GIMP/C2/Resolutions/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:25 Rolf Steinort महाभागः इमं पाठं Northern Germany इति देशे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् अस्ति ।
00:30 Resolutions इत्येतदर्थं क्रमशः Image >> Image Properties इत्यत्र गच्छतु । अपि च अत्र इदं चित्रं 508 चित्रकणैः युक्तविस्तारम् अपि च ‘72 by 72 ppi’ इत्येतेन युक्तम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
00:46 'ppi' इतीदं pixels per inch इति प्रतिनिधत्ते ।
00:50 अतः, इदम् अत्र मम पटले (screen) एकस्य प्राङ्गुलस्य (inch) कृते 72 चित्रकणाः सन्ति ।
00:56 'ppi' इतीदं मूलतः 'dpi', dots per inch इतिवत् अस्ति ।
01:03 अपि च मुद्रणार्थं योग्यस्य आनन्तर्यस्य (resolution) कृते मुख्यम् अस्ति ।
01:07 भवान् एकाङ्गुलीये पत्रे मसेः (ink) कीयतः बिन्दून् स्थापयति इति ते चर्चयन्ति ।
01:14 एकाङ्गुलीयरेखायां सामान्यतः 300 ‘dots per inch’ भवन्ति । अपि च ते तथा निकटतया मुद्रिताः भवन्ति यत् भवान् एकां रेखां पश्यति, न तु बिन्दूनाम् एका रेखा ।
01:27 यः कश्चित् चित्रं मुद्रयितुम् इच्छति चेत् तदा ते चित्रं 300 ppi मध्ये पृच्छन्ति अथवा इदं चित्रम् अस्मभ्यं 150 dpi मध्ये अपेक्षते अन्यथा तावती गुणवत्तता न भवति इति ते कथयेयुः ।
01:46 अतः, एतदर्थं भवान् किं कर्तुं शक्नोति ?
01:49 भवान् सुलभतया परिवर्तयितुं शक्नोति ।
01:53 नूनं क्रमशः Image >> Scale Image इत्यत्र गच्छतु ।
01:56 बहुधा उपयुक्तं Width, Height इत्युभयम् अस्यां संवादपेटिकायां भवान् द्रष्टुं शक्नोति ।
02:04 भवान् ‘X’ इति आनन्तर्यं तथैव ‘Y’ इति आनन्तर्यम् अपि अत्र भवान् द्रष्टुं शक्नोति । अपि च मूल्यं 72 pixels per inch इति अस्ति । अहं तत् pixels per millimeter अथवा pixels point pica प्रति परिवर्तयितुं शक्नोमि ।
02:21 किन्तु, वयम् इदं pixels per inch प्रति स्थापयामः ।
02:26 X इति आनन्तर्यम् अपि च Y इति आनन्तर्यं, 72 ppi इतीदं मूल्यरूपेण प्राप्तम् अस्ति । तत् अहं 300 ppi प्रति परिवर्तयामि ।
02:40 इदानीम् अहं चित्रं scale करोमि । अहं Image properties इत्यत्र यदा गच्छामि तत् परित्यज्य अत्र किमपि न परिवर्त्यते इति भवान् द्रष्टुं शक्नोति ।
02:49 इदानीम्, अत्र Resolution इतीदं 300 by 300 ppi प्रति परिवर्तितम् अपि च Print size इतीदं 3 बृहत्मुद्रासमम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
03:03 तत् सामान्यतः ‘4 by 3 cms’ इति अस्ति ।
03:07 इयं बृहती मुद्रा एव अस्ति ।
03:09 अतः, अत्र चित्रे resolution इतीदं परित्यज्य अहं न किमपि परिवर्तितवान् ।
03:17 पटले किमपि न परिवर्तितं, तत् इतोऽपि 72 pixels per inch इत्येव अस्ति ।
03:24 इयं सङ्ख्या मूलतः अर्थहीना अस्ति ।
03:27 300 dots per inch इति गुणवत्ततायुक्तं चित्रं भवते मुद्रणीयम् अस्ति इति ज्ञायते चेत् तदा तस्य प्रयोजनम् अस्ति । तत् यथार्थतया उत्तममूल्यम् एव अस्ति । यदि भवते ‘10 by 15 inches’ मध्ये अपेक्षते तदा चित्रकणाः तावन्तः न सन्ति इति भवान् पश्यति ।
03:51 अतः, भवता चित्रकणाः वर्धनीयाः ।
03:55 किन्तु, मुद्रणार्थं चित्रस्य गुणवत्तता आकारे कति चित्रकणाः सन्ति, कति दीर्घम् अथवा कीयत् बृहत् प्रदेशे भवतः कृते मुद्रणीयम् इत्यस्य उपरि आधारितम् अस्ति ।
04:10 अपि च तत् गुणलक्षणं मुद्रणयन्त्रेण व्यवस्थापितं भवति । चित्रे तत् व्यवस्थापनीयम् इति तावत् मुख्यं नास्ति ।
04:21 किन्तु, यः कश्चित् भवन्तं 200 तः 300 ‘dots per inch’ प्रति व्यवस्थापयितुं कथयति चेत् तूष्णीं करोतु । अपि च अस्य चर्चां मा करोतु ।
04:32 अस्य विषये अर्थपूर्णचर्चायाः कानिचन शृङ्खलानि प्रदत्तानि show notes इत्यत्र अहं ददामि । भवान् तत्र द्रष्टुं शक्नोति ।
04:39 यदि मह्यम् इदं चित्रं bill boards कृते अपेक्षते तर्हि तदा मया चित्रं Scale इति कर्तव्यम् ।
04:44 5 dots per inch इतीदं bill board इत्यस्य कृते उत्तमं मूल्यम् इति अहं भावयामि ।
04:51 चित्रं Scale इति कृत्वा किमपि परिवर्तितं नास्ति इति भवान् द्रष्टुं शक्नोति । किन्तु, इदानीम् Image Properties इत्यत्र Print size इतीदं 100 by 76 inches इत्यस्ति अर्थात् 2 m 50 इति । अत्रत्य चित्रेण अनेन तत् उत्तमं भित्तिपत्रं (poster) भवति ।
05:10 भवान् स्वयं यदि मुद्रणं न करोति, तर्हि अत्र अस्मभ्यम् आनन्तर्यम् इति मूलतः अर्थहीनं भवति ।
05:18 अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च भवतः अभिप्रायं प्रेषयितुं कृपया info@meetthegimp.org इत्यत्र प्रेषयतु ।
05:30 Spoken Tutorial परियोजनायां अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat