Linux/C2/Installing-Software-16.04/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् मध्ये , Installing Software इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:10 | पाठेऽस्मिन् वयम् : Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् मध्ये :
'टर्मिनल्', |
00:21 | 'सिनाप्टिक् पेकेज् मेनेजर्' अपि च
'उबण्टु सोफ़्ट्वेर् सेण्टर्' द्वारा सोफ़्ट्वेर् इन्स्टालेशन् कथमिति ज्ञास्यामः । |
00:27 | पाठस्यास्य ध्वन्यङ्कनायाहं, Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् उपयुञ्जन्नस्मि । |
00:34 | पाठे अग्रे गन्तुम् अन्तर्जालसम्पर्कः आवश्यकः एव । |
00:39 | सोफ़्ट्वेर् इन्स्टाल् कर्तुं भवन्तः , System Administrator भवेयुः अथवा Administrator rights प्राप्तवन्तः स्युः । |
00:46 | 'सिनाप्टिक् पेकेज् मेनेजर्', a p t इत्यस्यार्थमेकं ग्राफिकल् प्रोग्राम् वर्तते । |
00:51 | apt-get command line विनियोगाय इदमेकं GUI अस्ति । |
00:57 | Ubuntu Linux 16.04 मध्ये, उत्सर्गतया, 'सिनाप्टिक् पेकेज् मेनेजर्' इतीदं पूर्वमेव इन्स्टाल्ड् न वर्तते । |
01:05 | अतः, 'टर्मिनल्' द्वारा तत्कथं इन्स्टाल् करणीयमिति ज्ञास्यामः । |
01:10 | कीलफलके Ctrl, Alt अपि च T कीलकानि युगपन्नुत्त्वा terminal उद्घाटयन्तु । |
01:18 | अधुना, 'टर्मिनल्' मध्ये एवं टङ्कयन्तु sudo space a p t hyphen get space install space s y n a p अपि च Tab कीलकं नुदन्तु । |
01:34 | इदं s y n a p (एस् वै एन् ए पि) इत्येतैः सह आरभ्यमाणानि सोफ़्ट्वेर्-आवलिं दर्शयति । |
01:40 | अधुना, पदमिदं synaptic (सिनाप्टिक्) इति पूर्णं कृत्वा Enter नुदन्तु । |
01:46 | भवताम् administrator password दातुं सूचना लभ्यते । |
01:51 | भवताम् admin password ददातु । |
01:54 | 'टर्मिनल्' मध्ये पास्वर्ड् यदा टङ्क्यते तदा न दृश्यतेऽस्माभिः । अतः सावधानं तट्टङ्कयन्तु । |
02:02 | Enter नुदन्तु । |
02:04 | अधुना 'टर्मिनल्', इन्स्टाल् जायमानानां पेकेज्-आवलिं, |
02:09 | डौन्लोड् क्रियमाणानां सञ्चिकानां गात्रम्, इस्टालेशन् जायमाने सति डिस्क्स्पेस् कति वर्तते इत्यादि सूचनाः ददाति । |
02:17 | एतत् दृढीकर्तुं Y नुदन्तु । |
02:19 | Enter नुदन्तु । |
02:22 | इन्स्टालेशन् प्रारभ्यते । अन्तर्जाल्-सम्पर्क-वेगानुसारेण कश्चन समयः स्वीक्रियते । |
02:31 | वयमधुना 'सिनाप्टिक् पेकेज् मेनेजर्' इत्यस्य इन्स्टाल् कृतवन्तः । |
02:36 | वयं 'टर्मिनल्' इत्यस्य पिधानं कुर्मः । |
02:39 | इस्टालेशन् इत्यस्य दृढीकरणाय, Dash home गत्त्वा, 'सर्च् बार्' मध्ये, synaptic इति टङ्कयन्तु । |
02:46 | अत्र वयं Synaptic Package Manager ऐकान् पश्यामः। |
02:51 | अधुना 'सिनाप्टिक् पेकेज् मेनेजर्' उपयुज्य सोफ़्ट्वेर् इस्टालेशन् कर्तुं जानाम । |
02:57 | Synaptic Package Manager ऐकान् उपरि नुदन्तु । |
03:01 | password पृच्छन्, Authenticate इति डैलाग् बोक्स् दृश्यते । |
03:06 | वयं admin password टङ्कयित्वा, Enter नुदाम । |
03:10 | प्रथमवारं वयं 'सिनाप्टिक् पेकेज् मेनेजर्' इतीदं यदा उपयुञ्ज्महे तदा एकम् introduction डैलाग्-बोक्स् दृश्यते । |
03:17 | इदं डैलाग्-बोक्स्, 'सिनाप्टिक् पेकेज् मेनेजर्' कथमुपयोक्तव्यमिति सूचनां ददाति । |
03:23 | अस्य डैलोग्-बोक्स् इत्यस्य पिधानं कर्तुम्, Close गण्डं नुदन्तु । |
03:27 | वयं 'सिनाप्टिक् पेकेज् मेनेजर्' मध्ये, Proxy तथा Repository इत्यनयोः कोन्फ़िगर् कुर्मः । |
03:33 | 'अप्लिकेशन्' अथवा 'पेकेज्' इन्स्टाल् करणात् प्राक् अस्मिभिरिदं कर्तव्यम् । |
03:38 | Settings गत्त्वा Preferences इत्यस्योपरि नुदन्तु । |
03:42 | पटले दृश्यमाणे Preferences गवाक्षे, बहूनि टेब्स् सन्ति । |
03:48 | Proxy सेट्टिङ्ग्स् कोन्फ़िगर् कर्तुं, Network इत्यस्योपरि नुदन्तु । |
03:52 | Proxy Server इत्यस्यादौ द्वौ विकल्पौ स्तः – Direct Connection एवं Manual Proxy इति । |
04:00 | अहं Direct Connection उपयुनज्मि । भवदभीष्टं चेतुमर्हन्ति । |
04:06 | विण्डो इत्यस्य पिधानार्थं अधस्तन OK गण्डं नुदन्तु । |
04:11 | अधुना पुनः, Setting गत्वा Repositories नुदन्तु । |
04:16 | पटले Software & Updates गवाक्षं दृश्यते । |
04:20 | उबण्टु सोफ़्ट्वेर् डौन्लोड् कर्तुं बहवः आकराः(source) सन्ति । |
04:24 | Download From ड्रोप्-डोन्-मेन्यु उपरि नुदन्तु । रिपोसिटरीस् (repositories) इत्यस्य लिस्ट् दृष्टुं मौस्-बटन् होल्ड् कुर्वन्तु । |
04:31 | Other, जगति विद्यमानानि servers लिस्ट् दर्शयति । |
04:36 | गवाक्षस्यास्य पिधानाय, अधस्तन Cancel गण्डं नुदन्तु । |
04:41 | अत्र यथा दर्शितं तथाहं , Server for India उपयुनज्मि । |
04:45 | Software Sources गवाक्षस्य पिधानाय, Close गण्डं नुदन्तु । |
04:50 | भवद्भिः 'सिनाप्टिक् पेकेज् मेनेजर्' प्रथमवारम् उपयुज्यते चेत्, packages इदीदं रीलोड् कर्तव्यम् । |
04:57 | एतत् कर्तुं टूल् बार् उपरि विद्यमानं Reload बटन् नुदन्तु । |
05:02 | एतदर्थं कानिचन सेकेण्ड्स् आवश्यकानि स्युः । |
05:05 | अत्र पश्यन्तु, पेकेजस् अन्तर्जालद्वारा ट्रान्स्फ़र् तथा अप्डेट् जायमानानि सन्ति । |
05:13 | उदाहरणार्थमहम् अधुना VLC player इन्स्टाल् करोमि । |
05:18 | टूल्-बार् उपरि विद्यमानं Search फ़ील्ड् गच्छाम । |
05:23 | Search डैलाग्-बोक्स् मध्ये, vlc इति टङ्कयित्वा, Search गण्डं नुदन्तु । |
05:29 | लिस्ट् कृतानि सर्वाणि VLC packages अत्र दृश्यन्ते । |
05:34 | VLC package इतीदं चेतुं, चेक्-बोक्स् उपरि रैट्-क्लिक् करोतु ।
अत्र दृश्यमानात् मेन्यु-तः Mark for installation विकल्पं नुदन्तु । |
05:45 | सर्वाणि repository packages इत्येतेषां लिस्ट्-दर्शयमानं डैलोग्-बोक्स् दृश्यते । |
05:51 | सर्वाणि dependencies packages इतीमानि अनन्यीकर्तुं, Mark गण्डं नुदन्तु । |
05:57 | टूल्-बार् गत्वा, Apply गण्डं नुदन्तु । |
06:01 | इन्स्टाल् जायमानानि पेकेजस् इत्येतेषां विस्तारं दर्शयितुम् एकं Summary विण्डो दृश्यते । |
06:07 | इस्टालेशन् प्रारब्धुं, अधस्तन Apply गण्डं नुदन्तु । |
06:12 | इन्स्टालेशन् कांश्चन समयान् स्वीकरोति । |
06:16 | इन्स्टाल् जायामानानां पेकेज्-सङ्ख्या अपि च गात्रानुसारेण इदं सम्भवति । |
06:21 | इस्टालेशन् पूर्णे जाते, Applying Changes विण्डो इतीदं क्लोस् जायते । |
06:27 | Synaptic Package Manager गवाक्षं पिदधातु । |
06:31 | अधुना, 'VLC प्लेयर्' सफलतया इस्टाल् जातं वेति परीक्षामहै । |
06:37 | Dash home गच्छन्तु । |
06:39 | 'सर्च् बार्' मध्ये, vlc इति टङ्कयन्तु । |
06:42 | दर्शिते लिस्ट्-मध्ये, VLC ऐकान् दृश्यते ।
तदुद्घाटयितुं तस्योपरि नुदन्तु । |
06:49 | एवमेव 'सिनाप्टिक् पेकेज् मेनेजर्' उपयुज्य, अन्यान्यपि अप्लिकेशन्स् इस्टाल् भवितुमर्हति । |
06:56 | अधुना 'उबण्टु सोफ़्ट्वेर् सेण्टर्' द्वारा सोफ़्ट्वेर् कथम् इन्स्टाल्-कर्तुं शक्यते इति ज्ञास्यामः । |
07:02 | 'उबण्टु सोफ़्ट्वेर् सेण्टर्' एकम् अप्लिकेशन् वर्तते । इदम् Ubuntu Linux OS मध्ये सोफ़्ट्वेर् निर्वहणाय साहाय्यमाचरति । |
07:10 | भवन्तः अस्योपयोगं, सोफ़्ट्वेर् इत्यस्य सर्च्, डौन्लोड्, इस्टाल्, अप्डेट् अथवा अन्-इन्स्टाल् करणाय कर्तुमर्हन्ति । |
07:17 | सोफ़्ट्वेर् विनियोगात् प्रागेव इदं भवद्भ्यः सूचनाः ददाति । |
07:23 | 'उबण्टु सोफ़्ट्वेर् सेण्टर्' उद्घाटयितुं लोञ्चर् प्रति गच्छन्तु । |
07:27 | Ubuntu Software ऐकान् उपरि नुदन्तु । |
07:31 | Ubuntu Software Centre विण्डो दृश्यते । |
07:35 | उपरि, All, Installed तथा Updates इति 3 टेब्स् दृश्यन्ते । |
07:42 | All टेब् उपरि नुदन्तु । |
07:44 | वयम् उपरि 'सर्च् बार्' दृष्टुं शक्नुमः । |
07:47 | उपल्भ्यमानं सोफ़्ट्वेर् अन्वेष्टुं इदं साहाय्यमाचरति । |
07:51 | अधुना, Inkscape सोफ़्ट्वेर् इन्स्टाल् कुर्मः । |
07:55 | सर्च बार् मध्ये, inkscape इति टङ्कयन्तु । |
07:59 | 'इङ्क्स्केप्' विषयं किञ्चिदत्र विवृतम् । |
08:03 | अधुना दक्षिणकोणे Install गण्डं नुदन्तु । |
08:07 | Authenticate डैलोग् बोक्स् दृश्यते । |
08:10 | भवताम् admin password दत्त्वा, Authenticate गण्डं नुदन्तु । |
08:16 | प्रोग्रेस्स्-बार्, इङ्क्स्केप् इन्स्टाल् जायमानमस्तीति दर्शयति । |
08:21 | इन्स्टाल् जायमानानां पेकेज्-सङ्ख्याः गात्रञ्चानुसृत्य इन्स्टालेशन् कांश्चन समयान् स्वीकरोति । |
08:28 | उपरितन Installed टेब्-मध्येऽपि तद्दर्शितम् ।
तन्नुदन्तु । |
08:35 | यत्किमपि इन्स्टालेशन् जायमाने सति, भवन्तः अन्यानि अप्लिकेशन्स् एक्सेस्(access) कर्तुं शक्नुवन्ति । |
08:41 | Inkscape पदस्योपरि नुदन्तु । |
08:44 | एतद् Inkscape विषयं दर्शयति । |
08:48 | एकदा Inkscape इस्टाल् जाते सति तत्पार्श्वे Remove अपि च Launch इति द्वे बटन्स् दृश्येते । |
08:55 | भवन्तः सोफ़्ट्वेर् इन्स्टाल् कर्तुमिच्छन्ति चेत्, Remove गण्डस्योपरि नुदन्तु । |
09:00 | अप्लिकेशन् आरब्धुं, Launch गण्डस्योपरि नुदन्तु ।
अहं तदुपरि नुदामि । |
09:06 | इदं Inkscape अप्लिकेशन् इत्यस्य आरम्भं करोति । |
09:10 | Ubuntu Software Center गच्छन्तु ।
उपरि वामपार्श्वे back arrow गण्डं नुत्त्वा मेन्-स्क्रीन् प्रति आगच्छन्तु । |
09:18 | अधुना Updates टेब् उपरि नुदन्तु । |
09:21 | इदं Software is up to date इति वदन्नस्ति । |
09:25 | उपरि वामपार्श्वे refresh ऐकान् नुदन्तु । इदं नूतनानि अप्डेट्स् अन्वेष्टुं यतते । |
09:31 | अधुना अस्मभ्यमेकं OS updates वर्तते । |
09:34 | विवरणानि दृष्टुं तदुपरि नुदन्तु । अहमस्य पिधानं करोमि । |
09:39 | भवन्तः एतानि अप्डेट्स् इन्स्टाल् कर्तुमिच्छन्ति चेत्, Install गण्डं नुदन्तु । न चेत् त्यजन्तु । |
09:46 | अनेन वयं पाठस्यान्ते स्मः ।
सङ्क्षेपेण, |
09:52 | पाठेऽस्मिन् वयम् : Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् मध्ये : टर्मिनल्, |
10:02 | 'सिनाप्टिक् पेकेज् मेनेजर्' अपि च 'उबण्टु सोफ़्ट्वेर् सेण्टर्' द्वारा सोफ़्ट्वेर् इन्स्टालेशन् कर्तुं ज्ञानं प्राप्तवन्तः । |
10:07 | पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु । |
10:15 | “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । |
10:24 | अधिकविवरणार्थम् अस्मभ्यं लिखन्तु । |
10:28 | भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये लिखन्तु । |
10:32 | "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते । |
10:44 | इदं स्क्रिप्ट्, "स्पोकन् ट्युटोरियल्" गणस्य योगदानमस्ति ।
पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |