Koha-Library-Management-System/C2/Koha-installation-on-Linux-16.04/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Installation of Koha on Ubuntu Linux OS इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:09 अस्मिन् अनुशिक्षणे वयं, Ubuntu Linux OS 16.04 इत्यत्र Koha Library Management System इत्येतत् इन्स्टाल्-करणं ज्ञास्यामः । इन्स्टल्लेषन् जातम् इत्येतत् द्रढयामः ।
00:24 एतत् अनुशिक्षणम् :

Ubuntu Linux आपरेटिङ्ग् सिस्टम्16.04, Koha आवृत्तिः 16.05,

00:35 gedit टेक्स्ट्- एडिटर् तथा Firefox वेब्-बौसर् इत्येतानि उपयुज्य रेकार्ड् कृतम् अस्ति ।
00:41 भवद्भिः, आरम्भात् पूर्वं, भवतां यन्त्रं Ubuntu Linux OS 16.04,
00:50 यत्किमपि टेक्स्ट्-एडिटर्,

Firefox अथवा Google Chrome वेब्-बौसर्, इत्येतद्-युक्तम् अस्तीति कृपया द्रढयन्तु ।

00:57 एतन्निमित्तम् -

i 3 (ऐ ३) अथवा तदपेक्षया नूतनं प्रोसेसर्,

01:05 500GB अथवा तदपेक्षया अधिकं हार्ड् डिस्क्,
01:09 4 GB अथवा तदपेक्षया अधिकं RAM तथा नेट्वर्क्-सम्पर्कः, इत्येताः अपेक्षिताः यन्त्रांशाः ।
01:15 अस्मिन् अनुशिक्षणे उपयुक्तानि कमाण्ड्स्, प्लेयर् इत्यस्य अधः विद्यमाने Code Files पर्चन्यां लभ्यन्ते ।
01:22 मम यन्त्रे, अहम् एतां सञ्चिकां gedit टेक्स्ट्- एडिटर् उपयुज्य उद्घाटितवान् अस्मि । तथा, विवरणकाले कमाण्ड्स् कापि-पेस्ट् कर्तुम्, अहम् अस्याः एव सञ्चिकायाः उपयोगं करोमि ।
01:33 इदानीं वयम् आरम्भं कुर्मः ।

कीबोर्ड् मध्ये Ctrl+Alt+T की मिलित्वा नुत्त्वा टर्मिनल् उद्घाटयन्तु ।

01:43 सर्वादौ, अस्माकं Ubuntu Linux इन्स्टल्लेषन् अप्-टु-डेट् अस्ति इति द्रढनीयम् ।
01:50 एतदर्थम्, एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
01:59 इतःपरं, एतत् इन्स्टल्लेषन्-काले, यदा यदा पृच्छ्यते तदा 'सिस्टम् पास्-वर्ड्’ टङ्कनं कुर्वन्तु, Enter नुदन्तु च ।
02:10 एतत् कमाण्ड्, koha.list इति काञ्चित् सञ्चिकां क्रियेट् करोति तथा 'प्याकेज् रिपासिटरि' (package repository) इत्येतत् अप्-डेट् करोति ।
02:19 कृपया अवलोकयन्तु : अस्य अनुशिक्षणस्य निर्माणावसरे, Koha 16.05 स्थिरा आवृत्तिः (stable version) आसीत् ।
02:28 एतत् कमाण्ड् Code fileतः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter की नुदन्तु ।
02:37 तदा, एतत् gpg.asc सञ्चिकायाः डौन्-लोड्-करणं, signature key इत्यस्य अप्-डेट्-करणं च ।
02:47 एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter की नुदन्तु ।
02:57 इदानीम्, एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter की नुदन्तु ।
03:07 एतत् नूतन 'रिपोसिटरि' इत्येतानि अप्-डेट् करोति ।
03:11 इदानीम्, एवं टङ्कयन्तु : sudo apt-get install koha-common, Enter नुदन्तु च ।
03:22 Do you want to continue? इति पृष्टे सति Y नुदन्तु । Enter नुदन्तु च ।
03:30 एतत् Koha इत्येतत् भवतां यन्त्रे इन्स्टाल्-करोति । इन्स्टल्लेषन् समाप्तिपर्यन्तं निरीक्षन्ताम् । एतत् किञ्चित् समयं स्वीकरोति ।
03:40 इदानीम्, अस्माभिः Kohaनिमित्तं पोर्ट्-सङ्ख्यां परिवर्ययितुम्, conf सञ्चिका किञ्चन 'टेक्स्ट्-एडिटर्' द्वारा उद्घाटनीया ।
03:49 अहं gedit टेक्स्ट्-एडिटर् इत्यस्य उपयोगं करोमि । भवताम् अभीष्टं टेक्स्ट् –एडिटर् भवद्भिः उपयोक्तुं शक्यम् ।
03:57 एतत कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
04:06 सञ्चिका, टेक्स्ट्-एडिटर्-मध्ये उद्घाटिता भवति ।
04:10 INTRAPORT = 80 इति पङ्क्तिम् अभिजानन्तु ।
04:16 80 इत्येतत् 8080 इति परिवर्तयन्तु । एतत् पोर्ट्-सङ्ख्यां 8080 इति परिवर्तयति ।
04:26 अनन्तरं सञ्चिकां सेव् कुर्वन्तु । पिदधतु ।
04:30 टर्मिनल् प्रति आगच्छन्तु ।
04:33 इदानीं, अस्माभिः डेटाबेस् सेट्-अप् करणीयम् ।
04:38 एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल् मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
04:47 Do you want to continue? इति पृष्टे सति Y नुदन्तु । तथैव, Enter नुदन्तु ।
04:57 अनन्तरं, डेटाबेस्-तः root user इत्यस्य पास्-वर्ड् admin123 इति सेट् कुर्वन्तु ।
05:05 भवद्भ्यः अपेक्षितं चेत्, भवन्तः अन्यत्किमपि पास्-वर्ड् दातुं शक्नुवन्ति ।
05:10 एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
05:19 अनन्तरम्, एतत् कमाण्ड्-द्वयम् एकैकशः कापि कृत्वा, तानि टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु च ।
05:26 sudo a2enmod rewrite
05:35 sudo a2enmod cgi
05:43 एतत् 'कोहा'इत्यस्य माड्यूल्स् सक्रियं करोति ।
05:48 ततः. एवं टङ्कयन्तु : sudo service apache2 restart
05:55 एतत् apache services (अपाचे सर्वीसस्) रि-स्टार्ट् करोति । अनन्तरं Enter नुदन्तु ।
06:02 library इत्याख्यं किञ्चन Koha instance इत्येतत् क्रियेट् कर्तुम् – एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
06:16 ततः, port 8080 उपयोगं कुर्वन्तः स्मः इति अस्माभिः 'अपाचे सर्वर्'कृते (Apache server) वक्तव्यम् ।
06:24 एतन्निमित्तम्, अस्माभिः ports.conf सञ्चिका टेक्स्ट् –एडिटर्-मध्ये उद्घाटनीया ।
06:31 एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
06:40 ports.conf सञ्चिकायां, Listen 80 (लिसन् 8 0) इति पङ्क्तिम् अन्विष्यन्तु ।
06:47 अस्याः पङ्क्तेः अनन्तरं, Listen 8080 इति योजयन्तु ।
06:53 अनन्तरं सञ्चिकां सेव् कुर्वन्तु, पिदधतु ।
06:57 ततः apache services इत्येतत् रि-स्टार्ट् कुर्वन्तु ।

एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।

07:10 ततः, एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
07:20 एतत् 000-default सैट् इत्येतत् निष्क्रियं करोति । (disable).
07:27 इदं निष्क्रियम् अस्ति इति अयं सन्देशः द्रढयति । इदानीं वयम् अग्रे गच्छामः ।
07:34 एतत् कमाण्ड्-द्वयम् एकैकशः कापि कृत्वा, तानि टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु च ।
07:41 sudo a2enmod deflate , Enter नुदन्तु च ।
07:52 sudo a2ensite library , Enter नुदन्तु च ।
08:03 टर्मिनल्-मध्ये विद्यमानः सन्देशः, site library इत्येतत् सक्रियतां सम्पादयति (enabled) इति द्रढयति ।
08:10 एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
08:20 ततः एवं टङ्कयन्तु: sudo su (सुडो s u) , Enter नुदन्तु च ।
08:26 वयम् इदानीं superuser (सूपर् यूसर्) इत्युक्ते root user मोड्-मध्ये स्मः ।
08:33 एतत् कमाण्ड् Code file तः कापि कृत्वा तत् टर्मिनल्-मध्ये पेस्ट् कुर्वन्तु । Enter नुदन्तु ।
08:41 यदा पृच्छ्यते तदा पास्-वर्ड् एवं टङ्कयन्तु, admin123 ,Enter नुदन्तु च ।
08:49 वयम् इदानीम् अस्माकं MariaDB प्राम्प्ट् अन्तः स्मः ।
08:54 MariaDB प्राम्प्ट्-मध्ये, एवं टङ्कयन्तु : use mysql सेमिकोलन् , Enter नुदन्तु च ।
09:03 एतत् MariaDB कृते mysql डेटाबेस् इत्येतत् उपयोक्तुं सूचयति ।
09:09 टर्मिनल्-मध्ये दर्शितः सन्देशः, Database changed इति कथयति ।
09:15 अवलोकयन्तु, एतत् MariaDB प्राम्प्ट् mysql इति वदति ।
09:22 इदानीम् अधः विद्यमानं कमाण्ड् जागरूकतया, अत्र यथा दर्शितं तथा टङ्कयन्तु, Enter नुदन्तु च ।
09:30 एतत् यूसर् koha_library निमित्तं, पास्-वर्ड् koha123 इति सेट्-करोति ।
09:39 वयं टर्मिनल्-मध्ये, “Query OK” इति सन्देशं पश्यामः ।
09:45 ततः, एवं टङ्कयन्तु : flush privileges सेमिकोलन्, Enter नुदन्तु । एतत् सद्यःपरिवर्तनानि अप्-डेट् करोति ।
09:58 पुनः वयं “Query OK” इति वदन्तं कञ्चन सन्देशं टर्मिनल्-मध्ये पश्यामः ।
10:04 अन्ते, Mariadb तः बहिः गन्तुं, एवं टङ्कनं कुर्वन्तु : quit सेमिकोलन्, Enter नुदन्तु च ।
10:13 इदानीं वयं पुनः root user प्राम्प्ट्-प्रति आगतवन्तः ।
10:17 वयम् इदानीम् koha-conf.xml सञ्चिकां टेक्स्ट्-एडिटर्-मध्ये उद्घाटयामः ।
10:25 अहं gedit टेक्स्ट्-एडिटर् उपयुज्य एतत् करोमि ।
10:30 एतस्यां सञ्चिकायां, mysql इति कीवर्ड् अन्विष्यन्तु ।
10:37 अधः स्क्रोल् कुर्वन्तु, एतत् पदम् अन्विष्यन्तु च ।
10:41 एतस्य अल्फान्यूमरिक् वेल्यू परतया 'koha123' इति योजयन्तु ।
10:47 एतत्, पूर्वं, टर्मिनल्-द्वारा अस्माकं डेटाबेस्-मध्ये अस्माभिः सेट्-कृतं पास्-वर्ड् इति स्मरन्तु ।
10:55 सञ्चिकां सेव् कुर्वन्तु editor विण्डोपिधानं कुर्वन्तु ।
10:59 इदानीं किञ्चन वेब्-ब्रौसर् उद्घाटयन्तु । अहं Firefox वेब्-बौसर् उद्घाटयामि ।
11:06 अड्रेस्-बार्-मध्ये, एवं टङ्कनं कुर्वन्तु : 127.0.0.1:8080, Enter नुदन्तु च ।
11:21 ब्रौसर्-मध्ये Koha web installer पुटं दृश्यते ।
11:26 लाग्-इन् कर्तुं, अस्माभिः पूर्वं सेट् कृतानि विवरणानि (credentials) उपयुज्यन्ताम् ।
11:31 अहं username , koha_library इति, password , koha123 इति च टङ्कयामि ।
11:42 अकस्मात्, अस्माभिः अन्यत् username , password दत्तं चेत्, तानि टङ्कयन्तु ।
11:48 इदानीम् अधः दक्षिणतः विद्यमानं Login बटन् उपरि क्लिक् कुर्वन्तु ।
11:53 वयं Koha web installer इत्यस्य Step 1 स्तरे स्मः ।
11:58 language ड्राप्-डौन्-मध्ये, डिफाल्ट्-रूपेण, एतावता न चितं चेत्, English निमित्तं en इत्येतत् चिन्वन्तु ।
12:06 इदानीम्, अधः दक्षिणतः विद्यमानं Next बटन् उपरि क्लिक् कुर्वन्तु ।
12:10 एतत् विण्डो, इदानीं सन्देशद्वयं दर्शयति । सर्वाणि Perl modules तथा सर्वाणि dependencies इन्स्टाल्-कृतम् अस्ति इति एते सन्देशाः द्रढयन्ति ।
12:21 अधः दक्षिणतः विद्यमानं Next बटन् उपरि क्लिक् कुर्वन्तु ।
12:25 इदानीं वयं Step 2 – Database settings मध्ये स्मः ।
12:30 अवलोकयन्तु, अत्र विद्यमानं सर्वमपि पूर्वं दतानि वेल्यूस् एव ।
12:36 ततः, अधः Next बटन् उपरि क्लिक् कुर्वन्तु ।
12:40 एतदनन्तरं, “Connection established” इति सन्देशं वयं पश्यामः ।
12:46 ततः, एतत् द्रढयितुम् इतोऽपि सन्देशद्वयं वयं पश्यामः ।
12:51 अधः, Next बटन् उपरि क्लिक् कुर्वन्तु ।
12:54 इदानीं वयं Step 3 स्तरे स्मः ।
12:57 अत्र स्क्रीन्-मध्ये दर्शितं पठन्तु । ततः Next बटन् उपरि क्लिक् कुर्वन्तु ।
13:03 शीघ्रमेव, भवतां स्क्रीन् उपरि Success इति सन्देशं वयं पश्यामः । अस्माकं database tables क्रियेट्-कृतानि सन्ति इति एतत् द्रढयति ।
13:13 इदानीम् अग्रे गन्तुम्, अधः Next बटन् उपरि क्लिक् कुर्वन्तु ।
13:18 अनुक्षणं, वयम् एतत् स्क्रीन्-प्रति आगच्छामः ।
13:21 अत्र दर्शितं टेक्स्ट् पठन्तु । अनन्तरं install basic configuration settings इति पर्चन्याः उपरि क्लिक् कुर्वन्तु ।
13:29 एवं करणानन्तरम्, अस्माभिः MARC flavor इत्येतत् चेतव्यम् इति उच्यते । अहं MARC21 इत्येतत् चिनोमि ।
13:38 ततः अधः Next बटन् उपरि क्लिक् कुर्वन्तु ।
13:42 अस्मिन् स्क्रीन्-मध्ये, अधः Mandatory इति विभागं प्रति स्क्रोल् कुर्वन्तु ।
13:47 अत्र,Default MARC21 चेक्-बाक्स् चितानि सन्ति इति वयं पश्यामः ।
13:54 Optional विभागस्य अधः, अत्र यथा दर्शितं तथा आप्षन्स् चिन्वन्तु ।
14:01 अधः स्क्रोल् यावता कुर्मः, Other data इत्यस्य अधः, सर्वाणि चेक्-बाक्स् इदानीमेव चितानि सन्ति इति वयं पश्यामः ।
14:09 पुटस्य अधः अन्त्यपर्यन्तं स्क्रोल्-कुर्वन्तः भवन्तु ।
14:13 अत्र अधः, अत्यन्तं दीर्घम् अन्यः कश्चन Optional विभागः अस्ति ।
14:18 अत्र, “Some basic currencies” इति आप्षन्स् अभिजानन्तु तानि चिन्वन्तु च ।
14:24 ततः, “Useful patron attribute types” इति आप्षन् चिन्वन्तु ।
14:30 इदानीं पुटस्य अधः कोणं गत्वा Import बटन् उपरि क्लिक् कुर्वन्तु ।
14:36 'कोहा'मध्ये चितानि सर्वाणि कार्याचरणानि (functionalities) एतत् सक्रियं करोति ।
14:41 वयम् इदानीं नूतनं पुटं प्रति आगतवन्तः स्मः । अस्मिन् पुटे, अधः स्क्रोल् कुर्वन्तु, स्क्रीन् उपरि प्रदर्शितं सर्वं टेक्स्ट् पठन्तु ।
14:50 All done” इति कञ्चन सन्देशं वयं द्रष्टुं शक्नुमः ।
14:54 इदानीं Finish बटन् उपरि क्लिक् कुर्वन्तु ।
14:57 अस्माकं स्क्रीन् उपरि, वयं कञ्चन सन्देशं पश्यामः । अस्माकम् इन्स्टल्लेषन् यशस्वी इति एतत् द्रढयति ।
15:04 इदानीम् अस्मान् Koha इन्टर्फेस् प्रति प्रेषयन्ति ।
15:08 username , koha_library इति, तथा password , koha123 इति टङ्कयन्तु ।
15:16 ड्राप्-डौन्-तः My Library चिन्वन्तु ।
15:20 ततः Login बटन् उपरि क्लिक् कुर्वन्तु ।
15:23 वयं Koha Administration पुटं प्रति आगताः स्मः ।
15:27 अस्मिन् पुटे, विविधानि टेब्स् वयं द्रष्टुं शक्नुमः ।
15:31 एतानि कथम् उपयोक्तव्यानि इति अस्यां सरणौ वयम् अनन्तरं पठिष्यामः ।
15:37 इदानीं, No Library Set उपरि क्लिक् कुर्वन्तु, Logout आप्षन् चिन्वन्तु च ।
15:45 एतेन वयम् अस्य अनुशिक्षणस्य अन्त्यं प्राप्तवन्तः । अय सारांशः एवम् अस्ति ।
15:50 अस्मिन् अनुशिक्षणे वयं, Ubuntu Linux OS 16.04 इत्यत्र Koha Library Management System इत्येतत् इन्स्टाल् कर्तुं, इन्स्टल्लेषन् जातमिति द्रढयितुं च ज्ञातवन्तः ।
16:03 अस्यां पर्चन्यां विद्यमानं चलच्चित्रं, स्पोकन् ट्युटोरियल्-योजनायाः सारांशभूतम् अस्ति । कृपया डोन्-लोड् कृत्वा पश्यन्तु ।
16:12 स्पोकन् ट्युटोरियल् योजनागणः कार्यशालाः चालयति प्रमाणपत्राणि च ददाति ।अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
16:22 भवतां प्रश्नान् निमेष-सेकेण्ड्-सहितम् अस्मिन् फोरम् इत्यत्र पोस्ट् कुर्वन्तु ।
16:26 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारस्य धनसाहाय्यं प्राप्तवती अस्ति । अस्य विषये अधिकं विवरणम् अस्यां पर्चन्याम् अस्ति ।
16:39 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana