Inkscape/C2/Create-and-edit-shapes/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:00 | नमस्कारः, क्रियेट् एण्ड् एडिट् शेप्स् इति इङ्क्-स्केप्-पाठार्थं स्वागतम् । |
00:06 | पाठेऽस्मिन् वयम् : इङ्क्-स्केप् इत्यस्य विषयम् , |
00:10 | इङ्क्-स्केप्-इण्टर्-फेस् विषयं अपि च आकृतीनां रचनाविषयं , |
00:16 | वर्णपूरणम् अपि च हेण्डल् इतीमानि उपयुज्य आकृतीनां रूपान्तरकरणम् च कथमिति ज्ञास्यामः । |
00:20 | पाठमिदं रेकोर्ड्-कर्तुं – अहम् उबण्टु लिनक्स् 12.04 ओपरेटिङ्ग्-सिस्टम्, इङ्क्स्केप्-वर्शन् 0.48.4 च उपयुञ्ज्महे । |
00:29 | डेश्-होम्-गत्वा इङ्क्-स्केप् इति टङ्कयतु । |
00:34 | लोगो इतीदं द्विवारं नुत्वा इङ्क्-स्केप्-इतीदम् उद्घाटयतु । |
00:38 | इण्टर्फेस् इत्यस्योपरि , मेन्यूबार् अपि च टूल्-कण्ट्रोल्-बार् इतीमे पश्यामः । |
00:44 | अस्यानन्तरम् ऊर्ध्वभागे पार्श्वे च रूलर्स् वर्तन्ते । |
00:48 | इण्टर्-फेस् इत्यस्य दक्षिणपार्श्वे ,कमाण्ड्-बार् अपि च स्नेप्-कण्ट्रोल्-बार् इतीमानि दृश्यन्ते । |
00:54 | टूल्-बोक्स् इतीदं, इण्टर्-फेस्-इत्यस्य वामपार्श्वे वर्तते । |
00:58 | मध्ये केन्वास्-वर्तते । अत्रैव वयं ग्राफिक्स् रचयाम । |
01:03 | इण्टर्-फेस्-इत्यस्याधः , कलप्-पेलेट् अपि च स्टेटस्-बार् पश्यामः । |
01:09 | अधुना ,इङ्क्-स्केप्-मध्ये केचन मूलाकृतीः रचयितुम् अपि च परिवतितुं शक्नुमः । |
01:14 | आदौ सेलेक्ट् अपि च ट्रान्स्फोर्म् टूल् विषयं ज्ञास्यामः । इदं सेलेक्टर्-टूल् इति कथयन्ति । |
01:22 | इदं प्रमुखं साधनं वर्तते । इदं टूल्-बोक्स्-इत्यस्य वामपार्श्वे वर्तते । |
01:28 | अनेन साधनेन, ओब्जेक्ट्स्-इतीमानि चेतुं , रूपान्तरं कर्तुं च शक्नुमः । अपि च केन्वास्-मध्ये तेषां स्थानपरिवर्तनञ्च कर्तुं शक्नुमः । |
01:34 | नूतनं इङ्क्-स्केप्-सञ्चिकामारचयितुं ,file इतीदं नुदतु । पश्चात् new चित्वा default इतीदं नुदतु । |
01:41 | विद्यमानां सञ्चिकामुद्घाटयितुं ,file इतीदं चित्वा open इतीदं नुदतु । |
01:47 | पूर्वेकृतां drawing_1.svg सञ्चिकाम् उद्घाटयाम । |
01:53 | अहमिदं document सञ्चये रक्षितवान् । दक्षिणपार्श्वस्थं open गण्डं नुदन्तु । |
02:01 | वयम् आयतं रचितवन्तः आसम् । |
02:04 | अधुना तन्नुदतु । |
02:06 | सामान्यतः आयतस्य हरिद्वर्णं भविष्यति । |
02:09 | वर्णं परिवर्तितुं अधस्ताद्विद्यमानं कलर्-पेलेट् इत्यस्योपयोगं करवाम । |
02:14 | अतोऽहं ,कर्सर् इतीदं अधः चालयामि अपि च रक्तवर्णं नुदामि । |
02:18 | आयतस्य वर्णं परिवर्तितम् । |
02:22 | आयतस्य स्थानं परिवर्तयाम । तत्कर्तुं तदूर्ध्वभागे यत्रकुत्रापि नुदतु । |
02:27 | अधुना, मूषकगण्डं नुत्वैव, केन्वास् मध्ये आवश्यकस्थानाय कर्षयतु । |
02:33 | पश्चात् मूषकगण्डं त्यजतु । |
02:37 | सम्यग्दृष्टुं ,ज़ूम्-करोतु । तदर्थं ctrl कीलकं नुत्वा मौस्-इत्यय्स स्क्रोल्-बटन्-उपयोगं करोतु । |
02:46 | आयतस्य परितः बाणान् पश्यामः । इमानि हेण्डल्स्-इति कथ्यन्ते । इमानि मापनं कर्तुं परिभ्रमणं कर्तुं च उपयुज्यन्ते । |
02:57 | कर्सर्-इतीदं यस्यकस्यापि हेण्डल्-इत्यस्योपरि स्थापयामः चेत् , हेण्डल्-इत्यस्य वर्णः परिवर्तते । |
03:02 | इदं निर्धिष्टस्य हेण्डल् इत्यस्य चयनं वर्तते अपि च रीसैज़्-कर्तुं सिद्धं वर्तते । |
03:08 | आयतस्य मापनं कर्तुम् अथवा रेसैज़्-कर्तुं यत्किमपि कोर्नेर्-हेण्डल् नुत्वा कर्षयतु । |
03:17 | भवन्तः तदेवाकृतिं अनुपातञ्च स्थापितुमिच्छन्ति चेत् रीसैज़्-करणकाले Ctrl कीलकं नुदन्नेव करोतु । |
03:24 | अयतस्य दैर्घ्यं विस्तारं च परिवर्तितुं , आयतस्य पार्श्वस्थं हेण्डल् उपयुज्यताम् । |
03:32 | हेण्डल् नुत्वा वामतः दक्षिणतश्च कर्षयतु । |
03:39 | आयतस्य विस्तारे परिवर्तनं पश्यन्तु । |
03:43 | अधुना, आयतस्य दैर्घ्यं परिवर्तयाम । |
03:46 | अतः वयं ,आयतस्य ऊर्ध्वस्थं अधस्थं च हेण्डल् नुत्वा कर्षयाम । |
03:51 | आयतस्य दैर्घ्ये परिवर्तनं पश्यन्तु । |
03:54 | टूल्-कण्टोल्-बार् इत्यत्र width अपि च height पेरमीटर्-इतीदं परिवर्त्यापि आयतस्य लम्बं विस्तारञ्च परिवर्तितुं शक्नुमः । |
04:03 | अहं width इतीदं 400 इति अपि च height इतीदं 200 इति परिवर्तयामि । |
04:07 | अधुना आयतस्य परिमाणे परिवर्तनं पश्यन्तु । |
04:10 | एवमेव x अपि च y एक्सिस् परिवर्तनेन ओब्जेक्ट्-इत्यस्य स्थानपरिवर्तनं कर्तुं शक्नुमः । |
04:19 | अधुना, आयतस्य परिभ्रमणं कथं करणीयमिति ज्ञास्यामः । |
04:24 | तत्कर्तुं आयतस्योपरि पुनः नुदतु । |
04:27 | अधुना अश्रिस्थितस्य हेण्डल्-इत्यस्य आकृतिः परिवर्तितम् अपि च परिभ्रमणार्थं सिद्धमस्तीति अवलोकयन्तु । |
04:34 | अहं दक्षिणाश्रिस्थितं हेण्डल् नुत्वा आयतस्य परिभ्रमणं करोमि । |
04:44 | पार्श्वस्थं यत्किमपि हेण्डल् नुत्वा कर्षयित्वा च आयतपरिभ्रमणं कर्तुं शक्नुवन्ति । |
04:50 | अहं वामपार्श्वस्य हेण्डल् नुत्वा उपरि अधश्च कर्षयित्वा आयतं परिभ्रमामि । |
04:56 | एवं क्रियमाणे परिवर्तनं पश्यन्तु । |
04:59 | आगामिपाठे हेण्डल् इत्यस्य विषयमधिकं ज्ञास्यामः । |
05:04 | अधुना आकृतेः चयनात् विरमाम । |
05:06 | इदं कर्तुं केन्वास् इत्यस्य उपरि अथवा बहिः यत्रकुत्रापि नुदन्तु । |
05:11 | मूषकम् अहं पुनः टूल्बोक्स्-इत्यत्र तदेव रेक्टाङ्गल् मध्ये आनयामि । |
05:17 | इदं टूल् उपयुज्य, वयं आयतं चतुरश्रं वा चित्रितुं शक्नुमः इति टूल्-टिप् वदति । |
05:22 | अतः, आदौ इदं टूल् नुदामि । |
05:25 | चतुरश्रं चित्रितुं, ctrl कीलकं नुत्वा केवास् मध्ये कर्षयतु । |
05:30 | अस्य वर्णं पाटलं करोतु । |
05:32 | युष्मभ्यम् एकः अभ्यासः वर्तते । |
05:34 | create circle and ellipse इति टूल् , टूल्-बोक्स् इत्यस्मात् चिनोतु । |
05:38 | ctrl कीलकमुपयुज्य केन्वास् इत्यस्योपरि वृत्तं रचयतु । |
05:42 | अस्मै नीलवर्णं पूरयतु । |
05:44 | इदमस्माकं वृत्तम् । |
05:46 | अधुना, इदं वृत्तस्य रूपान्तरं कथं करणीयमिति ज्ञास्यामः । |
05:49 | स्ट्रोक् अपि च एण्ड् पेरामीटर् इतीमे परिवर्तयतु । वृत्तं धनुराकारं कर्तुं शक्नुमः । |
05:56 | आकृतीः परिवर्तितुं ,टूल्-कण्ट्रोल्-बार् मध्ये ३ विकल्पानि सन्ति । |
06:03 | अहमधुना स्ट्रोक्-पेरामीटर्-इतीदं 100 इति अपि च एण्ड्-पेरामीटर् इतीदं -50 इति च परिवर्तयामि । |
06:09 | वृत्तस्याकृतिः धनुर्रूपं प्राप्तवतीति ज्ञायते । |
06:14 | अहमधुना, arc ऐकान् नुदामि । आकृत्यां परिवर्तनं पश्यन्तु । |
06:19 | वयं circle ऐकान् नुत्वा, आकृतिं पुनः वृत्तं कर्तुं शक्नुमः । |
06:25 | अधुना, केन्वास् इत्यस्योपरि स्थितस्य वृत्तस्याकृतिं परिशीलयाम । |
06:30 | द्वे स्क्वेर्-हेण्डल्स् अपि च द्वे सर्कल्-हेण्डल्स् अथवा आर्क्-हेण्डल्स् इतीमानि आकृतौ पश्यन्तु । |
06:37 | द्वे स्क्वेर्-हेण्डल्स् , वृत्ताकृतिं दीर्घवृत्तं कर्तुं उपयुज्येते । |
06:44 | हेण्दल्स्-इतीमानि उपरि अधः अथवा वामतः दक्षिणतः च कर्षयन्तु । |
06:53 | आकृतौ परिवर्तनानि पश्यन्तु । |
06:56 | द्वे आर्क्-हेण्डल्स् एकस्योपरि अन्यत् स्थाप्येते । आर्क् हेण्डल् नुत्वा तत्, अप्रदक्षिणं चालयतु । |
07:04 | अधुना द्वेऽपि आर्क्-हेण्डल् दृष्टुं शक्नुमः । |
07:08 | इदम् आर्क्-हेण्डल् उपयुज्य , वृत्तं धनुरिव कर्तुं शक्नुमः । |
07:14 | इमानि प्रदक्षिणम् अप्रदक्षिणं वा चालयित्वा आकृतौ परिवर्तनानि पश्यन्तु । |
07:24 | अधुना, टूल्-बोक्स् इत्यत्र ,रेक्टाङ्गल्-टूल् इत्यस्योपरि नुत्वा चतुरश्रोपरि नुदन्तु । |
07:30 | द्वे रीसैज़्-हेण्डल्स् अपि च द्वे आर्क्-हेण्डल्स् आकृत्याः उपरि दक्षिणतः दृश्यन्ते । |
07:40 | पूर्ववत् , द्वे आर्क्-हेण्डल्स् एकस्योपरि अन्यत् स्थाप्येते । |
07:43 | तयोः एकस्योपरि नुत्वा प्रदक्षिणं चालयतु । |
07:48 | अधुना वयं, द्वेऽपि आर्क्-हेण्डल्स् पश्यामः । |
07:51 | इमानि हेण्डल्स्-उपयुज्य, चतुरश्रे वृत्ताकारस्य अश्रिं दातुं शक्नुमः । |
07:56 | तानि प्रदक्षिणं अप्रदक्षिणं वा चालयित्वा आकृतौ परिवर्तनं पश्यन्तु ।. |
08:02 | अधुना टूल्-बोक्स्-मध्ये strokes and polygon टूल् नुत्वा एकं पोलिगान् रचयाम । |
08:08 | इदं सर्कल् टूल् इत्यस्याधः अस्ति । तन्नुदतु । |
08:13 | वयं पूर्ववत् पोलिगान् रचयित्वा , हरिद्वर्णं पूरयाम । |
08:20 | सामान्यतः, पञ्चाश्रियुतं पोलिगान् , पञ्चभुजमेव वर्तते । |
08:24 | टूल्-कण्ट्रोल्-बार् पश्यन्तु । अत्र number of polygon is five इति वर्तते । |
08:32 | भवन्तः सङ्ख्यां चत्वारि इति परिवर्तयित्वा चतुरश्रम् अपि च त्रीणि इत्यनेन त्रिकोणं च रचयितुं शक्नुवन्ति । |
08:39 | एवमेव सङ्ख्याम् अधिकां कृत्वा पञ्चभुजं षड्भुजं च रचयितुं शक्नुवन्ति । |
08:44 | पोलिगान् इत्यस्योपरि रीसैज़्-हेण्डल् पश्यन्तु । |
08:47 | इदं पोलिगान् इत्यस्य परिमाणं परिवर्तितुं भ्रमणं कर्तुं वा उपयोक्तुमर्हति । |
08:52 | इदं नक्षत्राकृतिं कर्तुं टूल्-कण्ट्रोल्-बार्-मध्ये, पोलिगान्-ऐकान् इत्यस्य पार्श्वे स्ट्रोक्-ऐकान् इतीदं नुदतु । |
09:00 | नक्षत्राकृतौ द्वे हेण्डल्स् स्तः । अन्ते एकं सन्धावेकम् चेति । |
09:06 | परिमाणं परिवर्तितुं अथवा भ्रामयितुं , स्टार् इत्यस्यान्ते विद्यमानं हेण्डल् नुदन्तु । |
09:12 | अन्यं हेण्डल्-उपयुज्य नक्षत्रस्य परिमाणं परिवर्तितुं अपि च परिभ्रमणं कर्तुं च शक्नुमः । |
09:17 | तन्नुत्वा प्रदक्षिणं अप्रदक्षिणं वा भ्रामयित्वा परिमाणे आकृतौ च परिवर्तनं पश्यन्तु । |
09:25 | वयमधुना पाठस्यान्तमागतवन्तः । सङ्क्षेपेण - |
09:30 | अस्मिन् पाठे वयं इङ्क्-स्केप् इत्यस्य इण्टर्फेस्-विषयं ज्ञातवन्तः । |
09:34 | तथा आयतस्य, चतुरश्रस्य, वृत्तस्य, दीर्घवृत्तस्य, बहुभुजाकृतेः, नक्षत्रस्य च रचनाम्, |
09:42 | आकृत्यै वर्णपूरणम् अपि च हेण्डल्-उपयुज्य आकृत्याः परिवर्तनञ्च ज्ञातवन्तः । |
09:46 | युष्माकं एकः स्वाभ्यासः - |
09:49 | एकं नीलवर्णस्य आयतं, रक्तवर्णस्य वृत्तं, हरिद्वर्णस्य सप्तभुजनक्षत्रञ्च रचयत । |
09:58 | युष्माकं कार्याभ्यासः एवं दृश्येत् । |
10:03 | स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति । |
10:09 | उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु । |
10:13 | स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति । |
10:22 | विवरणार्थंcontact @ spoken-tutorial.org. इत्यस्मै लिखन्तु । |
10:28 | स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति । |
10:32 | अयं प्रकल्पः नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति । |
10:38 | अधिकविवरनम् - spoken-tutorial.org/NMEICT-intro इत्यत्रोपलभ्यते । |
10:47 | वयं पाठस्य अन्ते स्मः । |
10:50 | अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः । |