Linux/C3/More-on-grep-command/Sanskrit
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | More on grep इति विषयकस्य स्पोकन् ट्युटोरियल् विषये स्वागतम् । |
| 00:05 | पाठेऽस्मिन् वयम् : |
| 00:07 | grep commands विषये अधिकविवरणम्, |
| 00:10 | कैश्चन उदाहरणैः सह ज्ञास्यामः । |
| 00:13 | पाठस्यास्य ध्वन्यङ्कनायाहम्, |
| 00:16 | Ubuntu Linux OS 12.04 तमा आवृत्तिः अपि च, |
| 00:20 | GNU BASH 4.2.24 तमा आवृत्तिः, अनयोरुपयोगं करोमि । |
| 00:24 | कृपया अवधानं कुर्वन्तु ; पाठस्यास्य अभ्यासाय , GNU bash 4 (चतुर्था) आवृत्तिः अथवा तदधिका वा आवश्यकी । |
| 00:31 | अपेक्षितं यत् : |
| 00:33 | भवन्तः तर्मिनल् उपयोगं तथा |
| 00:36 | 'grep' विषयञ्च जानीयुः । |
| 00:39 | तत्सम्बद्धपाठाय कृपया अधस्तन जालपुटं पश्यन्तु : |
| 00:45 | अस्माभिः एकस्मात् अधिकानि पेटर्न्स् प्राप्तानि स्युः । |
| 00:49 | तदर्थं वयम्, hyphen e (-e) विकल्पस्योपयोगं कुर्याम । |
| 00:53 | तामेव सञ्चिकां 'grepdemo.txt' इतीदमुपयुञ्ज्महे । |
| 00:58 | यदि अस्माभिः civil अथवा electronics मध्यस्थानि विवरणानि अन्वेष्टव्यानि, तर्हि |
| 01:05 | एवं टङ्कनीयम् : |
| 01:07 | grep space hyphen e space within double quotes electronics after the quotes space hyphen e space in double quotes civil after the quotes space grepdemo.txt. |
| 01:24 | Enter नुदन्तु । फलितं दर्शितम् । |
| 01:28 | यदि भवन्तः "choudhury" इति टैटल् युतान् जनान् दृष्टुमिच्छन्ति तर्हि : |
| 01:33 | समस्या एषा अस्ति, नाना जनाः स्वनामानि नाना प्रकारेण कथयन्ति । |
| 01:38 | अस्य को परिहारः? |
| 01:42 | एतादृशसन्दर्भेषु वयं, hyphen e विकल्पेन सह hyphen i अपि उपयोक्तुं शक्नुमः । |
| 01:48 | एवं टङ्कयन्तु : grep space hyphen ie space within double quotes chaudhury after the quotes space hyphen ie space within double quotes chowdhari after the quotes space grepdemo.txt |
| 02:12 | Enter नुदन्तु । |
| 02:14 | भवद्भ्यः फलितं दर्शितम् । |
| 02:16 | परन्तु वयं नामानि बहुषु विधानेषु लिखितुं शक्नुमः । |
| 02:23 | कति hyphen e विकल्पान् दातुं शक्नुमः वयम्? |
| 02:26 | सत्यम् । तदर्थमेकं उत्तमं विधानमावश्यकम् । तद्विधानं Regular expressions द्वारा वर्तते । |
| 02:33 | टेक्ट्स् इत्येतेषां स्ट्रिङ्ग्स् सम्यग्योजयितुं regular expression सङ्क्षिप्तं तथा सम्यग् विधानं यच्छति । |
| 02:41 | उदाहरणार्थम् : निर्दिष्टानि अक्षराणि, पदानि अथवा टेक्स्ट्-पेटर्न्स् इतीमानि । |
| 02:47 | नाना अक्षराणां regular expression इतीमानि भविष्यन्ति । |
| 02:52 | तानि एकैकशः पश्याम । . |
| 02:55 | Character Class : |
| 02:57 | स्क्वेर्-ब्रेकेट् मध्ये अक्षराणां समूहम् अनन्यीकर्तुम् इदमस्माकम् अनुमतिं यच्छति । |
| 03:03 | अस्मिन् गणे, एकैव अक्षरगणः मेलयति । |
| 03:08 | तद्यथा - [abc] इदं "regular expression , a अथवा b अथवा c इत्यस्मै संयुज्यते इत्यर्थः । |
| 03:18 | "chaudhury" इतीदं मेलयितुं, अस्माभिः प्रोम्प्ट् मध्ये एवं टङ्कनीयम् : |
| 03:23 | grep space hyphen i space within double quotes ch opening square bracket ao closing square bracket opening square bracket uw closing square bracket dh opening square bracket ua closing square bracket r opening square bracket yi closing square bracket after the double quotes space grepdemo.txt |
| 03:54 | Enter नुदामः । |
| 03:56 | फलितं दर्शितम् । |
| 03:59 | इदं द्वे अधिके 'e' युताय "choudhuree" इत्यनेन सह न मेलयति । |
| 04:03 | वयमेकां विशालव्याप्तिं सूचयितुमिच्छामः चेद्वयम् एवं लिखामः : |
| 04:08 | व्याप्तेः प्रथमाक्षरं डेश् अन्तिमाक्षरम् । |
| 04:13 | यदि केवलम् अङ्कानि संयोजनीयानि तर्हि एवं विलिखेत् [0-9]. |
| 04:20 | अस्मिन् गणे एकमक्षरगणस्य संयोजनं भविष्यति । |
| 04:24 | asterisk चिह्नं , तस्य पूर्वतन अक्षरं ೦(शून्यवारं) तदधिकवारं वा आगतमिति सूचयति । |
| 04:33 | उदाहरणार्थम् ab asterisk इदं a, ab, abb, abbb इत्यादीन् मेलयितुं शक्यते । |
| 04:44 | अतः, "Mira" नाम्नः विद्यार्थिनाम संयोजनाय, |
| 04:48 | अस्माभिरेवं टङ्कनीयम् : |
| 04:51 | grep space hyphen i space within double quotes m opening square bracket ei closing square bracket asterisk r a a asterisk after the quotes space grepdemo.txt |
| 05:12 | Enter नुदन्तु । |
| 05:14 | फलितं दर्शितम् । |
| 05:16 | dot, regular expression इत्यस्य यत्किमपि अक्षराय युज्यते । |
| 05:21 | यदि अस्माभिः, 4 (चत्वारि) अक्षरयुतानि अपि च 'M' इत्यनेन सह आरभमाणं किमपि पदम् अन्वेष्टव्यञ्चेत्, |
| 05:29 | वयमेवं टङ्कयामः : |
| 05:31 | grep space within double quotes M... space after the quotes space grepdemo.txt |
| 05:44 | Enter नुदामः । |
| 05:46 | फलितं दर्शितम् । |
| 05:48 | अत्र, कोट्स् मध्यस्थं स्पेस् प्रधानं वर्तते । यतोऽहि 5 अथवा तदधिकाक्षरयुतानि पदानि इदं संयोजयति । |
| 05:56 | एकस्मिन् वाक्ये अस्माकम् आवश्यकानि पेटर्न्स् कुत्र अन्वेष्टव्यानीति अस्माभिः ज्ञातव्यम् । |
| 06:01 | इदं वाक्यस्यारम्भेऽपि भवितुमर्हति । |
| 06:04 | तदर्थं वयं caret सिम्बोल् प्राप्तवन्तः स्मः । |
| 06:07 | अधुना वयं , A अक्षरेणारभमाणानां roll number इत्येतेषां पेटर्न्स् प्राप्तुं इच्छामः चेत् , |
| 06:14 | "Roll”, इदं सञ्चिकायाः प्रथमं field वर्तते इति ज्ञातम् । |
| 06:19 | वयमेवं टैप् कुर्मः : grep space within double quotes caret sign A after the quotes grepdemo.txt |
| 06:29 | Enter नुदामः । |
| 06:32 | फलितं दर्शितम् । |
| 06:35 | अतः सञ्चिकायाः अन्ते पेटर्न् संयोजितुं वयं dollar चिह्नस्योपयोगं कुर्मः । |
| 06:41 | '7000' तः '8999' मध्यस्थानि stipends अन्वेष्टुम् एवं विलिखेत् : |
| 06:50 | grep space within double quotes opening square bracket 78 closing square bracket ... dollar sign after the quotes space grepdemo.txt |
| 07:06 | Enter नुदामः । |
| 07:08 | फलितं दर्शितम् । |
| 07:11 | अनेन वयं पाठस्यान्तमागतवन्तः । |
| 07:13 | सङ्क्षेपेण , |
| 07:16 | पाठेऽस्मिन् वयम् : |
| 07:18 | एकस्मादधिकानि पेटर्न्स् संयोजनम्, |
| 07:20 | नाना उच्छारणयुतानां पदानां परीक्षणम्, |
| 07:24 | अक्षरगणे asterisk चिह्नस्योपयोगम्, |
| 07:28 | dot उपयुज्य यत्किमपि अक्षरसंयोजनम्, |
| 07:32 | सञ्चिकायाः प्रारम्भे पेटर्न् संयोजनम् अपि च |
| 07:35 | सञ्चिकायाः अन्ते पेटर्न् संयोजनम् च ज्ञातवन्तः । |
| 07:40 | एकं पाठनियोजनम् : 5 पञ्चवर्णदैर्घ्ययुतानां, Y वर्णेन आरभमाणानां, पेटर्न्स् लिस्ट् कुर्वन्तु । |
| 07:48 | पर्चन्याम् विद्यमानं विडियो, |
| 07:51 | “spoken tutorial” प्रकल्पस्य सारं दर्शयति । |
| 07:54 | उत्तमं बेण्ड्-विड्त् नास्ति चेत् तदवचित्य पश्यन्तु । |
| 07:59 | “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य, कार्यशालां चालयति । |
| 08:05 | अन्तर्जालीय परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । |
| 08:08 | अधिकविवरणार्थम् अस्मभ्यं लिखन्तु : contact@spoken-tutorial.org |
| 08:15 | "Spoken Tutorial" प्रकल्पः, "टोक् टु ए टीचर्" प्रकल्पस्य भागः अस्ति. |
| 08:20 | "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । |
| 08:26 | अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते : http://spoken-tutorial.org/NMEICT-Intro. |
| 08:32 | इदं स्क्रिप्ट् , Anirban तथा Sachin अनयोर्योगदानमस्ति । |
| 08:36 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |