Linux/C2/Desktop-Customization-16.04/Sanskrit
Time | Narration |
00:01 | Ubuntu Linux 16.04 operating system मध्ये Desktop Customization इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:11 | पाठेऽस्मिन् वयम् :
Launcher (लोञ्चर्) विषयम्, लोञ्चर् मध्ये अप्लिकेशन् संयोजनं निष्कासनञ्च, |
00:21 | बहूनां डेस्क्-टोप् उपयोगः,
डेस्क्-टोप् थीम् परिवर्तनम्, |
00:27 | इण्टर्नेट् कनेक्षन्, सौण्ड् सेट्टिङ्ग्स्, |
00:32 | टैम् एण्ड् डेट् सेट्टिङ्ग्स्,
अन्यस्मै यूसर् अकौण्ट् प्रति परिवर्तनम् इत्येतेषां विषयं ज्ञास्यामः । |
00:39 | पाठार्थमहम् Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् उपयुनज्मि । |
00:46 | Launcher (लोञ्चर्) इत्यनेन सह प्रारभामहै । |
00:49 | 'उबण्टु लिनक्स् डेस्क्टोप्' मध्ये लोञ्चर्, उत्सर्गतया वामपार्श्वस्य पेनल् वर्तते ।
डीफोल्ट् भूत्वा कानिचन अप्लिकेशन्स् अत्र सन्ति । |
00:59 | भृशम् उपयुज्यमानानि अप्लिकेशन्स् एक्सेस् (access) करणं सुलभं भवति लोञ्चर् द्वारा । |
01:05 | अतः लोञ्चर् उपरि तस्य 'डेस्क्-टोप् शोर्ट्-कट्' नोदनेन वयं प्रोग्रां प्रारभामहै । |
01:12 | उत्सर्गतया लोञ्चर्, कानिचन अप्लिकेशन्स् प्राप्तवदस्ति । |
01:17 | अस्माकम् आवश्यकतानुसारेण वयं 'लोञ्चर्' इत्यस्य कस्टमैसेशन् कर्तुं जानाम । |
01:22 | मह्यं कार्यार्थं, Terminal, LibreOffice Writer, gedit इत्यादीनि अप्लिकेशन्स् आवश्यकानि । |
01:34 | 'लोञ्चर्' इत्यस्मै वयम् अप्लिकेशन्स् संयोजयाम । |
01:38 | तत्करणात् प्राक्, अनवश्यकानि अप्लिकेशन्स् निष्कासयामि । |
01:44 | 'लोञ्चर्' द्वारा मया Amazon एप्लिकेशन् निष्कासनीयमिति वदाम । |
01:49 | Amazon अप्लिकेशन् ऐकान् गत्वा, रैट्-क्लिक् कृत्वा Unlock from Launcher इतीदं चिन्वन्तु । |
01:58 | पश्यतां यत्, 'लोञ्चर्' द्वारा Amazon अप्लिकेशन् ऐकान् निष्कासितम् । |
02:04 | एवमेव वयं अनुपयुक्तानि शोर्ट्-कट्स् निष्कासितुं शक्नुमः । |
02:11 | अत्र यथा दर्शितं तथा कानिचन अप्लिकेशन्स् 'लोञ्चर्' इत्यस्मात् निष्कासितानि । |
02:17 | अधुना लोञ्चर् इत्यस्मै Terminal शोर्ट्-कट् संयोजयामि । |
02:22 | 'लोञ्चर्' इत्यस्य उपरितनकोणे, Dash home उपरि नुदन्तु । |
02:26 | 'सर्च्-बार्' मध्ये, “terminal” इति टङ्कयन्तु ।
Terminal उद्घाटयितुं, तस्य ऐकान् उपरि नुदन्तु । |
02:34 | ' लोञ्चर् ' मध्ये भवन्तः, Terminal ऐकान् दृष्टुं शक्नुवन्ति । |
02:38 | Terminal ऐकोन् इतीदं ' लोञ्चर् ' उपरि स्थापयितुम्, आदौ तस्योपरि रैट्-क्लिक् कुर्वन्तु ।
पश्चात् Lock to Launcher चिन्वन्तु । |
02:47 | लोञ्चर्-मध्ये अप्लिकेशन् शोर्ट्-कट् स्थापयितुम् अन्यद्विधानं, dragging and dropping वर्तते ।
तत् कृत्वाहं दर्शयामि । |
02:57 | Dash Home उद्घाट्य सर्च्-बार् मध्ये gedit इति टङ्कयन्तु । |
03:03 | gedit ऐकान् इतीदं लोञ्चर् उपरि कर्षन्तु (drag) । |
03:07 | अधुना, gedit ऐकान् इतीदं लोञ्चर् उपरि स्थापयन्तु (drop) ।
gedit शोर्ट्-कट्, लोञ्चर् उपरि संयोजितम् । |
03:16 | लोञ्चर् मध्ये वयं शोर्ट्-कट् संयोजितुं शक्नुमः । |
03:21 | 'उबण्टु लिनक्स् ओ एस्' इत्यस्य वैशिष्ट्यमस्ति यत्, बहूनि 'वर्क्-स्पेसस्' अथवा 'डेस्क्-टोप्स्' सन्ति । |
03:28 | कदाचित् वयं बहुषु अप्लिकेशन्स् मध्ये कार्यं कुर्मः । |
03:33 | अपि च एकम् अप्लिकेशन् इत्यस्मात् अन्यस्मै परिवर्तयितुं दुस्साध्यं स्यात् । |
03:38 | तत् सुलभतया कर्तुमस्माभिः Workspace Switcher उपयोक्तुमर्हति । |
03:42 | वयं Desktop प्रति गच्छाम । |
03:45 | Ubuntu 16.04 मध्ये, multiple workspaces उत्सर्गतया न दृश्यन्ते । |
03:51 | तत् कर्मण्यितं कर्तुं, System Settings उपरि, तत्पश्चात् Appearance उपरि च नुदन्तु । |
03:58 | Appearance गवाक्षे, Behavior टेब् उपरि नुदन्तु । |
04:02 | अत्र, Enable workspaces विकल्पं चिन्वन्तु ।
लोञ्चर् उपरि इदं multiple workspaces ऐकान् इतीदं कर्मण्यितं करोति । |
04:11 | अस्य गवाक्षस्य पिधानं करोतु । |
04:13 | लोञ्चर् उपरि, Workspace Switcher ऐकान् प्राप्य तदुपरि नुदन्तु । |
04:19 | इदं 4 डेस्क्टोप्स् इत्येतेभिः सह 4 क्वाड्रण्ट्स् दर्शयति । |
04:24 | उत्सर्गतया, उपरितन वामभागस्य Desktop चितं वर्तते । |
04:29 | अधुना वयं तस्मिन्नेव Desktop मध्ये कार्यं कुर्वन्तः स्मः । |
04:34 | वयमधुना द्वितीयस्य Desktop इत्यस्योपरि नुत्त्वा तच्चिनुमः । |
04:39 | अहं लोञ्चर् मध्ये terminal ऐकोन् उपरि नुत्त्त्वा, अत्र terminal उद्घाटयामि । |
04:45 | अधुना पुनः Workspace Switcher उपरि नुदामि । |
04:49 | भवन्तः टर्मिनल् इतीदं द्वितीये 'वर्क्-स्पेस्' (Workspace) मध्ये अपि च Desktop इतीदं प्रथमस्योपरि च दृष्टुं शक्नुवन्ति । |
04:55 | एवं भवन्तः बहुषु देस्क्टोप्स् मध्ये कार्यं कर्तुमर्हन्ति । |
04:59 | वयं प्रथमाय Desktop प्रति गच्छाम । |
05:03 | लोञ्चर् उपरि Trash इतीदं प्रधानं ऐकान् वर्तते । |
05:07 | Trash, डिलीट्-कृतानि सर्वाणि फ़ैल्स् अपि च फ़ोल्डर्स् प्राप्तवदस्ति ।
अकस्माद् वयं एकां सञ्चिकां निष्कासयामः चेत्, तां Trash इत्यस्मात् पुनः प्राप्तुं शक्नुमः । |
05:17 | इदं विवरीतुं, Desktop उपरि विद्यमानं Hello.txt इतीदं निष्कासयामि । |
05:23 | फ़ैल् उपरि रैट्-क्लिक् कृत्वा Move to Trash विकल्पं चिन्वन्तु । |
05:29 | इदं रीस्टोर्-कर्तुं, लोञ्चर्-मध्ये Trash ऐकान् उपरि नुदन्तु ।
Trash फोल्डर् उद्घाट्यते । |
05:37 | सञ्चिकां चित्वा, तस्योपरि रैट्-क्लिक् कृत्वा Restore विकल्पं नुदन्तु । |
05:43 | Trash फ़ोल्डर् पिधानं कृत्वा , Desktop प्रति आगच्छन्तु । |
05:48 | अस्माभिः पूर्वं निष्कासिता सञ्चिका पुनः प्राप्ता (restore) । |
05:53 | भवातां व्यवस्थायाः सञ्चिकां शाश्वतनिष्कासनार्थं, तच्चित्वा Shift+Delete कीलके नुदन्तु । |
06:01 | एकं डैलाग् बोक्स् “Are you sure you want to permanently delete Hello.txt?” इति पृच्छति ।
Delete गण्डस्योपरि नुदन्तु । |
06:12 | पुनः Trash ऐकान् उपरि नुदन्तु । |
06:15 | सञ्चिका अस्माकं व्यवस्थायाः शाश्वतं निष्कासितमित्यतः, तत् Trash फोल्डर्-मध्ये नोपलभ्यते । |
06:23 | डेस्क्-टोप् इत्यस्य तदेव थीम् दृष्ट्वा भवन्तः नीरसताम् अनुभवन्तः सन्ति किम्? तत् परिवर्तयामः । |
06:28 | लोञ्चर् गत्वा, System settings चिन्वन्तु । पश्चात् Appearance उपरि नुदन्तु । |
06:35 | Appearance विण्डो उद्घट्यते । |
06:38 | अत्र, Themes टेब्-इत्यस्याधः, एतावदेव इन्स्टाल्-जातानि बहूनि थीम्स् सन्ति । |
06:44 | भवतामभीष्टानुसारेण थीम्स् उपयुज्यताम् । |
06:47 | यत्किमपि थीम् नोदनक्षणे एव डेस्क्टोप् परिवर्त्यते इति भवन्तः पश्यन्ति । |
06:54 | विण्डो पिधानं कर्तुं, स्माल् X ऐकान् नुदन्तु । |
06:58 | अधुना, Desktop इत्यस्य दक्षिणकोणे विद्यमानानि कानिचन ऐकान्स् पश्यामः । |
07:04 | प्रथमम् Internet connectivity इत्यस्ति । |
07:07 | भवन्तः यत्किमपि Lan (लेन्) अथवा Wifi (वैफ़ै) नेट्वर्क्-सम्पर्कं प्राप्तवन्तः चेत्, भवद्भिः कनेक्षन् लभ्यते । |
07:13 | इमानि भवन्तः अत्र दृष्टुं शक्नुवन्ति । |
07:16 | भवद्भ्यः एक्सेस् (access) युतं 'नेट्वर्क्' यदस्ति तं भवन्तः चेतुं शक्नुवन्ति । |
07:20 | नेट्वर्क् Enable अथवा Disable कर्तुं, Enable Networking विकल्पं चेक् अथवा अन्-चेक् कुर्वन्तु । |
07:27 | Edit Connections विकल्पमुपयुज्य, नेट्वर्क् इत्यस्य एडिट् अपि भवितुमर्हति । |
07:32 | अग्रिमम् ऐकान् Sound वर्तते । |
07:35 | भवन्तः अत्रैकं स्लैडर् पश्यन्ति । |
07:37 | अस्माकं विकल्पानुसारेण, आडियो स्तरम् अधिकं न्यूनं वा कर्तुम् इदं सहाय्यमाचरन्ति । |
07:43 | Sound Settings उपरि नोदनेन, अस्माकं व्यवस्थायाः ध्वनेः स्थरं संमायोजितुं शक्नुमः ।
इमानि विण्डो-सेट्टिङ्ग्स् भवन्तः स्वतः अभ्यासं कुर्वन्तु । |
07:53 | अग्रिमम् ऐकान् Time & Date वर्तते ।
वयमिदम् ऐकान् नुदामः चेत् केलेण्डर् उद्घट्यते । |
08:00 | वयं प्रस्तुतं दिनाङ्कं, मासं, वत्सरञ्च दृष्टुं शक्नुमः । |
08:04 | एरो (arrow) गण्डानि, अस्माकमभीष्टानुसारेण मासं वत्सरं च चेतुम् अवकाशं कल्पयन्ति । |
08:11 | Time & Date Settings उपरि नुत्त्वा दिनाङ्कं समयञ्च वयम् एडिट् कर्तुं शक्नुमः । |
08:16 | इमान् विकल्पान् स्वयमेव अभ्यासं कुर्वन्तु भवन्तः । |
08:20 | पश्चात्, wheel अथवाPower ऐकान् उपरि नुदन्तु । |
08:24 | अत्र, Log Out अपि च Shut Down विकल्पाभ्यां सह कानिचन शोर्ट्-कट् विकल्पानि दृष्टुं शक्नुमः । |
08:31 | अस्माकं व्यवस्थायामुपलभ्यमानानि सर्वाणि युसर्-अकौण्ट् भवन्तः अत्र पश्यन्ति । |
08:36 | आवश्यकातानुसारेण यत्किमपि user उपरि नुत्त्वा, तत् यूसर् अकौण्ट् प्रति परिवर्तयितुं शक्नुमः । |
08:43 | अनेन वयं पाठस्यान्तमागतवन्तः ।
सङ्क्षेपेण, |
08:48 | पाठेऽस्मिन् वयम्,
लोञ्चर् विषयम्, लोञ्चर् मध्ये अप्लिकेशन्स् निष्कासनं संयोजनम्, |
08:55 | बहूनि डेस्क्टोप्स् कथमुपयोक्तव्यमिति,
डेस्क्टोप् थीम् परिवर्तनम्, |
09:01 | इण्टर्नेट् सम्पर्कः,
Sound सेट्टिङ्ग्स्, |
09:04 | Time and Date सेट्टिङ्ग्स् अपि च यूसर् अकौण्ट् परिवर्तनञ्च ज्ञातवन्तः । |
09:10 | पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु । |
09:18 | “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । |
09:27 | अधिकविवरणार्थम् अस्मभ्यं लिखन्तु । |
09:30 | अस्मिन् "स्पोकन् ट्युटोरियल्" मध्ये प्रश्नाः सन्ति वा ?
जालपुटमिदं पश्यन्तु : |
09:35 | भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये लिखन्तु ।
भवतां प्रश्नान् सङ्क्षेपेण विवृण्वन्तु । |
09:41 | अस्माकं गणेषु यः कोऽपि उत्तरं ददाति । |
09:45 | "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते । |
09:57 | इदं स्क्रिप्ट्, "स्पोकन् ट्युटोरियल्" गणस्य योगदानमस्ति ।
पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |