GIMP/C2/An-Image-For-The-Web/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 Meet the GIMP (मीट द गिम्प) इति पाठेऽस्मिन् स्वागतम्।
00:25 मम नाम रोल्फ स्टेनोर्ट। मया ध्वन्यङ्कनमिदम् उत्तरजर्मनदेशस्य ब्रेमन् इति स्थाने क्रियते।
00:31 गिम्प इति चित्रपरिवर्तनार्थं विद्यमानं किञ्चन प्रभावशालि प्रोग्राम वर्तते ।
00:35 अस्मिन् पाठे गिम्प-विषयकपरिचयः तस्य विशेषतायाः च विषये वक्तुमिच्छामि।
00:39 अत्राहं, वेब निमित्तं किञ्चन चित्रं कथं निर्मापणीयमिति सङ्क्षेपेण दर्शयामि।
00:43 अग्रिमेषु पाठेषु अहं विस्तरेण विवरणं दास्यामि।
00:48 किञ्चन चित्रं उद्घाटयितुं अहं तच्चित्रं टूल-बाक्स इत्यस्मिन् कर्षयामि (drag)।
00:53 पश्यन्तु, अत्र आगतम्!
00:55 वयं चित्रमिदं वीक्षयामः।
00:57 मया इदं चित्रं वेब निमित्तं सज्जीकरणीयम्।
01:02 तथा कर्तुं किं करणीयमिति पश्यामः।
01:04 चित्रमिदं किञ्चित् वक्रमस्ति, अतः प्रथमतया इदं किञ्चित् परिभ्रामयामः।
01:09 अनन्तरं, अस्याः व्यक्तेः चित्रस्य पृष्टतः विद्यमानं भागं निष्कासयितुं चित्रमिदं कर्तनीयम्।
01:16 तृतीयस्तरे, मया अस्मिन् चित्रे इतोऽप्यधिकान् वर्णान् कांट्रास्ट च योजनीयम् अस्ति।
01:22 मया चित्रस्यास्य आकारः अपि परिवर्तनीयः, यतोहि अधुना इदं प्रायः 4000 पिक्सल-परिमितं विस्तृतम् अस्ति यच्च महत् अस्ति।
01:31 अनन्तरम्, मया चित्रमिदं शार्पन् कृत्वा JPEG इमेज इति प्रारूपे रक्षणीयमस्ति।
01:38 वयं ‘रोटेटिंग्’ इत्यस्माद् आरभामहे।
01:40 यत्र चित्रं स्पष्टतया वक्रम् अस्ति तद्भागम् अहं बृहत् करोमि।
01:49 अत्रावधेयं यत्, स्पेस-कीलं नुत्त्वा कर्सर्-इत्यस्य इतस्ततः भ्रामणेन वयं चित्रस्य प्रतिभागं दृष्टुं शक्नुमः।
01:56 अधुना अहम् अत्र नुत्त्वा Rotate इति टूल चिनोमि।
02:00 Rotate इत्यस्मिन् टूल् मध्ये केचन विकल्पाः उत्सर्गरूपेण व्यवस्थिताः सन्ति। व्याल्यू-इत्येतानि ग्राफिकल्-कार्यार्थं योग्यमस्ति न तु फोटोग्राफिकल् कार्यार्थम्।
02:09 अत्र Direction इतीदं Normal(Forward) इत्यस्मिन् व्यवस्थापितमस्ति, परं, अहम् इदं Corrective(Backward) इत्यस्मिन् व्यवस्थापयामि।
02:14 अत्र उत्तमं इंटर्पोलेशन अस्ति वा इति परिशीलयामि। एतत् सम्यक् अस्ति।
02:17 Preview मध्ये अहं Image इत्यस्य स्थाने Grid इतीदं चिनोमि।
02:22 स्लैडर्-इत्यस्य सारणेन अहं ग्रिड्-पङ्क्तीः वर्धयामि। शीघ्रमेव तद्दृश्यते।
02:30 अहमधुना, चित्रस्योपरि नुत्त्वा ग्रिड्-इतीदं चित्रस्योपरि योजयामि।
02:36 इदं ग्रिड् ऋजु अस्ति।
02:38 अहम् एतद् भ्रामयितुं शक्नोमि। गिम्प इति, चित्रं तस्यामेव दिशि, यथा ग्रिड् ऋजुः स्यात् तथा च करेक्टीव-मोड मध्ये भ्रामयति।
02:51 अहं कृत्वा दर्शयामि। अहं ग्रिड्-इतीदं एवं भ्रामयामि।
02:56 इदं दृढीकर्तुं अहं चित्रस्य भागान्तरं परिशीलयामि।
03:00 मह्यम् इदं सम्यग् दृश्यते।
03:02 अधुना अहं Rotate इति पिञ्जं नुदामि।
03:06 चित्रमिदम्, उप-दश मेगापिक्सल्-परिमितमस्तीत्यतः, किञ्चित् कालं स्वीकरोति।
03:13 अधुना जातमस्ति, चित्रं भ्रमितमस्ति।
03:16 वयम् एकवारम्, सम्पूर्णं चित्रं पश्यामः। Shift + Ctrl + E, इति नोदनेन वयं पुनः चित्रं दृष्टुं शक्नुमः।
03:22 Cropping इति अग्रिमः स्तरः अस्ति
03:25 अहम्, अत्र नुत्त्वा Crop इति साधनम् चितवान् अस्मि।
03:28 मया, अस्य चित्रस्य आस्पेक्ट्-रेशियो 3:2 इति स्थापनीयमस्ति।
03:33 तदर्थम् अहं Fixed aspect ratio इतीदम् अत्र परिवर्त्य 3:2 इति टङ्कयामि।
03:39 तस्याः पेटिकायाः बहिरगन्तुम्, अहं केवलं नुदामि।
03:43 एवं च, अधुना अहं क्राप् कर्तुं आरब्धुं शक्नोमि।
03:45 अहम्, अस्याः व्यक्तेः पादौ अत्र अन्तर्भावयितुम् इच्छामि परन्तु चित्रस्य भागमिमं बहिष्कर्तुमिच्छामि।
03:52 अतः, अहम् इतः आरम्भे अपि च क्षेत्रमिदं चेतुं मौस्-इत्यस्मिन् वामनोदनं कृत्वा अधस्तात् वामतः कर्षयामि।
04:01 आस्पेक्ट्-रेशियो स्थिरमस्ति इति अवधातव्यम्।
04:06 अपि च, कियत् दूरं कर्षणीयमिति मया निर्धारणीयम्।
04:12 इदं समीचीनमस्ति इति भावयामि।
04:18 वयम् अस्य सीमानं व्यवस्थापयामः।
04:21 वयं भागमिमं बहिः स्थापितवन्तः स्मः। तत्र कश्चन उपविष्टः अस्ति।
04:28 अहं चिन्तयामि यत् तेन व्यक्तिना अस्मिन् चित्रे भवितुं पर्याप्तं स्थानमस्ति।
04:35 तत् सम्यगेव दृश्यते इत्यतः तथैव स्थापयामि।
04:41 अत्र उपरि वातायनानि सन्ति।
04:44 चित्रे तु बहूनि वातयानानि सन्ति।
04:50 परन्तु , अत्र पादस्य अधः पर्याप्तं स्थानं नास्ति।
04:54 अतः अहं चित्रस्योपरि नुत्त्वा तत् किञ्चित् अधः कर्षयामि।
04:58 अधुना सम्यगस्ति।
05:01 परम् अधुना वातायनानि सम्पूर्णतया न दृश्यन्ते अपि च उपविष्टः अपि सीम्नः समीपे अस्ति।
05:08 अतः वयं चित्रं किञ्चित् बृहत् कुर्मः।
05:11 अत्र काचित् समस्या अस्तीति दृष्टुं शक्यते।
05:18 इयं समस्या चित्रभ्रामणसमये जाता।
05:21 अत्र किञ्चित्स्थानं पारदर्शकम् अस्ति।
05:25 स्थानमिदम् अहम् अन्तर्भावयितुं न इच्छामि,
05:33 अतः वयं पुनः Crop साधनं चिनुमः।
05:35 अत्र किञ्चित् अधिकं स्थानम् अपेक्षते इत्यतः अहम् इदम् उपरि कर्षयामि।
05:38 बहु दूरं न।
05:40 एतत् बहु सम्यग् अस्ति।
05:44 अधुना चित्रस्योपरि नुदन्तु। अत्र वयम् अस्माभिः क्राप् कृतं अपि च भ्रामितं चित्रं दृष्टुं शक्नुमः।
05:50 Shift + Ctrl + E, इति नोदनेन वयं सम्पूर्णदृश्यं दृष्टुं शक्नुमः।
05:56 अग्रिमः स्तरः वर्णानाम् अपि च काण्ट्रास्ट इत्येतेषां वर्धनम् अस्ति।
06:02 अत्र बहूनि विधानानि सन्ति। मया कलर लेवेल अर्थात् वक्राकृतयः अथवा स्लैडर इतीदमपि उपयोक्तुं शक्यते। इदम् अत्र अस्ति।
06:11 परन्तु, अहं कार्यमिदं लेयर्स इत्यनेन सह कर्तुमिच्छामि।
06:18 अहं लेयर इत्यस्य प्रतिकृतिं अत्र करोमि।
06:23 अपि च, Layer Mode इतीदं Overlay इत्यस्मिन् परिवर्तयामि।
06:30 अत्र भवन्तः दृष्टुं शक्नुवन्ति यत् एषः प्रबलपरिणामः अस्ति। अहम् एतावत् न इच्छामि।
06:36 अतः, अहं Opacity (ओप्यासिटी) इति कर्षकं तावत् न्यूनं प्रति कर्षयामि यावत् स्पष्टं चित्रं न प्राप्नोमि।
06:42 प्रायः, इतोऽपि किञ्चित्।
06:46 अस्तु, एतत् स्पष्टमस्ति।
06:50 अहं यावत् पर्यन्तं मौस मध्ये वामपिञ्जं नुत्त्वा तत्र दृश्यमानायां चानल-सूच्याम् विद्यमानं Flatten image अथवा Merge visible layers इतीदं न चिनोमि तावत् पर्यन्तं एतस्य परिवर्तनं शक्यते।
07:01 यदा चिनोमि तदा सर्वाणि परिवर्तनानि स्थायीनि भवन्ति।
07:03 एतदपि तदा एव यदि अहं History इत्यत्र पृष्टतः गत्वा undo History न करोमि तर्हि।
07:10 वयमिदम् अनन्तरं पश्यामः।
07:13 अग्रिमः स्तरः अस्ति Resizing (रिसैसिंग)।
07:16 अहं Image इत्यत्र नुत्त्वा Scale Image इतीदं चिनोमि।
07:27 अत्र अहं 800 पिक्सेल इति तङ्कयामि।
07:32 मह्यं ‘height’ निमित्तं मूल्यं स्वयं प्राप्यते।
07:36 अहं यदि अत्रत्यं तालकम् उद्घाटयामि तर्हि यदा चित्रं रिसैस करोमि तदा तत् विरूपं भवितुं शक्नोति।
07:44 Interpolation (इंटर्पोलेशन्) इत्यत्र अहं Cubic (क्यूबिक्) इतीदं चिनोमि। अत्रत्यः उत्कृष्टः स्तरोऽयम् इष्टिकाभवने कश्चन कलात्मकपरिणामं ददाति। विलक्षणमिमं विकल्पम् अहमपि परिशीलयितुमिच्छामि।
08:02 अधुना Scale इत्यत्र नुदन्तु।
08:04 तदा वयम् अस्य परिणामं दृष्टुं शक्नुमः।
08:08 Shift + Ctrl + E, इति नोदनेन वयं सम्पूर्णचित्रं दृष्टुं शक्नुमः।
08:13 1(एकं) यदा नुदामः तदा अहं 100% (शतप्रतिशतम्) zoom प्राप्नोमि।
08:19 अधुना वयं चित्रे प्रतिकूलात्मकं दोषयुक्तं वा यत्किञ्चित् अस्ति वा इति दृष्टुं शक्नुमः। अत्र तु सर्वं सम्यदस्ति।
08:32 अग्रिमः स्तरः Sharpening (शार्पनिंग्) अस्ति।
08:35 यद्यपि मम चित्रकं (camara) तस्य मसूरं (lens) च उत्तममस्ति तथापि अस्माभिः चित्रमिदं बहुषः परिवर्तितं इत्यतः तीक्ष्णं (sharp) करणीयम्।
08:49 अहं Filters (फिल्टर्स) इतीदं चिनोमि।
08:53 अपि च, Enhance (एन्हान्स) इतस्योपरि नुदामि। अत्र Sharpen (शार्पन) इति विकल्पः अस्ति। अहं Unsharp mask (अन्-शार्प मास्क) इति प्रभावशालि उपकरणम् अपि उपयोक्तुं शक्नोमि। परं अधुना “शार्पन्” इत्यनेन अलम्।
09:06 उपकरणेऽस्मिन् Sharpness (शार्पनेस) कर्षकम् इति एकमात्रविकल्पः अस्ति। कर्षकमिदं व्यवस्थापयितुं शक्यते। एतादृशचित्राय एतत् पर्याप्तमस्ति।
09:16 एतत् चित्रं शार्प नास्ति। अहं यदा कर्षकं कर्षयामि तदा चित्रम् अधिकम् अधिकं शार्प भवति। यदि अधिकं कर्षयन्ति तर्हि अधिकं आमोदं प्राप्नुवन्ति।
09:31 चित्राय अस्मै मूल्यमिदं सम्यगस्ति इति अहं भावयामि।
09:38 केशः अधुना स्पष्टतया दृश्यते परन्तु, अत्र किञ्चित् मिश्रणम् अस्पष्ततां वा दृष्टुं शक्नुमः।
09:46 अतः वयं कर्षकं किञ्चित् न्यूनं प्रति कर्षयामः। एतत् सम्यगस्ति।
09:52 अहं विरूपितचित्रस्यापेक्षया चित्रे सौम्यपरिणामानि इच्छामि।
10:00 भवन्तः चित्रं नवीकृतवन्तः इतीदं एतानि प्रमाणयन्ति।
10:06 अधुना वयं फलितं पश्यामः।
10:09 एतत् सम्यगेव दृश्यमानम् अस्ति।
10:11 अन्ततः, चित्रस्यामिदं रक्षणीयम्।
10:15 अहं File इत्यत्र गत्वा, Save As इत्यस्य उपरि नुदामि, अपि च फैल एक्स्टेन्शन इतीदं ‘tif’ (टिफ) तः ‘jpg’ (जे पी जी) इति परिवर्तयामि।
10:29 अपि च, Save पिञ्चं नुदामि।
10:32 JPEG (जे-पेग) इतीदं अनेकस्तरयुतचित्रं निर्वोढुं न शक्नोति इति सूचना दृश्यते, अतः एतानि वयं export कुर्मः।
10:44 अस्मै चित्राय 85% (पञ्चाशीतिप्रतिशतम्) उत्तममूल्यम् अस्ति।
10:53 अतः चित्रमिदं ‘JPEG इमेज’ इति रूपेण अत्र रक्षितवान् अस्मि।
11:01 भवन्तः इदं सम्पूर्णपटले दृष्टुं शक्नुवन्ति।
11:04 अयं Meet the GIMP इत्यस्य प्रथमः पाठः अस्ति। अग्रिमेषु पाठेषु GIMP इत्यस्य व्यवस्थापनं, अस्मिन् कथं चित्रणीयं कथं वा परिवर्तनीयम् इत्यादिविषयान् पठामः।
11:17 भवताम् अभिप्रायं प्रकटयितुं कृपया info [at] meetthegimp dot org इत्यत्र लिखन्तु।
11:25 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु। http://meetthegimp.org
11:31 अस्मिन् पाठे भवद्भ्यः किम् इष्टं जातम्, पाठमिम् इतोऽपि कथं उत्तमं कर्तुं शक्नुमः, अग्रे पाठमिमं कथं दृष्टुम् इच्छन्ति इत्यादिविषयान् वदन्तु। अहं भवद्भ्यः श्रोतुम् इच्छामि।
11:41 स्पोकन ट्युटोरियल प्रकल्पाय, अनुवादकः ऐ ऐ टी मुम्बैतः वासुदेवः, प्रवाचकः नवीनभट्टः।

Contributors and Content Editors

NaveenBhat