GIMP/C2/Comics/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:18 Meet The GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् ।
00:21 Rolf Steinort महाभागः इदं Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवानस्ति ।
00:27 यदहं सर्वदा उपन्यस्तुं विस्मरामि तदादौ करोमि ।
00:34 चित्रस्य किमपि करणात् प्रागेव तद्रक्षितुं सर्वदाहं विस्मरामि ।
00:45 अतः अहं क्रमशः File, Save as इत्यत्र गत्वा, इदं
01:05 "comic.xcf" इति रक्षामि ।
01:12 ‘xcf’ इतीदं ‘Gimp’ इत्यस्य native file format इत्यस्ति । अपि चेदं स्तराणां सर्वसूच्यांशान् सञ्चिकायां रक्षति ।
01:22 भवता तेन सह इतोऽपि कार्यं कर्तव्यं चेत्, Gimp इत्यत्र सर्वदापि किमपि ‘JPEG’ अथवा 'tif' इतिवत् मा रक्षतु ।
01:30 भवदपेक्षितं प्रत्येकं प्रारूपं (format) प्रति ततः भवान् export इति कर्तुं शक्नोति । किन्तु, अग्रे तेन सह किमपि कार्यं कर्तव्यं चेत् 'XCF' इतीदम् उपयुज्यताम् ।
01:45 तर्हि किं कर्तुं शक्यते ? प्रथमतः, अहं चित्रमिदं किञ्चित् स्पष्टं करोमि ।
01:59 अत्र समस्याद्वयम् अस्ति । प्रथमा, मत्पृष्ठतः विद्यमानः व्यक्तिः ।
02:15 अपि च द्वितीया, अत्राधः विद्यमाना अव्यवस्था ।
02:21 अत्र, अयं विग्रहः योग्यस्थाने अस्ति । मच्चिन्तनानुसारम्, इदं चित्रस्य कोणेषु अन्यतममस्ति ।
02:31 अतः, प्रथममहम् इदम् इतः निवारयामि ।
02:36 अतः, अहं चित्रे सर्पणं कृत्वा Pen Tool इतीदं चिनोमि ।
02:50 Cloning Tool इत्यनेन इदं क्रियते चेत् उत्तमम् । अत्र मया अत्यन्तं निखरतया कार्यं कर्तव्यं नास्ति । यतोहि एतादृशाः लघु लघु विषयाः अन्तिमचित्रात् अदृश्याः भवन्ति ।
03:05 अतः, अहं Clone Tool इतीदं चित्वा Brush इत्यस्य आकारं परिवर्तयामि ।
03:13 आरम्भिकं बिन्दुं प्राप्तुम् इदानीमहं Ctrl इतीदं नुत्वा क्लिक् करोमि । एवमेव इदानीं रङ्गसेचनम् आरभे ।
03:24 किन्तु, तस्य आरम्भात् प्राक् अहं Overlay इति दशां Normal इति दशां प्रति, Opacity इतीदं 100 प्रति परिवर्तयामि । इदानीं रङ्गसेचनं कर्तुम् आरभामहे ।
03:42 चित्रं, किञ्चित् मेघाच्छादितमिव भवति । अतः रङ्गसेचनं कर्तुम् अहमन्यत् brush इतीदं चिनोमि ।
03:57 अपि चात्र इदानीमहं, सीमां गत्वा रङ्गसेचनं करोमि ।
04:37 अतः, सः व्यक्तिः गतः ।
04:41 तदत्र अव्यवस्थां जनयति ।
04:44 अहमिमं पौष्पीघटम् (flower pot) अत्र स्थापयामि । किन्तु, अत्रत्य वस्तूनीमानि इतः निवारणीयानि ।
05:03 अहं क्षणेऽस्मिन् पौष्पीघटस्य सीमामिमां निर्वहामि ।
05:24 अहं चित्रमिदम् एवं स्थापयामि चेत्, भवान् cloning इत्यस्य चिह्नानि पश्यति । किन्तु, यद्यहं comic mode इतीदं सक्रियं करोमि तर्हि तानि अदृश्यानि भवन्ति ।
05:43 अतः, वयमत्र इदानीं पौष्पीघटस्य विषये किञ्चित् कार्यं कुर्मः ।
06:06 अहमेतत् बिन्दोः clone इति करोमीति चिन्तयामि ।
06:26 अस्मिन् सर्पणसोपाने इदं प्रत्यायितं न भवति, किन्त्विदं कार्यं करोति ।
06:34 इदं हास्यचित्रं, मूलतः त्रिभिः भागैः युक्तमस्ति ।
06:39 प्रथमतः, अत्र चित्रस्य विन्यासदायकं, वर्णरहितः कृष्णः अथवा गाढतमाः patches इत्येते भवन्ति ।
06:50 अनन्तरं, तत्र चित्रस्थरूपाणाम् अपि च वस्तूनां व्याख्यादायकाः रेखाः विद्यन्ते ।
06:57 अनन्तरं तत्र वर्णोऽस्ति । वयमत्र पाठे विद्यमानमिव patches इत्येतैः आरभामहे ।
07:04 अपि च तदर्थं,
07:15 स्तरमिदं द्विवारं कृत्वा तदहं ink इति कथयामि ।
07:25 अहं Threshold Tool इतीदं चित्वा चित्रे नुदामि । ‘info. Window’ इतीदं चित्रे कर्षयामि ।
07:37 अत्र चित्रं, black and white इत्यस्तीति भवान् पश्यति ।
07:43 इदं साधनं, चित्रं black and white इति प्रति विभजते ।
07:48 चित्रकणः, इदानीं 82 इत्यपेक्षया यदि पेलवमस्ति तर्हि रक्तं, हरितः अपि च नीलवर्णानां average इति मूल्यानां मेलनेन सः श्वेतः भवति ।
08:02 अपि च स्तरः 82 इत्यस्य अधः भवति चेत् सः कृष्णः भवति ।
08:14 वयमिदानीम् अत्र प्रथमसमस्याम् अभिमुखीकुर्मः ।
08:19 अहम् अवसर्पिणीमिमाम् इतस्ततः करोमि चेत् परिणामः अतीव गाढः भवति ।
08:26 अत्रेदं, मूल्यं 129 इति, मम वदनस्य वामभागस्य, भुजस्य अपि च मूर्तेः कृते सम्यक् अस्ति ।
08:40 इदमत्र, नेत्रयोः बहु उत्तममस्ति ।
08:48 अपि च इदमन्यस्य नेत्रस्य कृते ।
08:53 इदानीं मया, चित्रस्यास्य अन्यः ink इति स्तरः उपयोक्तव्यः ।
09:01 अतः, अत्र, एतादृशपेलवभागात् आरभामहे । तथैव चित्रे 100% प्रति प्रतिगच्छामः ।
09:14 अहमत्र इदं द्विवारं कृत्वा Threshold Tool इतीदं चिनोमि । तथैव अवसर्पिणीमिमाम् अधः कर्षयामि ।
09:29 किन्तु, ततः प्राक् अहम् उपरितन स्तरमदृश्यं करोमि ।
09:46 वदनस्य एतद्भागं प्रति इदं मूल्यम् उत्तममिति अहं भावये ।
09:56 अहमस्य स्तरस्य प्रतिलेखमेकं कृत्वा, तत् दृग्गोचरं कृत्वा च इदानीं तस्योपरि कार्यं कुर्वन्नस्मि ।
10:08 मयात्र middle terms इत्येतदर्थं द्रष्टव्यम् ।
10:13 वदनस्य अयं भागः, मच्चिन्तनानुसारं सम्यक् कार्यं करोति । अतः अहं चित्रे परितः पश्यामि ।
10:23 अयं विग्रहोऽपि सम्यक् अस्ति ।
10:26 अत्रास्य चित्रस्य लक्षणम् (Definition) उत्तममस्ति । मम हस्तस्य समीपे, रेखा नष्टास्ति । इदमेव ‘optical illusion’ इति कथयन्ति ।
10:41 मच्चिन्तनानुसारम् इदं सम्यक् अस्ति । तथैव इदं चित्रे भवितव्यम् ।
10:49 इदानीमहं, Threshold Tool इतीदं चित्वा, अत्रत्य-रेखां दृग्गोचरां करोमि । किञ्चित् लक्षणं प्राप्तुं प्रकाशमानभागान् पश्यामि । अतः इदमुपरि कर्षयामि ।
11:08 इदमुत्तमं दृश्यते ।
11:12 मत्सविधे ink इति स्तरस्य त्रयः प्रतिलेखाः सन्ति ।
11:17 प्रथमः ink light इति ।
11:28 उपरितन स्तरः ink dark इति ।
11:34 मध्यस्थं स्तरं ink इति नामकरणं कुर्मः ।
11:40 इदानीं वयं स्तरत्रयं दृष्ट्वा कस्य अधिकोपयोगः भवेदिति निर्धारयामः ।
11:49 ink इति स्तरः उत्तमाधारः अस्ति । यतोहि अयमतीव पेलवः अपि च अयमतीव गाढः अस्ति ।
12:01 अतः, अहं स्तरमिमम् अधः स्थापयामि । गाढ-पेलवस्तरयोः कृते layer mask इतीदं योजयामि ।
12:12 अहं layer mask/Black (fully transparent) इतीदं योजयामि ।
12:18 अतः, अत्र विद्यमानं सर्वमदृश्यं गच्छति ।
12:26 पेलवस्तरस्य, स्तरवर्णिकायाः उपरि white इत्यस्य कर्षणेन, चित्रं, तत्र प्रकट्यते ।
12:45 अतः, अहमत्र Normal mode अपि च Opacity 100% इत्येतेन सह Brush Tool इतीदं चिनोमि ।
12:55 अहं दृढकूर्चम् उपयुञ्जे । Pressure sensitivity इतीदं Size इति भवेत् । अतः यदि अहम् उपरि कूर्चं नुदामि तर्हि बिन्दुः बृहत् भवति ।
13:20 मम foreground इत्यस्य वर्णः श्वेतः अस्ति ।
13:24 वयम् आरभामहे ।
13:28 वदनस्य वामभागं प्रकाश्यमानं करणीयमिति अहं चिन्तयामि ।
13:34 चित्रे सर्पणं कर्तुमहं 1 इतीदं नुदामि ।
13:39 अयं कूर्चः, बहु लघु अस्तीति चिन्तये, अतः इदं किञ्चिदधिकं scale इति करोमि ।
13:53 तत् सम्यक् दृश्यते ।
14:00 किन्तु, प्रायशः अयं बहु प्रकाशमानः अस्ति ।
14:05 अयं कृष्णः अथवा श्वेतवर्णीयः भवेत् ।
14:47 अतः, अहं ‘X’ इति कीलकेन वर्णान् परिवर्तये । तथैव अत्र पुनः रङ्गसेचनं करोमि ।
14:57 किन्त्वहम् इदमत्रैव त्यक्त्वा तस्योपरि अग्रिमस्तरं स्थापयितुं शक्नोमि ।
15:14 इदानीम्, अस्मभ्यं प्रदेशस्य अपि च रचनायाः विषये अधिकावधानमस्ति । अतः एतद्रेखाः विस्मृत्य केवलमत्र एतद्रचनाः द्रष्टव्याः ।
15:30 तद्यथा अस्ति तथैव त्यजतु ।
15:34 अहं सुलभेन अन्यत् layer इतीदं योजयितुं शक्नोमि । अपि च गाढभूतप्रदेशान् अहं श्वेतेन रङ्गसेचनं करोमि ।
15:44 अत्राहं किञ्चित् दर्शयितुं शक्नोमीति पश्यामः ।
15:51 इदं बह्वधिकं जातमित्यहं चिन्तये ।
15:56 मह्यं वदनं किञ्चित् गाढं करणीयमस्ति ।
16:08 अपि च अत्रापि ।
16:19 मच्चिन्तनानुसारं तद्बहु गाढमस्ति ।
16:31 अत्र, इतोऽपि कर्तव्यं किञ्चित् कार्यमस्ति । किन्तु, इदमत्रैव त्यजामि । रेखाभिः अग्रिमसोपानं कृत्वा अनन्तरमिदं पश्यामि । तदाहम् अत्र व्यवस्थापयितुं शक्नोमि ।
16:46 इदं प्रकाश्यं करणीयमस्ति ।
16:49 अतः, वयं तत्र सम्पादनं पश्यामः ।
16:53 सोपानेऽस्मिन्, अहं काश्चन रेखाः योजयामि । Background इति स्तरं द्विवारं कृत्वा, तत् सर्वस्योपरि संस्थाप्य lines इति नामकरणेन इदं कर्तुं शक्यते ।
17:08 इमाः रेखाः विविधवर्णानाम् अन्तराले विद्यमानाः सीमाः सन्ति ।
17:15 अतः, अहं Filters इत्यत्र गत्वा अनन्तरं Edge-detect इत्यत्र गच्छामि । अत्र Difference of Gaussian Edge Detect इतीदमस्ति ।
17:33 Radius इत्यनेन सम्बद्धा अवसर्पिणी अस्ति । भवान् सङ्ख्यां न्यूनीकरोति चेत् रेखाः सूक्ष्माः भवन्ति ।
17:45 भवान् सङ्ख्याः वर्धयति चेत् रेखाः विस्तृताः भवन्ति । तथैव भवते चित्रे अधिकविवरणानि लभ्यन्ते ।
17:56 अहं 10 इत्येतस्य कृते आद्यतां ददामि । किन्तु, अहं 30 प्रति गत्वा अनन्तरं कुत्र स्थापनीयमिति निर्धारयितुं शक्नोमि ।
18:10 यदाहं 30 प्रति गच्छामि तदा सीमाः न प्राप्यन्ते । किन्तु, प्रदेशाः लभ्यन्ते । अपि 12 इतीदमत्र ददाति ।
18:27 मच्चिन्तनानुसारमहं 10 इत्यत्र तिष्ठामि ।
18:37 स्तरस्यास्य Layer Mode इतीदं Multiply इत्येतस्य कृते व्यवस्थापयामि । वर्धमानस्य वर्णस्य कृते चित्रस्थं श्वेतवर्णम् अनन्तरमहं न्यूनीकरोमि ।
18:50 इदानीम्, एतावत्पर्यन्तम् इदमस्मभ्यं सम्यक् प्राप्तं किमिति वयं परिशीलयामः ।
18:56 अतः, अहं lines इति स्तरं सक्रियं निष्क्रियं च करोमि । यदा lines इति स्तरः सक्रियः भवति तदा भवान् अत्र कानिचन लक्षणानि पश्यति ।
19:08 इदानीमहं dark ink इति स्तरम् अपचित्य light ink इति स्तरं रक्षामि ।
19:20 dark ink इत्यस्मिन् स्तरे मह्यमपेक्षिता रचना lines इति स्तरे दृश्यते ।
19:30 अतः, अहं dark ink इति स्तरं निष्क्रियं कृत्वा स्थापयामि ।
19:42 अत्र एतेषां स्तराणां संयोजनस्य आवश्यकता अस्तीति मह्यं न भासते ।
19:50 तदहं यथास्ति तथैव रक्षामि । अतः अहं किमपि परिवर्तयितुं शक्नोमि अपि च तदन्तिमे चित्रे भवति ।
20:09 मम कथनानुसारम् अग्रिमसोपानम्, अत्र White channel इत्यस्य न्यूनीकरणम् । अपि चेदं च Levels इति साधनेन कर्तुं शक्यते । अहं स्तरं 240 प्रति न्यूनीकरोमि ।
20:28 यदाहम् इमं स्तरं निष्क्रियं करोमि, तदा मह्यं धूसरवर्णस्य पृष्ठदेशः अपि च किञ्चित् वर्णानां सूच्यांशः प्राप्तः इति भवान् द्रष्टुं शक्नोति ।
20:40 चित्रे वर्णं प्राप्तुमहं, Background इति स्तरं प्रतिलेखं कृत्वा, तत् colour इति नामकरणं कृत्वा, सर्वतः उपरि स्थापयामि तथैव स्तरदशां Colour इत्येतत् प्रति व्यवस्थापयामि ।
21:00 किन्त्विदं सम्यक् न दृश्यते । अतः दशामहं परिवर्तये ।
21:07 चित्रमिदम् अत्र किञ्चित् वर्णयुक्तमस्ति ।
21:12 किन्तु, मह्यमधिकं ‘saturation’ इतीदमपेक्षते । अतः पुनः Background इति स्तरं प्रतिलेखं कृत्वा तदहं saturation इति नामकरणं करोमि ।
21:24 स्तरदशामहं Saturation इत्यस्य कृते व्यवस्थापयामि ।
21:29 इयं Saturation इति दशा एतावता एव सम्यक् कार्यं कुर्वती अस्ति । अपि च परिणामाः बहूत्तमाः सन्ति ।
21:38 वर्णेषु बहु ‘flatness’ इतीदं भवितव्यमासीत् । अपि च हस्तः हास्यरूपेण (comic) न दृश्यमानः अस्ति ।
21:47 इदं कुतः आगच्छतीति अहं पश्यामि ।
21:51 अतः, इदानीमहम् एताः अवसर्पिणीः उपयुज्य द्रष्टुं शक्नोमि ।
21:58 यदा Saturation इतीदं न्यूनं करोमि, तदा किञ्चित् flatter इति भवति अपि च ‘water colours’ इतिवत् दृश्यते । अतः अयं विचित्रपरिणामः अस्ति ।
22:19 इदानीमहम् अत्रत्य- layers इत्येतैः सह कार्यम् आरब्धुं शक्नोमि ।
22:26 अतः, अहं lines इति स्तरं निष्क्रियं करोमि । अत्रेदं lines इत्येतैः कृतपरिणामः न । किन्तु, colours अपि च saturation इत्येताभ्यां संवृत्तमिति भवन्तः पश्यन्ति ।
22:39 इदानीमत्र इतोऽपि स्तराः सन्तीत्यतः अहं किञ्चित् व्यवस्थापयितुं शक्नोमि ।
22:47 मह्यं मुखं प्रकाश्यं करणीयमस्ति । अतः अहं मम ink light इति स्तरम् अपि च white foreground इतिवर्णयुक्तं brush इतीदं चिनोमि ।
23:12 अहं चित्रे सर्पणं करोमि ।
23:18 कूर्चस्य आकारं न्यूनीकृत्य, तस्य मापनं करोमि । इदानीमहमत्र नेत्रस्य रङ्गसेचनं कर्तुमारभे ।
23:34 तद् बह्वधिकम् अभवत् ।
23:50 इदमुत्तमं दृश्यते ।
23:54 अहमिदानीम् अस्मिन् भागे रङ्गसेचनं करोमि ।
24:00 इदं बह्वधिकम् अभवत् ।
24:03 चित्रे, अत्रत्यान् प्रदेशानेतान् परिवर्त्य भवान् बहूनि परिवर्तनानि कर्तुं शक्नोतीति भवान् ऊहयितुं शक्नोति ।
24:47 इदं सम्यक् अस्ति ।
24:51 भवानत्र बहूनि परिवर्तनानि कर्तुं शक्नोति । किमहं योग्ये मार्गे अस्मीति मह्यं न ज्ञायते ।
25:01 किन्त्विदम् एतावत् पर्यन्तमहम् इच्छामि ।
25:06 किमन्यत् कर्तुं शक्यते इति वयं पश्यामः ।
25:10 प्रथमतः, वयं lines इतीदं त्यक्त्वा अन्यस्तरोपयोगं कर्तुं शक्नुमः ।
25:18 अतः, अहं lines इतीदं निष्क्रियं करोमि । मह्यम् अतीव आश्चर्यकरवर्णाः प्राप्यन्ते । यतोहि इदानीं मत्सविधे पुनः श्वेतपृष्ठदेशः अस्ति ।
25:31 अतः अत्र अन्यं स्तरं योजयित्वा तत् white प्रति व्यवस्थापयामि । Multiply इति दशामुपयुज्य तत् 240 धूसरेण पूरयामि ।
25:52 इदानीं मह्यं निकटतया lines इत्येतेन सह विद्यमानचित्रमत्र प्राप्तमस्ति ।
25:59 तानहं सक्रियान् करोमि ।
26:03 lines इत्यस्य सूच्यांशाः बहिरागच्छन्तः सन्ति । किन्तु, एतत् ‘comic effect’ इतीदम् इतोऽपि अत्रास्ति । किमुत्तममस्तीति अहं द्रष्टुं शक्नोमि ।
26:21 वयमन्यान् कांश्चन उपायान् प्रयतामहे ।
26:30 अहं colour अपि च saturation इति स्तरान् द्विवारं कृत्वा तैः सह किमपि करोमि ।
26:39 अत्र, अहं चित्रात् विवरणानि प्राप्तुं प्रयतिष्ये ।
26:45 अतः, क्रमशः Filters >> Blur अपि च Gaussian Blur इत्यत्राहं गच्छामि ।
26:53 अपि चात्र, उत्तमपरिणामप्रदं मूल्यमहं चिनोमि ।
27:08 वर्णाः किञ्चित् मृदु सञ्जाताः इति भवान् पश्यति ।
27:18 अतः वयमिदं saturation copy इत्यस्य उपर्यपि कुर्मः ।
27:24 क्रमशः अहं Filters >> Repeat "Guassian Blur" इत्यत्र गच्छामि ।
27:29 अपि च इदानीं मह्यं समवर्णैः युक्तं यथार्थतया स्वारस्यरहितं चित्रं प्राप्तमस्ति ।
27:36 अतः, अहं मूलं colour इतीदं सक्रियं करोमि । मह्यमत्र विचित्रपरिणामः लभ्यते ।
27:44 वयमेतान् स्तरान् saturation blurred अपि च colour blurred इति पुनर्नामकरणं कुर्मः ।
28:04 अहं unblurred colour इत्येतेन सह blurred saturation इतीदं योजयामि चेत्, विचित्ररूपेण दृग्गोचरान् कांश्चन वर्णान् अत्राहं प्राप्नोमि ।
28:16 इदमत्र विशेषेण नासिकायाः उपरि यदि न भवति स्म तर्हि मह्यं रोचते स्म ।
28:22 अतः, इदमहमत्र सक्रियं करोमि अपि च अत्रायं परिणामः अस्ति ।
28:29 भवान् ‘blurring’ इतीदं न्यूनीकरोति चेत् भवते स्पष्टविवरणानि प्राप्यन्ते इति ऊहयितुं शक्नोति ।
28:37 इदं यथार्थं क्रीडाङ्गणमस्ति ।
28:40 इदं कथं कर्तव्यम् ? किं करणीयम् ? केन समीकरणम् ? इत्यादि-बहवो सम्भवाः भवते अत्र प्राप्यन्ते ।
28:50 इदं कर्तुमत्र यथार्थतया विलक्षणमस्ति ।
29:09 मूलपाठस्य लेखकः महत्तरकार्यम् अकरोत् ।
29:24 चित्रस्यास्य उभयसंस्करणाभ्याम् अहं न तावान् सन्तुष्टः ।
29:31 अहम् अत्रत्य विन्यासम्, इदं पुष्पम्, इमं विग्रहं तथैव अत्रत्यं पौष्पीघटम् इच्छामि ।
29:40 हस्तस्य समीपे विद्यमान-सर्वविवरणानि अहं नेच्छामि । अपि च वदने इतोऽपि किञ्चिदधिकं समतलं भवितुमर्हति स्म ।
29:49 यदा ‘blurred’ इति सक्रिये सति, वदनस्य हस्तस्य च समीपस्थानि विवरणानि अहमिच्छामि । किन्तु, सम्पूर्णमस्पष्टं पुष्पमहं नेच्छामि ।
30:04 अतः, इदानीमहं एतच्चित्रद्वयमपि संयोजयितुं शक्नोमि । अहं colour blurred इत्यनेन आरभे । यतोहि saturation blurred इत्यस्य सर्वतः स्वरूपापेक्षया अस्याहम् इच्छामि ।
30:20 किन्त्वहं, सर्वस्तरान् सक्रियान् करोमि । saturation blurred अपि च colour blurred इत्येतयोः कृते layer mask इतीदं योजयामि । Black (fully transparent) इत्येतेन सह layer mask इतीदं योजयामि ।
30:37 अपि चाहम् इदानीं saturation layer mask इत्यस्योपरि कार्यमारभे । अतः अहं white इतीदं मम foreground वर्णरूपेण चित्वा, अत्र Paintbrush इतीदं चिनोमि ।
30:51 इदानीमहं रङ्गसेचनं कर्तुम् आरभे ।
30:55 चित्रे, मह्यं यत्र इतोऽपि किञ्चिदधिकं समतलप्रदेशाः अपेक्षन्ते तत्र तेषां प्रदेशाणामुपरि अहं रङ्गसेचनं करोमि ।
31:04 इदं किञ्चित् विलक्षणं दृश्यते । यतोहि इदानीं colour layer इतीदं सक्रियम् अस्ति ।
31:46 अतः इदानीं, Shift+ctrl+A इतीदं नुत्वा अहं सर्वं चित्वा च, Ctrl + C इत्यनेन प्रतिलेखं करोमि । चित्रे गत्वा Ctrl + V इतीदं नुदामि । Floating Selection इत्यस्योपरि नुदामि । Ctrl + H इतीदम् अथवा anchor layer इत्यनेन सह मह्यं मम प्रतिलेखः प्राप्यते ।
32:20 अतः, भवन्तः इमाः स्तरवर्णिकाः अपि प्रतिलेखं कर्तुं शक्नुवन्ति । अहं चित्रमिदम् अत्रैव त्यजामि ।
32:32 मच्चिन्तनानुसारम्, इदमतीव उत्तमम् उदाहरणम् । अन्ते तावत् अहमेताभिः अवसर्पिणीभिः सह किञ्चित् प्रयोगं कर्तुमिच्छामि ।
32:54 वयमस्य पुनरवलोकनं कुर्मः ।
32:57 भवान् प्रथमं ‘image layer’ इतीदं प्रतिलेखं कृत्वा threshold इति साधनेन एकं inked इति चित्रं निर्मातु ।
33:05 भवते कृष्णः अथवा अतिगाढरूपेण अपेक्षितप्रदेशार्थं पश्यन्तु ।
33:10 अनन्तरं मूलचित्रस्य पुनः प्रतिलेखं करोतु । edge detect filter इत्यनेन सह line layer इतीदं करोतु । अनन्तरं layer mode इतीदं Multiply इति प्रति व्यवस्थापयतु ।
33:29 स्तरेऽस्मिन् Levels इति साधनेन भवान् श्वेतं धूसरं प्रति, प्रायशः 240 प्रति आनयतु ।
33:42 अनन्तरं, भवान् मूलचित्रं पुनं प्रतिलेखं करोतु । अपि च colour layer इतीदं निर्मातु ।
33:49 colour mode इतीदं Colour प्रति व्यवस्थापयतु ।
33:56 अपि च अन्तिमरूपेण ‘base layer’ इतीदम् अन्तिमवारं प्रतिलेखं कृत्वा saturation इति स्तरस्य निर्माणं कुर्वन्तु । अत्र भवन्तः layer mode इतीदं Saturation प्रति व्यवस्थापयन्तु । इदानीं भवन्तः विविधस्तराणां opacity इत्यनेन सह अथवा कैश्चित् स्तरैः सह कार्यं कुर्वन्तु ।
34:20 नूनं प्रयोगं कुर्वन्तु । फलितानि संमिश्रितानि सन्ति किन्तु कानिचन, विस्मयकाराणि भवन्ति ।
34:32 अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च भवताम् अभिप्रायं प्रेषयितुं कृपया info@meetthegimp.org इत्यत्र प्रेषयन्तु । पुनर्मिलामः ।
34:49 Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीन् भट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14