Moodle-Learning-Management-System/C2/Quiz-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Quiz in Moodle इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् पाठे वयम्,

मूडल् मध्ये Quiz इत्यस्य रचना अपि च, क्विझ् मध्ये Question bank इत्यस्य प्रश्नानां उपयोगं ज्ञास्यामः ।

00:16 पाठस्यास्य ध्वन्यङ्कनायाहं :

Ubuntu Linux OS 16.04, XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP, Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् इत्येतेषाम् विनियोगं कृतवानस्मि । भवदभीष्टं यत्किमपि वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:40 परन्तु Internet Explorer इत्यस्योपयोगः मास्तु । तत् सम्यग्रीत्या डिस्प्ले न करोति ।
00:48 भवतां सैट्-एड्मिनिस्ट्रेटर् भवन्तं teacher रूपेण नामाङ्कनं कृत्वा, न्यूनातिन्यूनं एकं कोर्स् भवद्भ्यः असैन् कृतवान् स्यात् ।
00:59 अपि च, भवतां प्रणाल्यै भवन्तः क्वश्चन्-बेङ्क् मध्ये कांश्चन प्रश्नान् संयोजितवान् स्यात् । न चेत्, तत्सम्बद्धानि Moodle ट्युटोरियल्स् अस्मिन् जालपुटे पश्यन्तु ।
01:12 ब्रौसर् प्रति आगत्य, भवतां मूडल् सैट् मध्ये लोगिन् कुर्वन्तु ।
01:18 वामपार्श्वस्य नेविगेशन् मेन्यूमध्ये Calculus कोर्स् नुदन्तु ।
01:22 उपरि दक्षिणपार्श्वे gear ऐकान् इतीदं पश्चात् Turn Editing On इतीदञ्च नुदन्तु ।
01:29 Basic Calculus विभागस्याधः दक्षिणपार्श्वे Add an activity or resource पर्चनीं नुदन्तु ।
01:37 अधः स्क्रोल् कृत्वा ‘एक्टिविटि चूसर्’ मध्ये Quiz इतीदं नुदन्तु ।
01:42 ‘एक्टिविटि चूसर्’ इत्यस्याधः Add गण्डं नुदन्तु ।
01:47 Name फ़ील्ड् मध्येऽहं , Quiz 1 - Evolutes and involutes इति टङ्कयामि ।
01:54 पश्चात् Description फ़ील्ड् मध्ये, अत्र यथा दर्शितं तथा टङ्कनं करोमि ।
02:00 Display description on course page चेक्-बोक्स् इतीदं चेक् कृत्वा पश्चात् Timing विभागस्य विस्तरणं कुर्मः ।
02:09 Open the quiz, Close the quiz अपि च Time limit इतीमानि चेक्-बोक्सस् क्रियान्वितानि कुर्वन्तु ।
02:17 इदं, दत्ते दिनाङ्के सूक्तकालाय क्विज़् इतीदं उद्घाटनपिधाने करोति ।
02:25 इमानि दिनाङ्कानि कालञ्च भवताम् आवश्यकतानुसारेण निश्चिन्वन्तु । अहं तानि अत्र यथा दर्शितं तथा स्थापितवानस्मि ।
02:32 पश्चात्, अवधिमहं 10 मिनिट् इति स्थापयामि ।
02:37 When time expires फ़ील्ड् इतीदं, विकल्पत्रययुतमस्ति ।भवतां क्विज़् इत्यस्मै सूक्तमेकं चिन्वन्तु ।
02:47 अहं, Open attempts are submitted automatically इतीदं चिनोमि । अनेन, छात्रेण क्विज़्-सब्मिशन् कर्तुं न शक्यते चेदपि, दशनिमेशादनन्तरं क्विज़् स्वयमेव सब्मिट् जायते ।
03:01 अधुना, Grade विभागस्य विस्तरणं कुर्मः ।
03:05 Grade to pass फ़ील्ड् मध्ये, पासिङ्ग् ग्रेड् इतीदमहं 2 इति टङ्कयानि । अर्थात्, अस्मिन् क्विज़् मध्ये उत्तीर्णः भवितुं छात्रः न्यूनातिन्यूनं अङ्कद्वयं प्राप्तवान् स्यात् ।
03:18 Attempts allowed फ़ील्ड् मध्येऽहं 1 इतीदं चिनोमि । वयमधिकसङ्ख्यां चिनुमश्चेत्, छात्रः तत् क्विज़् इतीदं तद्वारं स्वीकर्तुमर्हति ।
03:32 अवलोक्यताम्, Grading method ड्रोप्-डौन् क्रियान्वितं स्यात् ।
03:37 अधिकावकाशः दीयते चेत् तदैव इदं क्रियान्वितं भविष्यति । तदा कस्मै ग्रेड् दातव्यमिति अध्यापकः चेतुमर्हति ।
03:47 अधुना Layout विभागस्य विस्तारणं कुर्मः । अत्र क्विज़् इत्यस्य लेयौट् इत्यस्य चयनाय विकल्पाः सन्ति ।
03:56 उत्सर्गतया, New page फ़ील्ड् इत्यस्य ड्रोप् डौन् मध्ये, Every question चितमस्ति ।
04:04 सर्वान् विकल्पान् दृष्टुं, New page फ़ील्ड् इत्यस्य ड्रोप्-डौन् नुदन्तु ।
04:09 अहं Every 2 questions इतीदं चिनोमि । भवदभीष्टः विकल्पं भवन्तः चेतुमर्हन्ति ।
04:17 पश्चाद्वयं Question behaviour विभागविस्तरणं कुर्मः ।
04:22 Shuffle within questions ड्रोप्-डौन् मध्ये, Yes इतीदं नुदन्तु ।
04:27 एवं क्रियते चेत्, प्रत्येकस्य प्रश्नस्य सर्वे विकल्पाः शफ़ल् जायन्ते ।
04:33 अतः, प्रत्येकः छात्रः स्वकीये क्विज़् मध्ये, प्रश्नान् तेषां विकल्पानां नाना गणान् पश्यन्ति ।
04:40 How questions behave ड्रोप्-डौन् इत्यस्य हेल्प् ऐकान् नुत्वा तानि विवरणानि पठन्तु ।
04:47 अहमत्र Deferred feedback इतीदं चिनोमि । अतः मम चात्राः तेषां क्विज़् इतीदं सब्मिट् कृत्वैव फ़ीड्-बेक् पश्यन्ति ।
04:57 पश्चात्, Overall feedback विभागविस्तरणाय, तस्योपरि नुदन्तु ।
05:02 Overall feedback इतीदं, क्विज़् इत्यस्य सब्मिट् कृत्वा, अटो-ग्रेड् भूत्वा छात्रेभ्यः दर्षयिष्यमाणं टेक्स्ट् वर्तते ।
05:10 छात्राणां ग्रेड् अनुसृत्य, अध्यापकाः नाना फ़ीड्-बेक् दातुं शक्नुवन्ति ।
05:17 grade boundary 100% इत्यस्यार्थमहं, फ़ीड् बेक् इतीदं Excellent performance इति टङ्कयामि ।
05:25 50% तथा 100% अनयोर्मध्ये ये छात्राः अङ्कान् प्राप्तवन्तः ते, Excellent performance इति सन्देशं पश्यन्ति ।
05:33 grade boundary 50% इत्यस्यार्थं फ़ीड्-बेक्, You need to work harder इति वर्तते ।
05:40 0% अपि च 49.99% अनयोर्मध्ये ये छात्राः अङ्कान् प्राप्तवन्तः ते, "You need to work harder" इति सन्देशं पश्यन्ति ।
05:49 अधः स्क्रोल् कृत्वा, Activity completion विभागस्योपरि नुदन्तु ।
05:54 Completion Tracking फ़ील्ड् इत्यस्य ड्रोप्-डौन् नुदन्तु । Show activity as complete when conditions are met इति विकल्पं चिन्वन्तु ।
06:05 Require grade तथा Require passing grade चेक्-बोक्स् चेक् कुर्वन्तु ।
06:13 अन्ते पृष्टस्याधः विद्यमानं Save and display गण्डं नुदन्तु ।
06:20 वयं quiz इत्यस्मै नामाङ्कनकृतानां नामयुतं नूतनपृष्टमागतवन्तः । आदौ दत्तानि सर्वाणि विवरणानि अत्र दर्शितानीति दृढीकुर्वन्तु ।
06:31 अत्र No questions have been added yet इति सन्देशः दृश्यते ।
06:38 क्विज़् इत्यस्मै प्रश्नान् संयोजितुं , Edit quiz गण्डं नुदन्तु ।
06:44 उपरि दक्षिणपार्श्वे, Maximum grade इतीदं 4 इति टङ्कयन्तु ।
06:50 Quiz विभागस्य वामपार्श्वस्थं पेन्सिल् ऐकान् उपयुज्य, क्विज़् इत्यस्य शीर्षिकाम् एडिट् कर्तुं शक्नुमः । यदा क्विज़् बहुविभागयुतं भवति तदा इदम् प्रयोजनवद्भविष्यति ।
07:03 अहं Section 1 इति टङ्कयित्वा, Enter नुदामि ।
07:08 पश्चात् दक्षिणपार्श्वे Shuffle चेक्-बोक्स् इतीदं चेक् कुर्वन्तु । अनेन प्रतिवारं क्विज़् स्वीक्रियमाणे सति प्रश्नानां शफ़ल्-करणं जायते ।
07:20 Shuffle चेक्-बोक्स् इत्यस्याधः Add लिङ्क् उपरि नुदन्तु ।
07:25 अत्र,

a new question

from question bank

a random question इति त्रयः विकल्पाः सन्ति ।

07:34 a new question लिङ्क् उपयुज्यते चेत्, नूतनप्रश्नाः संयोजितव्याः । अतः मह्यम् अयं विकल्पः मास्तु ।
07:44 from question bank लिङ्क् नुदन्तु ।
07:48 एकं पोप्-अप् विण्डो उद्घट्यते । प्रत्येकछात्राय, निर्दिष्टप्रश्नाः आवश्यकाः चेत्, विकल्पस्यास्य विनियोगः भवेदेव ।
07:58 अत्र चितं category, तस्याः प्रणाल्याः डीफ़ोल्ट् केटगरि वर्तते ।
08:04 उत्सर्गतया, Also show questions from subcategories चितमस्ति ।
08:12 Also show old questions, पूर्वतन क्विज़स् मध्ये उपयुक्तान् प्रश्नान् दर्शयति ।
08:19 संयोजनीयाः प्रश्नाः अत्र भवन्तः चेतुमर्हन्ति । पश्चादधः Add selected questions to the quiz गण्डं नुदन्तु ।
08:32 परन्त्वहं तन्न करोमि । उपरि दक्षिणतः X इतीदं नुत्वा गवाक्षमिदं पिदधामि ।
08:40 Shuffle इत्यस्याधः Add पर्चनीं पुनः नुदन्तु । a random question पर्चनीं नुदन्तु । अन्यमेकं पोप्-अप् विण्डो उद्घट्यते ।
08:51 अनेन विकल्पेन, प्रत्येकः छात्रः नाना प्रश्नान् पश्यति । अतः, क्विज़् इत्यस्य उत्तरप्रदानकाले, छात्रेभ्यः उत्तरस्य विषये चर्चा सुलभा नास्ति ।
09:03 Random question from an existing category इत्यस्याधः, category इतीदमहं Evolutes इति चिनोमि ।
09:11 Number of random questions मध्येऽहं, 2 इतीदं चिनोमि ।
09:16 पश्चात् ड्रोप्-डौन् इत्यस्याधः Add random question गण्डं नुदन्तु ।
09:23 अस्मिन् क्विज़् मध्ये, Evolutes केटगरि तः द्वौ Random प्रश्नौ संयोजितौ ।
09:29 अधस्ताद्दक्षिणपार्श्वे विद्यमानम् Add गण्डं पुनः नुदन्तु ।
09:34 a random questionलिङ्क् नुदन्तु । category इतीदम् Involutes इति, Number of random questions इतीदं 2 इत्यपि चिन्वन्तु ।
09:44 पश्चात् Add random question गण्डं नुदन्तु ।
09:48 क्विज़् इत्यस्मै Involutes तः पुनः द्वौ प्रश्नौ संयोजितौ ।
09:55 क्विज़्, स्वयमेव पृष्टद्वये विभक्तमित्यवलोक्यताम् । यतो हि वयमादौ Quiz Settings मध्ये विकल्पमिमं दत्तवन्तः ।
10:07 द्वितीयप्रश्नस्याधः दक्षिणकोणे Add लिङ्क् नुदन्तु ।
10:13 a new section heading पर्चनीं नुदन्तु ।
10:18 heading इत्यस्य नाम एडिट् कर्तुं, पेन्सिल् ऐकान् नुदन्तु ।
10:23 अहं, Section 2 इति टङ्कयित्वा, Enter नुदामि ।
10:27 क्विज़् इतीदं रक्षितुं, उपरि दक्षिणतः Save button गण्डं नुदामि ।
10:32 प्रत्येकस्य क्विज़्-प्रश्नस्य अग्रे, Preview question तथा Delete इति द्वे ऐकान्स् स्तः । इमे विवरणं नापेक्षेते ।
10:43 Delete question विकल्पः क्विज़् तः प्रश्नान् डिलीट् कुर्वन्ति । परन्तु प्रश्नः क्वश्चन् बेङ्क् मध्ये तथैव वर्तन्ते ।
10:51 ‘ब्रेड् क्रम्ब्स्’ मध्ये, क्विज़्-नाम्नः उपरि नुदन्तु ।
10:56 दक्षिणतः गेर् मेन्यूमध्ये, Preview quiz गण्डं नुदन्तु ।
11:02 एकं कन्फ़र्मेशन् विण्डो उद्घट्यते । इदं, क्विज़् इत्यस्मै समयः निश्चितः अपि च ते Start अथवा Cancel कर्तुं शक्नुवन्तीति छात्रेभ्यः वदति ।
11:14 अहं Start attempt गण्डं नुदामि ।
11:18 स्क्रीन् इत्यस्य दक्षिणतः Quiz navigation ब्लोक् वर्तते ।
11:23 इदं प्रश्नान् विभागान् अनुसृत्य, टैमर् इत्यनेन सह दर्शयति ।
11:29 अत्र, साक्षात् अनेन फ़ील्ड् द्वारा प्रश्नान् एडिट् कर्तुं एकः विकल्पः अपि अस्ति ।
11:35 अहं नेविगेशन् ब्लोक् मध्ये, Finish attempt लिङ्क् नुदामि ।
11:40 प्रत्येकस्य प्रश्नस्य नाम्नः पुरतः, तत्प्रश्नस्य स्टेटस् दर्शितम् वर्तते ।
11:45 पृष्टस्याधः विद्यमानं Submit all and finish गण्डं नुदन्तु ।
11:51 कन्फ़र्मेशन् पोप्-अप् मध्ये, Submit all and finish गण्डं पुनः नुदन्तु ।
11:58 अत्र grade, overall feedback अपि च प्रत्येकस्य प्रश्नस्य feedback सर्वाणि दर्शितानीत्यवलोक्यताम् ।
12:06 अधः स्क्रोल् कृत्वा, Finish review पर्चनीं नुदन्तु ।
12:11 वयं Quiz summary पृष्टं प्रति आगतवन्तः ।
12:15 पृष्टस्योपरि दक्षिणतः गेर् ऐकान् इतीदं नुदन्तु । Edit quiz पर्चनीं नुदन्तु । भवन्तः क्विज़् इत्यस्मै प्रश्नान् संयोजितुं निष्कासितुं वा शक्नुवन्ति ।
12:28 परन्त्विदं यः कोऽपि छात्रः क्विज़् इत्यस्य स्वीकरणात् प्रागेव कुर्यात् ।
12:35 एकैव छात्रः क्विज़् इत्यस्य प्रयत्नं करोति चेदपि, क्विज़् लोक् जायते । तथापि, क्विज़् इतीदम् आवश्यकतानुसारेण एडिट् कर्तुं संयोजितुं वा शक्नुमः ।
12:47 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
12:53 अस्मिन् ट्युटोरियल् मध्ये, मूडल् मध्ये क्विज़् रचना, अपि च क्विज़् मध्ये क्वश्चन्-बेङ्क् तः प्रश्नानां संयोजनञ्च ज्ञातवन्तः ।
13:03 अत्र भवद्भ्यः एकं पाठनियोजनमस्ति ।

evolutes इत्यस्यार्थमेकं नूतनं क्विज़् संयोजयन्तु । विवरणार्थं, ट्युटोरियल् मध्ये Assignment लिङ्क् पश्यन्तु ।

13:16 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।

उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।

13:25 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
13:34 भवतां प्रश्नस्य मिनिट् सेकेण्ड् च चिन्वन्तु ।
13:38 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
13:52 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
14:03 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14