Avogadro/C2/Build-molecules/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Build Molecules इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयं डेटाबेस् तः अणूनाम् इम्पोर्ट्-करणम् ,
00:11 परिभ्रामणम्, ज़ूम् इन् तथा ज़ूम् औट् करणम्,
00:15 पेनल् इत्यस्योपरि अणूनां निर्माणम्,
00:17 फ़ोर्स् फ़ील्ड् इत्यस्य स्थापना तथा रेखागणितस्य ओप्टिमैसेशन् ,
00:21 बोण्ड् इत्यस्य दैर्घ्यं, कोणानां डैहैड्रल्-कोणानां च मापनम् ,
00:25 फ़्रेग्मेण्ट् लैब्ररी इत्यस्य प्रदर्शनम्,
00:27 डि.एन्.ए. अणूनाम् तथा पेप्टैड् इत्येतेषां निर्माणम् एतेषां विषये ज्ञानं प्राप्नुमः ।
00:31 अहमत्र Ubuntu Linux OS 14.04 आवृत्तिः,

Avogadro 1.1.1 आवृत्तिः तथा अन्तर्जालसम्पर्कः इत्येतेषाम् उपयोगं करोमि ।

00:44 पाठस्यास्य अनुसरणाय भवन्तः रसायनशास्त्रं जानीयुः । Avogadro इतीदमवचेतुं कृपया sourceforge.net/projects/avogadro शृङ्खलायाः उपयोगं कुर्मः ।
00:53 अहं Avogadro इत्यस्य अवचयनं कृतवानस्मि ।
00:56 Avogadro इत्यस्योद्घाटनाय, Dash home इत्यस्योपरि नुदन्तु ।
01:00 सर्च् बार् मध्ये, avogadro इति टङ्कयन्तु ।
01:02 अप्लिकेशन् उद्घाटयितुम् , Avogadro ऐकान् नुदन्तु ।
01:08 वयमधुना केमिकल् स्ट्रक्चर् डेटाबेस् तः, एकं xylene अणोः इम्पोर्ट् करणेन सह प्रारभामहै ।
01:15 एकम् अणुम् इम्पोर्ट् कर्तुं , अस्माकं सक्रियान्तर्जालसम्पर्कः आवश्यकः ।
01:19 File मेन्यू उपरि नुत्वा, Import प्रति गच्छन्तु ।
01:23 एकं सब्-मेन्यू उद्घट्यते ।
01:25 Fetch by chemical name इतीदं चिन्वन्तु ।
01:28 Chemical name इति डैलाग् बोक्स् दृश्यते ।
01:30 विवरणार्थमहं सर्च्-बोक्स् मध्ये, xylene इति टङ्कयामि ।
01:36 OK बटन् उपरि नुदन्तु ।
01:38 अधुना पेनल् इत्यस्योपरि वयम्, xylene अणुं प्राप्तवन्तः ।
01:42 अधुना पेनल् मध्ये अणुं भ्रामयाम ।
01:45 टूल् बार् मध्ये, Navigation tool उपरि नुदन्तु ।
01:49 कर्सर् इतीदं अणोरुपरि स्थापयन्तु ।
01:52 मौस् इत्यस्य वामगण्डं नुदन्नेव कर्षयन्तु ।
01:56 दिक्सूचयन्तः बाणाः, कर्षणं सूचयन्तीति ज्ञायते ।
02:00 अणुं ट्रान्स्लेट् कर्तुं, मौस् इत्यस्य वामगण्डं नुदन्नेव कर्षयन्तु ।
02:06 स्ट्रक्चर् इतीदं ज़ूम् इन् तथा ज़ूम् औट् कर्तुं,मौस् इत्यस्य चक्रं सारणं कुर्वन्तु ।
02:10 अधुना एकस्य अणोः रचना कथमिति जानाम ।
02:14 एकम् अणुं रचयितुं टूल् बार् मध्ये Draw Tool ऐकान् नुदन्तु ।
02:19 Draw Settings मेन्यू मध्ये वयं Element तथा Bond Order इति ड्रोप्-डौन् बटन्स् तथा Adjust Hydrogens इति चेक् बोक्स् दृष्टुं शक्नुमः ।
02:30 भवद्भ्यः स्ट्रक्चर् मध्ये हैड्रोजन्स् नावश्यकानि चेत् Adjust Hydrogens इति चेक् बोक्स् अन्-चेक् कुर्वन्तु ।
02:37 Element ड्रोप्-डौन् लिस्ट्, एलिमेण्ट्स् इत्येतेषाम् आवलिं दर्शयति ।
02:42 पूर्णं Periodic table इतीदम् अन्यदेव गवाक्षे दृष्टुम्, Other इत्यस्योपरि नुदन्तु ।
02:48 गवाक्षस्य पिधानाय, Close (X चिह्नं) नुदन्तु ।
02:51 अधुना पेनल् इत्यस्योपरि, Aniline (एनिलिन्) स्ट्रक्चर् रचयाम ।
02:55 Element ड्रोप्-डौन् आवल्याम्, Carbon इतीदं नुदन्तु ।
02:59 Bond Order ड्रोप्-डौन् आवल्यां, Single इतीदं चिन्वन्तु ।
03:03 पेनल् इत्यस्योपरि नुदन्तु ।
03:05 षट् कार्बन्-परमाणूनां संवृत-शृङ्खलां रचयितुं ड्रेग् एण्ड् ड्रोप् कुर्वन्तु ।
03:10 डबल्-बोण्ड्स् दर्शयितुम्, Bond Order ड्रोप्-डौन् तः Double इतीदं चिन्वन्तु ।
03:16 बेंज़ीन् इत्यस्य स्ट्रक्चर् प्राप्तुम्, एकं हित्वा अन्यं बोण्ड् नुदन्तु ।
03:21 Aniline इत्यस्य स्ट्रक्चर् पूर्णं कुर्मः ।
03:24 Element ड्रोप् डौन् लिस्ट् मध्ये, Nitrogen इतीदं नुदन्तु ।
03:29 Bond Order ड्रोप्-डौन् मध्ये, Single इतीदं चिन्वन्तु ।
03:33 स्ट्रक्चर् मध्ये, यत्कमपि कोर्बन्-अणुं नुदन् कर्षयतु ।
03:39 Build मेन्यू गत्वा Add Hydrogens इतीदं चिन्वन्तु ।
03:45 वयं पेनल् मध्ये, Aniline इत्यस्य स्ट्रक्चर् प्राप्तवन्तः ।
03:49 स्टेबल् कन्फ़र्मेशन् प्राप्तुं, पेनल् मध्ये Aniline स्ट्रक्चर् इत्यस्य ओप्टिमैसेशन् करणीयम् ।
03:56 ओप्टिमैस् कर्तुं साधनपेटिकायाम् Auto Optimization Tool इत्यस्योपरि नुदन्तु ।
04:02 वामपार्श्वे, AutoOptimization Settings इति मेन्यू दृश्यते ।
04:06 Force Field इति ड्रोप्-डौन् लिस्ट् नुत्वा, MMFF94 इतीदं चिन्वन्तु ।
04:13 MMFF94 इतीदं सामान्यतः लघूनि ओर्गेनिक् अणूनि ओप्टिमैस् कर्तुं उपयुञ्ज्महे ।
04:20 Start गण्डस्योपरि नुदन्तु ।
04:23 ओप्टिमैसेशन् समापनाय केचन निमेषाः आवश्यकाः ।
04:28 Optimization Setting इतीदं पिधातुं , Stop इत्यस्योपरि नुदन्तु ।
04:33 अधुना 'अनिलिन्' इत्यस्य बोण्ड् इत्यस्य दैर्घ्यं, बोण्ड् इत्यस्य कोणं, डैहैड्रल् एङ्गल् इतीमानि मापयामः ।
04:40 साधनपेटिकायां Click to Measure ऐकान् चिन्वन्तु ।
04:44 अन्तरस्य मापनाय, कयोश्चिदपि कार्बन् अण्वोरुपरि नुदन्तु ।
04:49 कोणस्य मापनाय, केषाञ्चिदपि त्रयाणां कार्बन् अणूनामुपरि नुदन्तु ।
04:55 'डै हैड्रल् एङ्गल्' इत्येतेषां मापनाय, केषाञ्चिदपि चतुर्णां अनुक्रम-कार्बन्-अणूनामुपरि नुदन्तु ।
05:02 मापितानि मूल्यानि पेनल् इत्यस्याधः दृश्यन्ते ।
05:07 सञ्चिकां रक्षितुं, File , पश्चात् Save As च नुदन्तु ।
05:13 Save Molecule As इति डैलाग् बोक्स् दृश्यते ।
05:17 File Name इतीदं, Aniline.cml इति टङ्कयन्तु ।
05:21 लोकेशन् इतीदं Desktop इति चित्वा Save गण्डस्योपरि नुदन्तु ।
05:28 एकं नूतनं गवाक्षम् उद्घाटयितुं, New ऐकान् नुदन्तु ।
05:32 Avogadro सोफ़्ट्वेर्, fragment लैब्ररी उपयुज्य, संहताणून् रचयितुम् एकं विधानं प्राप्तवदस्ति ।
05:38 Build मेन्यू प्रति गच्छन्तु ।
05:40 पश्चात् Insert प्रति गत्वा, Fragment इतीदं चिन्वन्तु ।
05:45 Insert Fragment इति डैलाग्-बोक्स् उद्घट्यते ।
05:49 नाना केमिकल्-स्ट्रक्चर्स् इत्येतेषां, cml सञ्चिकाः यस्मिन् सञ्चये वर्तन्ते तेषाम् आवलिं वयं दृष्टुं शक्नुमः ।
05:55 उदाहरणार्थं वयम्, alkenes (आल्कीन्स्) फ़ोल्डर् उद्घाटयाम ।
06:00 फ़ोल्डर् मध्ये विद्यमानानि दृष्टुं तद्द्विवारं नोदयन्तु ।
06:04 2-methyl-buta-1,3-diene.cml इतीदं चिन्वन्तु ।
06:10 Insert गण्डं नुदन्तु ।
06:13 संवादपेटिकां पिधातुं , Close बटन् नुदन्तु ।
06:17 पेनल् मध्ये, 2-methyl-1,3-butadiene स्ट्रक्चर् दर्शितम् ।
06:22 सामान्यतः इदम् Isoprene (ऐसोप्रीन्) इति कथ्यते ।
06:26 वयं Isoprene (ऐसोप्रीन्) उपयुज्य स्वाभाविकोत्पन्नानि रचयितुं शक्नुमः ।
06:30 अयमणुः, सेलेक्ट् मोड् मध्ये अस्ति ।
06:33 डि-सेलेक्ट् कर्तुम्, CTRL, SHIFT तथा A कीलकानि युगपन्नुदन्तु ।
06:39 तद्यथा : अहम् Isoprene इतीदमुपयुज्य रचिते, Vitamin A तथा natural rubber च दर्शयामि ।
06:47 Vitamin A, natural rubber
06:51 अहम् Isoprene (ऐसोप्रीन्) इतीदम् एकस्मै कोणाय ट्रान्स्लेट् करोमि ।
06:56 क्रमेण Build >> Insert >> Fragment इत्यस्योपरि नुदन्तु ।
07:02 अधः स्क्रोल् कृत्वा, macrocycles सञ्चयं गच्छन्तु । तदुद्घाटयितुं द्विवारं नुदन्तु ।
07:08 porphin फ़्रेग्मेण्ट् इतीदं चिन्वन्तु तथा Insert इतीदं नुदन्तु ।
07:14 संवादपेटिकायाः पिधानं कुर्वन्तु ।
07:16 porphyrin फ़्रेग्मेण्ट्स् उपयुज्य वयं Chlorophyll (क्लोरोफ़िल्) तथा Vitamin B12 सदृशानि संहतरासयनिकानां स्ट्रक्चर् रचयितुं शक्नुमः ।
07:25 Chlorophyll (क्लोरोफ़िल्)
07:27 Vitamin B12 (वैटमिन् B12)
07:30 Avogadro इतीदमुपयुज्य, DNA तथा peptide सदृशानां संहताणूनां रचना साध्या ।
07:37 New ऐकान् उपयुज्य एकं नूतनं गवाक्षमुद्घाटयन्तु ।
07:41 एकं DNA अणुं योजयितुं क्रमेण Build मेन्यू पश्चात् Insert प्रति गत्वा सब् मेन्यू मध्ये DNA/RNA च नुदन्तु ।
07:51 Insert Nucleic Acids इति डैलाग् बोक्स् दृश्यते ।
07:55 DNA/RNA Builder ड्रोप्-डौन् मध्ये, DNA इतीदं चिन्वन्तु ।
08:00 चत्वारि 'न्यूक्लिक् एसिड् बेसस्' (nucleic acid bases) इतीमानि बटन्स् रूपेण दर्शितानि ।
08:05 Nucleic acid सीक्वेन्स् चेतुं बटन्स् उपरि नुदन्तु ।
08:10 भवदभीष्टं acids इत्येतेषां सीक्वेन्स् चेतुं शक्नुवन्ति भवन्तः ।
08:14 विवरणार्थमहं , A T G C A T G C इतीदं चिनोमि ।
08:26 Nucleic acid इत्येतेषां चयनक्रमः, Sequence इति टेक्स्ट् बोक्स् मध्ये दृश्यते ।
08:32 Bases Per Turn ड्रोप् डौन् मध्ये, A इतीदं चिनोतु । "5" इतीदं चिन्वन्तु । इदं प्रत्येकेषु Helix मध्ये विद्यमानस्य बेस्-पेर् सङ्ख्या वर्तते ।
08:41 Strands इतीदं Single इति चित्वा Insert गण्डस्योपरि नुदन्तु ।
08:47 डैलाग् बोक्स् इत्यस्य पिधानाय, Close इतीदं नुदन्तु ।
08:51 वयमधुना पेनल् मध्ये, एकस्यैव स्ट्रेण्ड् इत्यस्य DNA अणुं प्राप्तवन्तः ।
08:56 स्ट्रक्चर् इतीदं ज़ूम् औट् कुर्वन्तु । पेनल् इत्यस्य मध्यभागे तदानयन्तु ।
09:01 पेनल् मध्ये, DNA अणुं डीसेलेक्ट् कर्तुं, CTRL, Shift तथा A कीलकानि युगपन्नुदन्तु ।
09:09 Insert मेन्यू मध्ये Peptide विकल्पमुपयुज्य, वयं 'पेप्टैड्' इत्यस्य सीक्वेन्स् अपि रचयितुं शक्नुमः ।
09:16 पुनः एकं नूतनं गवाक्षमुद्घाटयितुं, New ऐकान् उपरि नुदन्तु ।
09:21 Build मेन्यू मध्ये अधः स्क्रोल् कृत्वा, Insert पश्चात् Peptide प्रति च गच्छन्तु ।
09:26 Insert Peptide डैलाग् बोक्स् उद्घट्यते ।
09:29 amino acids गण्डानां नोदनेन, Peptide सीक्वेन्स् इत्यस्मै, amino acid इतीमानि चिन्वन्तु ।
09:36 विवरणार्थमहं सीक्वेन्स् इतीदं Glycine(Gly) -Valine(Val) -Proline(Pro) and Cystine(Cys) इति चिनोमि ।
09:45 चयनस्य पद्धतिः, Sequence टेक्स्ट् बोक्स् मध्ये दृश्यते ।
09:50 Insert Peptide गण्डस्योपरि नुदन्तु ।
09:53 Insert Peptide संवादपेटिकायाः पिधानं कुर्वन्तु ।
09:57 पेनल् उपरि Peptide इत्यस्य शृङ्खला दृश्यते ।
10:00 पेनल् मध्ये Peptide इतीदं डीसेलेक्ट् कर्तुं, CTRL, Shift तथा A कीलकानि युगपन्नुदन्तु ।
10:07 भवन्तः भवदभीष्टं amino acid इतीमानि चित्वा पेप्टैड् इत्यस्य सीक्वेन्स् रचयितुमर्हन्ति ।
10:13 सङ्क्षेपेण ,
10:15 पाठेऽस्मिन् वयम्,
10:18 डेटाबेस् तः अणूनाम् इम्पोर्ट्-करणम्,
10:21 परिभ्रामणम्, ज़ूम्-इन् ज़ूम्-औट् च करणम् ,
10:24 पेनल् उपरि अणूनां रचना,
10:26 फ़ोर्स् फ़ील्ड् इत्यस्य सेट्-अप् करणम्, ज्यामित्याः ओप्टिमैसेशन्,
10:30 बोण्ड् इत्यस्य दैर्घ्यस्य, कोणानां, डैहैड्रल् कोणानां मापनम् ,
10:35 फ़्रेग्मेण्ट् लैब्ररी इत्यस्य प्रदर्शनम् ,
10:37 DNA अणूनां Peptide इत्येतेषां च रचना – इमान् विषयान् ज्ञातवन्तः ।
10:41 एकं पाठनियोजनम् - अधस्तन एमिनो एसिड् रेसिड्यू इतीमान्युपयुज्य, एकं प्रोटीन् सीक्वेन्स् रचयन्तु ।
10:49 UFF फ़ोर्स् फ़ील्ड् उपयुज्य ज्यामित्याः ओप्टिमैसेशन् कुर्वन्तु ।
10:53 इमेज् इतीदं .cml सञ्चिकारूपेण रक्षन्तु ।
10:58 Nucleic acids: AUGC उपयुज्य , RNA सीक्वेन्स् रचयन्तु ।
11:04 MMFF94 फ़ोर्स् फ़ील्ड् उपयुज्य, ज्यामित्याः ओप्टिमैसेशन् कुर्वन्तु ।
11:10 इमेज् इतीदं .cml सञ्चिकारूपेण रक्षन्तु ।
11:14 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।
11:18 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
11:23 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
11:30 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
11:36 पाठस्यास्य अनुवादकः प्रवाचकशच श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat