GIMP/C2/Adjusting-Colours-with-Curves-Tool/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:24 Meet the GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:26 अद्यतनपाठः raw converting इत्यस्य विषये नास्ति । किन्तु, नैजप्रदर्शनसन्दर्भे नूतन-विधिलेखनस्य (coding) विषये अपि च पूर्वतनपाठस्थदोषाणां समीकरणार्थम् अस्ति ।
00:40 अहमस्य चित्रस्य विषये भवते किमपि वक्तुमिच्छामि ।
00:44 अहमस्य प्रदर्शनस्य अङ्कनस्य (recording) सन्दर्भे कानिचन अधिकतरपरिवर्तनानि कृतवान् ।
00:50 यथा भवान् पश्यति, समुद्रः किञ्चित् मन्दः अस्ति । सः लक्षणरहितः सन् केवलं धूसरः अस्ति । यदाहम् अत्र Sea इति स्तरम् अपि च अन्यस्तरान् निष्क्रियं करोमि तदा भवान् समुद्रे किञ्चित् लक्षणं द्रष्टुं शक्नोति ।
01:17 यदाहं स्तरवर्णिकां (layer mask) पश्यामि, तदा मया प्रदर्शनीयस्य स्थानस्य कृते अहं प्रायः धूसरवर्णीयं layer mask इतीदम् उपयुक्तवानिति भवान् द्रष्टुं शक्नोति ।
01:30 अतः, सोपानमिदं पुनः कुर्मः ।
01:37 अहं Sea इति स्तरं निष्कासितवान् अपि च Background इति स्तरस्य प्रतिलेखं कृतवान् ।
01:44 अहं स्तरमिमं Sea इति नाम कृत्वा Sky इत्यस्य अधः अपि च Land इत्यस्य उपरि स्थापयामि ।
01:57 मया, मत्सविधे विद्यमानस्तरेण सह कार्यं कर्तव्यमासीत् । किन्तु, मह्यम् उत्तमं फलितं न प्राप्यते स्म । यतोहि समुद्रं किञ्चित् गाढं कर्तुमहं curves इति साधनम् उपयुक्तान् आसम् ।
02:10 अपि च तेन, अहं तत्स्तरस्थान् बहु वर्णसूच्यांशान् नाशितवान् । अत्र अनेन प्रकारेण अहमुत्तमं फलितं प्राप्नोमि ।
02:24 इदानीम्, अहं Sea इति स्तरं प्रति layer mask इतीदं योजयामि । Gray scale copy of the layer इतीदमुपयुज्य योजयामि ।
02:35 Show layer mask इतीदं नुत्वा स्तरवर्णिकां सम्पादयामि ।
02:41 अहं Curves इति साधनम् उपयुञ्जे अपि च अधः कर्षयित्वा इदमेव विधानं पुनरावर्तयामि । किन्तु, अस्मिन् पर्याये अहम् उपरितनवक्रम् उपरि करोमि ।
03:01 इदानीं मत्सविधे, समुद्रदिगन्तयोः स्थाने निकटतया श्वेतः अपि च भूमेः कृते निकटतया कृष्णवर्णीया स्तरवर्णिका विद्यते ।
03:12 नष्टप्रायाः काश्चन रचनाः समीकर्तुमहं Brush इति साधनं चित्वा अत्र बृहत्कूर्चं चिनोमि । अपि च भूमेः भागं कृष्णेन रङ्गसेचनं कर्तुमारभे ।
03:30 sea इति स्तरं कृष्णेन रङ्गसेचनं कर्तुमिच्छा मह्यं नास्ति । अतः, अहं foreground अपि च background colour इत्येतयोः वर्णविनिमयं करोमि ।
03:39 समुद्रप्रदेशं गत्वा श्वेतेन रङ्गसेचनम् आरभे । इदमहं किञ्चित् मृदुरूपेण करोमि इति चिन्तये ।
03:56 अत्र, अयं प्रदेशः बहु उत्तमः आसीत् इति चिन्तये, किन्तु इदं भवान् अनन्तरं समीकर्तुं शक्नोति ।
04:04 अतः, मृदुकूर्चं चित्वा, अत्रत्या सीमा इयमुत्तमा भवति इति पश्यामः ।
04:21 यदाहं Show Layer Mask इतीदं निष्क्रियं करोमि तदात्र भूमिसमुद्रयोः मध्यस्थसीमायाः उपरि प्रसारितदृश्यं वयं द्रष्टुं शक्नुमः ।
04:32 वयं चित्रे सर्पणं कुर्मः । स्तरवर्णिका अपि च स्तरः इत्युभयं यत्र कार्यं न करोति तत्र एकं halo इतीदमस्ति इति द्रष्टुं शक्नोति । तस्य उपरि वयमनन्तरं कार्यं कुर्मः ।
04:50 Shift + Ctrl + E इत्यनेन अहमिदानीं समग्रचित्रं प्रति प्रतिगच्छामि ।
04:58 अहं Curves इति साधनं चित्वा layer mask इतीदं चितम् अस्ति नवेति परिशीलयामि । समग्रचित्रं द्रष्टुं Sky इति स्तरं योजयामि । इदानीं चित्रे नुत्वा वक्रैः सह क्रीडामि ।
05:28 इदानीं समुद्रभूम्योः मध्ये halo इतीदम् अदृश्यं गतमिति भवान् द्रष्टुं शक्नोति । किन्तु, समुद्रः पुनः मन्दः अस्ति ।
05:40 किन्तु, अहमत्र वक्रम् उपरि कर्षयामि अपि च अत्र मह्यं शुद्धाकाशः प्राप्यते ।
05:52 मया अधिकं न कर्तव्यमिति मे भाति ।
06:07 समुद्रस्य उपरि सूर्यस्य प्रकाशमानतां, मेघानां छायाः, तरङ्गाणां विविधरचनाः अपि च समुद्रस्य उपरि भवितव्यं किञ्चित् नीलवर्णमहं द्रष्टुं शक्नोमि ।
06:22 दिगन्तस्य सीमायां विद्यमानस्य प्रकाशविषयिणी काचित् समस्या अत्रास्ति । यतोहि दिगन्तः अत्यन्तं प्रकाशयुक्तः अस्ति । अपि च समस्यामिमाम् अहम् अनन्तरसोपानेषु परिहर्तुं शक्नोमि ।
06:41 अस्तु, अहं Curves tool इत्यस्य परिणामं Opacity slider इत्यनेन व्यवस्थापयितुं शक्नोमि । उत्तमं परिणामं प्राप्तुमहं किञ्चित् न्यूनीकरोमि ।
06:58 John Arnold महाभागस्य प्रसारणस्य सूचनानुसारम् अस्माभिः यथाशक्ति अधिकप्रमाणं प्रति गन्तव्यम्, अनन्तरम् अवसर्पिण्याम् अधः गन्तव्यम् । यतोहि, अधः गमनसमये परिणामस्य दर्शनम् अत्यन्तं सुलभदायकम् ।
07:17 अपि च योग्यं प्रमाणं वयं सुलभेन निर्धारयितुं शक्नुमः ।
07:22 अहमनेन भागेन सह बहु कार्यं कृतवान् इति चिन्तयामि । अतः अहम् अवसर्पिणीम् अधः कर्षयामि । अपि च इदं सम्यक् अस्ति इति भावये ।
07:36 दिगन्तस्य उपरि इदं प्रकाशमानं वस्तु कुतः आगतम् ?
07:40 अहं Sky इति स्तरम् अपचित्य परिशीलयामि । किन्तु, इदमनेन कारणेन नाभवत् ।
07:46 अतः, अहं Sea इति स्तरम् अपचिनोमि । अपि च इदं Sea इति स्तरस्य कारणेन अभवत् ।
07:52 अपि च अत्राहम् प्रदेशमिमं गाढं करोमि ।
07:55 तदर्थमहं Gradient इति साधनम् उपयुञ्जे ।
07:59 अहं layer mask इतीदं चित्वा, इदानीं साधनपेटिकायाः Gradient इति साधनं चिनोमि । मया भूमिप्रदेशः श्वेतः अपि च दिगन्तप्रदेशः कृष्णः कर्तव्यः अस्ति । सीमा मह्यमत्र अपेक्षते ।
08:21 gradient इतीदं पूर्णश्वेतेन आरभ्य कृष्णेन समाप्तं भवति ।
08:29 अतः, अहमत्र प्रदेशे सर्पणं करोमि । Gradient इति साधनं चित्वा इतः आरभेऽहम् ।
08:38 रेखायाः अस्याः रचनसन्दर्भे, सरलरेखां प्राप्तुमहं Ctrl इति कीलकम् अपि च mouse इत्यस्य वामनोदनं कृत्वा कर्षयामि । अत्राहं कीलकं त्यजामि ।
08:53 पश्यतु भवान्, कार्यमिदं सम्पन्नम् । दिगन्तस्य उपरि प्रकाशः तथैव भूमेः स्तरवर्णिका अपि गता इति भवान् द्रष्टुं शक्नोति ।
09:06 वयं समग्रं चित्रं पश्यामः । अपि च अस्माकं सर्वाणि सम्पादनानि गतानि इति भवान् द्रष्टुं शक्नोति ।
09:18 अतः, दिगन्तेन सह व्यवहर्तुम् इदमुत्तमं विधानं नासीत् । अतः अहमत्र इदं सोपानम् अपाकरोमि (undo) ।
09:27 इदानीं, प्रथममहम् आयतं चिनोमि । layer mask इत्यस्य चयनस्य विषये परिशीलयामि । दिगन्तस्य स्थाने आयतं चित्रयामि ।
09:41 इदानीम्, आयतस्य रचनानन्तरमहं अत्र अन्तः सम्पादनकार्यं कर्तुं शक्नोमि । अपि च स्तरवर्णिकायाः अवशिष्टभागस्य उपरि कोऽपि परिणामः न भवति ।
09:54 इदानीमहं तामेव प्रक्रियां पुनः करोमि ।
10:00 अत्र प्रकाशतमे भागे सर्पणं कृत्वा Layer Mask इतीदं चिनोतु ।
10:07 अहम् उपरि कृष्णम् अधः श्वेतं प्राप्तुमिच्छामि । अतः अहमितः आरभ्य ऋजु उपरि दिगन्तपर्यन्तं गच्छामि । इदानीं केवलः समुद्रः श्वेते सन् भूमिदिगन्तौ कृष्णौ स्तः इति भवान् द्रष्टुं शक्नोति ।
10:33 Shift + ctrl + A इतीदं सर्वचयनानि निष्क्रियं करोति । shift +ctrl + E इतीदं समग्रचित्रं प्रति प्रतिगच्छति अपि च इदानीम् अतीव उत्तममस्ति ।
10:52 यथा मया Land इति स्तरस्य कार्यं कृतं तथैव Sky इति स्तरः सम्पादनीयः अस्ति ।
11:01 Sky इति स्तरं द्विवारं कृत्वा Overlay इति दशां प्रति परिवर्तयतु ।
11:08 इदं बहु अधिकं जातम् । अतः अहं Opacity इति अवसर्पिणीं किञ्चित् अधः अवनयामि । दिगन्ते अस्मभ्यम् अधिकः व्यतिरेकः प्राप्तः ।
11:22 इदानीमिदं चित्रम्, एकं विषयं परित्यज्य न्यूनाधिकं सिद्धमस्ति ।
11:29 गृहस्य इयं भित्तिः, अत्र बहु गाढतमा अस्ति ।
11:33 सन्दर्भोऽयं dodging and burning इत्यर्थम् अस्ति ।
11:38 Dodging and burning इतीदं dark room इति कालस्य एकं पदमस्ति । enlarger इत्यस्य अपि च photographic paper इत्युभयोः, भवतः हस्तः अथवा पत्रम् अथवा अन्यत् किमपि enlarger इत्यस्य प्रकाशस्य किरणेषु स्थापनेन भवता चित्रमेकं dodge इति कर्तुं शक्यते । burning इतीदम् अस्य विरुद्धमस्ति ।
12:02 तत्र, भवान् पत्रमेकं स्वीकृत्य, तस्मिन् निर्दिष्टरूपेण रन्ध्रमेकं करोतु । अतः चित्रस्य अन्यस्थानेषु प्रकाशः प्रसृतः भवति ।
12:15 कदा किं सोपानं करणीयमिति अन्वेषणं बहु खेदस्य कार्यविधानमस्ति । तदर्थं भवते बहूनि पत्राणि अपेक्ष्यन्ते । एतादृशप्रक्रियायाः दर्शने भवद्भ्यः Well Photographer इति चलच्चित्रं द्रष्टुमहं सूचयामि ।
12:36 इदं James इति महाभागस्य विषये अस्ति । अपि च तदेकम् अद्भुतं चलच्चित्रमस्ति । एतद्विना dark chamber इतीदं दृग्गोचरम् अभवत् ।
12:45 अहं भवते सत्यं तच्चलच्चित्रं निर्देष्टुं शक्नोमि ।
12:49 इदानीं वयं Dodging and burning इति प्रक्रियां पश्यामः ।
12:52 साधनपेटिकायाम्, अत्र अस्मत्सविधे Dodge and Burn tool इत्यस्ति । किन्तु, अहं पुनः स्तरेण सह कार्यं कर्तुमिच्छामि ।
13:02 अहम् अन्यत् स्तरं योजयामि । मया इदं श्वेतेन पूरणीयमस्ति ।
13:09 अहं colour channel इत्यत्र गत्वा 50% इति यावत् धूसरवर्णार्थम् अपि च अन्यत् वाहिन्यां 128% इति संरक्षामि ।
13:21 अयं धूसरवर्णः 50% धूसरः अस्ति । अहं layer mode इतीदं Overlay प्रति परिवर्तयामि । न किमपि जातम् इति भवान् द्रष्टुं शक्नोति ।
13:35 इदानीमहं वर्णान् black and white प्रति परिवर्त्य brush इतीदं चिनोमि ।
13:45 अस्य कूर्चस्य आकारः सम्यक् अस्ति इति भासते । किन्तु अहं Opacity इतीदं 30% प्रति न्यूनीकरोमि ।
13:55 इदानीमहं नूतनस्तरः चितः अस्तीति दृढीकरोमि । अपि च foreground इत्यस्य वर्णं श्वेतम् अपि च background इत्यस्य वर्णं कृष्णं प्रति परिवर्त्य, अत्र भित्तेः रङ्गसेचनं कर्तुम् आरभे ।
14:19 सङ्कोचनं (compression) स्वस्य कार्यं कृतमस्ति अपि च भित्तेः एकः पार्श्वस्थभागः प्रकाशमानः अस्ति इति भवान् द्रष्टुं शक्नोति ।
14:36 प्रक्रियेयं dodging इति उच्यते । यतोहि अहं प्रकाशं photographic paper इत्यस्य उपरि स्थापयन् अस्मि । अतः भित्तिः अतीव प्रकाशमाना अस्ति ।
14:49 यदा वयमत्रत्यं स्तरं पश्यामः, अत्र मत्सविधे अधिकप्रकाशयुक्तः प्रदेशः अस्ति अपि च तत्र किञ्चित् पेलवयुक्ताः चित्रस्य केचन भागाः सन्तीति भवान् द्रष्टुं शक्नोति ।
15:03 उदाहरणार्थं, तीरे विद्यमानाः पाषाणखण्डाः ।
15:09 चित्रे सर्पणम् अत्युत्तमविधानम् अस्ति । इदानीमहं भित्तिं बहु प्रकाशयुक्तां कृतवान् अपि च JPEG compression इत्यस्मात् कारणात् विन्यासः न्यूनाधिकं गतः इति अहं द्रष्टुं शक्नोमि ।
15:25 किन्तु, वर्णपरिवर्तनेन तदहं परिवर्तयितुं शक्नोमि । तत्कर्तुं ‘X’ इति shortcut key अस्ति । अत्रेदं किञ्चित् गाढं करोमि ।
15:44 मया Opacity इति अवसर्पिणी किञ्चित् अधः कर्षणीया अस्ति । इदं सम्यक् अस्ति ।
15:54 मम मत्यनुसारं दिगन्तः प्रकाशमानः अस्ति । अतः, तत्प्रदेशं रङ्गसेचनं कर्तुं कूर्चस्य वृत्तस्य आकारमहं व्यवस्थापयामि । तथैव चित्रस्य तं भागं गाढं कर्तुं कृष्णम् उपयुञ्जे ।
16:34 ‘x’ इति कीलकेन वर्णं परिवर्त्य अहं चित्रस्य उपरि कार्यं कर्तुं शक्नोमि । तथैव तत् किञ्चित् गाढं कर्तुं शक्नोमि ।
16:53 तत् बह्वधिकम् आसीत् । तत्राहं किं कुर्वन्नस्मि इति अहमेव निश्चयेन न जानामि ।
17:00 अतः, सोपानमिदं undo करोमि ।
17:03 अहं स्तरमेकं कृत्वा तत् मध्यमधूसरं कृत्वा अपि च प्रत्येकं वाहिन्याः 128% कृत्वा तथैव layer mode इतीदं Overlay प्रति परिवर्तनीयं तन्त्रं भवान् द्रष्टुं शक्नोति ।
17:17 मध्यमधूसरः अपि च Overlay इतीयं दशा किमपि न कुरुतः । भवान् चित्रे श्वेतेन अथवा कृष्णेन रङ्गसेचनं कर्तुं शक्नोति ।
17:26 श्वेतेन यदा रङ्गसेचनं करोति तदा चित्रं प्रकाशितं भवति । कृष्णेन भवान् तत् गाढं करोति ।
17:36 अहं चिन्तयामि यत् चित्रस्य सम्पादनम् इदानीं यथार्थतया सम्पन्नमिति ।
17:42 मया अद्य कृते सम्पादने, यदि भवतं कोऽपि दोषम् अन्विषति तर्ह्येव, अन्यथा अस्य कार्यमहं न करोमि ।
17:53 तदहं न कृतवान् इति आशासे । अपि च layer इतीदं Dodge and Burn इति नाम करोमि ।
18:10 इदमद्य एतावदेव ।
18:13 यदि अभिप्रायं प्रेषयितुमिच्छति तर्हि कृपया info@meetthegimp.org इत्यत्र प्रेषयतु । अपि च अधिकविवरणार्थं http://meetthegimp.org इति शृङ्खलं गच्छतु ।
18:33 अहं भवतः सकाशात् श्रोतुमिच्छामि ।
18:36 भवान् किमिष्टवान् इति, मया किमुत्तमं कर्तव्यमासीत्, भवते अग्रे किं द्रष्टव्यम् इति वदतु ।
18:46 Spoken Tutorial परियोजनायाम् अनुवादकः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14