Java/C3/Custom-Exceptions/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 custom exceptions इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 पाठेऽस्मिन् वयं : Custom exceptions अपि च throw तथा throws keywords अनयोः विनियोगञ्च ज्ञास्यामः ।
00:14 पाठस्यास्य रेकोर्ड्-कर्तुमहम् :Ubuntu Linux 16.04 OS JDK 1 .7 अपि च Eclipse 4.3.1 एतानि उपयुञ्जे ।
00:26 पाठस्यास्य अभ्यासाय भवद्भिः Java मध्ये Exceptions Handling विषयाः ज्ञाताः स्युः । न चेत् तत्सम्बद्धपाठार्थं अधस्तन लिङ्क् पश्यन्तु ।
00:38 वयमादौ custom exceptions विषयं ज्ञास्यामः ।
00:42 Custom exception इतीदमेकं user defined exception class वर्तते । इदं सामान्यतया checked exceptionsरूपेण रचितम् ।
00:51 उपयोक्तॄणां आवश्यकतानुसारेण exception इतीदं कस्टमैस् कर्तुं इदम् उपयुज्यते ।
00:57 वयमदुना एक्लिप्स्उपयुज्य, CustomExceptionDemo नाम्नः प्रकल्पं रचयाम ।
01:04 प्रकल्पे custom exceptions इत्यस्य प्रदर्शनाय, आवश्यकानि क्लासस् वयं रचयाम ।
01:11 वयं नूतनं InvalidMarkException रचयाम ।
01:15 इदमेकं एक्सेप्शन् क्लास् कर्तुं, इदं जावा एक्सेप्शन् क्लास् इत्यस्य सब् क्लास् भवेत् ।
01:22 तत्कर्तुं extends Exception इति टङ्कयन्तु ।
01:27 Source मेन्यु उपरि नुत्वा Generate constructors from Superclass चिन्वन्तु ।
01:34 अधुना दक्षिणपार्श्वे Deselect All गण्डं नुदन्तु ।
01:38 पश्चात् सिङ्गल् स्ट्रिङ्ग् आर्ग्यूमेण्ट् इत्यनेन सह constructor चित्वा अधस्तात् OK बटन् नुदन्तु ।
01:45 इदं स्ट्रिङ्ग् आर्ग्यूमेण्ट्इतीदं, दर्शितं सन्देशं, यदा exception सम्भवति तदा कस्टमैस् कर्तुम् उपयोक्तुमर्हति । <<PAUSE>>
01:52 वयं पुनः StudentMarks नाम्नः क्लास् रचयाम ।
01:57 पश्चात् अधस्तन कोड् टङ्कयन्तु ।
02:00 इदं क्लास् केवलं marks नाम्नां वेरियेबल् प्राप्तवदस्ति ।
02:04 इदं कन्स्ट्रक्टर्, marks इत्यस्य मूल्यम् इनिशियलैस् करोति ।
02:09 अधुना marks इतीदं validate कर्तुम् एकं मेथड् संयोजयाम ।
02:13 marks इत्यस्य नोर्मल् रेञ्ज् इतीदं 0 to 100 वर्तते ।
02:18 यदि marks इतीदं 0 तः न्यूनम् अथवा 100 तः अधिकं वर्तते तर्हि, InvalidMarkException इतीदं क्षिप्यते ।
02:25 एतदर्थम् अस्माकं throw keyword आवश्यकं, येन एकं custom exception इतीदं क्षिप्यते ।
02:33 यदि मार्क् इतीदं वेलिड् वर्तते तर्हि “Entry OK” इति सन्देशः दृश्यते ।
02:39 InvalidMarkException इति दोषं वयं पश्यामः ।
02:43 एतत् परीक्ष्य परिहारं कुर्मः ।
02:46 अतः दोषस्योपरि नुत्वा “Add throws declaration” इत्यस्योपरि डबल्-क्लिक् कुर्वन्तु ।
02:51 वयं पश्यामः यत्, यदा“throws InvalidMarkException” इतीदं, मेथड् signature इत्यस्मै संयुज्यते तदा, दोषः तिरो भवति ।
03:00 पश्यामः यत्, throws कीवर्ड् इतीदं मेथड्स् इत्येतैः सह वर्तते इति।
03:06 इदं सूचयति यत्, मेथड् इतीदं ,specified exception इतीदं रैस् करोतीति ।
03:11 यदा अस्माभिः एतादृशं मेथड् काल् क्रियते तदा एक्सेप्शन् हेण्ड्लिङ्ग् कोड् अस्माभिः दातव्यम् ।
03:16 व्यमधुना एकं फैल् एक्सेस् ओपरेशन् कुर्मः, येन फैल् नोट् फ़ौण्ड् एक्सेप्शन् इतीदं रैस् जायते ।
03:23 अतः अधस्तन कोड् टङ्कयित्वा, FileReader क्लास् इत्यस्य इन्स्टेन्स् एकं रचयन्तु ।
03:29 एक्लिप्स् इतीदं दोषं दर्शयति, यतः वयं तत्सम्बद्धानि जावा पेकेजस् इतीमानि इम्पोर्ट् न कृतवन्तः ।
03:36 तद्दोषं निवारयितुं दोषं नुत्वा, import 'FileReader' (java.io) इत्यस्योपरि डबल् क्लिक् कुर्वन्तु ।
03:44 वयं पेकेज्-विषयं तस्य विनियोगञ्च अग्रे ज्ञास्यामः ।
03:50 fr इतीदम्, होम्-फोल्डर्-मध्यस्थां Marks इति सञ्चिकाम् एक्सेस् कर्तुम्, अधस्तन कोड् टङ्कयन्तु ।
03:59 अत्र दर्शितं पात्, भवतः व्यवस्थायाः, होम् फोल्डर् इत्यनेन आदेशः स्यात् ।
04:05 अत्र दोषः दर्शयति यत्, कोड्-पङ्क्तिः FileNotFoundException इतीदं रैस् कर्तुं शक्नोति ।
04:10 वयं throws clauseमध्ये अस्य संयोजनेन एतन्निवारयितुं शक्नुमः ।
04:16 वयं पश्यामः यत्, throws clause इत्यस्मै, FileNotFoundException इतीदं संयोजितमिति ।
04:22 एवं वयं throws इतीदमुपयुज्य, बहूनि exceptions इत्येतेषां निर्वहणं कुर्मः ।
04:28 वयमधुना StudentMarks क्लास्-मध्ये, मेन् मेथड् इतीदं फलितपरीक्षणाय रचयाम ।
04:34 अत्र वयं m1 इति ओब्जेक्ट् रचयामः, यत् marks इत्यस्य मूल्यत्वेन 40 इत्यनेन इनिशियलैस् जातम् ।
04:41 अग्रिमपङ्क्तौ m1 ओब्जेक्ट् इतीदम् उप्युक्य, validate मेथड् इतीदम् इन्वोक् कुर्मः ।
04:47 validateमेथड् इत्यस्य इन्वोक्-करणकाले वयमेकं दोषं पश्यामः ।
04:52 अयं वदन्नस्ति यत् मेथड् इतीदं, InvalidMarkException तथा FileNotFoundException च रैस् करोति ।
04:59 दोषपरिहाराय पूर्ववद्वयं, मेन् मेथड् इत्यस्मै, throws clause इत्यस्य संयोजनं कुर्मः ।
05:05 try तथा catch block अनयोः उपयोगः अपेक्षितः ।
05:10 अतः Surround with try/catch इत्यस्योपरि डबल्-क्लिक् कुर्वन्तु ।
05:14 अधुना आवश्यकानि try-catch blocks इतीमानि संयोजितानि अपि च एक्सेप्शन् इत्यस्य निर्वहणं कृतम् ।
05:20 अधुना प्रोग्राम् इतीदं रन् कुर्मः ।
05:23 इदं “Entry OK” अपि च “rest of the code” इति दर्शयति ।
05:27 marks इत्यस्य मूल्यं 40 इति यदस्ति तत् अर्थवत् वर्तते इत्यतः एवं सम्भवति ।
05:32 अधुना वयं मूल्यं -10 इति परिवर्तयाम, यत् अपुष्टं(invalid) वर्तते ।
05:37 पुनः वयं प्रोग्राम् रन् कुर्मः ।
05:40 यतः -10 इतीदं अपुष्टं (invalid) वर्तते, InvalidMarkException इतीदं थ्रौन् जातम् ।
05:47 यतः वयं एक्सेप्शन् इत्यस्य निर्वहणं कृतवन्तः ततः “rest of the code” इति सन्देशः दृश्यते ।
05:53 यदि अस्माभिः “throws” clause इतीदं नोपयुक्तं अभविष्यत् तर्हि, “rest of the code” इति सन्देशोऽपि मुद्रितः नाभविष्यत् ।
06:00 अपि च प्रोग्राम् अपि समाप्तम् अभविष्यत् ।
06:03 अतः try catch block इत्यस्योपयोगः अपि वरं, यदि मेथड् इतीदं मेन्-मेथड् इत्यस्यान्तः काल् क्रियते ।
06:10 अनेन वयं पाठस्यान्तम् आगतवन्तः ।
06:13 सारं पश्यामः ।
06:15 अस्मिन् पाठे वयं: Custom Exceptionनाम किमिति, throw अपि च throws keywordsइत्यस्योपयोगं, custom exceptions इत्यस्य रचनां विनियोगञ्च ज्ञातवन्तः ।
06:26 पाठनियोजनम् : InvalidAgeException नाम्नः custom exception class रचयन्तु ।
06:33 अन्यं Age नाम्नः क्लास् रचयित्वा वयसः मूल्यम् इनिशियलैस् कर्तुम् एकं constructor रचयन्तु ।
06:39 अपि च validateइति मेथड्, यदि वयः 18 इत्यस्मात् न्यूनमस्ति तर्हि exception थौन् कर्तुं रचयन्तु ।
06:45 main method इत्यस्यान्तः ओब्जेक्ट् रचयन्तु । validate() मेथड् इतीदम् इन्वोक् कुर्वन्तु च ।
06:51 यत्रावश्यकं तत्र try-catch blocks उपयुज्य, exception handling इतीदं समर्पयन्तु ।
06:56 custom exception class इतीदं वेरिफ़ै कुर्वन्तु ।
07:00 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
07:06 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
07:18 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु ।
07:29 पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा कृतम् ।
07:36 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14