GIMP/C2/Easy-Animation/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:23 | वयमद्य (simple animation) अर्थात् सरलचित्रचालनस्य विषये सम्भाषणं कुर्मः । |
00:28 | GIMP इति चित्रचालनस्य सम्पुटं, (package) GAP अथवा GIMP Animation Package इत्युच्यते । इदं चित्रचालनं, चित्राणि, चलच्चित्राणि च निर्मातुं बहु उपयुक्तमस्ति । |
00:43 | किन्तु, वयमिदम् अनन्तरं पश्यामः । |
00:46 | Germany इति देशस्थानि पुरातनचित्रचालनानि Daumenkino अथवा Front Cinema इत्युच्यन्ते । |
00:55 | अपि च आङ्ग्लभाषायामिदं Flip Book अथवा Flick Book इत्युच्यते । |
01:02 | पुस्तकमिदं न्यूनातिन्यूनं समानचित्रयुक्तं सत् बहुचित्रयुक्तमस्ति । किन्तु, प्रतिपृष्ठं लघुपरिवर्तनैः सहितं सत्, यदि भवान् flick इति करोति तर्हि तत् भवते चलच्चित्रं प्राप्यते । |
01:20 | अत्र विद्यमानः अयं दृश्यांशोऽपि (video), चित्रचालनं भवति । अपि च प्रतिक्षणं 25 चित्रसहितं ‘slide show’ इतीदं भवान् पश्यन्नस्ति । |
01:36 | अत्र द्वे विज्ञापने स्तः, इदं मम अपि च इदं Rob इति महाभागस्य चित्रचालितं gif इतीदं दर्शयति । |
01:51 | मह्यं, मम विज्ञापनम् उत्कृष्टं करणीयमस्ति । |
01:56 | मह्यं, मम विज्ञापने Meet The GIMP इत्यस्य logo इतीदं दर्शनीयमस्ति । |
02:04 | इदानीं, मह्यं चित्रमिदं मम उत्पीठे (desktop) रक्षणीयमस्ति । तथैव यशस्वितया चित्रचालनं निर्मातव्यमस्ति । |
02:15 | अतः, इदानीमहं मम स्वीयं चित्रं चोरयित्वा तन्मम उत्पीठस्य उपरि रक्षामि । |
02:24 | अहं चित्रमिदं GIMP इत्यत्र उद्घाटयामि । |
02:28 | एवं, साधनपेटिकायाः उपरि कर्षयामि । इदमत्र अस्ति । |
02:35 | अहमत्र, इदं किञ्चित् बृहत् करोमि । |
02:43 | मूलभूततया चित्रेऽस्मिन् चित्रचालनं नास्ति । किन्तु, layer dialog इत्यत्र अष्टौ layers इत्येतेषां राशिः (stack) अस्ति । |
02:56 | अपि च इदं index इति कृतं gif इति चित्रं सत् ‘80 by 80’ चित्रकणानाम् अष्ट स्तरैः युक्तमस्तीति भवान् उपरि द्रष्टुं शक्नोति । |
03:13 | चित्रमिदं, 256 विविधवर्णैः रचितमस्ति । |
03:19 | वर्णानेतान् द्रष्टुं क्रमशः Dialogs अपि च Colormap इत्यत्र गच्छतु । |
03:27 | चित्रेऽस्मिन् उपयुक्तान् वर्णानत्र भवान् द्रष्टुं शक्नोति । अत्र अतीव नीलवर्णः अपि च अन्ये केचन वर्णाः अत्र सन्ति । प्रत्येकं वर्णः index अपि च HTML notation इत्येताभ्यां युक्तमस्ति । |
03:50 | अतः, 'gif' इति चित्राणि index इति कृतानि, न 'rgb' इति चित्राणि । अतः तेभ्यः एक एव परिमितः वर्णः लभ्यः अस्ति । |
04:05 | इदानीं वयमत्र खण्डान् (frames) पश्यामः । |
04:10 | प्रथमस्तरं Background इति नाम कृतमस्ति । अपि च आवरणे (bracket) milliseconds नाम 5 क्षणाः इत्यस्तीति भवान् द्रष्टुं शक्नोति । |
04:25 | अतः, चित्रमिदं 5 क्षणपर्यन्तं प्रदर्श्यते । अनन्तरं 2,3,4 खण्डाः 100 milliseconds इत्येतैः सह अनुसरन्ति । अपि च अत्र पुनर्निवेशः (replace) इति विकल्पोऽस्ति । |
04:42 | खण्डान् द्रष्टुम्, अहं नूनं Shift इति कीलकं गृहीत्वा, अत्रत्य नेत्रस्योपरि नुदामि । अपि च अन्यखण्डाः अदृश्याः कृताः । |
04:55 | अपि च इदानीमहम् उपरि, अत्र stack इति कर्तुं शक्नोमि । |
05:03 | index colours इत्यस्य उपयोगे एका न्यूनता अस्ति । |
05:07 | अत्र भवान् बहु बिन्दून् द्रष्टुं शक्नोति । यतोहि एतत् ‘tile’ इत्यस्य केवलं 256 विभिन्नवर्णाः उपलभ्याः सन्ति । |
05:18 | अतः, अत्रेदं मम पृष्ठदेशचित्रमस्ति । |
05:23 | इदमन्यत् अपि च चित्रचालनेऽस्मिन् मया उपयुक्तम् अन्यच्चित्रमपि अस्ति । चित्रमिदं जनैः रचितं चित्रलेखनमस्ति, पाठस्य अनुसारि न । अहं तस्य अनुमतिं प्राप्य उपयुक्तवानस्मि । |
05:44 | अवशिष्टानीमानि चित्राणि एकस्मात् अन्यं प्रति सुगममार्गं कर्तुम्, इतरचित्राणां मिश्रणमस्ति । |
05:56 | चित्रचालनमिदं पुनः कर्तुं मया अस्याः राशेः चित्रद्वयं स्वीकरणीयमस्ति । इदमतीव सुलभमस्ति । |
06:06 | नूनं लघ्वाकृतेः (thumbnail) उपरि नुत्वा ‘mouse button’ इतीदं निगृह्य साधनपेटिकायाः पर्यन्तमाकृष्य आनयतु । |
06:15 | अपि चेदं मम प्रथमचित्रमस्ति । |
06:18 | इदानीमत्र नुदामि । अत्रेदं मम द्वितीयं चित्रमस्ति । |
06:24 | अतः, अत्र अहम् एते द्वे चित्रे प्राप्तवान् । अहं मम मूलं चित्रचालनं निवारयितुं शक्नोमि । तत्र मह्यं किमपि रक्षणीयं नास्ति । |
06:40 | इदानीमहं Meet the GIMP इत्यस्य logo इतीदं योजयितुमिच्छामि । |
06:46 | नूनं तत् साधनपेटिकां प्रति आकृष्य आनयतु । तदत्र अस्ति । |
06:53 | तदहं ‘80 by 80’ चित्रकणेभ्यः न्यूनीकरोमि । अनन्तरमहं पृष्ठदेशार्थं श्वेतं चिनोमि । यतोहि चित्रस्यास्य कृष्णः अतीव गाढः भवति । |
07:12 | तत्कर्तुम्, अहं क्रमशः Add a new layer, Layer Fill Type, white इत्येतान् चित्वा तदहमधः कर्षयामि । इदानीं श्वेतः मम पृष्ठदेशः अस्ति । |
07:25 | layer dialog इत्यत्र दक्षिणनोदनं कृत्वा Flatten image इतीदं चिनोतु । |
07:33 | इदानीं मह्यं श्वेतस्य उपरि Meet The GIMP इत्यस्य समतलं logo इतीदं प्राप्तमस्ति । |
07:39 | इदानीं, क्रमशः Image, Scale Image इत्यत्र गच्छामि । अपि च मह्यं 80 pixels इतीदमपेक्षते । Interpolation इत्यत्र, Cubic इतीदं सम्यक् अस्ति । Scale इत्यस्योपरि नुदतु । |
07:51 | इदानीं चित्रमिदं, पुनः मापितमस्ति किन्तु, तदतीव मृदु अस्ति । |
07:58 | पुनर्मापनानन्तरं, भवान् तत्तीक्ष्णं करोतु । |
08:03 | अतः, अहं क्रमशः Filters >> Enhance >> Sharpen इत्यत्र गच्छामि । |
08:09 | तीक्ष्णतामहं किञ्चिदधिकां कर्तुमिच्छामि । |
08:15 | मच्चिन्तनानुसारमिदं सम्यगस्ति । |
08:22 | इदानीम्, एकं चित्रचालनं भवितुं प्रतीक्षमाणानि त्रीणि चित्राणि मत्सविधे सन्ति । |
08:29 | अहमेतानि मूलचित्राणि रक्षितुं प्रायशः विस्मृतवान् । |
08:37 | Meet The GIMP इतीदमत्रत्यं प्रथममस्ति । तदहं "mtg80.xcf" इति रक्षामि । |
08:55 | अपि चात्र इदमपि । |
08:58 | सूचिकां (menu) गन्तुम् अन्यमार्गः, चित्रे दक्षिणनोदनं कृत्वा क्रमशः Image >> Mode अपि च RGB इत्यत्र गमनम् । |
09:11 | अनन्तरं क्रमशः File अपि च Save As इत्यत्र गमनम् । |
09:21 | अहमिदं चित्रं मम ‘base’ इति रूपेण उपयुञ्जे । |
09:26 | अतः, अस्मिन् पर्याये ‘copy’ इति रूपेण तदहं पुनः रक्षामि । |
09:33 | तदहं "avatar.xcf" इति कथयामि । |
09:41 | आम्, तन्मया परिवर्तनीयमस्ति । तदहं पूर्वं कृतवान् । |
09:48 | क्रमशः File, Open इत्यत्र गच्छतु । |
09:52 | अतः, इदमत्र मम मूलचित्रमस्ति । |
09:56 | मया कर्तव्यं प्रथमं कार्यं नाम, चित्रमिदं Meet The GIMP इत्यस्य Logo इत्यनेन सह सङ्कलनकरणम् । |
10:05 | तदर्थम्, अहमस्य प्रतिलेखमेकं कृत्वा ‘logo’ इत्यनेन सह मिश्रीकरोमि । |
10:14 | इदं नुत्वा मम साधनपेटिकायां कर्षणेन, अहं चित्रमिदं चिनोमि । अत्र मम स्तरः अस्ति । इदानीमहं logo इतीदं चित्वा तत् अस्य चित्रस्योपरि कर्षयामि । भवते ‘untitled scrap layer’ इतीदं प्राप्यते । तन्न कदापि रक्षितुं शक्यते । |
10:40 | इदानीमत्र, मच्चित्रैः सह द्वौ स्तरौ भवतः । |
10:46 | अपि च द्वयोः स्तरयोः मध्ये मह्यं त्रयः स्तराः अपेक्षन्ते । |
10:51 | तत्कर्तुमहं 25% यावत् पारदर्शकतां चिनोमि । |
11:01 | इदानीमहम्, एतच्चित्रं समतलं कृत्वा मम "avatar.xcf" इति चित्रं प्रति कर्षयामि । |
11:11 | एतानि नामानि अहमनन्तरं परिवर्तयामि । |
11:18 | अहं untitled इति चित्रं प्रतिगत्वा, Edit अपि च Undo इत्यत्र गच्छामि । |
11:27 | इदानीमहं पारदर्शकतां 50% प्रति व्यवस्थापयामि । |
11:36 | स्तरस्योपरि दक्षिणनोदनं कृत्वा Flatten image इतीदं चिनोतु । अस्य कर्षणात् प्राक् अहं स्तरं frame X इति पुनर्नामकरणं करोमि । अपि च आवरणेऽहं 100 milliseconds इति टङ्कयामि । |
12:02 | इदानीम् इदमहम् "avatar.xcf" इत्यत्र कर्षयामि । अपि च मम चित्रं प्रति गच्छामि । |
12:14 | Ctrl + Z इतीदं नुत्वा उपरितन स्तरस्य Opacity इतीदं 75% प्रति परिवर्तयामि । |
12:26 | स्तरस्योपरि दक्षिणनोदनं कृत्वा Flatten image इतीदं चिनोमि । |
12:34 | इमं स्तरमहम् एतच्चित्रं प्रति कर्षयामि । |
12:39 | अस्य animation इति सोपानस्य एतावदेव अस्ति । |
12:45 | इदानीं, logo इतीदम् एतच्चित्रं प्रति कर्षणीयमस्ति । सङ्कलनार्थमत्र मम प्रथम त्रयः स्तराः सन्ति । |
12:57 | इदानीमहं, scrap layer इतीदमत्र पिदधामि । अपि च न रक्षामि । |
13:05 | इदानीमिदं कथमभवत् इति वयं पश्यामः । |
13:10 | किन्तु, ततः पूर्वमहं मम कार्यमत्र save करोमि । |
13:15 | इदानीमहं क्रमशः Filters >> Animation अपि च Playback इत्यत्र गच्छामि । |
13:26 | इदं मम चित्रचालनम् अत्र अस्ति । |
13:29 | अहं Play इत्यस्योपरि नुदामि । |
13:33 | play इति करणात् प्राक् अहम् एतेषां स्तराणां नामानि परिवर्तयामि । |
13:43 | अन्यत् ‘image word processing’ इति विकल्पानां रीत्यैव भवान् स्तरान् पुर्ननामकरणं कर्तुं शक्नोति । |
13:56 | नूनं ‘text’ इतीदं चिनोतु । Ctrl + C इतीदं नुत्वा तथैव अग्रिमस्तरस्य उपरि द्विर्नोदनं करोतु । Ctrl + V इतीदं नुत्वा अपेक्षितं परिवर्तयतु । |
14:14 | इदानीं सर्वाणि frames इतीमानि तत्सूक्तनामभिः युक्तानि सन्ति । |
14:22 | अहं मम चित्रं प्रतिगत्वा, क्रमशः Filters >> Animation >> Playback इतीमान् चिनोमि । वयम् इदमत्र पश्यामः । |
14:34 | भवान् मूलं चित्रं पश्यति । |
14:38 | अपि च इदमन्यत् चित्रं प्रति परिवर्तितम् अस्ति । इदमतीव शीघ्रमस्ति । |
14:50 | तत् किञ्चित् मन्दं भवितुं शक्यते स्म । |
14:55 | अतः, अहं ‘timing’ इतीदं 200 milliseconds प्रति परिवर्तयामि । |
15:02 | अतः पुनः Filters >> Animation >> Playback |
15:15 | इदमुत्तमम् अस्तीत्यहं चिन्तये । |
15:18 | अन्तिमतया चित्रस्यास्य index इति करणम् अपि च 'gif' image इति रूपेण रक्षणम् । इदं सुलभेन कर्तुं शक्यते । |
15:30 | क्रमशः File >> Save As इत्यत्र गच्छतु । अनन्तरं Name extension इतीदं 'gif' प्रति परिवर्त्य Save इत्यस्योपरि नुदतु । |
15:43 | अनन्तरं मया विकल्पस्य एका संवादपेटिका प्राप्यते । |
15:47 | अत्र स्तरानेतान् 'gif' इतीदं निर्वोढुं न शक्यते । |
15:52 | अपि चेदं केवलं animation frames इतीमान् निर्वोढुं शक्नोति । |
15:57 | अतः, मह्यं save as Animation इति करणीयमस्ति । |
16:04 | 'gif' इतीदं, greyscale अथवा indexed images इतीमानि केवलं निर्वोढुं शक्नोति । |
16:10 | अतः, अहमिदं index result प्रति परिवर्तयामि । |
16:15 | इमानि, मया दृष्टानि ‘default settings’ इति सन्ति । इमानि मम कार्यार्थं बहूत्तमानि सन्ति । इमान्यहं परिवर्तयितुं शक्नोमि, किन्तु तस्य अवश्यकता नास्ति । |
16:26 | अतः, अहं Export इत्यस्योपरि नुदामि । |
16:29 | अत्र भवान् Created With GIMP अपि च Loop forever इतीदं द्रष्टुं शक्नोति । |
16:36 | Frame disposal इत्यत्र मया One frame per layer इतीदं पुनर्निवेशनीयमस्ति (replace) । |
16:43 | अपि च अन्ये एते विकल्पाः ‘unchecked’ इति रूपेण सन्ति । अतः तानहं तथैव त्यजामि । यतोहि मह्यं ‘timings’ इतीदं 5000 अथवा 2000 milliseconds इति प्रति परिवर्तनीयं चेत् तदाहं कर्तुं शक्नोमि । |
17:01 | इदानीं Save इत्यस्योपरि नुत्वा वयं परिणामं पश्यामः । |
17:07 | तदर्थं, वयं GIMP इतीदं न, परं Mozilla इतीदम् उपयुञ्ज्महे । |
17:13 | Mozilla इत्यस्मिन्, इदम् अपेक्षानुसारं कार्यं करोति । |
17:18 | अग्रिमे सप्ताहे पुनः पश्यामः । पुनर्मिलामः । |
17:22 | Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |