LibreOffice-Suite-Draw/C3/Basics-of-Layers-Password-Encryption-PDF/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | LibreOffice Draw मध्ये Basics of Layers and Password Encryption PDF इत्याख्यं Spoken Tutorial प्रति भवतां स्वागतम् । |
00:09 | अस्मिन् अनुशिक्षणे भवन्तः layers प्राथमिकांशान् पठन्ति । |
00:12 | भवद्भिः काचित् Draw सञ्चिका password encryption (पास्-वर्ड् एन्क्रिप्षन्) उपयुज्य कथं रक्षणीया तथा |
00:18 | तां PDF इव कथम् एक्स्पोर्ट् करणीयम् इत्यपि पठन्ति । |
00:21 | अत्र वयं : Ubuntu Linux आवृत्तिः, 10.04 आपरेटिङ्ग् सिस्टं तथा LibreOffice Suite आवृत्तिः, 3.3.4 एतान् उपयुञ्महे । |
00:30 | वयं 'Route Map' इति सञ्चिकाम् उद्घाटयामः । |
00:33 | Layers (लेयर्स्) नाम किं? लेयर्स् पारदर्शकच्छदः, एते एकस्य उपरि अन्ये स्थापिताः । |
00:42 | प्रत्येकं Draw सञ्चिकायां त्रीणि लेयर्स् भवन्ति । |
00:44 | अनिवार्यरूपेण, Layout (लेऔट्) इति लेयर् प्रदर्श्यते । |
00:48 | अस्माकं अधिक-ग्राफिक्स् अस्माभिः अत्रैव क्रियते । |
00:51 | बटन् तथा फार्म् इव नियन्त्रणांशान् सङ्गृहीतुं "Controls" (कण्ट्रोल्स्) लेयर् उपयुज्यते । |
00:57 | संकीर्णरेखाचित्रेभ्यः, आयाम(डैमेन्शन्) रेखाः अथवा मापकरेखाः निरूपयितुं "Dimension" (डैमेन्शन्) लेयर् उपयुज्यते । |
01:06 | उदाहरणार्थं कस्यचन गृहस्य रेखाचित्रं निर्दिष्टभित्तीनां मापकैः, विद्युत्-तन्तुजालस्य स्थानैश्च युक्तं स्यात् । |
01:19 | गृहात् (हौस्) शालां (स्कूल्) प्रति मार्गदर्शकस्य नक्षत्रयस्य वयं मुद्रणं कुर्मः । |
01:26 | एतान् Map 1, Map 2 तथा Map 3 इति मन्यामहे । |
01:31 | Map 1, अस्मिन् प्रदेशे विद्यमानानि सर्वाणि मार्गसूचकानि प्रदर्शयति । |
01:35 | Map 2 मध्ये सरोवरद्वयं (लेक्स्), सभाङ्गणम् ('स्टेडियम्') तथा आपणसमूहः 'कमर्षियल् काम्प्लेक्स्' विहाय वयं सर्वाणि आब्जेक्ट् दर्शयामः । |
01:43 | Map 3 मध्ये 'उद्यानवनं' विहाय सर्वाणि आब्जेक्ट् दर्शयामः । |
01:48 | एतान् प्रदर्शयितुं अस्माभिः प्रत्येकं मानचित्रं रचनीयम् वा? |
01:51 | न Draw,लेयर्स् साहाय्येन अस्य परिहारः कर्तुं शक्यः । |
01:58 | एवम् अनेकविषययुक्तं लेयर्-युक्तं केवलं किञ्चन म्याप्-फैल् स्यात् । |
02:03 | अस्माभिः किञ्चन Draw पृष्ठम् उपयुज्य, लेयर् संयोजयितुं मुद्रयितुम् अथवा द्रष्टुं शक्यते । |
02:10 | वयं RouteMap कृते कांश्चन लेयर्स् योजयामः । |
02:13 | Layout लेयर् उपरि क्लिक् कुर्वन्तु । |
02:15 | रैट्-क्लिक् कृत्वा Insert Layer चिन्वन्तु । |
02:18 | Insert layer इति डैलाग्-बाक्स् दृश्यते । |
02:22 | Name क्षेत्रे Layer four इति टङ्कनं कुर्वन्तु । |
02:24 | भवतां रेखाचित्रसम्बद्धं यत्किमपि शीर्षकं विवरणं वा योजयितुं शक्यते । |
02:30 | “Visible” तथा “Printable” बाक्स् अभिजानन्तु । |
02:34 | डैलाग्-बाक्स् तः बहिः आगन्तुं OK क्लिक् कुर्वन्तु । |
02:37 | पुनः "Layout" लेयर् उपरि क्लिक् कुर्वन्तु । |
02:40 | Draw पृष्ठस्य उपरि म्याप् चित्वा तत् अन्-ग्रुप् (ungroup) कुर्वन्तु । |
02:44 | इदानीं वयं Lakes चिनुमः । |
02:46 | Shift की क्लिक् कुर्वन्तु तथा Stadium एवं Commercial complex चिन्वन्तु । |
02:52 | अनन्तरं रैट्-क्लिक् कुर्वन्तु तथा Cut चिन्वन्तु । |
02:55 | अनन्तरं “Layer four” इति लेयर् उपरि क्लिक् कृत्वा तान् पेस्ट् कुर्वन्तु । |
02:59 | Layout लेयर् मध्ये यथा अस्ति तथा तस्मिन्नेव स्थाने पेस्ट् कृतं वर्तते । |
03:04 | पुनः Layer Four क्लिक् कुर्वन्तु । |
03:07 | context menu द्रष्टुं रैट्-क्लिक् कुर्वन्तु । Modify Layer चिन्वन्तु । |
03:12 | Modify Layer इति डैलाग्-बाक्स् दृश्यते । |
03:15 | Visible इति बाक्स् अन्-चेक् कुर्वन्तु । OK क्लिक् कुर्वन्तु । |
03:18 | Layer Four मध्ये वस्तूनि इतः परं न दृश्यन्ते । |
03:21 | आब्जेक्ट्स् अत्र भवन्ति परन्तु न दृश्यते । |
03:26 | Layout लेयर् क्लिक् कुर्वन्तु । कदाचित् ट्याब् न दृश्यते चेत् Layout लेयर् यावत्पर्यन्तं दृश्यते तावत् पर्यन्तं वाम-आरो बटन् नुदन्तु । |
03:35 | अस्माकं Map 2 इदानीं पूर्णम् ! एवमेव वयं Map 3 रचयामः । |
03:42 | एतदनुशिक्षणं अत्रैव त्यक्त्वा एतत् गृहकार्यं कुर्वन्तु । |
03:45 | Home तः School Campus पर्यन्तं मार्गद्वयं रच्यताम् । |
03:49 | RouteMap चित्रे प्रत्येकं मार्गं प्रत्येकं लेयर् मध्ये रचयन्तु । तदर्थम् एतत्-द्वयं भिन्न-मानचित्रम् इव मुद्रणं कर्तुं शक्यते । परन्तु प्रत्येकं मार्गः प्रदर्शयते । |
04:01 | वयं इदानीं काचित् सञ्चिका PDF इव कथं एक्स्पोर्ट् करणीया, तथा अस्माकं Draw सञ्चिका कथं 'पास्-वर्ड् प्रोटेक्ट्' करणीया इति पठामः । |
04:10 | आदौ “RouteMap” इति Draw सञ्चिकां 'PDF' इति रक्षामः । |
04:14 | मुख्य-मेनुतः File चित्वा “Export as PDF” क्लिक् कुर्वन्तु । |
04:19 | PDF डैलाग्-बाक्स् दृश्यते । |
04:21 | आदौ वयं “General”इति चिनुमः । |
04:24 | “General”इति ट्याब् क्लिक् कुर्वन्तु । |
04:26 | वयं Draw सञ्चिकायाः सर्वाणि पृष्ठानि 'पिडिएफ्'रूपेण परिवर्तयामः । तदर्थं Range अधः All चिनुमः । |
04:34 | Images अधः वयं “JPEG compression” चिनुमः । |
04:38 | एतत् कम्प्रेशन्-निमित्तं उपयुज्यमानं सामान्य-फार्म्याट् वर्तते । |
04:42 | इदानीं, Initial View ट्याब् क्लिक् कुर्वन्तु । |
04:45 | वयं डैलाग्-बाक्स् मध्ये दृश्यमानं अनिवार्यमौल्यं स्थापयामः । |
04:49 | इदानीं Links ट्याब् क्लिक् कुर्वन्तु । |
04:52 | वयं Draw सञ्चिकायां पर्चनीं योजयामः। |
04:55 | पुनः Links कृते निर्दिष्टं अनिवार्यमौल्यं स्थापयामः । |
04:59 | इदानीं 'पि.डि.एफ्' डाक्युमेण्ट् रक्षितुं किञ्चन पास्-वर्ड् दद्मः । |
05:03 | तदर्थं, “Security” ट्याब् क्लिक् कुर्वन्तु । |
05:07 | Set open password बटन् क्लिक् कुर्वन्तु । |
05:10 | Set Open Password इति डैलाग्-बाक्स् दृश्यते । |
05:14 | “Password” क्षेत्रे भवतां सञ्चिकां रक्षितुं भवदिष्टं यत्किमपि पास्-वर्ड् टैप् कुर्वन्तु । |
05:20 | अहं मम पास्-वर्ड् "Protect101" इति सेट् करोमि । |
05:24 | Confirm क्षेत्रे अहं मम पास्-वर्ड् - “Protect101” इति पुनः टङ्कनं करोमि । OK इति क्लिक् कुर्वन्तु । |
05:31 | तदनन्तरं डाक्युमेण्ट् प्रिन्ट् कर्तुं अथवा परिवर्तयितुं पर्मिशन् पास्-वर्ड् वयं सेट् कुर्मः । |
05:37 | Set permission password बटन् क्लिक् कुर्वन्तु । |
05:41 | Password स्थाने भवदिष्टं पास्-वर्ड् टङ्कयन्तु । अहं ProtectAgain0 इति टङ्कयामि । |
05:49 | Confirm स्थाने, अहं पास्-वर्ड् ProtectAgain0 इति पुनः टङ्कनं करोमि तथा OK क्लिक् करोमि । |
05:57 | इदानीं Printing तथा Changes निमित्तं पर्मिषन् सक्रियमस्तीति पश्यन्तु । |
06:03 | संख्याविशेषयुक्तस्य अक्षरयुक्तस्य न्यूनातिन्यूनं षडक्षरयुक्तस्य पास्-वर्ड् चयनं वरम् । |
06:14 | Printing अधः Not Permitted इति चिन्वन्तु । |
06:18 | सम्यक् पास्-वर्ड् दीयते चेदेव पिडिएफ् मुद्रणं कर्तुं शक्यते, अन्यथा मुद्रणं कर्तुं न शक्यते । |
06:25 | Changes अधः Not Permitted इति चिन्वन्तु । |
06:29 | सम्यक् पास्-वर्ड् दीयते चेदेव पास्-वर्ड् एडिट् कर्तुं शक्यते, अन्यथा परिवर्तयितुं न शक्यते । |
06:36 | इदानीं वयम् अधः वर्तमानं Export बटन् क्लिक् कुर्मः । |
06:41 | Export डैलाग्-बाक्स् दृश्यते । |
06:43 | वामपार्श्वस्थ-प्यानेल् तः , Places अधः भवतां फैल् रक्षणीयस्थानं क्लिक् कुर्वन्तु । अहं Desktop इति चिनोमि । |
06:53 | File type अधः PDF - Portable Document Format क्लिक् कुर्वन्तु । |
06:57 | तथा Save बटन् उपरि क्लिक् कुर्वन्तु । |
07:01 | Draw सञ्चिका इदानीं PDF सञ्चिकारूपेण परिवर्तितम् । तं डेस्क्-ताप् उपरि रक्षितम् च । |
07:07 | इदानीं वयं डेस्क्-टाप् कृते परिवर्तयामः । |
07:09 | डेस्क्-टाप् मध्ये RouteMap PDF सञ्चिकां द्विवारं क्लिक् कुर्वन्तु । |
07:14 | Enter password इति डैलाग् बाक्स् उद्घाट्यते । |
07:17 | "Password" क्षेत्रे वयं Protect111 इति दुष्टं पास्-वर्ड् टङ्कनं कुर्मः । |
07:23 | Unlock Document बटन् उपरि क्लिक् कुर्वन्तु । |
07:26 | password क्षेत्रं रिक्तमस्तीति भवन्तः पश्यन्ति । पुनः पास्-वर्ड् स्थापयितुं तत्तु सूचयति । |
07:35 | Password स्थाने वयं सम्यक् पास्-वर्ड् "Protect101" टङ्कयामः । |
07:40 | Unlock Document बटन् उपरि क्लिक् कुर्वन्तु । PDF सञ्चिका उद्घाट्यते । |
07:46 | भवतां Draw सञ्चिका अस्माभिः PDF रूपेण परिवर्तिता, तथा एषा अस्माभिः यशसा password-protected कृता । |
07:53 | अनेन वयम् अस्य अनिशिक्षणस्य अन्ते स्मः । |
07:57 | वयम् अत्र लेयर्स् अधिकृत्य , |
08:00 | काञ्चन Draw सञ्चिकां PDF रूपेण परिवर्तयितुं तथा |
08:03 | एतत् 'पास्-वर्ड् एन्क्रिप्षन्' (password encryption) उपयुज्य कथं रक्षणीयम् इति पठितवन्तः । |
08:08 | भवद्भ्यः किञ्चन गृहकार्यं वर्तते । |
08:11 | “RouteMap” सञ्चिकायाः अन्यत् किञ्चन PDF निर्मीयताम् । |
08:14 | PDF डैलाग्-बाक्स् मध्ये “Initial View” आप्षन्स् परिवर्तयन्तु । |
08:17 | किं भवतीति पश्यन्तु । |
08:20 | “User Interface” निमित्तं वर्तमानानि सर्वाणि आप्षन्स् चेक् कुर्वन्तु । |
08:23 | permission passwords सेट् कुर्वन्तु । |
08:25 | एतत् PDF मुद्रणं कुर्वन्तु । |
08:28 | अस्यां पर्चन्यां लभ्यं चलच्चित्रं पश्यन्तु । |
08:31 | एतत् स्पोकन् ट्युटोरियल् योजनायाः सारांशः। |
08:34 | कदाचित् भवतः ब्यान्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु । |
08:40 | स्पोकन् ट्युटोरियल् योजनागणः |
08:42 | स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति । |
08:45 | आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छन्ति । |
08:50 | अधिकविवरणार्थं कृपया :
contact at spoken hyphen tutorial dot org. पर्चनीं प्रति लिखन्तु । |
08:58 | स्पोकन् ट्युटोरियल् योजना, टाक् टु अ टीचर् योजनायाः भागः । |
09:03 | अनया राष्ट्रिय-साक्षरता-मिषन्, ICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तमस्ति । |
09:11 | अस्याः योजनायाः विषये अधिकं विवरणम् अस्यां पर्चन्याम् उपलभ्यते ।:
spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
09:23 | एतत् अनुशिक्षणं , DesiCrew Solutions Pvt. Ltd. योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |