GIMP/C2/Questions-And-Answers/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 Meet the GIMP इत्यत्र भवद्भ्यः स्वागतम् ।
00:25 Rolf Steinort महाभागः इदं Northern Germany इति देशस्थे, Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् ।
00:31 अद्यतनपाठार्थम्, अहं भवते प्रश्नोत्तरसञ्चिकायाः वाग्दानम् अकरवम् । वयं काभिश्चित् वार्ताभिः आरभामहे ।
00:40 अहम् एतावता एव भवते 'gimpusers.com' इति विषये उक्तवान् । तेषां सविधे ‘GIMP’ इत्यस्य video podcast इति विषयणी महद्वार्तास्ति । किन्तु, भवते एतावतैव तत् podcast इति विषयके ज्ञानमस्ति ।
00:55 अतः, वयम् अवारोपणपृष्ठं प्रति गच्छामः । अत्र भवान् GIMP 2.4.0 release candidate इतीदं पश्यति । तत् Windows इत्येतदर्थम् अपि च मच्चिन्तनानुसारं Apple Macintosh इत्यस्य कृते लभ्यमस्ति । मम संविधाः (systems) विहाय बहुभ्यः linux इति संविधाभ्यः इदं ‘in source’ इत्यस्ति ।
01:19 यतोहि, Ubuntu इत्यस्य, अपेक्षितैः कैश्चित् libraries इत्येतैः सह निर्वहणं दुष्करम् ।
01:27 अतः, GIMP 2.4.0 इतीदम् आगमिष्यति । भवान् gimpusers.com इत्यस्योपरि विद्यमानजवनिकायाः उपरि अत्र एतत्स्थानं पश्यतु ।
01:42 इदं ‘GIMP’ इति विषयकाणां बहु सूच्यांशानां प्रदातृ-द्वयं ‘mailing lists’ इत्यस्य प्रतिफलनं करोति ।
01:49 प्रथमं, "gimp user mailing list" इत्यस्ति । तदहं भवते पठितुं सूचयामि ।
02:02 "gimp developer list", इत्यस्य अर्थावगाहनार्थम् मह्यमतीव कष्टमस्ति, प्रायः भवतः कृतेऽपि ।
02:12 अत्र प्रश्नस्य उत्तरं दातुमेका चर्चा अस्ति । तद्विषये मह्यं ज्ञानं नासीत् ।
02:20 वयमत्र तत् पश्यामः ।
02:22 अत्रत्यः प्रथमप्रश्नः Alex Burs इत्येतेन पृष्टः अस्ति । ‘sample point tab’ इत्यनेन किं कृतमिति सः पृष्टवान् ।
02:34 अपि च प्रश्नोऽयं मया नावगतः ।
02:38 किन्तु, मह्यं Alex इत्येषः पूर्वपरिचितः । यतोहि भवद्भ्यः सञ्चिकाः प्रापयितुम् अपि च मह्यं google site इतीदं व्यवस्थापयितुं सः साहाय्यम् अकरोत् ।
02:51 अत्र Tim Jedlicka इत्येषः उत्तरितवान् । TIM इत्येनमहं जानामि, यतोहि तस्य सविधे अन्तर्जाले बृहत् वितरकम् (server) अपि च अन्तर्जालस्य सकाशात् महती नलिका (pipe) अस्ति । मया अत्र उपयुज्यमानाः सञ्चिकाः, भवन्तः यथा अवारोपयितुं शक्नुयुः तथा व्यवस्थाप्रक्रियायां वयं स्मः ।
03:14 अहं भवते तद्विषये कथयन् भवामि । meetthegimp.org इत्यस्य विभागे पश्यतु । तथैव तत्र भवते download icon इतीदं प्राप्यते इति एवमेव पश्यतु ।
03:29 अत्र Tim इत्येषः Alex इत्यस्य प्रश्नस्य कृते उत्तरितवान् ।
03:33 अत्रत्य एतत् प्रश्नोत्तरयोः संवादार्थं भवतोः कृते अहं धन्यवादान् अर्पये ।
03:40 ‘sample points’ इतीमे Ctrl इति कीलकस्य ग्रहणेन विना, निर्मातुं शक्याः । सारकम् (cursor) measurement bar इत्यत्र संस्थाप्य Ctrl इति कीलकं गृहीत्वा भवते ‘sample’ इतीदं यत्र करणीयं तत्र ‘point’ इतीदं कर्षयित्वा भवान् ‘sample points’ इतीदं निर्मातुं शक्यते इति Tim इति महाभागः लिखति ।
04:03 अत्र इतोऽपि अग्रे प्रश्नाः सन्ति, किन्त्वहं तान् अनन्तरं पश्यामि ।
04:08 अहं तद्विषये न कदापि श्रुतवान्, मया तत्प्रयत्नः करणीयः ।
04:13 तत्कर्तुमहं, ‘GIMP’ इतीदमारभ्य, My Ship in the Fog इति परिचितं चित्रं तस्मिन् आरोपयामि (load) ।
04:25 इदानीमहं, वामभागस्य ruler इत्यत्र गत्वा, Ctrl इति कीलकं नुत्वा ruler इतीदं बहिः कर्षयामि । mouse cursor इतीदं ‘eye dropper’ प्रति परिवर्तयति । तथैव एकरेखापेक्षया मया रेखाद्वयं प्राप्यते इति अत्र भवन्तः पश्यन्ति ।
04:45 ‘mouse button’ अपि च Ctrl इति कीलकं त्यजतु, भवद्भिः सङ्ख्या एका (1) इति point इतीदं लभ्यते ।
04:54 अपि चाहं ‘mouse button’ इतीदं गृहीत्वा, Ctrl इति कीलकस्य नोदनेन विना ruler इतीदं बहिः कर्षयामि, चेत् मयात्र एकैव रेखा लभ्यते । तस्योपरि वस्तूनि व्यवस्थापयितुम् इदम् उपयुज्यते ।
05:09 उपरितन ‘ruler’ इत्यनेन वयमिदमेव कार्यविधानं कर्तुं प्रयतामहे ।
05:13 अहं Ctrl इति कीलकम् अपि च ‘mouse button’ इतीदं नुत्वा ruler इतीदमधः कर्षयित्वा अत्र त्यजामि ।
05:20 एवम्, अत्र मया सङ्ख्याद्वयं (2) प्राप्तमस्ति, सङ्ख्या एका (1) एतावतैव अत्रास्ति, किन्तु मया न कापि संवादपेटिका दृश्यते ।
05:28 अतः, साधनविकल्पानाम् (tool options) उपरि नुत्वा, साधनपेटिकायाः Color Picker इतीदं चिनोमि । किन्त्वत्र मया न किमपि दृश्यते ।
05:39 किन्तु, ‘files’ इत्यत्र ‘dialog’ इतिविषयकप्रस्तावः स्मरणे अस्ति । अतः, अहं File इतीदं नुत्वा Dialogs प्रति गच्छामि । अत्र, Sample Points इति ‘dialog’ इत्येकमस्ति ।
05:53 यदा भवान् तस्योपरि नुदति, तदा भवता अत्र 1 अपि च 2 इत्येताभ्यां ‘sample points’ इतीमे प्राप्ताः ।
06:01 इदं, चित्रस्थ-विविधबिन्दूनां वर्णसूचांशस्य प्राप्तिविधानम् एकमस्ति ।
06:10 वर्णस्य सूच्यांशं प्राप्तुमिदानीं मया एकम् उत्तमविधानम् अवगतम् ।
06:17 अत्राहं चित्रकणं RGB इत्येतत् प्रति परिवर्तयितुं शक्नोमि । मया रक्तं, हरितं, नीलमित्येतेभ्यः मूल्यानि प्राप्यन्ते । अपि च ‘Alpha’ इतीदं ‘percentage’ इतिरूपेण प्रदर्श्यते ।
06:32 अत्र, चित्रकणेषु भवान् वर्णानां यथार्थसङ्ख्यायाः मूल्यानि पश्यति । यदा RGB इतीदं चीयते, तदा भवान् HTML इत्येतदर्थं Hex code इतीदं पश्यति । RGB इत्येतदहं HSV अथवा CMYK इति वर्णप्रतिरूपं (color model) प्रति परिवर्तयितुं शक्नोमि । तदहम् अनन्तरं विवृणोमि ।
07:03 अग्रिमः प्रश्नोऽपि, वर्णः अपि च color picker इत्येतत् सम्बद्धः अस्ति ।
07:10 भवान् color picker इतीदं स्वीकृत्य चित्रस्य वर्णसूच्यांशान् प्राप्तुं शक्नोतीति अहं ‘Ship in the Fog’ इति podcast इत्यस्मिन् सूचितवान् । एकस्य स्तरस्य वर्णः न, फलितवर्णस्य सूच्यांशः कथं प्राप्तव्यः इति Glulio इत्येषः अत्र पृच्छति ।
07:36 तस्य एकं प्रकारम् इदानीमेव भवान् दृष्टवान् । किन्त्वत्र, अन्यत् विधानमपि अस्ति ।
07:42 मम Color Picker इतीदं चितमस्ति । अहं Shift इतीदं गृहीत्वा चित्रे नुदामि चेत् मया इदानींतन चित्रस्य सूच्यांशः लभ्यते । अत्र नौका, सस्यानि अपि च आकाशः श्वेते अस्तीति भवान् पश्यति । अयं न तावान् तृप्तिकरपरिणामः अस्ति ।
08:02 अस्य कारणं, श्वेतपृष्ठदेशस्य चयनम् ।
08:06 अतः, अहं Layers इति संवादपेटिकां गत्वा तत्र तस्य पूर्वतन Background इति स्तरं प्रति परिवर्तयामि । भवान् पटले (screen) यत् पश्यति तदपेक्षया अयं पूर्णतया भिन्नः वर्णः इति पश्यति ।
08:18 Layers इति संवादपेटिकायां Sample merged इत्येकः विकल्पः अस्ति । भवान् तत् सक्रियं करोति चेत् भवते सर्वेषां ‘stacked layers’ इत्येतेषां फलितं लभ्यते । Sample merged इत्येतेन सह Color Picker Information इत्यत्र foreground color इतीदं सर्वदा परिवर्त्यमानं भवान् पश्यति ।
08:42 सक्रियभूते Sample merged इत्यत्र भवते सर्वस्तराणां परिणामः प्राप्यते ।
08:54 भवान् Sample merged इति विकल्पं निष्क्रियं करोति चेत् ‘active layer’ इत्यस्मात् भवता केवलं वर्णसूच्यांशः लभ्यते । पूर्वतने पाठे इदं वक्तुं विस्मृतवान् । भवान् ‘blue layer’ इतीदं चिनोति चेत् भवता नीलवर्णस्य सूच्यांशः लभ्यते ।
09:13 अतः, पुनः प्रति गत्वा Sample merged इतीदं चित्वानन्तरं, भवता सर्वस्तराणां परिणामाः प्राप्यन्ते ।
09:20 अत्र Sample average इति अन्यविकल्पोऽपि अस्ति । भवान् इदं चिनोति चेत् भवता बृहत् Color Picker इतीदम् अपि च तत्प्रदेशस्थानां सर्वेषां चित्रकणानां average इतीदं प्राप्यते ।
09:37 प्रत्येकं चित्रकणयोः मध्ये विद्यमानं बृहद्भेदं noisy image इत्येतदर्थं, वर्णसूच्यांशं प्राप्तुमयम् उत्तमविकल्पः अस्ति ।
09:54 Glulio इत्यस्य सविधे ‘GIMP’ इत्येतदर्थम् अन्यसूचना अस्ति ।
09:58 भवान् सञ्चिकायाः नाम्नः कृते .xcf इति केवलम् अनुपयुज्य xcf.pz2 अथवा xcf.bz2 इतीदम् उपयुज्यते चेत्, ‘GIMP’ इतीदं चित्रं सङ्कोचं करोति । अपि च भवता इतोऽपि लघ्वाकारस्य सञ्चिका प्राप्यते ।
10:17 इदं Windows machine इत्यत्रापि कार्यं करोतीति अहं न जानामि । भवता तस्य यत्नः विधेयः ।
10:24 भवान् सञ्चिकां 'xcf.zip' इति नामकरणं करोति चेत् कदाचित् Windows इत्यत्र तत् कार्यं कुर्यात् । किन्त्विदं, सत्यमस्तीति नाहं जाने ।
10:35 प्रायः यः कोऽपि अस्य प्रयत्नं विधाय ‘blog’ इत्यत्र post कुर्यात् ।
10:43 Dmitry इत्यस्मात् अन्यः प्रश्नः आगच्छति ।
10:47 भिन्नं codec इत्यस्य प्रयत्नेन दृश्यलेखस्य (video) गुणवत्ततायाः अधिकं कर्तुं साध्यमस्ति किम् इति सः पृच्छति ।
10:55 किन्तु, मया linux इत्येतदर्थं codec H 264 इत्यस्य उचितं सस्करणं (version) न प्राप्तम् ।
11:03 अत्र वाणिज्यसंस्करणमस्ति, किन्तु मह्यं तत् बहुमूल्ययुतम् अस्ति ।
11:08 एवमेव इयमेका अभिरुचिः अस्ति । उपारोपणं (upload) कर्तुमहं धनं ददामि, तद्बहु नास्ति । किन्तु, मह्यम् अस्योपरि धनं व्ययीकर्तुम् इच्छा नास्ति ।
11:23 किन्तु, भवद्भ्यः एकः विशेषप्रश्नः अस्ति ।
11:26 सर्वेऽपि कुर्वन्तीति अहमपि इदं 800/600 चित्रकणेषु अङ्कनं (recording) कृत्वा, 640/480 चित्रकणेभ्यः न्यूनीकरोमि । एवं रीत्या तद् Apple TV इत्यादीनाम् उपरि कार्यं करोति ।
11:44 मम प्रश्नः नाम, भवान् मूलसञ्चिकायाः आकारं 800/600 इतीदम् अधिकं पुरस्करोति किम् ?
11:52 चित्रम्, अतिस्पष्टम् अपि च भवता द्रष्टव्यम् आसीत् ।
11:56 सञ्चिकाः किञ्चित् बृहत्यः भवन्ति । केभ्यश्चित् एतावत् बृहत् सञ्चिकाः द्रष्टुं यथार्थतया साध्यं नास्ति ।
12:09 800/600 इत्यस्मिन् अहमेकं ‘test file’ इतीदं कृत्वा तत् उपारोपयामि । प्रायः भवान् तस्य यत्नं कृत्वा मह्यं किञ्चित् अभिप्रायं दातुमर्हति ।
12:21 अत्र अग्रिमटीकायाः विषये मह्यम् अतीव सन्तोषः अभवत् । Rodrigo इत्येषः photoshop इत्यपेक्षया GIMP इतीदं तस्य चित्रकार्यार्थं (graphic work) क्रयस्य चिन्तने अस्तीति वदति ।
12:37 Curve इति साधनं विनाशरहिततया उपयोगविषये किमपि अस्ति किम् इत्येषः प्रश्नः एकः Vitaly इत्यस्मात् मया ई-पत्रद्वारा प्राप्तः ।
12:48 अस्य प्रश्नस्य उत्तरं "NO, not in GIMP" इत्यस्ति ।
12:51 Photoshop इतीदम्, एतत् ‘adjustment layer’ इत्येतेन सह तत्कर्तुं शक्यते । अधिकाः GIMP ‘programmers’ इत्येते तस्योपरि कार्यं कुर्वन्तः सन्ति । तथैव इम्प्लिमेण्ट् कर्तुं प्रयत्नं कुर्वन्तः सन्ति ।
13:03 किन्तु एतावत्पर्यन्तं, भवान् भवतः वर्णान् Levels इति साधनेन परिवर्तितवान् स्यात्, तदनन्तरं कृतानि सर्वाणि सोपानानि undo इतीदम् अकृत्वा एव, भवान् भवतः कार्यं undo इति कर्तुं न शक्नोति ।
13:20 अन्यः प्रश्नः Dudley इत्यस्मात्, सः "tips from the top floor" इत्येतेन अत्रत्यं मम podcast इति प्रति आगतवान् । अपि च GIMP 2.2.17 इतीदं स्वस्य गणकयन्त्रे प्रतिष्ठापनम् (install) अकरोत् । अहं तस्मै 2.3 अथवा 2.4 released candidate इतीदं सूचयामि । यतोहि तानि 2.2 series इत्यपेक्षया बहूत्तमानि सन्ति ।
13:55 सः, Akkana Peck इत्यनेन लिखितं "Beginning GIMP: From Novice to Professional" इति पुस्तकस्य विषये पृच्छन्नस्ति । मत्सविधे इदं पुस्तकमस्ति ।
14:07 भवान् ‘GIMP’ इतीदम् आरब्धुमिच्छति चेत् इदं यथार्थतया उत्तममस्ति । अथवा भवते किञ्चित् ज्ञानमस्ति चेत् तदापि इदमतीव उत्तमपुस्तकमस्ति, इदमेकं प्रायोगिकपुस्तकम् अस्ति ।
14:19 अपि चाहं यथार्थतया तत् पुस्तकं सूचयितुं शक्नोमि ।
14:25 भवान् क्रेतुमिच्छति चेत् अपि च भवान् United States इति देशे वसति चेत् अहं ‘block’ इत्यत्र शृङ्खलमेकं स्थापयामि । अस्मिन् ‘offer’ इति द्वारा भवान् पुस्तकमिदं क्रेतुं शक्नोति । आपणिकः तस्मात् किञ्चित् धनं प्राप्नोति ।
14:43 ग्रीष्मकालस्य विरामानन्तरं, यदा मम कार्यम् आरब्धवान् ह्यः, तदा मह्यमेकः आघातः सञ्जातः । सः महान् आघात एव स्यात् । किन्त्वहं प्रथमवारं Windows इति गणकयन्त्रस्य Internet Explorer इत्येतेन सह Meet the Gimp इतीदं ‘block’ इत्यत्र दृष्टवान् ।
15:04 मह्यं यथार्थतया आघातः सञ्जातः, यतोहि सर्वाणि चित्राणि वर्धितानि । अपि च खण्डेषु (frames) न किमपि उचितत्वम् आसीत् । अपि च एवम् अन्यदपि ।
15:17 अन्तिमतया, अस्मिन् प्रदर्शने भवतः कृते सूचनारूपेण मत्सविधे शृङ्खलमेकम् अस्ति ।
15:23 ‘photo podcast’ इत्येतदर्थं "Photocast Network" इत्ययमेकः महान् आकरः अस्ति । अहम् एतावतैव सदस्यः अस्मि, किन्तु, जालदेशस्य (website) उपरि नास्मि ।
15:37 जालदेशं पश्यतु । तत्र "Photocast Network" इत्यस्य सदस्यैः निर्मितं podcast इत्येकमस्ति । तत् "Focus Ring" इति कथ्यते । अद्य अष्टमं (8) आख्यानं (episode) बहिरागतम् ।
15:52 क्रमशः Meet The Gimp इतीदं वामभागे दृग्गोचरं भवति ।
15:59 मह्यं भवतः सकाशात् साहाय्यमेकम् अपेक्षते । Meet The GIMP इति विषये प्रचारं करोतु । भवतः अभिप्रायं प्रेषयितुमिच्छति चेत् कृपया info@meetthegimp.org इत्यत्र प्रेषयतु । अधिकं विवरणं http://meetthegimp.org इत्यस्मिन् शृङ्खले लभ्यते ।
16:22 Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat