GIMP/C2/Setting-Up-GIMP/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:21 | मीट् द गिम्प् इत्यत्र Setting up the Gimp इति पाठेऽस्मिन् भवतां स्वागतम्। |
00:25 | यदा भवन्तः प्रथमवारं GIMP इत्यस्य प्रयोगं कुर्वन्ति, तदा कथं व्यवस्थापनीयम् इति अद्य पठामः। |
00:30 | गिम्प इतीदं, Windows अपि च Macintosh प्रोग्राम इव, अनेकान् लघून् लघून् गवाक्षान् (window) उपयुञ्जते। |
00:39 | अयम्, Unix जगतः इतिहासः अस्ति, अपि च Unix उपयोक्तारः पटले गवाक्षान् प्रसार्य एकस्मिन्नेव काले अनेकानि प्रोग्राम् इत्येतानि चालयितुम् इच्छन्ति। |
00:49 | यदि भवन्तः एतादृशैः विभिन्नगवाक्षैः सह कार्यं कर्तुं न शक्नुवन्ति तर्हि भवद्भिः GIMP shop इतीदं दृष्टव्यम्। |
00:57 | इदं, GIMP इत्यस्य उपयोगाय अपि च फोटोशाप् इत्यनेन तोलयितुं च किञ्चन नूतनमाध्यमेन (interface) सहितं प्रोग्राम् अस्ति। |
01:05 | अहं गिम्प उपयोक्तुम् इच्छामि यतोहि तत्र सर्वाणि नवीनानि उत्तमानि च उपकरणानि सन्ति। |
01:12 | इयं काचित् दैनिकसूचना अस्ति यत्र भवन्तः उपयुक्तसूचनां प्राप्नुवन्ति। |
01:17 | अद्यतनीनम्, Undo इति विकल्पविषये अस्ति। वदति च यत्, भवन्तः कतिचन परिवर्तनानि कृत्वा अनन्तरं पुनः विकल्पमिमं नुत्त्वा यथापूर्वं कर्तुं शक्नुवन्ति। |
01:26 | अयम् अधिकांशतया कार्यं करोति। |
01:28 | बहुविभिन्नकार्यकरणात् प्राक् पूर्वतनकार्यं रक्षयन्ति चेत् उत्तमम्। |
01:33 | अधुना, वयम् अन्यान्युपकरणानि पश्यामः। |
01:36 | अत्र, Command Central इति गिम्प इत्यस्य मुख्यगवाक्षः अस्ति। |
01:41 | अपि च उपरि उपकरणपेटिका अस्ति। |
01:45 | अनन्तरं वर्णान् चेतुं Color box अस्ति अपि च अधः बहूनि उपकरणविकल्पाः सन्ति। |
01:53 | पेटिकामिमां किञ्चित् विस्तारयामः। |
01:56 | अत्र Layers, Channels, Color Channels, Path अपि च Undo History, इत्येतेषां कृते संवादपेटिकाः सन्ति। |
02:09 | अस्य अधः विद्यमाने Colour Selection इति संवादे विविधवर्णान् वेतुं शक्नुमः। |
02:15 | अत्र Brushes, Patterns, Gradient इत्यादयः अनेके संवादाः सन्ति। |
02:21 | एषु केचन संवादाः मया उपकरणपेटिकायां योजनीयाः। योजनं च बहु सुलभम्। |
02:28 | संवादशीर्षके, Layers इत्यत्र नुत्त्वा तत् अत्र उपकरणपेटिकायाः अधः विद्यमानस्य Color Picker इत्यस्य उपरि कर्षयित्वा आनयन्तु। |
02:39 | एवं च अहं अत्र ट्याब्-समेतं संवादं प्राप्नोमि। |
02:43 | एनामेव प्रक्रियाम् अहं Channels इत्यनेन समं करोमि। |
02:46 | Paths इत्यनेन समं करोमि। |
02:52 | अपि च Undo History इत्यनेन सममपि करोमि। |
02:54 | Brushes इत्यस्य उपकरणस्य आवश्यकता मह्यं नास्ति इति भावयामि, यतोहि, यदि उपकरणे एतस्य विकल्पः अस्ति तर्हि तदत्र दृश्यते अपि च वयं तत् चेतुं शक्नुमः। |
03:09 | परन्तु मह्यं Colours इतीदम् अपेक्षते इत्यतः अहं तस्योपरि नुत्त्वा Undo History इत्यस्य पार्श्वे कर्षयामि। |
03:16 | अधुना गवाक्षस्यास्य पिधानं करोमि। |
03:23 | अहं सर्वाः अपि संवादपेटिकाः File >> Dialogs इत्यस्मात् प्रवेष्टुं शक्नोमि। |
03:30 | अस्मदीयायाम् उपकरणपेटिकायां न विद्यमानाः कतिचन संवादाः अत्र दृश्यन्ते। तेषु Tools इत्यस्य अपेक्षा अस्मभ्यम् अस्ति। |
03:38 | मदीयायाम् उपकरणपेटिकायाम् अनुपयुक्तानि टूल्स कतिचन सन्ति। तेषां स्थाने उपयुक्तानि टूल्स तत्र योजयितुमिच्छामि। |
03:48 | मदुपयुक्तैः टूल्स्-इत्येभिः समम् आरभामहे। |
03:51 | मह्यं Curves, Levels, Threshold. Brightness अपि च Contrast, एतानि अपेक्षितानि। |
03:58 | Perspective Clone, Ink अथवा Airbrush, इत्यस्य च अपेक्षा मह्यं नास्ति। |
04:05 | अवशिष्टानि अपेक्षितानि। |
04:08 | कियत् स्थानम् अवशिष्टम् अस्ति इति ज्ञात्वा अहम् अत्र पुनः पश्यामि। |
04:16 | अधुना अहं File इत्यस्मिन् Preferences इत्यत्र गच्छामि। |
04:26 | अहं Environment अपि च Interface इत्येतद्द्वयं यथावत् स्थापयामि। |
04:32 | Theme इत्यत्र Small इतीदं चिनोमि। |
04:35 | अपि च, यदा गवाक्षमिदं अपसारयामः तदा भवन्तः दृष्टुं शक्नुवन्ति यत् सर्वाणि चित्रकानि (icons) लघ्वीभूतानि सन्तीति। एतेन टूल्स-इत्येतेषां विवरणार्थम् अधिकं स्थानं प्राप्यते। |
04:45 | Tool options इत्यत्र गत्वा Default Interpolation इतीदं SINC प्रति परिवर्तयन्तु। यदा आकारपरिवर्तनं भ्रमणम् इत्यादिकं कुर्मः तदा पिक्सेल-इतीमानि गणयितुम् अत्युत्तमम् इंटरपोलेशन् अस्ति। |
05:00 | अन्यविकल्पान् यथावत् स्तापयन्तु। |
05:03 | Toolbox इत्यत्र गत्वा तत्रत्यविकल्पान् यदि अपेक्षते तर्हि चिन्वन्तु यदि न अपेक्षते तर्हि अचितं कुर्वन्तु। |
05:12 | अग्रभागस्य पृष्ठभागस्य च वर्णान् आशु परिवर्तयितुं Colors इतीदं स्थापयन्तु। |
05:19 | भवन्तः Brush अपि च Gradient इतीमानि उपकरणानि प्राप्तुं शक्नुवन्ति। अत्र प्रस्तुतचित्रस्य किञ्चन चित्रम् लघुचित्रं (थम्ब्नैल) वा दृष्टुं शक्नुवन्ति। |
05:29 | अहम् इमानि नेच्छामि इत्यतः अहम् एतानि अचितानि (de-select) करोमि। भवद्भ्यः किम् अपेक्षितं किं न इत्यत्र भवन्तः स्वतन्त्राः। |
05:36 | Default image, Default grid अपि च Default image window, इतीमानि यथावत् स्थापयितुं शक्नुवन्ति। |
05:42 | अहं सर्वाणि Preferences इतीमानि समापितवान्। |
05:45 | अपि च |
05:47 | अहं Path इतीदं न परिवर्तितवान्, अतः अहम् इदम् उपयोक्तुं शक्नोमि। |
05:52 | अत्राधुना अधिकं स्थानं प्राप्तुं एकमेव उपकरणं निष्कासनीयम् अस्ति। परं, ततः प्राक् अहं पेटिकामिमां किञ्चित् विस्तारयामि। |
06:01 | उपकरणपेटिकायाः संवादाः सङ्कुचिताः दृश्यन्ते। |
06:06 | तां किञ्चित् कर्षयित्वा विस्तारयन्तु। |
06:08 | पश्यन्तु, अत्र नवपङ्क्तिम् अप्राप्य एव इतोऽपि त्रीणि उपकरणानि योजयितुं शक्नुमः। |
06:19 | अतः Brightness, Hue-Saturation (ह्यु-स्याचुरेशन) अपि च Color Balance, इतीमानि अहं योजयामि। |
06:24 | अत्र न दर्शितानि सर्वाणि उपकरणानि File अपि च Dialogs इत्यत्र नुत्त्वा प्राप्तुं शक्नुमः। |
06:39 | एवं च वयम् अधुना कार्यमारब्धुं सज्जाः स्मः। |
06:42 | यदा भवन्तः गिम्प-इत्यस्य पिधानं कुर्वन्ति तदा सर्वाः विकल्पा स्वयं रक्षिताः भवन्ति अपि च यदा पुनः उद्घाटयन्ति तदा पूपिधानसमये यथा आसीत् तद्वदेव आरभन्ते। |
06:52 | एवं तु अहं GIMP 2.3.18 इत्यस्य उपयोगं कुर्वन् अस्मि यच्च विकस्यमाना अस्थिरा च आवृत्तिः अस्ति। |
07:02 | 2.3.19 इत्यस्य प्रकाशनम् अधुनैव दृष्टवान् अहम्। |
07:07 | यद्यपि एषा आवृत्तिः अस्थिरा तथापि वर्षेऽस्मिन् विपण्यां विद्यामानाः अन्यतन्त्रांशाः यवत् स्थिराः सन्ति तवत् तु स्थिरा एषा अस्त्येव। GIMP 2.4 इत्यस्मात् अग्रे प्रकाश्यमानाः आवृत्तयः स्थिराः भवन्ति। |
07:22 | पाठोऽयं GIMP इत्यस्त व्यवस्थापनम् अधिकृत्य आसीत्। |
07:25 | स्पोकन ट्युटोरियल प्रकल्पाय अनुवादकः ऐ ऐ टी मुम्बैतः वासुदेवः प्रवाचकः, श्री.नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |