्यत् स्थाप्येते ।
07:43 तयोः एकस्योपरि नुत्वा प्रदक्षिणं चालयतु ।
07:48 अधुना वयं, द्वेऽपि आर्क्-हेण्डल्स् पश्यामः ।
07:51 इमानि हेण्डल्स्-उपयुज्य, चतुरश्रे वृत्ताकारस्य अश्रिं दातुं शक्नुमः ।
07:56 तानि प्रदक्षिणं अप्रदक्षिणं वा चालयित्वा आकृतौ परिवर्तनं पश्यन्तु ।.
08:02 अधुना टूल्-बोक्स्-मध्ये strokes and polygon टूल् नुत्वा एकं पोलिगान् रचयाम ।
08:08 इदं सर्कल् टूल् इत्यस्याधः अस्ति । तन्नुदतु ।
08:13 वयं पूर्ववत् पोलिगान् रचयित्वा , हरिद्वर्णं पूरयाम ।
08:20 सामान्यतः, पञ्चाश्रियुतं पोलिगान् , पञ्चभुजमेव वर्तते ।
08:24 टूल्-कण्ट्रोल्-बार् पश्यन्तु । अत्र number of polygon is five इति वर्तते ।
08:32 भवन्तः सङ्ख्यां चत्वारि इति परिवर्तयित्वा चतुरश्रम् अपि च त्रीणि इत्यनेन त्रिकोणं च रचयितुं शक्नुवन्ति ।
08:39 एवमेव सङ्ख्याम् अधिकां कृत्वा पञ्चभुजं षड्भुजं च रचयितुं शक्नुवन्ति ।
08:44 पोलिगान् इत्यस्योपरि रीसैज़्-हेण्डल् पश्यन्तु ।
08:47 इदं पोलिगान् इत्यस्य परिमाणं परिवर्तितुं भ्रमणं कर्तुं वा उपयोक्तुमर्हति ।
08:52 इदं नक्षत्राकृतिं कर्तुं टूल्-कण्ट्रोल्-बार्-मध्ये, पोलिगान्-ऐकान् इत्यस्य पार्श्वे स्ट्रोक्-ऐकान् इतीदं नुदतु ।
09:00 नक्षत्राकृतौ द्वे हेण्डल्स् स्तः । अन्ते एकं सन्धावेकम् चेति ।
09:06 परिमाणं परिवर्तितुं अथवा भ्रामयितुं , स्टार् इत्यस्यान्ते विद्यमानं हेण्डल् नुदन्तु ।
09:12 अन्यं हेण्डल्-उपयुज्य नक्षत्रस्य परिमाणं परिवर्तितुं अपि च परिभ्रमणं कर्तुं च शक्नुमः ।
09:17 तन्नुत्वा प्रदक्षिणं अप्रदक्षिणं वा भ्रामयित्वा परिमाणे आकृतौ च परिवर्तनं पश्यन्तु ।
09:25 वयमधुना पाठस्यान्तमागतवन्तः । सङ्क्षेपेण -
09:30 अस्मिन् पाठे वयं इङ्क्-स्केप् इत्यस्य इण्टर्फेस्-विषयं ज्ञातवन्तः ।
09:34 तथा आयतस्य, चतुरश्रस्य, वृत्तस्य, दीर्घवृत्तस्य, बहुभुजाकृतेः, नक्षत्रस्य च रचनाम्,
09:42 आकृत्यै वर्णपूरणम् अपि च हेण्डल्-उपयुज्य आकृत्याः परिवर्तनञ्च ज्ञातवन्तः ।
09:46 युष्माकं एकः स्वाभ्यासः -
09:49 एकं नीलवर्णस्य आयतं, रक्तवर्णस्य वृत्तं, हरिद्वर्णस्य सप्तभुजनक्षत्रञ्च रचयत ।
09:58 युष्माकं कार्याभ्यासः एवं दृश्येत् ।
10:03 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति ।
10:09 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
10:13 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
10:22 विवरणार्थंcontact @ spoken-tutorial.org. इत्यस्मै लिखन्तु ।
10:28 स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति ।
10:32 अयं प्रकल्पः नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
10:38 अधिकविवरनम् - spoken-tutorial.org/NMEICT-intro इत्यत्रोपलभ्यते ।
10:47 वयं पाठस्य अन्ते स्मः ।
10:50 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat