Difference between revisions of "Avogadro/C2/Build-molecules/Sanskrit"
From Script | Spoken-Tutorial
NaveenBhat (Talk | contribs) (Created page with "{| border =1 |'''Time''' |'''Narration''' |- | 00:01 | ''' Build Molecules''' इति स्पोकन् ट्युटोरियल् प्रति स्वा...") |
NaveenBhat (Talk | contribs) |
||
Line 369: | Line 369: | ||
|- | |- | ||
| 10:07 | | 10:07 | ||
− | | भवन्तः भवदभीष्टं '''amino acid ''' इतीमानि चित्वा पेप्टैड् इत्यस्य सीक्वेन्स् रचयितुमर्हन्ति । |- | + | | भवन्तः भवदभीष्टं '''amino acid ''' इतीमानि चित्वा पेप्टैड् इत्यस्य सीक्वेन्स् रचयितुमर्हन्ति । |
+ | |- | ||
| 10:13 | | 10:13 | ||
| सङ्क्षेपेण , | | सङ्क्षेपेण , |
Latest revision as of 12:14, 7 December 2019
Time | Narration |
00:01 | Build Molecules इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:07 | पाठेऽस्मिन् वयं डेटाबेस् तः अणूनाम् इम्पोर्ट्-करणम् , |
00:11 | परिभ्रामणम्, ज़ूम् इन् तथा ज़ूम् औट् करणम्, |
00:15 | पेनल् इत्यस्योपरि अणूनां निर्माणम्, |
00:17 | फ़ोर्स् फ़ील्ड् इत्यस्य स्थापना तथा रेखागणितस्य ओप्टिमैसेशन् , |
00:21 | बोण्ड् इत्यस्य दैर्घ्यं, कोणानां डैहैड्रल्-कोणानां च मापनम् , |
00:25 | फ़्रेग्मेण्ट् लैब्ररी इत्यस्य प्रदर्शनम्, |
00:27 | डि.एन्.ए. अणूनाम् तथा पेप्टैड् इत्येतेषां निर्माणम् एतेषां विषये ज्ञानं प्राप्नुमः । |
00:31 | अहमत्र Ubuntu Linux OS 14.04 आवृत्तिः,
Avogadro 1.1.1 आवृत्तिः तथा अन्तर्जालसम्पर्कः इत्येतेषाम् उपयोगं करोमि । |
00:44 | पाठस्यास्य अनुसरणाय भवन्तः रसायनशास्त्रं जानीयुः । Avogadro इतीदमवचेतुं कृपया sourceforge.net/projects/avogadro शृङ्खलायाः उपयोगं कुर्मः । |
00:53 | अहं Avogadro इत्यस्य अवचयनं कृतवानस्मि । |
00:56 | Avogadro इत्यस्योद्घाटनाय, Dash home इत्यस्योपरि नुदन्तु । |
01:00 | सर्च् बार् मध्ये, avogadro इति टङ्कयन्तु । |
01:02 | अप्लिकेशन् उद्घाटयितुम् , Avogadro ऐकान् नुदन्तु । |
01:08 | वयमधुना केमिकल् स्ट्रक्चर् डेटाबेस् तः, एकं xylene अणोः इम्पोर्ट् करणेन सह प्रारभामहै । |
01:15 | एकम् अणुम् इम्पोर्ट् कर्तुं , अस्माकं सक्रियान्तर्जालसम्पर्कः आवश्यकः । |
01:19 | File मेन्यू उपरि नुत्वा, Import प्रति गच्छन्तु । |
01:23 | एकं सब्-मेन्यू उद्घट्यते । |
01:25 | Fetch by chemical name इतीदं चिन्वन्तु । |
01:28 | Chemical name इति डैलाग् बोक्स् दृश्यते । |
01:30 | विवरणार्थमहं सर्च्-बोक्स् मध्ये, xylene इति टङ्कयामि । |
01:36 | OK बटन् उपरि नुदन्तु । |
01:38 | अधुना पेनल् इत्यस्योपरि वयम्, xylene अणुं प्राप्तवन्तः । |
01:42 | अधुना पेनल् मध्ये अणुं भ्रामयाम । |
01:45 | टूल् बार् मध्ये, Navigation tool उपरि नुदन्तु । |
01:49 | कर्सर् इतीदं अणोरुपरि स्थापयन्तु । |
01:52 | मौस् इत्यस्य वामगण्डं नुदन्नेव कर्षयन्तु । |
01:56 | दिक्सूचयन्तः बाणाः, कर्षणं सूचयन्तीति ज्ञायते । |
02:00 | अणुं ट्रान्स्लेट् कर्तुं, मौस् इत्यस्य वामगण्डं नुदन्नेव कर्षयन्तु । |
02:06 | स्ट्रक्चर् इतीदं ज़ूम् इन् तथा ज़ूम् औट् कर्तुं,मौस् इत्यस्य चक्रं सारणं कुर्वन्तु । |
02:10 | अधुना एकस्य अणोः रचना कथमिति जानाम । |
02:14 | एकम् अणुं रचयितुं टूल् बार् मध्ये Draw Tool ऐकान् नुदन्तु । |
02:19 | Draw Settings मेन्यू मध्ये वयं Element तथा Bond Order इति ड्रोप्-डौन् बटन्स् तथा Adjust Hydrogens इति चेक् बोक्स् दृष्टुं शक्नुमः । |
02:30 | भवद्भ्यः स्ट्रक्चर् मध्ये हैड्रोजन्स् नावश्यकानि चेत् Adjust Hydrogens इति चेक् बोक्स् अन्-चेक् कुर्वन्तु । |
02:37 | Element ड्रोप्-डौन् लिस्ट्, एलिमेण्ट्स् इत्येतेषाम् आवलिं दर्शयति । |
02:42 | पूर्णं Periodic table इतीदम् अन्यदेव गवाक्षे दृष्टुम्, Other इत्यस्योपरि नुदन्तु । |
02:48 | गवाक्षस्य पिधानाय, Close (X चिह्नं) नुदन्तु । |
02:51 | अधुना पेनल् इत्यस्योपरि, Aniline (एनिलिन्) स्ट्रक्चर् रचयाम । |
02:55 | Element ड्रोप्-डौन् आवल्याम्, Carbon इतीदं नुदन्तु । |
02:59 | Bond Order ड्रोप्-डौन् आवल्यां, Single इतीदं चिन्वन्तु । |
03:03 | पेनल् इत्यस्योपरि नुदन्तु । |
03:05 | षट् कार्बन्-परमाणूनां संवृत-शृङ्खलां रचयितुं ड्रेग् एण्ड् ड्रोप् कुर्वन्तु । |
03:10 | डबल्-बोण्ड्स् दर्शयितुम्, Bond Order ड्रोप्-डौन् तः Double इतीदं चिन्वन्तु । |
03:16 | बेंज़ीन् इत्यस्य स्ट्रक्चर् प्राप्तुम्, एकं हित्वा अन्यं बोण्ड् नुदन्तु । |
03:21 | Aniline इत्यस्य स्ट्रक्चर् पूर्णं कुर्मः । |
03:24 | Element ड्रोप् डौन् लिस्ट् मध्ये, Nitrogen इतीदं नुदन्तु । |
03:29 | Bond Order ड्रोप्-डौन् मध्ये, Single इतीदं चिन्वन्तु । |
03:33 | स्ट्रक्चर् मध्ये, यत्कमपि कोर्बन्-अणुं नुदन् कर्षयतु । |
03:39 | Build मेन्यू गत्वा Add Hydrogens इतीदं चिन्वन्तु । |
03:45 | वयं पेनल् मध्ये, Aniline इत्यस्य स्ट्रक्चर् प्राप्तवन्तः । |
03:49 | स्टेबल् कन्फ़र्मेशन् प्राप्तुं, पेनल् मध्ये Aniline स्ट्रक्चर् इत्यस्य ओप्टिमैसेशन् करणीयम् । |
03:56 | ओप्टिमैस् कर्तुं साधनपेटिकायाम् Auto Optimization Tool इत्यस्योपरि नुदन्तु । |
04:02 | वामपार्श्वे, AutoOptimization Settings इति मेन्यू दृश्यते । |
04:06 | Force Field इति ड्रोप्-डौन् लिस्ट् नुत्वा, MMFF94 इतीदं चिन्वन्तु । |
04:13 | MMFF94 इतीदं सामान्यतः लघूनि ओर्गेनिक् अणूनि ओप्टिमैस् कर्तुं उपयुञ्ज्महे । |
04:20 | Start गण्डस्योपरि नुदन्तु । |
04:23 | ओप्टिमैसेशन् समापनाय केचन निमेषाः आवश्यकाः । |
04:28 | Optimization Setting इतीदं पिधातुं , Stop इत्यस्योपरि नुदन्तु । |
04:33 | अधुना 'अनिलिन्' इत्यस्य बोण्ड् इत्यस्य दैर्घ्यं, बोण्ड् इत्यस्य कोणं, डैहैड्रल् एङ्गल् इतीमानि मापयामः । |
04:40 | साधनपेटिकायां Click to Measure ऐकान् चिन्वन्तु । |
04:44 | अन्तरस्य मापनाय, कयोश्चिदपि कार्बन् अण्वोरुपरि नुदन्तु । |
04:49 | कोणस्य मापनाय, केषाञ्चिदपि त्रयाणां कार्बन् अणूनामुपरि नुदन्तु । |
04:55 | 'डै हैड्रल् एङ्गल्' इत्येतेषां मापनाय, केषाञ्चिदपि चतुर्णां अनुक्रम-कार्बन्-अणूनामुपरि नुदन्तु । |
05:02 | मापितानि मूल्यानि पेनल् इत्यस्याधः दृश्यन्ते । |
05:07 | सञ्चिकां रक्षितुं, File , पश्चात् Save As च नुदन्तु । |
05:13 | Save Molecule As इति डैलाग् बोक्स् दृश्यते । |
05:17 | File Name इतीदं, Aniline.cml इति टङ्कयन्तु । |
05:21 | लोकेशन् इतीदं Desktop इति चित्वा Save गण्डस्योपरि नुदन्तु । |
05:28 | एकं नूतनं गवाक्षम् उद्घाटयितुं, New ऐकान् नुदन्तु । |
05:32 | Avogadro सोफ़्ट्वेर्, fragment लैब्ररी उपयुज्य, संहताणून् रचयितुम् एकं विधानं प्राप्तवदस्ति । |
05:38 | Build मेन्यू प्रति गच्छन्तु । |
05:40 | पश्चात् Insert प्रति गत्वा, Fragment इतीदं चिन्वन्तु । |
05:45 | Insert Fragment इति डैलाग्-बोक्स् उद्घट्यते । |
05:49 | नाना केमिकल्-स्ट्रक्चर्स् इत्येतेषां, cml सञ्चिकाः यस्मिन् सञ्चये वर्तन्ते तेषाम् आवलिं वयं दृष्टुं शक्नुमः । |
05:55 | उदाहरणार्थं वयम्, alkenes (आल्कीन्स्) फ़ोल्डर् उद्घाटयाम । |
06:00 | फ़ोल्डर् मध्ये विद्यमानानि दृष्टुं तद्द्विवारं नोदयन्तु । |
06:04 | 2-methyl-buta-1,3-diene.cml इतीदं चिन्वन्तु । |
06:10 | Insert गण्डं नुदन्तु । |
06:13 | संवादपेटिकां पिधातुं , Close बटन् नुदन्तु । |
06:17 | पेनल् मध्ये, 2-methyl-1,3-butadiene स्ट्रक्चर् दर्शितम् । |
06:22 | सामान्यतः इदम् Isoprene (ऐसोप्रीन्) इति कथ्यते । |
06:26 | वयं Isoprene (ऐसोप्रीन्) उपयुज्य स्वाभाविकोत्पन्नानि रचयितुं शक्नुमः । |
06:30 | अयमणुः, सेलेक्ट् मोड् मध्ये अस्ति । |
06:33 | डि-सेलेक्ट् कर्तुम्, CTRL, SHIFT तथा A कीलकानि युगपन्नुदन्तु । |
06:39 | तद्यथा : अहम् Isoprene इतीदमुपयुज्य रचिते, Vitamin A तथा natural rubber च दर्शयामि । |
06:47 | Vitamin A, natural rubber |
06:51 | अहम् Isoprene (ऐसोप्रीन्) इतीदम् एकस्मै कोणाय ट्रान्स्लेट् करोमि । |
06:56 | क्रमेण Build >> Insert >> Fragment इत्यस्योपरि नुदन्तु । |
07:02 | अधः स्क्रोल् कृत्वा, macrocycles सञ्चयं गच्छन्तु । तदुद्घाटयितुं द्विवारं नुदन्तु । |
07:08 | porphin फ़्रेग्मेण्ट् इतीदं चिन्वन्तु तथा Insert इतीदं नुदन्तु । |
07:14 | संवादपेटिकायाः पिधानं कुर्वन्तु । |
07:16 | porphyrin फ़्रेग्मेण्ट्स् उपयुज्य वयं Chlorophyll (क्लोरोफ़िल्) तथा Vitamin B12 सदृशानि संहतरासयनिकानां स्ट्रक्चर् रचयितुं शक्नुमः । |
07:25 | Chlorophyll (क्लोरोफ़िल्) |
07:27 | Vitamin B12 (वैटमिन् B12) |
07:30 | Avogadro इतीदमुपयुज्य, DNA तथा peptide सदृशानां संहताणूनां रचना साध्या । |
07:37 | New ऐकान् उपयुज्य एकं नूतनं गवाक्षमुद्घाटयन्तु । |
07:41 | एकं DNA अणुं योजयितुं क्रमेण Build मेन्यू पश्चात् Insert प्रति गत्वा सब् मेन्यू मध्ये DNA/RNA च नुदन्तु । |
07:51 | Insert Nucleic Acids इति डैलाग् बोक्स् दृश्यते । |
07:55 | DNA/RNA Builder ड्रोप्-डौन् मध्ये, DNA इतीदं चिन्वन्तु । |
08:00 | चत्वारि 'न्यूक्लिक् एसिड् बेसस्' (nucleic acid bases) इतीमानि बटन्स् रूपेण दर्शितानि । |
08:05 | Nucleic acid सीक्वेन्स् चेतुं बटन्स् उपरि नुदन्तु । |
08:10 | भवदभीष्टं acids इत्येतेषां सीक्वेन्स् चेतुं शक्नुवन्ति भवन्तः । |
08:14 | विवरणार्थमहं , A T G C A T G C इतीदं चिनोमि । |
08:26 | Nucleic acid इत्येतेषां चयनक्रमः, Sequence इति टेक्स्ट् बोक्स् मध्ये दृश्यते । |
08:32 | Bases Per Turn ड्रोप् डौन् मध्ये, A इतीदं चिनोतु । "5" इतीदं चिन्वन्तु । इदं प्रत्येकेषु Helix मध्ये विद्यमानस्य बेस्-पेर् सङ्ख्या वर्तते । |
08:41 | Strands इतीदं Single इति चित्वा Insert गण्डस्योपरि नुदन्तु । |
08:47 | डैलाग् बोक्स् इत्यस्य पिधानाय, Close इतीदं नुदन्तु । |
08:51 | वयमधुना पेनल् मध्ये, एकस्यैव स्ट्रेण्ड् इत्यस्य DNA अणुं प्राप्तवन्तः । |
08:56 | स्ट्रक्चर् इतीदं ज़ूम् औट् कुर्वन्तु । पेनल् इत्यस्य मध्यभागे तदानयन्तु । |
09:01 | पेनल् मध्ये, DNA अणुं डीसेलेक्ट् कर्तुं, CTRL, Shift तथा A कीलकानि युगपन्नुदन्तु । |
09:09 | Insert मेन्यू मध्ये Peptide विकल्पमुपयुज्य, वयं 'पेप्टैड्' इत्यस्य सीक्वेन्स् अपि रचयितुं शक्नुमः । |
09:16 | पुनः एकं नूतनं गवाक्षमुद्घाटयितुं, New ऐकान् उपरि नुदन्तु । |
09:21 | Build मेन्यू मध्ये अधः स्क्रोल् कृत्वा, Insert पश्चात् Peptide प्रति च गच्छन्तु । |
09:26 | Insert Peptide डैलाग् बोक्स् उद्घट्यते । |
09:29 | amino acids गण्डानां नोदनेन, Peptide सीक्वेन्स् इत्यस्मै, amino acid इतीमानि चिन्वन्तु । |
09:36 | विवरणार्थमहं सीक्वेन्स् इतीदं Glycine(Gly) -Valine(Val) -Proline(Pro) and Cystine(Cys) इति चिनोमि । |
09:45 | चयनस्य पद्धतिः, Sequence टेक्स्ट् बोक्स् मध्ये दृश्यते । |
09:50 | Insert Peptide गण्डस्योपरि नुदन्तु । |
09:53 | Insert Peptide संवादपेटिकायाः पिधानं कुर्वन्तु । |
09:57 | पेनल् उपरि Peptide इत्यस्य शृङ्खला दृश्यते । |
10:00 | पेनल् मध्ये Peptide इतीदं डीसेलेक्ट् कर्तुं, CTRL, Shift तथा A कीलकानि युगपन्नुदन्तु । |
10:07 | भवन्तः भवदभीष्टं amino acid इतीमानि चित्वा पेप्टैड् इत्यस्य सीक्वेन्स् रचयितुमर्हन्ति । |
10:13 | सङ्क्षेपेण , |
10:15 | पाठेऽस्मिन् वयम्, |
10:18 | डेटाबेस् तः अणूनाम् इम्पोर्ट्-करणम्, |
10:21 | परिभ्रामणम्, ज़ूम्-इन् ज़ूम्-औट् च करणम् , |
10:24 | पेनल् उपरि अणूनां रचना, |
10:26 | फ़ोर्स् फ़ील्ड् इत्यस्य सेट्-अप् करणम्, ज्यामित्याः ओप्टिमैसेशन्, |
10:30 | बोण्ड् इत्यस्य दैर्घ्यस्य, कोणानां, डैहैड्रल् कोणानां मापनम् , |
10:35 | फ़्रेग्मेण्ट् लैब्ररी इत्यस्य प्रदर्शनम् , |
10:37 | DNA अणूनां Peptide इत्येतेषां च रचना – इमान् विषयान् ज्ञातवन्तः । |
10:41 | एकं पाठनियोजनम् - अधस्तन एमिनो एसिड् रेसिड्यू इतीमान्युपयुज्य, एकं प्रोटीन् सीक्वेन्स् रचयन्तु । |
10:49 | UFF फ़ोर्स् फ़ील्ड् उपयुज्य ज्यामित्याः ओप्टिमैसेशन् कुर्वन्तु । |
10:53 | इमेज् इतीदं .cml सञ्चिकारूपेण रक्षन्तु । |
10:58 | Nucleic acids: AUGC उपयुज्य , RNA सीक्वेन्स् रचयन्तु । |
11:04 | MMFF94 फ़ोर्स् फ़ील्ड् उपयुज्य, ज्यामित्याः ओप्टिमैसेशन् कुर्वन्तु । |
11:10 | इमेज् इतीदं .cml सञ्चिकारूपेण रक्षन्तु । |
11:14 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । |
11:18 | उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् । |
11:23 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
11:30 | स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
11:36 | पाठस्यास्य अनुवादकः प्रवाचकशच श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |