Java/C2/Constructor-overloading/Sanskrit
From Script | Spoken-Tutorial
| Time | Narration |
| 00:03 | जावा-मध्ये कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम् । |
| 00:08 | पाठेऽस्मिन् वयम्, |
| 00:10 | किं नाम कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् इति, |
| 00:13 | तथा कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् कथं करणीयमिति च ज्ञास्यामः । |
| 00:16 | वयमत्र Ubuntu version 11.10, Java Development kit 1.6 तथा Eclipse 3.7.0 च उपयुञ्ज्महे । |
| 00:27 | पाठमिदमनुसर्तुं भवन्तः , |
| 00:30 | जावामध्ये एक्लिप्स् उपयुज्य कन्स्ट्रकटर् रचयितुं समर्थाः भवेयुः । |
| 00:34 | न चेत् तत्सम्बद्धपाठार्थम् अधोनिर्दिष्ट-जालपुटं पश्यन्तु । www.spoken-tutorial.org |
| 00:40 | कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् नाम किम् ? |
| 00:43 | क्लास् एकस्य अनेक-कन्स्ट्रक्टर्-डिफैन्-करणम् । |
| 00:46 | पेरामीटर्-प्रकारः अपि च पेरामीटर्-सङ्ख्ययोः व्यत्यासः भवेत् । |
| 00:50 | वयमधुना कन्स्ट्रक्टर्-ओवर्लोड् कथं क्रणीयमिति पश्याम । |
| 00:54 | एक्लिप्स्-मध्ये अहं द्वे वेरियेबल् तथा एकं मेथड्-युक्तं Class Student इति क्लास् एकं रचितवानस्मि । |
| 01:03 | आदौ वयं पेरमीटरैस्ड्-कन्स्ट्रक्टर् एकं रचयाम । |
| 01:07 | तदर्थं Student इति टङ्कयित्वा ब्रेकेट्-मध्ये int number कोमा String the_name इति टङ्कयतु । |
| 01:26 | कर्लि-ब्रेकेट्-मध्ये roll_number समं number सेमिकोलन्, |
| 01:38 | अपि च name समं the_name सेमिकोलन् इति टङ्कयतु । |
| 01:46 | एवं वयं पेरामीटर्-द्वययुक्तं कन्स्ट्रक्टर् एकं रचितवन्तः स्मः । |
| 01:51 | अधुना कन्स्ट्रक्टर्-काल् कुर्मः । |
| 01:53 | अतः main मेथड्-मध्ये new Student इति टङ्कयित्वा पेरन्थिसिस् अपि च सेमिकोलन् नुदतु । |
| 02:03 | वयम् “constructor Student is undefined ” इति दोषं प्राप्नुमः । |
| 02:10 | वयं पेरामीटर्-द्वययुक्तं कन्स्ट्रक्टर् इदं डिफैन् कृतवन्तः । |
| 02:16 | किन्तु पेरामीटर्-रहितं कन्स्ट्रक्टर् इदं काल् कृतवन्तः । अतः दोषः प्राप्तः । |
| 02:22 | अतः अस्माभिः आर्ग्युमेण्ट्स्, प्रेषयितव्यानि । |
| 02:28 | अतः ब्रेकेट् मध्ये 22 कोम डबल्-कोट्स्-अन्तः Ram इति टङ्कयतु । |
| 02:33 | अधुना दोषः परिहृतः । |
| 02:36 | अधुना मेथड्-काल् कुर्मः । |
| 02:38 | अतः new अस्य पृष्टतः Student s समम् new student इति टङ्कयतु । |
| 02:45 | अधुना ओब्जेक्ट् 's' इदं उपयुज्य ' studentDetail() इति मेथड् इदं पुनः काल्-करोतु । |
| 02:53 | अधुना सञ्चिकां रक्षयित्वा रन् करोतु । |
| 02:58 | वयं 22 अपि च Ram इति फलितं पश्यन्तः स्मः । |
| 03:03 | वयमधुना पेरामीटर् रहितं कन्स्ट्रक्टर् डिफैन् कुर्मः । |
| 03:07 | Student इति टङ्कयित्वा पेरन्थिसिस् स्थापयतु । |
| 03:12 | कर्लि ब्रेकेट्-मध्ये roll_number समम् 0 इति टङ्कयतु । |
| 03:21 | अपि च name समं, डबल्-कोट्स् मध्ये हैफन् टङ्कयतु । इदं नामरहितमिति सूचयति । |
| 03:30 | अधुना वयं पेरामीटर्-रहितं कन्स्ट्रक्टर् काल् कुर्मः । |
| 03:35 | अतः Student s1 समम् new Student इति टङ्कयित्वा, पेरन्थिसिस् सेमिकोलन् च नुदतु । |
| 03:47 | पेरामीटर्-रहितं कन्स्ट्रक्टर् रचितमस्माभिः, अतः अधुना दोषाः न सन्ति । |
| 03:55 | s1 डाट् studentDetail इति टङ्कयतु । |
| 04:01 | सञ्चिकां रक्षयित्वा रन् करोतु । |
| 04:04 | अतः वयम् 0 अपि च डेश् इति फलितं प्राप्नुमः । डीफोल्ट्-कन्स्ट्रक्टर् अपि काल् अभवत् । |
| 04:11 | इदमेव कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् । |
| 04:13 | वयम् अन्यदन्यत्-पेरामीटर्-युक्तं कन्स्ट्रक्टर्-द्वयं प्राप्तवन्तः । |
| 04:17 | स्वभावतः एव कन्स्ट्रक्टर्स्-द्वयमपि एकमेव नाम प्राप्नोत् । |
| 04:20 | पेरामीटर् एषां प्रकारानुसारं तथा सङ्ख्यानुसारं कन्स्ट्रक्टर् काल् भवति । |
| 04:26 | वयमधुना कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् अस्य प्रयोजनानि पश्यामः । |
| 04:30 | अस्माभिः पेरामीटर्-द्वयात्मकं-कन्स्ट्रक्टर् काल् क्रियते चेत् किं भवतीति पश्यामः । |
| 04:35 | तदर्थं Student s3= new Student(); इति टङ्कयतु । |
| 04:51 | यदि ब्रेकेट् अस्यान्तः name आर्ग्युमेण्ट् लिखित्वा तदनन्तरं “roll number” टङ्कयते चेत्तर्हि, |
| 04:58 | किं भवतीति पश्यामः । डबल्-कोट्स् मध्ये Raju कोमा 45 इति टङ्कयतु । |
| 05:08 | वयं constructor student with the parameter String , int is undefined. इति दॊषं प्राप्नुमः । |
| 05:18 | वयमधुना कन्स्ट्रक्टर् डिफैन् कुर्मः । |
| 05:22 | तदर्थं Student इति टङ्कयित्वा ब्रेकेट्-मध्ये String the_name कोमा int r_no इति टङ्कयतु । |
| 05:42 | अत्र प्रथमं पेरामीटर् string अपि च द्वितीयं पेरामीटर् int च स्तः । |
| 05:52 | कर्लि-ब्रेकेट् मध्ये roll_number समम् r_no; |
| 06:05 | अपि च name समम् the_name ; इति टङ्कयतु । |
| 06:15 | व्यवस्थां रक्षयतु । |
| 06:18 | अधुना दोषः परिहृतः । |
| 06:22 | अधुना मेथड् इदं काल् कुर्मः । |
| 06:24 | s3 डोट् StudentDetail; इति टङ्कयतु । |
| 06:29 | सञ्चिकां रक्षयित्वा रन् करोतु । |
| 06:35 | अधुना 45 अपि च Raju इति फलितं प्राप्नुमः । |
| 06:40 | यदा अस्माभिः कन्स्ट्रक्टर्-काल् क्रियते तदा, |
| 06:43 | पेरामीटर् विषये चिन्तनीयमिति नास्ति । |
| 06:47 | किमर्थमित्युच्यते - अन्यदन्यत्-पेरामीटर्-युक्तनि अन्यदन्यत्-कन्स्ट्रक्टर्स् अस्माभिः डिफैन् कृतानि सन्ति । |
| 06:54 | अतः सम्यक्-कन्स्ट्रक्टर् ओवर्लोड् सम्भवति । |
| 06:57 | अथः वयमधुना एकमेव पेरामीटर्-युक्तं कन्स्ट्रक्टर् एकं डिफैन् कुर्मः । |
| 07:02 | तत्तु roll number इति स्यात् । |
| 07:05 | Student इति टङ्कयित्वा ब्रेकेट् मध्ये int num इति टङ्कयतु । |
| 07:16 | कर्लि-ब्रेकेट्-मध्ये roll_number समम् num; इति टङ्कयतु । |
| 07:25 | अपि च name समम् no name; |
| 07:33 | अधुना कन्स्ट्रक्टर्-काल् कुर्मः । |
| 07:43 | अतः वयम् अधुना आर्ग्युमेण्ट् एकमेव पास् कुर्मः । Student s4 समम् new Student (61) ; इति टङ्कयतु । |
| 08:04 | तदनन्तरं s4 डोट् studentDetail |
| 08:10 | सञ्चिकां रक्षयित्वा रन् करोतु । |
| 08:14 | अतः वयं 61 तथा no name इति फलितं प्राप्नुमः । |
| 08:21 | new यदा एक्सिक्यूट् सम्भवति तदा कन्स्ट्रक्टर्-ओवर्लोड् अपि सम्भवति । |
| 08:27 | पेरामीटर् अनुसृत्य , यथायोग्यं कन्स्ट्रक्टर् ओवर्लोड् सम्भवति । |
| 08:33 | एवं कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-प्रक्रिया प्रचलति । |
| 08:40 | एवं पाठेऽस्मिन् वयम्, |
| 08:42 | कन्स्ट्रक्टर्-ओवर्लोडिङ् विषयम्, |
| 08:45 | कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-विधानं च ज्ञातवन्तः । |
| 08:50 | स्वावलोकनार्थम्, 'Employee' क्लास् अस्मै बहूनि कन्स्ट्रक्टर्स् रचयित्वा ओवर्लोड् करोतु । |
| 08:58 | स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं, |
| 09:00 | कृपया अधो विद्यमानं विडीयो पश्यन्तु। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
| 09:06 | एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
| 09:09 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
| 09:12 | spoken tutorial team |
| 09:15 | पाठमिदमुपयुज्य कार्यशालां चालयति। |
| 09:17 | ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति । |
| 09:20 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
| 09:26 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
| 09:30 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
| 09:35 | अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। |
| 09:43 | वयं पाठस्यान्तं प्राप्तवन्तः । |
| 09:46 | धन्यवादाः । अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् । |