Difference between revisions of "GIMP/C2/Rotating-And-Cropping-An-Image/Sanskrit"
From Script | Spoken-Tutorial
NaveenBhat (Talk | contribs) (Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:22 | GIMP इति विषयके पाठेऽस्मिन् सर्वेभ्यः स्वागतम...") |
Sandhya.np14 (Talk | contribs) |
||
Line 222: | Line 222: | ||
| 07:30 | | 07:30 | ||
| अस्तु, चित्रे नुदतु । | | अस्तु, चित्रे नुदतु । | ||
− | |||
|- | |- | ||
Line 235: | Line 234: | ||
| 07:52 | | 07:52 | ||
| अत्र चित्रं परिभ्रामयितुं मह्यं सहायभूता अवसर्पिणी एका अस्ति । किन्तु, अस्याः निर्वहणं कष्टमस्तीति भवान् द्रष्टुं शक्नोति । अस्य चित्रस्य एतावत् परिभ्रमणं नावश्यकम् । | | अत्र चित्रं परिभ्रामयितुं मह्यं सहायभूता अवसर्पिणी एका अस्ति । किन्तु, अस्याः निर्वहणं कष्टमस्तीति भवान् द्रष्टुं शक्नोति । अस्य चित्रस्य एतावत् परिभ्रमणं नावश्यकम् । | ||
− | |||
|- | |- | ||
| 08:05 | | 08:05 | ||
| अतः वयमत्र शून्यं प्रतिगच्छामः । अपि च इदानीमहमत्र चित्रं परिभ्रामयितुं शैलीमिमाम् उपयुञ्जे । | | अतः वयमत्र शून्यं प्रतिगच्छामः । अपि च इदानीमहमत्र चित्रं परिभ्रामयितुं शैलीमिमाम् उपयुञ्जे । | ||
− | |||
|- | |- |
Latest revision as of 11:56, 16 December 2019
Time | Narration |
00:22 | GIMP इति विषयके पाठेऽस्मिन् सर्वेभ्यः स्वागतम् । |
00:24 | अस्य चित्रस्य सम्पादनस्य आरम्भात् प्राक्, भवतः यथार्थछायाचित्रार्थं (photography), RAW इत्यस्य उपयोगविषये भवते संक्षेपेण वक्तव्यमस्ति । |
00:33 | यदि अहं चित्रमिदं JPEG इत्यस्मिन् स्वीकृतवान्, तर्हि encoding इतीदं कर्तुं प्रकाशस्य 256 सोपानानि प्राप्यन्ते स्म । |
00:42 | इदं न्यूनाधिकं black and white इत्यस्ति, नीलहरितयोः छायया युक्तं, मूलभूतेन इदं केवलं धूसरः अस्तीति भवान् द्रष्टुं शक्नोति । |
00:52 | JPEG इत्यनेन, भवान् धूसरस्य 256 विभिन्नमूल्यानि प्राप्तवान् । |
01:00 | शून्यं कृष्णस्य अपि च 255 इति श्वेतस्य अस्ति । |
01:05 | चित्रेऽस्मिन् श्वेतवर्णः नास्ति, केवलं किञ्चित् कृष्णवर्णः अस्ति । |
01:11 | अतः, केवलमस्य प्रदेशस्य किञ्चित् स्थानमुपयुक्तम् अस्ति । |
01:16 | कीयत् इति अहमनन्तरं वदामि । |
01:19 | अहं चित्रमिदं RAW इत्यस्मिन् स्वीकृतवान् । मम चित्रकं, RAW इति चित्राणि 12 अङ्कदत्तांशप्रारूपे (bit data format) सङ्गृह्णाति । |
01:27 | मूल्यानां प्रसारणानन्तरं चित्रमिदमहं RAW converter इत्यस्मात् प्राप्तवान् । अत्र धूसरस्य 256 विभिन्नमूल्यानि सन्ति । इदानीमहं चित्रस्य सम्पादनम् आरब्धुं शक्नोमि । |
01:42 | प्राथमिकेन सह यदि तोलयामः तर्हि चित्रेऽस्मिन् बहवो विषयाः रक्षिताः सन्ति । |
01:47 | मम स्मरणानुसारम् इदं प्रथमचित्रम् अस्ति । अपि च इदमहं परिवर्तनानन्तरं प्राप्तवान् । |
01:54 | द्वितीयं चित्रम्, अग्रिमप्रक्रियायाः एकमुत्तमम् आधारभूतमस्ति । इदं चित्रं प्रथमचित्रस्य लहरीं प्राप्यापि उत्तमचित्रमिव फलितमस्ति । |
02:06 | इदानीमहं चित्रद्वयमपि GIMP इत्यस्मिन् उद्घाटितवान् । अतः वयं चित्रद्वयस्य स्तम्भालेखं (histogram) पश्यामः । |
02:14 | अयं स्तम्भालेखः, चित्रस्य संवादपेटिकायां गुप्तमस्ति । |
02:17 | किन्तु, वयं त्रिषु विधानेषु चित्रस्य संवादपेटिकां प्राप्तुं शक्नुमः । प्रथमविधानं tool bar इत्यस्मिन् अस्ति । |
02:33 | द्वितीयमत्र, Access the image menu इतीदं नुत्वा, तत्र dialogs इत्यस्य उपरि नोदनम् । |
02:40 | तृतीयं, चित्रे दक्षिणनोदनं (right click) कृत्वानन्तरं Dialog अपि च Histogram इत्यस्य नोदनम् । |
02:48 | अत्र, अयं प्रथमचित्रस्य स्तम्भालेखः (Histogram) अस्ति । |
02:51 | इदं किञ्चित् यदि बृहत् करोति तर्हि चित्रस्थानां विविधवर्णानां, विविधचित्रकणानां वितरणं भवानत्र दृष्टुं शक्नोति । |
02:59 | अङ्कीयचित्रं (Digital image), सङ्ख्याद्वारा वर्णचित्रं रचितमिव भवति । |
03:03 | यदा भवान् चित्रे सर्पणं करोति, तदा बहु लघु लघु tiles इतीमान् पश्यति । अपि च tiles इत्येतेषु प्रत्येकं tiles इतीदं, प्रत्येकं वर्णयुक्तमस्ति । इदमेव 'pixel' इति नाम्ना कथ्यते । |
03:14 | प्रत्येकं वर्णः एकेन मूल्येन निर्दिश्यते । Color Picker इत्यस्य सहायेन अहं भवते अत्र एतानि मूल्यानि दर्शयितुं शक्नोमि । |
03:26 | यदाहं colour picker इतीदम् उपयुञ्जे, तदा रक्तः, हरितः अपि च नीलवर्णेभ्यः मूल्यानि प्राप्नोमि । |
03:32 | चित्रेऽस्मिन्, रक्तस्य मूल्यं हरितनीलयोः अपेक्षया किञ्चित् न्यूनमस्ति । |
03:38 | हरितनीलवर्णौ न्यूनाधिकं समानमूल्ययुक्तौ स्तः । |
03:43 | सङ्ख्याभिः रङ्गसेचनम् अङ्कीयछायाचित्रम् (digital photography) इति कथ्यते । |
03:46 | चित्रेऽस्मिन् अत्र, 0 तः 255 पर्यन्तं सङ्ख्याः प्राप्तवान् । अत्र यथार्थः कृष्णीभूतः भागः विद्यते । किन्तु, अयम् अन्तिमे चित्रेऽपि अस्तीति मे न भाति । |
04:00 | यथार्थं चित्रम् इतः, उपाशीतिः (around 80) इति सङ्ख्यायाः आरभ्यते । चित्रस्य प्रकाशमानः भागः अत्र उपद्विशतं (around 200) यावत् भवति । |
04:10 | अतः, 0 तः 256 पर्यन्तं स्थानमस्ति । किन्तु, वयं 120 इति सङ्ख्यां केवलम् उपयुञ्ज्महे । इदम् अस्माभिः उपयुज्यमानस्य दत्तांशस्य अर्धभागादपि न्यूनमस्ति । |
04:23 | अतः, अस्य चित्रस्य बहवो सूच्यांशाः अत्र नष्टाः सन्ति । |
04:29 | वयं द्वितीयचित्रस्य स्तम्भालेखं पश्यामः । |
04:33 | यथा वयमत्र पश्यामः, प्रथमचित्रेण यदि तोलयामः तर्हि अस्मिन् स्तम्भालेखे अधिकदत्तांशः अस्ति । किन्तु, वक्ररेखायाः रूपम् एकमेव अस्ति । |
04:45 | भवान् एतत् स्तम्भालेखद्वयस्य तुलनां करोतु । |
04:51 | द्वितीयचित्रस्थानि विवरणानि प्रसारितानि सन्ति । अतः, अत्र परिहर्तव्या समस्या नाम द्वितीयचित्रस्य प्रथमचित्रवत् सङ्कोचकरणम् । |
05:01 | किन्तु, प्रथमचित्रस्थवत् इदम् इतोऽपि अधिकविवरणयुक्तं तथैव किञ्चित् अधिकं व्यतिरेकयुक्तं भवितव्यम् आसीत् । |
05:11 | चित्रेणानेन सह कार्यस्य आरम्भात् प्राक्, पूर्वतनपाठस्य अङ्कनावसरे GIMP user interface इति विषयकस्य अन्वेषणं भवते दर्शनीयमस्ति । |
05:23 | यदा भवान् चित्रगवाक्षे (image window) प्लवनकीलकं (tab) नुदति तदा अत्रत्य साधनपेटिका अदृश्या भवति । अपि च यथेच्छं बृहत् चित्रं प्राप्तुं मह्यम् आनुकूल्यं भवति । मम आवश्यकतानुसारं साधनपेटिकामहं सक्रियां निष्क्रियां च कर्तुं शक्नोमि । |
05:41 | अतः, अत्राहं किं कुर्वन्नस्मीति भवानपि सम्यक् द्रष्टुं शक्नोति । |
05:46 | चित्रसम्पादनस्य आरम्भात् प्राक्, settings इतीमानि कानिचन परिवर्तनीयानि सन्ति । |
05:52 | अतः, अहं क्रमशः File, Preference अपि च Window Management इत्यत्र गत्वा अत्र विकल्पान् चिनोमि । |
06:03 | toolbox अपि च docks इत्येतयोः Keep above इतीदं संरक्ष्य अवशिष्टविकल्पान् यथावत् तथैव त्यजतु । |
06:11 | OK इत्यस्य नोदनानन्तरं GIMP इतीदं विज्ञापनवत् (advertised) कार्यं करोति । |
06:17 | अहं साधनपेटिकायाः साधनानि चेतुं शक्नोमि । अपि च मया चितसाधनेभ्यः सर्वचयनानि प्राप्तुं शक्यन्ते । |
06:25 | अहं पुनः चित्रे नुत्वा, प्लवनकीलकम् (tab) उपयुज्य साधनपेटिकां सक्रियां निष्क्रियां च कर्तुं शक्नोमि । |
06:33 | प्रथमं, चित्रं समीकृतम् अस्ति किम् इति परिशीलनीयम् । |
06:37 | चित्रेऽस्मिन्, विश्वासार्हाणि मानवनिर्मितभवनानि न सन्ति । अतः, चित्रम् ऋजु अस्ति इति परिशीलयितुं grid इति विधानस्य उपयोगावश्यकता नास्ति । |
06:47 | जलस्य उपरितनभागः बहूत्तमः सङ्केतः अस्ति । |
06:50 | किन्तु, अत्र दिगन्तः न दृश्यते अपि च जलस्य उपरितनरेखाः अपि किञ्चित् अपदिशन्त्यः (misleading) सन्ति । |
06:57 | अयम्, अत्र दिगन्तः नास्ति किन्तु नद्यां विद्यमाना वक्रतामात्रमस्ति । |
07:02 | अतः, ruler इतीदं कुत्र व्यवस्थाप्य दिगन्तः परिशीलनीयः इति यथार्थसङ्केतम् अहं न प्राप्तवान् । |
07:08 | नूनमहं मम नेत्रे विश्वसिमि । छायाचित्रे किमपि कर्तुम् इदमतीव न तावत् निकृष्टतमं विधानमस्ति । |
07:16 | इदानीमहं, Rotate इति साधनं चिनोमि । Corrective Backward इत्यस्य अपेक्षया Normal Forward इतीदं चिनोमि । तथैव Preview इत्यत्र Image इतीदं व्यवस्थापयामि । न तु Grid इतीदम् । |
07:30 | अस्तु, चित्रे नुदतु । |
07:38 | अत्र, केन्द्रे "center of rotation" इत्यात्मकः बिन्दुरस्ति । इमं बिन्दुं परितः चित्रस्य परिभ्रमणं भवति । |
07:46 | अपि चात्र, चित्रं परिभ्रामयितुम् अपेक्षितं Angle इत्यस्य व्यवस्थापिका संवादपेटिका इयमस्ति । |
07:52 | अत्र चित्रं परिभ्रामयितुं मह्यं सहायभूता अवसर्पिणी एका अस्ति । किन्तु, अस्याः निर्वहणं कष्टमस्तीति भवान् द्रष्टुं शक्नोति । अस्य चित्रस्य एतावत् परिभ्रमणं नावश्यकम् । |
08:05 | अतः वयमत्र शून्यं प्रतिगच्छामः । अपि च इदानीमहमत्र चित्रं परिभ्रामयितुं शैलीमिमाम् उपयुञ्जे । |
08:14 | चित्रमिदं किञ्चित् दक्षिणं प्रति अभिनतमस्ति (tilted) । अतः चित्रमहं वामम्, अर्थात् counter-clockwise इति दिशि परिभ्रामयामि । तदर्थं मह्यमत्र ऋणात्मकमूल्यानि अपेक्षन्ते । |
08:29 | अतः, मह्यम् उत्तमम् अपि च ऋजु चित्रस्य प्राप्तिपर्यन्तम् अहं कोणं परिवर्तयन् भवामि । |
08:36 | अतः, अहं "-0.25°" इति प्रति कोणं व्यवस्थापयामि । |
08:43 | इमं गवाक्षं कर्षयतु । अपि च rotate इत्यस्य उपरि नुदतु । अस्याः प्रक्रियायाः फलितार्थं प्रतीक्षां करोतु । |
08:50 | अग्रिमं सोपानम्: "cropping" इतीदमस्ति । |
08:54 | चित्रे, मह्यम् इयं नौका, इदं जलम् अपि च अत्रत्याः एते पक्षिणः अपेक्षन्ते । |
09:02 | चित्रे, अत्रत्यम् इदं तृणम्, अत्रत्यमिदं स्थानं नापेक्षते । नद्याः इदं तटं, मम चित्रे अपेक्षते इत्यपि मह्यं निश्चितता नास्ति । |
09:16 | अहं चित्रस्य इमं भागं crop इति करोमि इति चिन्तये । यतोहि, अनन्तरं मह्यं चित्रस्य अत्यन्तं गाढतमभागः अपेक्षते । |
09:24 | अर्थात्, अत्रत्यपक्षिणः, इयं नौका, अनन्तरम् एते वृक्षाः, नौकाया पृष्ठभागे विद्यमानम् इदं तटम् अपि च अन्तिमतया इदं जलम् आकाशः च । |
09:35 | चित्रस्य अयं भागः अत्यन्तं गाढः अस्ति । |
09:39 | मह्यं चित्रस्य अयं भागः सर्पणीयः अस्ति । यतोहि मह्यं यथासाध्यं नद्याः भागः योजनीयः किन्तु, न नद्याः तटम् । |
09:49 | अतः, hot key Z इतीदं नुत्वा चित्रस्य अस्मिन् भागे अहं सर्पणं करोमि । |
10:00 | अत्र अन्यः पक्षी डयमानः अस्ति । |
10:02 | अतः, अहं वामपार्श्वं गत्वा ruler इतीदं नद्याः तटस्य समीपं कर्षयित्वा अत्रैव त्यजामि । |
10:09 | Shift + ctrl + E इत्यस्य नोदनेन इदं मां चित्रं प्रति पुनः आनयति । |
10:15 | इदानीं मया Crop इति साधनं चेतव्यमस्ति अपि च अस्मिन् केचन विकल्पाः व्यवस्थापनीयाः सन्ति । |
10:20 | मह्यं Fixed aspect ratio इतीदं 2:1 प्रति अपेक्षते । |
10:29 | किञ्चित् साहाय्यार्थं Preview इत्यस्मिन् अहं Rule of thirds इतीदं व्यवस्थापयामि । इदं मह्यं काश्चन सहायकरेखाः प्रकल्पयति । |
10:37 | अत्र, किं सर्वं योजितमस्ति इति अहं पश्यामि । |
10:41 | अत्र, अयमेकः पक्षिणां समूहः अपि च अत्र एकः एव पक्षी दृश्यते । |
10:47 | इदानीं भवान् rulers इतीमान् दूरमपसार्य नोत्तुं शक्नोति । |
10:51 | चित्रस्य अधोभागे जलमस्ति । किन्तु, तत्र अपेक्षितं जलं नास्ति, तथैव अधिकाकाशेन युक्तम् अस्ति । |
11:01 | अत्र उपरि विद्यमानं पक्षिणं त्यक्तुं शक्नोमि । यतोहि पक्षिणामयं समूहः मह्यं चित्रे अपेक्षते । |
11:09 | इदानीमहम् इदं किञ्चित् अधः कर्षयामि । अपि च इदं सम्यक् दृश्यमानमस्ति । |
11:14 | मम कार्यं परिशीलयितुमहं Rule of thirds इतीदं चिनोमि । |
11:19 | मम नेत्रं न तावत् दुष्टमस्ति । यतोहि चित्रमहं, जलं, वृक्षाः अपि च आकाशः इति त्रिधा विभक्तवान् आसम् । |
11:30 | इयं नौका, अस्माकम् आसक्तिविषयेषु अन्यतमा अस्ति । |
11:34 | पक्षिणामयं समूहः द्वितीयासक्तिविषयः । अपि च इदं चित्रस्य अत्युत्तमः 1/9 तम भागः अस्ति । |
11:42 | इदं कार्यं करोतीति अहं चिन्तये । अहं crop इतीदं कर्तुं चित्रे नुदामि । |
11:49 | चित्रं बृहत् कर्तुं प्लवनं (tab) अपि च shift + ctrl +E इतीमान् नुदामि । |
11:55 | चित्रस्य cropping इत्यनेन सह वयं सम्यक् आरब्धवन्तः । चित्रेणानेन किं कर्तुं शक्यते इति अग्रिमे पाठेऽहं प्रदर्शयामि । |
12:05 | समाप्तेः प्राक्, प्रथममहं चित्रमिदं रक्षामि । इदं मया बहु पूर्वमेव कर्तव्यमासीत् । |
12:12 | चित्रमहं Fog.xcf इति रक्षामि । ‘xcf’ इतीदं GIMP इत्यस्य स्वीयं सञ्चिकाप्रारूपस्य (file format) extension इत्यस्ति । तत् GIMP इत्यस्य layers अपि च undo तथैव अन्यप्रकारकैः उपयुक्तसूच्यांशैः युक्तमस्ति । |
12:29 | अहं भवतः मुखात् श्रोतुमिच्छामि । |
12:32 | अस्मिन् भवान् किमिष्टवान्, इदमितोऽपि कथमुत्तमं कर्तुं शक्यते इति info@meetthegimp.org इत्यत्र ई-पत्रद्वारा सूचयतु । |
12:42 | अधिकविवरणम् अस्मिन् शृङ्खले लभ्यमस्ति http://meetthegimp.org |
12:47 | Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणं । धन्यवादाः। |