GIMP/C2/Rotating-And-Cropping-An-Image/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:22 GIMP इति विषयके पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:24 अस्य चित्रस्य सम्पादनस्य आरम्भात् प्राक्, भवतः यथार्थछायाचित्रार्थं (photography), RAW इत्यस्य उपयोगविषये भवते संक्षेपेण वक्तव्यमस्ति ।
00:33 यदि अहं चित्रमिदं JPEG इत्यस्मिन् स्वीकृतवान्, तर्हि encoding इतीदं कर्तुं प्रकाशस्य 256 सोपानानि प्राप्यन्ते स्म ।
00:42 इदं न्यूनाधिकं black and white इत्यस्ति, नीलहरितयोः छायया युक्तं, मूलभूतेन इदं केवलं धूसरः अस्तीति भवान् द्रष्टुं शक्नोति ।
00:52 JPEG इत्यनेन, भवान् धूसरस्य 256 विभिन्नमूल्यानि प्राप्तवान् ।
01:00 शून्यं कृष्णस्य अपि च 255 इति श्वेतस्य अस्ति ।
01:05 चित्रेऽस्मिन् श्वेतवर्णः नास्ति, केवलं किञ्चित् कृष्णवर्णः अस्ति ।
01:11 अतः, केवलमस्य प्रदेशस्य किञ्चित् स्थानमुपयुक्तम् अस्ति ।
01:16 कीयत् इति अहमनन्तरं वदामि ।
01:19 अहं चित्रमिदं RAW इत्यस्मिन् स्वीकृतवान् । मम चित्रकं, RAW इति चित्राणि 12 अङ्कदत्तांशप्रारूपे (bit data format) सङ्गृह्णाति ।
01:27 मूल्यानां प्रसारणानन्तरं चित्रमिदमहं RAW converter इत्यस्मात् प्राप्तवान् । अत्र धूसरस्य 256 विभिन्नमूल्यानि सन्ति । इदानीमहं चित्रस्य सम्पादनम् आरब्धुं शक्नोमि ।
01:42 प्राथमिकेन सह यदि तोलयामः तर्हि चित्रेऽस्मिन् बहवो विषयाः रक्षिताः सन्ति ।
01:47 मम स्मरणानुसारम् इदं प्रथमचित्रम् अस्ति । अपि च इदमहं परिवर्तनानन्तरं प्राप्तवान् ।
01:54 द्वितीयं चित्रम्, अग्रिमप्रक्रियायाः एकमुत्तमम् आधारभूतमस्ति । इदं चित्रं प्रथमचित्रस्य लहरीं प्राप्यापि उत्तमचित्रमिव फलितमस्ति ।
02:06 इदानीमहं चित्रद्वयमपि GIMP इत्यस्मिन् उद्घाटितवान् । अतः वयं चित्रद्वयस्य स्तम्भालेखं (histogram) पश्यामः ।
02:14 अयं स्तम्भालेखः, चित्रस्य संवादपेटिकायां गुप्तमस्ति ।
02:17 किन्तु, वयं त्रिषु विधानेषु चित्रस्य संवादपेटिकां प्राप्तुं शक्नुमः । प्रथमविधानं tool bar इत्यस्मिन् अस्ति ।
02:33 द्वितीयमत्र, Access the image menu इतीदं नुत्वा, तत्र dialogs इत्यस्य उपरि नोदनम् ।
02:40 तृतीयं, चित्रे दक्षिणनोदनं (right click) कृत्वानन्तरं Dialog अपि च Histogram इत्यस्य नोदनम् ।
02:48 अत्र, अयं प्रथमचित्रस्य स्तम्भालेखः (Histogram) अस्ति ।
02:51 इदं किञ्चित् यदि बृहत् करोति तर्हि चित्रस्थानां विविधवर्णानां, विविधचित्रकणानां वितरणं भवानत्र दृष्टुं शक्नोति ।
02:59 अङ्कीयचित्रं (Digital image), सङ्ख्याद्वारा वर्णचित्रं रचितमिव भवति ।
03:03 यदा भवान् चित्रे सर्पणं करोति, तदा बहु लघु लघु tiles इतीमान् पश्यति । अपि च tiles इत्येतेषु प्रत्येकं tiles इतीदं, प्रत्येकं वर्णयुक्तमस्ति । इदमेव 'pixel' इति नाम्ना कथ्यते ।
03:14 प्रत्येकं वर्णः एकेन मूल्येन निर्दिश्यते । Color Picker इत्यस्य सहायेन अहं भवते अत्र एतानि मूल्यानि दर्शयितुं शक्नोमि ।
03:26 यदाहं colour picker इतीदम् उपयुञ्जे, तदा रक्तः, हरितः अपि च नीलवर्णेभ्यः मूल्यानि प्राप्नोमि ।
03:32 चित्रेऽस्मिन्, रक्तस्य मूल्यं हरितनीलयोः अपेक्षया किञ्चित् न्यूनमस्ति ।
03:38 हरितनीलवर्णौ न्यूनाधिकं समानमूल्ययुक्तौ स्तः ।
03:43 सङ्ख्याभिः रङ्गसेचनम् अङ्कीयछायाचित्रम् (digital photography) इति कथ्यते ।
03:46 चित्रेऽस्मिन् अत्र, 0 तः 255 पर्यन्तं सङ्ख्याः प्राप्तवान् । अत्र यथार्थः कृष्णीभूतः भागः विद्यते । किन्तु, अयम् अन्तिमे चित्रेऽपि अस्तीति मे न भाति ।
04:00 यथार्थं चित्रम् इतः, उपाशीतिः (around 80) इति सङ्ख्यायाः आरभ्यते । चित्रस्य प्रकाशमानः भागः अत्र उपद्विशतं (around 200) यावत् भवति ।
04:10 अतः, 0 तः 256 पर्यन्तं स्थानमस्ति । किन्तु, वयं 120 इति सङ्ख्यां केवलम् उपयुञ्ज्महे । इदम् अस्माभिः उपयुज्यमानस्य दत्तांशस्य अर्धभागादपि न्यूनमस्ति ।
04:23 अतः, अस्य चित्रस्य बहवो सूच्यांशाः अत्र नष्टाः सन्ति ।
04:29 वयं द्वितीयचित्रस्य स्तम्भालेखं पश्यामः ।
04:33 यथा वयमत्र पश्यामः, प्रथमचित्रेण यदि तोलयामः तर्हि अस्मिन् स्तम्भालेखे अधिकदत्तांशः अस्ति । किन्तु, वक्ररेखायाः रूपम् एकमेव अस्ति ।
04:45 भवान् एतत् स्तम्भालेखद्वयस्य तुलनां करोतु ।
04:51 द्वितीयचित्रस्थानि विवरणानि प्रसारितानि सन्ति । अतः, अत्र परिहर्तव्या समस्या नाम द्वितीयचित्रस्य प्रथमचित्रवत् सङ्कोचकरणम् ।
05:01 किन्तु, प्रथमचित्रस्थवत् इदम् इतोऽपि अधिकविवरणयुक्तं तथैव किञ्चित् अधिकं व्यतिरेकयुक्तं भवितव्यम् आसीत् ।
05:11 चित्रेणानेन सह कार्यस्य आरम्भात् प्राक्, पूर्वतनपाठस्य अङ्कनावसरे GIMP user interface इति विषयकस्य अन्वेषणं भवते दर्शनीयमस्ति ।
05:23 यदा भवान् चित्रगवाक्षे (image window) प्लवनकीलकं (tab) नुदति तदा अत्रत्य साधनपेटिका अदृश्या भवति । अपि च यथेच्छं बृहत् चित्रं प्राप्तुं मह्यम् आनुकूल्यं भवति । मम आवश्यकतानुसारं साधनपेटिकामहं सक्रियां निष्क्रियां च कर्तुं शक्नोमि ।
05:41 अतः, अत्राहं किं कुर्वन्नस्मीति भवानपि सम्यक् द्रष्टुं शक्नोति ।
05:46 चित्रसम्पादनस्य आरम्भात् प्राक्, settings इतीमानि कानिचन परिवर्तनीयानि सन्ति ।
05:52 अतः, अहं क्रमशः File, Preference अपि च Window Management इत्यत्र गत्वा अत्र विकल्पान् चिनोमि ।
06:03 toolbox अपि च docks इत्येतयोः Keep above इतीदं संरक्ष्य अवशिष्टविकल्पान् यथावत् तथैव त्यजतु ।
06:11 OK इत्यस्य नोदनानन्तरं GIMP इतीदं विज्ञापनवत् (advertised) कार्यं करोति ।
06:17 अहं साधनपेटिकायाः साधनानि चेतुं शक्नोमि । अपि च मया चितसाधनेभ्यः सर्वचयनानि प्राप्तुं शक्यन्ते ।
06:25 अहं पुनः चित्रे नुत्वा, प्लवनकीलकम् (tab) उपयुज्य साधनपेटिकां सक्रियां निष्क्रियां च कर्तुं शक्नोमि ।
06:33 प्रथमं, चित्रं समीकृतम् अस्ति किम् इति परिशीलनीयम् ।
06:37 चित्रेऽस्मिन्, विश्वासार्हाणि मानवनिर्मितभवनानि न सन्ति । अतः, चित्रम् ऋजु अस्ति इति परिशीलयितुं grid इति विधानस्य उपयोगावश्यकता नास्ति ।
06:47 जलस्य उपरितनभागः बहूत्तमः सङ्केतः अस्ति ।
06:50 किन्तु, अत्र दिगन्तः न दृश्यते अपि च जलस्य उपरितनरेखाः अपि किञ्चित् अपदिशन्त्यः (misleading) सन्ति ।
06:57 अयम्, अत्र दिगन्तः नास्ति किन्तु नद्यां विद्यमाना वक्रतामात्रमस्ति ।
07:02 अतः, ruler इतीदं कुत्र व्यवस्थाप्य दिगन्तः परिशीलनीयः इति यथार्थसङ्केतम् अहं न प्राप्तवान् ।
07:08 नूनमहं मम नेत्रे विश्वसिमि । छायाचित्रे किमपि कर्तुम् इदमतीव न तावत् निकृष्टतमं विधानमस्ति ।
07:16 इदानीमहं, Rotate इति साधनं चिनोमि । Corrective Backward इत्यस्य अपेक्षया Normal Forward इतीदं चिनोमि । तथैव Preview इत्यत्र Image इतीदं व्यवस्थापयामि । न तु Grid इतीदम् ।
07:30 अस्तु, चित्रे नुदतु ।
07:38 अत्र, केन्द्रे "center of rotation" इत्यात्मकः बिन्दुरस्ति । इमं बिन्दुं परितः चित्रस्य परिभ्रमणं भवति ।
07:46 अपि चात्र, चित्रं परिभ्रामयितुम् अपेक्षितं Angle इत्यस्य व्यवस्थापिका संवादपेटिका इयमस्ति ।
07:52 अत्र चित्रं परिभ्रामयितुं मह्यं सहायभूता अवसर्पिणी एका अस्ति । किन्तु, अस्याः निर्वहणं कष्टमस्तीति भवान् द्रष्टुं शक्नोति । अस्य चित्रस्य एतावत् परिभ्रमणं नावश्यकम् ।
08:05 अतः वयमत्र शून्यं प्रतिगच्छामः । अपि च इदानीमहमत्र चित्रं परिभ्रामयितुं शैलीमिमाम् उपयुञ्जे ।
08:14 चित्रमिदं किञ्चित् दक्षिणं प्रति अभिनतमस्ति (tilted) । अतः चित्रमहं वामम्, अर्थात् counter-clockwise इति दिशि परिभ्रामयामि । तदर्थं मह्यमत्र ऋणात्मकमूल्यानि अपेक्षन्ते ।
08:29 अतः, मह्यम् उत्तमम् अपि च ऋजु चित्रस्य प्राप्तिपर्यन्तम् अहं कोणं परिवर्तयन् भवामि ।
08:36 अतः, अहं "-0.25°" इति प्रति कोणं व्यवस्थापयामि ।
08:43 इमं गवाक्षं कर्षयतु । अपि च rotate इत्यस्य उपरि नुदतु । अस्याः प्रक्रियायाः फलितार्थं प्रतीक्षां करोतु ।
08:50 अग्रिमं सोपानम्: "cropping" इतीदमस्ति ।
08:54 चित्रे, मह्यम् इयं नौका, इदं जलम् अपि च अत्रत्याः एते पक्षिणः अपेक्षन्ते ।
09:02 चित्रे, अत्रत्यम् इदं तृणम्, अत्रत्यमिदं स्थानं नापेक्षते । नद्याः इदं तटं, मम चित्रे अपेक्षते इत्यपि मह्यं निश्चितता नास्ति ।
09:16 अहं चित्रस्य इमं भागं crop इति करोमि इति चिन्तये । यतोहि, अनन्तरं मह्यं चित्रस्य अत्यन्तं गाढतमभागः अपेक्षते ।
09:24 अर्थात्, अत्रत्यपक्षिणः, इयं नौका, अनन्तरम् एते वृक्षाः, नौकाया पृष्ठभागे विद्यमानम् इदं तटम् अपि च अन्तिमतया इदं जलम् आकाशः च ।
09:35 चित्रस्य अयं भागः अत्यन्तं गाढः अस्ति ।
09:39 मह्यं चित्रस्य अयं भागः सर्पणीयः अस्ति । यतोहि मह्यं यथासाध्यं नद्याः भागः योजनीयः किन्तु, न नद्याः तटम् ।
09:49 अतः, hot key Z इतीदं नुत्वा चित्रस्य अस्मिन् भागे अहं सर्पणं करोमि ।
10:00 अत्र अन्यः पक्षी डयमानः अस्ति ।
10:02 अतः, अहं वामपार्श्वं गत्वा ruler इतीदं नद्याः तटस्य समीपं कर्षयित्वा अत्रैव त्यजामि ।
10:09 Shift + ctrl + E इत्यस्य नोदनेन इदं मां चित्रं प्रति पुनः आनयति ।
10:15 इदानीं मया Crop इति साधनं चेतव्यमस्ति अपि च अस्मिन् केचन विकल्पाः व्यवस्थापनीयाः सन्ति ।
10:20 मह्यं Fixed aspect ratio इतीदं 2:1 प्रति अपेक्षते ।
10:29 किञ्चित् साहाय्यार्थं Preview इत्यस्मिन् अहं Rule of thirds इतीदं व्यवस्थापयामि । इदं मह्यं काश्चन सहायकरेखाः प्रकल्पयति ।
10:37 अत्र, किं सर्वं योजितमस्ति इति अहं पश्यामि ।
10:41 अत्र, अयमेकः पक्षिणां समूहः अपि च अत्र एकः एव पक्षी दृश्यते ।
10:47 इदानीं भवान् rulers इतीमान् दूरमपसार्य नोत्तुं शक्नोति ।
10:51 चित्रस्य अधोभागे जलमस्ति । किन्तु, तत्र अपेक्षितं जलं नास्ति, तथैव अधिकाकाशेन युक्तम् अस्ति ।
11:01 अत्र उपरि विद्यमानं पक्षिणं त्यक्तुं शक्नोमि । यतोहि पक्षिणामयं समूहः मह्यं चित्रे अपेक्षते ।
11:09 इदानीमहम् इदं किञ्चित् अधः कर्षयामि । अपि च इदं सम्यक् दृश्यमानमस्ति ।
11:14 मम कार्यं परिशीलयितुमहं Rule of thirds इतीदं चिनोमि ।
11:19 मम नेत्रं न तावत् दुष्टमस्ति । यतोहि चित्रमहं, जलं, वृक्षाः अपि च आकाशः इति त्रिधा विभक्तवान् आसम् ।
11:30 इयं नौका, अस्माकम् आसक्तिविषयेषु अन्यतमा अस्ति ।
11:34 पक्षिणामयं समूहः द्वितीयासक्तिविषयः । अपि च इदं चित्रस्य अत्युत्तमः 1/9 तम भागः अस्ति ।
11:42 इदं कार्यं करोतीति अहं चिन्तये । अहं crop इतीदं कर्तुं चित्रे नुदामि ।
11:49 चित्रं बृहत् कर्तुं प्लवनं (tab) अपि च shift + ctrl +E इतीमान् नुदामि ।
11:55 चित्रस्य cropping इत्यनेन सह वयं सम्यक् आरब्धवन्तः । चित्रेणानेन किं कर्तुं शक्यते इति अग्रिमे पाठेऽहं प्रदर्शयामि ।
12:05 समाप्तेः प्राक्, प्रथममहं चित्रमिदं रक्षामि । इदं मया बहु पूर्वमेव कर्तव्यमासीत् ।
12:12 चित्रमहं Fog.xcf इति रक्षामि । ‘xcf’ इतीदं GIMP इत्यस्य स्वीयं सञ्चिकाप्रारूपस्य (file format) extension इत्यस्ति । तत् GIMP इत्यस्य layers अपि च undo तथैव अन्यप्रकारकैः उपयुक्तसूच्यांशैः युक्तमस्ति ।
12:29 अहं भवतः मुखात् श्रोतुमिच्छामि ।
12:32 अस्मिन् भवान् किमिष्टवान्, इदमितोऽपि कथमुत्तमं कर्तुं शक्यते इति info@meetthegimp.org इत्यत्र ई-पत्रद्वारा सूचयतु ।
12:42 अधिकविवरणम् अस्मिन् शृङ्खले लभ्यमस्ति http://meetthegimp.org
12:47 Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणं । धन्यवादाः।

Contributors and Content Editors

NaveenBhat, Sandhya.np14