LibreOffice-Suite-Draw/C2/Basics-of-working-with-objects/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 Libre Office Draw मध्ये विद्यमानस्य Basics of working with objects विषयके अस्मिन् ‘अनुशिक्षणे’ भवतां स्वागतम् ।
00:08 अस्मिन् अनुशिक्षणे वयं,
00:11 Object इत्यस्य Cut, Copy, Paste करणम्,
00:14 Handles इत्येतेषाम् उपयोगं कृत्वा Object इत्यस्य रिसैज्-करणम्,
00:17 Object इत्येतेषां व्यवस्थितरूपेण योजनम्,
00:19 Object इत्यस्य Group Ungroup करणं च,
00:21 Group मध्ये विद्यमानस्य प्रत्येकस्यापि Object इत्यस्य edit करणम्,
00:24 Group मध्ये विद्यमानानां Object इत्येतेषां move करणं इत्यादीन् पठिष्यामः ।
00:28 अत्र वयं उबुंटू लिनक्स् १०.०४, लिब्रे आफिस् स्यूट् ३.३.४ इत्येतयोः उपयोगं कुर्मः ।
00:37 इदानीं पूर्वमस्माभिः Desktop मध्ये save कृतां “WaterCycle” इत्याख्यां सञ्चिकाम् उद्घाटयामः ।
00:42 अस्मिन् चित्रे इतोपि त्रीन् मेघान् copy कृत्वा paste कुर्मः ।
00:47 प्रथमं मेघं चित्वा, अनन्तरं context menu निमित्तं right click कृत्वा तत्र copy इति क्लिक्

कुर्वन्तु,

00:54 अनन्तरं च कर्सर् पेज् उपरि संस्थाप्य context menu निमित्तं right click कृत्वा paste इत्यस्योपरि

क्लिक् कुर्वन्तु ।

01:02 अत्र वयम् एकमेव मेघं द्रष्टुं शक्नुमः ।
01:05 तर्हि अस्माभिः copy कृत्वा paste कृतः मेघः कुत्र अस्ति?
01:08 copy कृत्वा paste कृतः मेघः प्रथमतः विद्यमानस्य मेघस्य उपरि एव paste सञ्जातः वर्तते ।
01:13 वयमिदानीं मेघं चित्वा move कुर्मः ।
01:17 इदानीं तादृशमेव अन्यमेकं मेघं रचयामः ।
01:21 मेघं चित्वा काण्टेक्स्ट् मेनु निमित्तं right click कृत्वा तदनन्तरं “copy” इत्यस्योपरि क्लिक् कुर्वन्तु।
01:26 पुनः कान्टेक्स्ट् मेनु निमित्तं रैट् क्लिक् कृत्वा “Paste” नुदन्तु ।
01:30 इदानीं Copy कृतं मेघं चित्वा वामपार्श्वे move कुर्वन्तु ।
01:37 एतत् कार्यं कर्तुं वयं शार्ट्-कट् key अपि उपयोक्तुं शक्नुमः ।
01:41 Copy निमित्तं CTRL+C
01:44 Paste निमित्तं CTRL+V
01:47 Cut करणार्थं CTRL+X
01:50 प्रथमं मेघं चित्वा तदनु CTRL अपि च C इति की द्वयमपि एककाले एव नुदन्तु ।
01:55 इदानीं मेघः Copy सञ्जातः वर्तते ।
01:57 पेस्ट् कर्तुं CTRL अपि च V की द्वयमपि एककाले एव नुदन्तु ।
02:02 मेघं सेलेक्ट् कृत्वा अपेक्षितं स्थानं प्रति नयन्तु ।
02:08 अनुशिक्षणमिदं किञ्चित् कालं स्थगयित्वा अधः प्रदत्तं गृहकार्यं कुर्वन्तु ।
02:11 पुटद्वयं भवतां draw file मध्ये योजयन्तु ।
02:14 प्रथमपुटे आब्जेक्ट्-द्वयं चित्रयन्तु ।
02:16 तत् चित्रं प्रथमपुटात् द्वितीयपुटं प्रति Copy कुर्वन्तु ।
02:22 Copy कृतं चित्रं कुत्र अस्तीति पश्यन्तु ।
02:25 चित्रं कट् पेस्ट् च कुर्वन्तु । एतन्निमित्तं भवन्तः शार्ट्-कट् key उपयोक्तुं शक्नुवन्ति ।
02:31 copy कृतं चित्रं cut करणादेव सञ्जातं वा इति परीक्षन्ताम् ।
02:36 वयमिदानीं मेघस्य गात्रं किञ्चित् न्यूनीकुर्मः ।
02:38 प्रथमं चिन्वन्तु
02:40 इदानीं हैण्डल्स् दृश्यन्ते ।
02:43 तदनु दृश्यमानस्य कस्यचन हैन्डल् उपरि यावत् बाणस्य अग्रभागः दृश्यते तावत् कर्सर् स्थापयन्तु ।
02:50 इदानीं मेघस्य गात्रं न्यूनीकर्तुं मौस् वाम-बटन् उपयुज्य बाणस्य चिह्नं अन्तः कर्षन्तु ।
02:57 गात्रं वर्धयितुं बाणचिह्नं बहिः कर्षन्तु ।
03:00 बाणचिह्नस्य गात्रं वर्धयितुं प्रथमं चिन्वन्तु ।
03:04 इदानीं कस्यचन हैण्डल् उपरि कर्सर् नयन्तु ।
03:07 इदानीमेकं पारदर्शकं बाणचिह्नं वर्गेण साकं कर्सर् अधः द्रष्टुं शक्यते ।
03:14 इदानीं कीबोर्ड् मध्ये विद्यमानं शिफ्ट् key नुदन्तु । मौस् वाम-बट्न् गृहीत्वा बाणचिह्नस्य हैण्डल्

उपयोगं कुर्वन्तः अधः कर्षन्तु ।

03:25 shift की उपयुज्यते चेत् रीसैज् करणस्य प्रक्रिया सरलतया भवति खलु ?
03:32 हैण्डल्स् उपयुज्य आब्जेक्ट्स् रीसैज् करणप्रक्रियायाः “डैनमिक् रीसैज्” इति नाम ।
03:38 अर्थात् वयमत्र यं कमपि निर्दिष्टं मापनं न उपयुञ्ज्महे ।
03:42 आगामिषु अनुशिक्षणेषु निश्चयेन रीसैज्-करणप्रक्रियां वयं पठिष्यामः ।
03:47 एवं प्रकारेणैव आयतस्य वैशाल्यं वर्धयामः ।
03:52 आयतं चित्वा, शिफ्ट् key नुदित्वा उपरि कर्षन्तु ।
03:59 ड्रा विण्डो अधः विद्यमानं स्टेटस् बार् पश्यन्तु ।
04:03 रीसैज् करणानन्तरम् आयतस्य विस्तारः परिवर्तितं वा इति ध्यानेन पश्यन्तु ।
04:09 परिवर्तितं स्थानम् आकारं च स्टेटस् बार् मध्ये द्रष्टुं शक्यते ।
04:16 इदानीम् अत्र यथा दृश्यते तथा मेघान् सूर्यं च योजयामः ।
04:20 मेघान् स्मर्तुं वामतः १, २, ३, ४ इति सङ्ख्याः दद्मः ।
04:29 सङ्ख्याः योजयितुं, मेघं चित्वा डबल् क्लिक् कृत्वा १ इति च टङ्कनं कुर्वन्तु ।
04:36 अवशिष्टेभ्यः मेघेभ्यः अपि सङ्ख्याः यच्छन्तु ।
04:44 इदानीं ४ मेघं सेलेक्ट् कृत्वा तं सूर्यस्योपरि स्थापयामः ।
04:49 अमुं मेघं सूर्यस्य पृष्ठभागे स्थापयितुं, कान्टेक्स्ट् मेनु निमित्तं रैट् क्लिक् कुर्वन्तु ।
04:55 “Arrange” इति क्लिक् कृत्वा “Send Backward” च चिन्वन्तु ।
04:58 इदानीं चतुर्थः मेघः सूर्यस्य पृष्ठभागे विद्यते ।
05:02 “Send Backward की दृश्यमानं आब्जेक्ट् एकं स्टेप् पृष्ठभागं प्रति प्रेषयति ।
05:07 इदानीं तृतीयं मेघं सेलेक्ट् कृत्वा सूर्यस्य उपरि स्थापयामः ।
05:12 कान्टेक्स्ट् मेनु निमित्तं रैट्-क्लिक् कृत्वा “Arrange” इति क्लिक् कृत्वा “Send to back” इति च

चिन्वन्तु ।

05:18 इदानीं तृतीयः मेघः सूर्यस्य तथा चतुर्थस्य मेघस्य पृष्ठभागे द्रष्टुं शक्यते ।
05:23 “Send to back” की आब्जेक्ट् इत्यमुं सर्वापेक्षया पृष्ठभागं प्रति प्रेषयति ।
05: 28 स्लैड् मध्ये दर्शितरीत्या मेघानां योजनमिदानीं बहुसरलमभवत् ।
05:32 चतुर्थं मेघं चित्वा, कान्टेक्स्ट् मेनु निमित्तं रैट् क्लिक् च कृत्वा, “Arrange” इति क्लिक् कुर्वन्तु

“Bring to front” सेलेक्ट् कुर्वन्तु च ।

05:40 “Bring to front” की आब्जेक्ट् सर्वापेक्षया अग्रे आनयति ।
05:44 पुनः तृतीयं मेघं चित्वा, कान्टेक्स्ट् मेनु निमित्तं रैट्-क्लिक् कृत्वा च “Arrange” key क्लिक्

कृत्वा “Bring forward” इति च चिन्वन्तु ।

05:52 “Bring forward” की आब्जेक्ट् इत्यमुम् एकं स्टेप् अग्रे आनयति ।
05:57 इदानीं द्वितीयं मेघं सेलेक्ट् कृत्वा प्रथमस्य मेघस्योपरि स्थापयन्तु ।
06:01 इदानीं स्लैड् मध्ये दर्शितरीत्या मेघानां योजनं कृतमस्ति ।
06:07 तदनु मेघानां सङ्ख्याः डिलीट् कुर्मः ।
06:10 तथा कर्तुं मेघं चित्वा डबल् क्लिक् ्कुर्वन्तु । अनन्तरं च स्ङ्ख्यां चित्वा कीबोर्ड् मध्ये

विद्यमानं डिलीट् key नुदन्तु ।

06:23 गृहकार्यार्थम् अमुमनुशिक्षणं किञ्चित् कालपर्यन्तं स्थगयामः ।
06:26 एकं गोलं, वर्गं, नक्षत्रं च चित्रयित्वा अधः दर्शितरीत्या योजयन्तु ।
06:32 प्रत्येकं चित्रस्य कृते Arrange मेनु मध्ये विद्यमानानां सर्वेषामपि विकल्पानां प्रयोगं कुर्वन्तु ।
06:38 प्रत्येकस्यापि आप्शन् कृते चित्रस्य स्थानं कथं परिवर्तितं भवतीति अवलोकयन्तु ।
06:44 इदानीं स्लैड् मध्ये दर्शितरीत्या चित्राणि संयोज्य पृष्ठतः पुरतश्च कर्तुं “टु फ्रन्ट्” “टु ब्याक्” उपयोगं

कुर्वन्तु ।

06:53 तदनु स्लैड् मध्ये दर्शितरीत्या वाटर् सर्कल् रेखाचित्रस्य कृते वृक्षान् योजयामः ।
06:59 वयं वृक्षस्य चित्रं Block Arrow Explosion च उपयुज्य चित्रयितुं शक्नुमः ।
07:05 Insert इति क्लिक् कृत्वा तदनु Slide क्लिक्-करणात् अस्य कृते नूतनमेकं ड्रा पेज् योजयामः ।
07:11 एतत् अस्माकं सञ्चिकायाः कृते नूतनमेकं पुटं योजयति ।
07:15 वृक्षस्य मूलं चित्रयितुं, ड्रायिंग् टूल्-बार् मध्ये विद्यमानं “Block Arrows” चिन्वन्तु ।
07:21 उपलभ्यमानान् आकारान् द्रष्टुं कृष्णवर्णे विद्यमानस्य लघु त्रिकोणस्योपरि क्लिक् कृत्वा “Split Arrow”

चिन्वन्तु च ।

07:28 कर्सर् पुटस्य उपरि संस्थाप्य, मौस् वाम-बटन् नुदित्वा अधोमुखं बहिर्मुखं च कर्षन्तु ।
07:35 भवन्तः इदानीं द्विशाखिणः वृक्षस्य मूलभागं चित्रितवन्तः ।
07:39 इदानीं शाखाः प्रति पर्णानि योजयामः ।
07:42 ड्रायिंग् टूल्-बार् मध्ये विद्यमानानि नक्षत्राणि चिनुमः ।
07:45 तदनु कृष्णवर्णे विद्यमानस्य लघु त्रिकोणस्योपरि क्लिक् कृत्वा “Explosion” चिन्वन्तु च ।
07:51 इदानीं ड्रा पेज् प्रति आगत्य, वामशाखायाः उपरि कर्सर् संस्थाप्य, आकारं प्रदातुं मौस् वामबट्न् गृहीत्वा

वामपार्श्वे कर्षन्तु ।

08:01 वयमिदानीं वृक्षस्य कृते पर्णानि योजितवन्तः ।
08:04 अस्माभिरिदानीं रचिता आकृतिः वृक्षस्य दक्षिणशाखायाः कृतेऽपि करणीया अस्ति ।
08:09 आकृतिं चिन्वन्तु ।
08:11 copy कर्तुं कीबोर्ड् मध्ये CTRL+C नुदन्तु ।
08:15 तदनु पेस्ट् कर्तुं CTRL+V नुदन्तु ।
08:19 इदानीम् आकृतिं दक्षिणशाखायाः उपरि नयन्तु ।
08:22 वयमिदानीं वृक्षं चित्रितवन्तः ।
08:25 वृक्षं चित्वा अधोभागं प्रति नयामः ।
08:28 केवलं वृक्षस्य मूलभागः एव गच्छन् वर्तते, न तु पर्णानि ।
08:32 अत्र वृक्षस्य मूलभागः पर्णानि च विभिन्नेषु आकारेषु वर्तन्ते ।
08:38 वृक्षस्य मूलभागं पूर्वस्थानं प्रति नयामः ।
08:41 वयमिदानीं वृक्षस्य मूलं पर्णानामेकैकं घटकं च एकस्मिन् समूहे योजनं पठामः ।
08:47 समूहे कृतः व्यत्ययः तस्मिन् समूहे विद्यमानेषु सर्वेषु वस्तुषु व्यत्ययम् आनयति ।
08:53 प्रथमं पुटस्य उपरि क्लिक् कुर्वन्तु, इदानीम् एकस्यापि वस्तुनः चयनं न जातं वर्तते ।
08:58 अनन्तरं ड्रायिङ्ग् टूल्-बार् तः “Select” इति क्लिक् कुर्वन्तु ।
09:02 कर्सर् पुटस्य उपरि नीत्वा नुदन्तु ।
09:05 इदानीं मौस् वाम-बट्न् नुदित्वा चित्रे विद्यमानानां सर्वेषामपि वस्तूनां चयनार्थं कर्षन्तु ।
09:11 बिन्दुभिः युक्तम् आयताकारं भवन्तः द्रष्टुं शक्नुवन्ति ।
09:14 आयताकारे विद्यमानानां सर्वेषामपि वृक्षाणाम् अवयवाः चिताः वा इति परीक्षन्ताम् ।
09:20 भवन्तः शिफ्ट् की उपयुज्य क्लिक्-करणात् द्व्यधिकानि वस्तूनि चेतुं शक्नुवन्ति ।
09:28 कान्टेक्स्ट् मेनु निमित्तं रैट्-क्लिक् कृत्वा “Group” इति चिन्वन्तु ।
09:32 इदानीं वृक्षस्य यस्य कस्यापि अवयवस्य उपरि क्लिक् कुर्वन्तु ।
09:36 ते सर्वे एकस्मिन् समूहे वर्तन्ते इत्यतः हैण्डल्स् दृश्यन्ते ।
09:40 एते सर्वेपि वस्तुनः इदानीम् एकघटकीभूताः सन्ति ।
09:45 तान् पृथक् कर्तुं, वृक्षं चित्वा, रैट् क्लिक् कृत्वा, “अन्-ग्रूप्” इति चिन्वन्तु ।
09:52 इदानीं चित्राणि अन्ग्रूप् सञ्जातानि प्रत्येकघटकरूपेण परिवर्तितानि च ।
09:56 इदानीं पुनः तान् ग्रूप् कुर्मः ।
09:58 शिफ्ट् की नुदित्वा एकैकं चित्रं चिन्वन्तु ।
10:03 रैट् क्लिक् कृत्वा “Group” चिन्वन्तु ।
10:06 इदानीम् अस्माकं मुख्यं ड्रायिंग् पुटं यत् अस्ति प्रथमं पुटं तत्र वृक्षं copy कुर्मः ।
10:10 copyकर्तुं CTRL+C नुदन्तु, तथा च प्रथमपृष्ठस्य उपरि क्लिक् कृत्वा, पेस्ट् कर्तुं CTRL+V उपयोगं

कुर्वन्तु ।

10:17 इदानीं ग्रूप् मध्ये विद्यमानं प्रत्येकं चित्रं एडिट् करणीयमिति चिन्तयन्तु, तदा किं करणीयम् ?
10:23 चित्राणि अन्ग्रूप् रीग्रूप् च अकृत्वा एडिट् करणस्य सरलां प्रक्रियां भवतां कृते दर्शयामि ।
10:30 ग्रूप् चित्वा कान्टेक्स्ट् मेनु निमित्तं रैट् क्लिक् कुर्वन्तु ।
10:33 “Enter Group” इति सेलेक्ट् कुर्वन्तु ।
10:35 ध्यानेन पश्यन्तु, अस्माभिः चितं चित्रं विहाय अन्यानि सर्वाण्यपि चित्राणि निष्क्रियाणि सञ्जातानि।
10:39 इदानीं ग्रूप् मध्ये विद्यमानं प्रत्येकमपि चित्रं एडिट् कर्तुं शक्नुमः ।
10:43 उदाहरणार्थं वृक्षस्य दक्षिणभागे विद्यमानान् पर्णान् चित्वा तेषां गात्रं न्यूनीकुर्मः ।
10:51 आगामि-प्रक्रियायाः निमित्तं CTRL+Z नुदामः ।
10:56 वयमिदानीं वाटर्-सैकल् चित्रस्य कृते योजयितुम् अपेक्षितरीत्या वृक्षस्य आकारं न्यूनीकुर्मः ।
11:02 अस्माभिः इदानीं ग्रूप् इत्यस्य “एडिट्” मोड् तः बहिरागन्तव्यम् ।
11:05 ग्रूप् तः बहिरागन्तुं, कर्सर् पेज् उपरि संस्थाप्य रैट्-क्लिक् कृत्वा “एक्सिट् ग्रूप्” इति च चिन्वन्तु ।
11:13 वयमिदानीं ग्रूप् “एडिट्” मोड् तः बहिरागतवन्तः ।
11:16 वृक्षं चित्वा कर्सर् अधोभागे विद्यमानस्य हैण्डल् पर्यन्तं नयन्तु ।
11:21 कर्सर्, री सैज् आरो-रूपेण परिवर्त्यते ।
11:24 आरो अन्तः कर्षन्तु ।
11:26 वयमिदानीं वृक्षस्य आकारं न्यूनं कृतवन्तः ।
11:29 अस्य चित्रस्य कृते इतोपि चित्रत्रयं योजयामः ।
11:32 वृक्षं चित्वा, copy कर्तुं CTRL+C नुदन्तु, पेस्ट् कर्तुं CTRL+V इति त्रिवारं नुदन्तु ।
11:39 अनेन वृक्षस्य तिस्रः प्रतिकृतयः प्राप्यन्ते ।
11:41 वयमिदानीं तान् अपेक्षितं स्थानं प्रति नयामः ।
11:45 कार्यमिदं वृक्षाणां कृतेऽपि अनुवर्तयामः ।
11:51 एतत् स्मरन्तु यत् प्रत्येकम् अपि वृक्षः पृथक् चित्ररूपेण सञ्जातः वर्तते ।
11:55 प्रत्येकं वृक्षः एकैकः समूहः सञ्जातः वर्तते ।
11:58 वयमिदानीं चित्रैः युक्तान् समूहान् रचितवन्तः ।
12:01 वयमिदानीं चित्रे जलं रचयामः ।
12:04 जलस्य प्रभावं दातुं, चित्रे विद्यमानस्य आयतस्य कृते त्रिकोणमेकं तथा च तत् कृते एकं कर्व्

योजयामः ।

12:12 त्रिकोणं रचयितुं “Drawing” टूल् बार् तः “Basic Shapes” इति चिन्वन्तु ।
12:18 कृष्णवर्णे विद्यमानस्य लघु त्रिकोणस्य उपरि क्लिक् कृत्वा “Right Triangle” च चिन्वन्तु ।
12:24 तत् चित्रयित्वा आयतस्य पार्श्वे योजयन्तु ।
12:28 जलस्य गतिविधिं चित्रयितुं वर्णैः युक्तमेकं वक्रं रचयन्तु ।
12:34 “Drawing” टूल् बार्” तः “Curve” चित्वा, इदानीं “Freeform Line, Filled” क्लिक् कुर्वन्तु ।
12:42 तदनु आयतस्य उपरि कर्सर् संस्थाप्य मौस् वामबटन् नुदित्वा अधोमुखं कर्षन्तु ।
12:49 जलं प्रवहति इति दर्शयितुं तत् कृते एकं कर्व् योजयामः ।
12:56 त्रिकोणः कर्व् इत्यनयोः कारणात् जलस्य चित्रणम् आगतं वर्तते, इदानीं सर्वं मेलयित्वा एकमेव समूहं

कुर्मः ।

13:03 Drawing टूल्-बार् मध्ये Select इति क्लिक् कुर्वन्तु ।
13:07 इदानीं कर्सर् पुटस्य उपरि संस्थाप्य मौस् वामबट्न् नुदित्वा त्रिकोणं कर्व् च एकत्र योजयन्तु ।
13:16 रैट्-क्लिक् कृत्वा Group चिन्वन्तु ।
13:18 वयमिदानीं वाटर्-सैकल् इत्यस्य मूलभूतां रूपरेखां रचितवन्तः ।
13:23 भवतां कृते अत्र अभ्यासः वर्तते ।
13:26 चित्रमिदं भवन्त एव स्वयं रचयन्तु ।
13:30 इदानीं चित्ररचनात्मकम् इदमनुशिक्षणं समाप्तम् ।
13:33 अस्मिन् अनुशिक्षणे भवन्तः चित्ररचनायाः मूलभूतान् अंशान् पठितवन्तः ।
13:39 भवन्तः चित्राणां cut-copy-paste करणम्,
13:42 हैण्डल्स् उपयुज्य चित्राणां रीसैज्-करणम्,
13:46 चित्राणां योजनम्,
13:48 चित्राणां ग्रूप्, अन्ग्रूप्-करणम्,
13:50 समूहे विद्यमानस्य प्रत्येकं चित्रस्य एडिट् करणम्,
13:53 समूहे विद्यमानस्य आब्जेक्ट् इत्यस्य नयनम् इत्यादीन् पठितवन्तः ।
13:57 अधः पर्चन्यां विद्यमानं वीडियो पश्यन्तु ।
14:01 एतत् स्पोकन् ट्युटोरियल् प्राजेक्ट् साराशं सूचयति ।
14:04 भवतां समीपे उत्तमं ब्यान्ड्-विड्त् नास्ति चेत् प्रथमं डौन्लोड् कृत्वा पश्यन्तु ।
14:08 स्पोकन् ट्युटोरियल् गणः अमुं पाठमाधारीकृत्य कार्यशालाः चालयति ।
14:14 ये आन्लैन् परीक्षायामुत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रं यच्छन्ति ।
14:18 विषयेऽस्मिन् अधिकज्ञानाय Contact at spoken hyphen tutorial dot org कृते इ मेल् द्वारा सम्पर्कं

कुर्वन्तु ।

14:24 अयं पाठः टाक् टु अ टीचर् इति परियोजनायाः भागः अस्ति ।
14:28 राष्ट्रीय-सारक्षता-मिषन् ICT, MHRD भारतसर्वकारः द्वारा अस्य प्रकल्पस्य कृते सहयोगः

प्राप्तः वर्तते ।

14:36 अस्य विषये अधिकज्ञानाय अधः दत्तां पर्चनीम् अवलोकयन्तु spoken hyphen tutorial dot org slash

NMEICT hyphen Intro

14:47 अस्य पाठस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकः च श्री नवीनभट्टः उप्पिनपट्टणम् । सहयोगार्थं

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana