GIMP/C2/Using-Layers-Healing-Cloning-Tools/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:21 Meet the GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:25 पूर्वस्मिन् पाठे वयं चित्रमिदम् आधृत्य अधीतवन्तः ।
00:30 चित्रेऽस्मिन् नौकामिमां किञ्चित् गाढतमां कर्तुम् इच्छामि ।
00:34 Layers इत्यस्य उपयोगेन तत् सरलतया कर्तुं शक्नुमः ।
00:40 अतः प्रथममहं चित्रे यत्र नौका अस्ति तत्र उपसर्पणं (zoom in) करोमि ।
00:52 अपि च अहं New Layer इत्यत्र नुत्वा नूतनं स्तरं (layer) योजयामि ।
01:01 अहम् एतं स्तरं 'ship' इति नाम्ना अङ्कयित्वा Layer Fill Type इत्यत्र Transparency इतीदं चिनोमि ।
01:11 अधुना, अग्रिमपदं, तिसृणां वर्णवाहिनीनां प्रकाशन्यूनीकरणम् । तत्कर्तुमहं Multiply दशाम् (mode) उपयुञ्जे ।
01:22 अहम् अन्यवर्णैः सह गुणयितुं धूसरवर्णम् उपयुञ्जे । यतोहि, इदम्, अस्मिन् चित्रे गाढतमां नौकां प्राप्तुं सहायकमस्ति ।
01:34 अतः, color selection mode इत्यत्र गत्वा, उत्तमधूसरवर्णस्य प्राप्तिपर्यन्तम् अवसर्पिणीम् अधः कर्षयन् धूसरवर्णस्य मूल्यं न्यूनीकरोमि ।
01:52 अपि च अधुना चित्रे धूसरवर्णं कर्षयतु, गाढतमनौकया सह अत्यन्तं गाढतमचित्रं भवान् प्राप्नोति ।
02:02 Layers इतीमां संवादपेटिकां प्रति आगत्य, अहं opacity अवसर्पिण्याः साहाय्येन, धूसरवर्णस्य स्तरस्य उद्घाटन-पिधानपूर्वकं धूसरवर्णगाढतायाः नियन्त्रणं करोमि ।
02:18 किन्तु, स्तरस्य परिणामः समग्रचित्रे अन्वितो भवति । अहं, परिणामं नौकायाः स्थलपरिमितं कर्तुमिच्छामि ।
02:28 तत्कर्तुमहं स्तर-वर्णिकाम् (layer-mask) उपयुञ्जे ।
02:31 स्तर-वर्णिका इतीयं, स्तरः यत्र दृग्गोचरः भवेत् अपि च यत्र न भवेदिति निरूपयति ।
02:38 अहं ship इति नामाङ्कितं स्तरं गत्वा तस्योपरि दक्षिणनोदनं (right click) करोमि । अपि च अनन्तरं Add Layer Mask इतीदं विकल्पं चित्वा Initialize Layer Mask इत्यत्र Black इतीदं चिनोमि । यतोहि कृष्णः सर्वान् स्तारान् गोपयितुं, श्वेतः च सर्वान् स्तरान् प्रदर्शयितुं साहाय्यं करोति ।
02:58 अपि च अहम् एतान् अन्यविकल्पान् आगामि पाठेषु कथयिष्यामि । Add इत्यस्योपरि नुदन्तु ।
03:08 परिणामरहितं स्तरं भवान् द्रष्टुं शक्नोति ।
03:11 अहं स्तरम् उद्घाटयितुं पिदधातुं च शक्नोमि । किन्तु, layer mask इत्यस्य योजनोत्तरं कोऽपि परिणामः नास्ति ।
03:18 किन्तु, अहं स्तर-वर्णिकायां रङ्गसेचनम् (paint) अथवा अन्यसम्पादनसाधनानि उपयोक्तुं शक्नोमि ।
03:24 अपि च यदा अहं रङ्गसेचनम् अथवा साधनानि उपयुञ्जे तदा चित्रे तस्य परिणामः आविर्भूतः भवति ।
03:31 स्तरे रङ्गसेचनं कर्तुम् अहं पुरोदेशस्थश्वेतं पृष्ठदेशस्थकृष्णवर्णं च उपयुञ्जे ।
03:41 अहं Brush इति साधनस्योपरि नुत्वा विकल्पसाधनपेटिकां (option dialog) गच्छामि । अपि च Circle इत्यत्र 19 चित्रकणयुक्तं कूर्चं (brush) चिनोमि ।
03:54 पुनरहं, स्तर-वर्णिका चिता अस्ति इति परिशीलयितुं Layers इतीमां साधनपेटिकां गच्छामि । यतोहि अहं स्तर-वर्णिकायाः रङ्गसेचनं कर्तुमिच्छामि न तु स्तरम् ।
04:06 भवते अहं परिणामं दर्शयामि ।
04:09 अहं Normal स्तरदशां प्रति स्तरदशां परिवर्तयामि । अपि च चित्रे पुरोवर्तिस्तरः अदृश्यं गतः इति भवान् द्रष्टुं शक्नोति ।
04:18 अहमत्र कूर्चं चित्वा तथैव नौकायाः उपरि क्वचित् भागे रङ्गसेचनम् आरभामि । अपि च भवान् धूसरवर्णस्य आविर्भावं द्रष्टुं शक्नोति ।
04:30 यदा अहं स्वयं स्तरं चित्वा रङ्गसेचनम् आरभामि तदा भवान् स्तरः श्वेतेन रङ्गसिक्तः अस्ति अपि च धूसरे नास्तीति द्रष्टुं शक्नोति ।
04:41 पुनः अहं स्तरवर्णिकां चित्वा ‘x’ इति कीलकस्य नोदनेन पुरोदेशवर्णं कृष्णम् अपि च पृष्ठदेशवर्णं श्वेतं प्रति परिवर्तयामि ।
04:51 अपि च स्तरवर्णिकायां श्वेतवर्णेन रङ्गसेचनम् आरभामि ।
04:55 अपि च कृष्णवर्णस्य कारणेन चित्रं गुप्तमस्ति ।
05:04 ctrl + z इति कीलकनोदनेन अहम् अनपेक्षितपरिणामान् undo इतीदं कर्तुं शक्नोमि । अत्र वयं नौकायाः स्तर-वर्णिकायाः रङ्गसेचनं कर्तुं प्रवृत्ताः स्मः ।
05:14 इदानीमहं पृष्ठदेशवर्णं कृष्णं, पुरोदेशवर्णं श्वेतं प्रति परिवर्तयामि । नौकायाः आकारं पूरयितुम् आरभे ।
05:29 Normal दशायां रङ्गसेचनं कर्तुम् अतिसुलभम् अस्तीति अहं चिन्तये ।
05:34 यथा वयं Normal दशायां रङ्गसेचनं कुर्मः तथोत्तरं धूसरवर्णीयां नौकां प्राप्नुमः । पृष्ठदेशतः Multiply स्तरदशायाः भेदं (differentiate) कर्तुं बहु सुलभमस्ति ।
05:55 नौकायाः सूक्ष्म-प्रान्तेषु (edge) रङ्गसेचनं कर्तुमहं कूर्चस्य आकारं न्यूनीकरोमि ।
06:01 लघुकूर्चं चेतुं त्रीणि भिन्नविधानानि सन्ति ।
06:06 प्रथमं तावत्, मापकम् उपयुज्य कूर्चस्य आकारन्यूनीकरणम् ।
06:12 द्वितीयविधानम्, अत्र नीलवर्णीयं लघु त्रिकोणं नुत्वा कस्मिँश्चिदाकारे विद्यमानकूर्चस्य चयनम् अथवा चतुष्कोणावरणस्य (square brackets) टङ्कणद्वारा तत् कर्तुं शक्यते ।
06:27 उद्घाटित-चतुष्कोणावरणम् ('Open square bracket') इतीदं कूर्चस्य आकारं न्यूनीकरोति तथैव पिहित-चतुष्कोणावरणम् ('close square bracket') इतीदं कूर्चस्य आकारं वर्धयति ।
06:40 अहं विवरणार्थं लघुकूर्चम् उपयुञ्जे, अतः उद्घाटित-चतुष्कोणावरणं नुदामि ।
06:47 किन्तु, अहमत्र किं करोमि इति भवान् ऊहितुं शक्नोति । अपि च समग्रनौकायाः रङ्गसेचनं कर्तुं मदर्थं प्रतीक्षा नैव अनिवार्या ।
07:00 इदानीमहं समग्रनौकायाः धूसर-स्तरेण रङ्गसेचनं कर्तुं समापितवान् ।
07:05 अपि च, यस्मिन् प्रान्ते मया अधिकं रङ्गसेचनं कृतमस्ति तादृशस्थानानि परिशीलनीयानि सन्ति ।
07:11 अतः अहं स्तर-दशातः (layer mode) Multiply दशां प्रति परिवर्त्य opacity अवसर्पिणीं न्यूनां करोमि ।
07:19 चित्रे यथा गाढतमनौका प्राप्येत तथा अहं opacity अवसर्पिणीं व्यवस्थापयामि ।
07:26 अहं उत्तमं कार्यं कृतवान् इति चिन्तये ।
07:30 किन्तु, नौकायाः पुरोभागस्थनद्याः उपरितनभागस्य विषये अहं सन्तुष्टः नास्मि ।
07:37 अहं तत् स्थानं, किञ्चित् अधिकप्रकाशयुक्तं कर्तुमिच्छामि ।
07:42 अतः अहं x कीलकं नुदन् पुरोदेशवर्णं कृष्णं प्रति परिवर्तयामि । अपि च नौकापेक्षया गाढतां न्यूनीकर्तुम् अहं नौकायाः पुरोभागस्थनद्याः उपरितनभागस्य कृष्णेन रङ्गसेचनम् आरभे ।
08:04 अस्य चित्रस्य कार्यसमाप्तेः परं एकधा परिणामः परिशीलनीयः अस्ति । तदनुगुणं मया परिवर्तनीयानि करणीयानि ।
08:13 मया कृतं कार्यम् इदानीं वयं परिशीलयामः ।
08:17 सर्पक-दशाम् (zoom mode) उपयुज्य चित्रे अहम् उपसर्पणं करोमि । opacity अवसर्पिणीं कर्षयन् नौकां गाढतमां कुर्वन् प्रकाशयुक्तां करोमि ।
08:29 इदं सम्यक् दृश्यते इति भावये । स्तरमेतं वर्णिकां कुर्वन् अहमुत्तमं कार्यं कृतवान् ।
08:38 किन्तु, अहं नौकायाः वर्णः किञ्चित् मन्दः (dull) इति चिन्तये । इदं साध्यं, यतः 'ship' स्तरः 'colour correction layer' इत्यस्य उपरि विद्यते । अपि च इमौ 'ship' स्तरस्य पूर्वं कार्यं कुरुतः, अतः अहं 'ship' स्तरं 'colour correction layer' इत्यस्य अधः स्थापयामि ।
08:59 भवान् परिवर्तनं द्रष्टुं शक्नोति यत्, नौकायाः वर्णः इदानीं तटस्थः अभवत् ।
09:06 इदानीमहं समग्रं चित्रं पश्यामि । Shift+ Ctrl +E इतीदं झटिति (short) प्राप्यमाणं कीलकम् अस्ति ।
09:14 पृष्ठदेशवर्णः, पक्षि-नौकयोः मध्ये उत्तमम् अन्तरं रक्षितमस्ति इति भावये । प्रायः नौकायाः गाढतायाः न्यूनीकरणद्वारा अवसर्पिणी किञ्चित् अधः करणीया ।
09:28 इदानीम् इदं सम्यक् दृश्यते ।
09:38 इदम् अत्युत्तममस्ति इति मे भावना ।
09:45 यदा अहं चित्रं गाढताम् अकृत्वा तुलनां करोमि, तदा नौकास्तरः, पक्षिणः, नौका च नौकास्तरे गाढतमाः एव भवन्ति । स्तर-वर्णिकाम् उपयुज्य अस्य चित्रस्य फलितम् उत्तममेव प्राप्तमिति मे भावना ।
10:00 सर्वेषां स्तरसाधनानां (layer tools) साहाय्येन अहं परिणामान् इच्छानुसारं परिवर्तयितुं शक्नोमि ।
10:08 अहं बहु तीक्ष्णप्रान्तेन स्तर-वर्णिकायाः रङ्गसेचनं कृतवानिति कदाचित् विस्मृतवान् । यदा चित्रे उपसर्पणं करोमि तदा भवान् तत्र hard border इतीदं द्रष्टुं शक्नोति, अपि च तत् मह्यं किञ्चित् मृदुत्वेन अपेक्षते ।
10:27 यतोहि इदं किञ्चित् कृतकं दृश्यते, विशेषेण नभ्य (foggy) दृश्ये ।
10:36 तदर्थम्, इदं किञ्चित् सम्पादयितुम् अहं स्तर-वर्णिकां चिनोमि, अपि च साधनशालाकायाः (tool bar) Filter इतीदं चित्वा, तत्र Blur इतीदं चिनोमि ।
10:49 Blur इत्यत्र अहं Gaussian Blur इतीदं चित्वा नौकायाः एकदेशं गच्छामि । Horizontal Radius इत्यस्य मूल्यं 4 प्रति न्यूनीकृत्य OK इतीदं चिनोमि । तथैव स्तर-वर्णिकाम् अस्पष्टं करोमि । एतत्परिणामतः नौकायाः कठोरप्रान्तः अपनीतः । इदानीं चित्रमिदं सम्यक् दृश्यते ।
11:16 इदानीं चित्रसाहाय्येन अहं कांश्चन परिष्कारान् कर्तुं सिद्धोऽस्मि ।
11:22 यदा भवान् चित्रं पश्यति, तदा जले वृक्षखण्डम् अपि च वामभागप्रान्ते कृतार्धं पक्षिणं पश्यति । अहं तद्द्वयम् अनुकृतिं (clone) कर्तुमिच्छामि ।
11:40 अतः पुनरहं Zoom इतीदं साधनं चित्वा वृक्षखण्डः यत्र अस्ति तत्स्थाने उपसर्पणं करोमि । इदानीं Healing इतीदं साधनं चिनोमि ।
11:51 Healing इतीदं साधनम् अनुकृतिसाधनवत् एव अस्ति, किन्तु सन्दर्भेऽस्मिन् तत् इतोऽपि सम्यक् कार्यं करोति ।
12:00 यदाहं healing इतीदं साधनं चिनोमि, तदा मूषकबिन्दुसहितं वर्तुलं प्राप्नोमि । किन्तु, चित्रे नोत्तुं न शक्यते अपि च मूषकबिन्दौ तावत् निषेधचिह्नमस्ति ।
12:12 निषेधचिह्नस्य कारणं नाम, heal इत्ययम् आकरः मया न चितः । इदं च नियामकम् (control) नोदनं चेति द्वयेन कर्तुं शक्यते ।
12:22 एकम् उत्तमं heal इतीदम् आकरं चित्वा अनन्तरं नियामकम् (control) नोदनञ्चेति कीलकं नोत्तव्यम् । इदं heal इत्याकरस्य उत्तमं स्थानमिति मे मतिः । इदानीं वृक्षखण्डस्य उपरि नुदामि ।
12:38 अत्रैका समस्या सञ्जाता ।
12:40 अपि च अत्र समस्या नाम अहम् अनुचिते स्तरे कार्यं कुर्वन् अस्मीति ।
12:45 मया पृष्ठदेशस्तरे कार्यं करणीयम् । अपि च अहं स्तरवर्णिकां सम्पादयितुं यतमानः आसम् ।
12:51 मया पृष्ठदेशस्तरः निश्चयेन चेतव्यः । अपि च तस्य स्तरस्य एका प्रतिकृतिः अपि करणीया । यतोहि मया मूलपृष्ठदेशस्तरस्य परिवर्तनं न करणीयम् ।
13:01 पुनरिदानीं वयं Healing इतीदं साधनं प्रयतामहे ।
13:05 इदानीम् अहम् अन्यं दोषं कृतवान् ।
13:09 अयम् उपरितन धूसरवर्णस्तरः मम आकरः आसीत् ।
13:13 इदमहं निश्चयेन undo इतीदं कृत्वा अत्र नूतनाकरं चिनोमि । अस्तु, तदत्र आनीय नोदनं करोमि । तच्च गतम् ।
13:25 एतद्भागार्थम्, अहं भागमेतम् आकररूपेण चित्वा नुदामि । अपि च भवान् तद्गतमिति द्रष्टुं शक्नोति ।
13:36 चित्रमिदं वयं 100% दशायां पश्यामः ।
13:40 इदं सम्यक् दृश्यते, प्रायशः मया इतोऽपि बृहत्कूर्चेन करणीयमासीत् । यतोहि एते बिन्दवः इदानीमपि सहैव सन्ति ।
13:53 अतः, अहं पुनः Healing इतीदं साधनं चित्वा आकरं चिनोमि । तथैव तेषां बिन्दूनामुपरि नुदामि ।
14:05 तेन कार्यं सिद्धमिति मे मतिः ।
14:09 इदानीं वामभागे, अर्धं कर्तितं पक्षिणमहम् अदृश्यं करोमि ।
14:15 एतदर्थमहं पुनः चित्रे सर्पणं कृत्वा Clone इतीदं साधनं चिनोमि ।
14:23 अनुकृति-साधनं healing इति साधनमिव न तावत् जटिलम् अस्ति । इदं साधनं GIMP इत्यत्र नूतनमिति हेतोः मह्यम् एतदुपयोक्तुं तावान् महदनुभवः नास्ति ।
14:36 अतः, मया Healing इति साधनस्य उपयोगक्रममिव अस्यापि अनुसर्तव्यम् । अहमत्र आकररूपेण नुत्वा पक्षिणः उपरि नुदामि । इदमत्र कार्यं करोति इति मे भावना ।
14:49 पुनः 100% प्रति आगच्छामि । परिपूर्णमस्ति, अयं पक्षी गतः ।
14:55 चित्रमिदं सिद्धमस्ति इत्यहं चिन्तये ।
15:00 प्रथममहं चित्रमिदं किञ्चित् प्रकाशमानं करोमि । किन्तु, तत् अन्तिमसोपानवत् करणीयमिति मम चिन्तनम् । यथा इदानीं कार्यं कुर्वत् अस्ति तथैव अग्रे कार्यं करोतीति मे मतिः ।
15:13 अस्मात् चित्रात् poster प्राप्तुं मया तत् मुद्रणार्थं दातव्यमस्ति ।
15:19 मुद्रकं (printer) 3:2 इत्यस्य aspect ratio रुपेण उपयोगं करोति । तथैव चित्रमिदं 2:1 इति aspect ratio रूपेण प्राप्तमस्ति । अतः इदानीं तत् मया परिवर्तनीयम् अस्ति ।
15:33 इदमहं canvas size इत्यस्य साहाय्येन कर्तुं शक्नोमि I इदं च साधनशालाकायां Image इत्यत्र विद्यते ।
15:40 अहं Canvas Size इतीदं चित्वा अपि च चित्रमिदं 1868 चित्रकणयुक्तं विशालं, तथैव 945 चित्रकणयुक्तम् उन्नतं भवेत् । अनुपातं (ratio) गणयितुम् अहं मम गणकम् (calculator) उपयुञ्जे ।
15:58 अतः अहं 1868 इतीमां सङ्ख्यां 3 इति सङ्ख्यया भागं कृत्वा 2 इति सङ्ख्यया गुणनं करोमि । इदं मह्यं 1245 इति सङ्ख्यां ददाति ।
16:15 अत्रेदं मया unchain करणीयमस्ति । अन्यथा width अपि बहु परिवर्तितं भवति । Height इत्यत्र 1245 इति टङ्कयन्तु ।
16:27 इदानीं चित्रमिदं सम्यक् अस्ति ।
16:30 इदम् उपरि fit भवति अपि च अधः श्वेतवर्णीयां श्रेणिं (strip) संरचयति । अहं स्तरान् resize न करोमि । OK इत्यस्य नोदनोत्तरम् इदानीम् अधः चित्रमेकं प्राप्तवान् यस्मिन् च न किमप्यस्ति ।
16:46 मया अधस्तनभागः पूरणीयः अस्ति, तदर्थमहं Layer Fill Type इत्यत्र White युक्तं New Layer इतीदं चिनोमि । स्तरमेतम् अत्यन्तम् अधः विद्यमानम् इव अहम् उपयुञ्जे ।
17:06 अधस्तन श्वेतवर्णीयः भागः अनन्तरं निष्कास्यते ।
17:10 किन्तु, इदम् अहं मुद्रकस्य सङ्केतरूपेण उपयोक्तुं शक्नोमि ।
17:15 मुद्रकमित्येतत् पृष्ठभागे यन्त्रसहितमेकं गणकयन्त्रम् अस्ति । कथमेतस्य निर्वहणं कर्तव्यमिति सूचनाः भवान् प्राप्नोति ।
17:25 चित्रमिदम् अत्र असहजम् अस्ति । इदं कृष्ण-श्वेताभ्यां युक्तं सदपि अस्मिन् व्यतिरेकः (contrast) नास्ति ।
17:36 अहमत्र समग्रचित्रस्य उपरि चतुरस्रं (rectangle) चित्वा Blend इतीदं साधनं चिनोमि । पूरितं Gradient इतीदम् उपयुज्य कृष्णात् श्वेतं प्रति व्यवस्थापयामि ।
17:52 इदानीमत्र इदं gradient इत्यनेन पूरयामि ।
17:57 एवमेव नुत्वा एकां रेखां रचयामि । इदानीमहम् अस्मिन् चतुरस्रे कृष्ण-श्वेताभ्यां समग्रां वर्णश्रेणिं प्राप्तवान् अस्मि ।
18:08 अहमत्र कृष्णात् समग्रश्वेतवर्णयुक्तं स्थानं प्राप्तवान् ।
18:13 अहमस्य पुनरेकधा पुनरावर्तनं करोमि ।
18:24 Blend इतीदं साधनं चित्वा अस्मिन् पर्याये सर्ववर्णश्रेणियुक्तं Full saturation इतीदं विशिष्टं gradient उपयुञ्जे ।
18:42 पुनः अहमिदं gradient पूरयामि । इदानीं मुद्रकस्य कृते, कथं चित्रं रक्षणीयमिति सङ्केतः मया प्राप्तः । यदि वर्णः नश्यति तर्हि एषः कृष्णः हरितः चासीत् इति सर्वदा अहं वक्तुं शक्नोमि ।
19:02 अद्य एतावत् पर्याप्तमिति चिन्तये ।
19:06 अधिकविवरणार्थम् info@meet the gimp.org इत्यत्र गच्छतु अथवा meetthegimp.org इति जालवृत्तौ (blog) गत्त्वा भवतः अभिप्रायं लिखतु । अथवा अधः प्रदत्तां "tips from the top floor" इतीमां वेदिकाम् आगच्छतु ।
19:26 भवते किम् इष्टमभवत्, किं मया सुधारणीयम् अपि च अग्रे किं द्रष्टुमिच्छति इति मह्यं सूचयतु ।
19:33 पाठस्यास्य अनुवादकः वासुदेवः प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणं धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14