C-and-Cpp/C3/Working-With-2D-Arrays/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 2 Dimensional Arrays in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयम् -
00:10 2 Dimensional array नाम किमिति पश्यामः ।
00:13 एकेन उदाहरणेन सह वयमिदं कुर्मः ।
00:16 पाठस्यास्य ध्वन्यङ्कनायाहं,
00:18 Ubuntu Operating System इत्यस्य 11.10 तमा आवृत्तिः,
00:22 उबण्टु इत्यस्योपरि gcc तथा g++ Compilerइत्यस्य 4.6.1 तमा आवृत्तिः अभ्यामुपयोगं करोमि ।
00:29 वयमधुना 2 dimensional Array इत्यस्य पीठिकया सह प्रारभामहे ।
00:33 '2D अरेस्' इतीमानि रो तथा कोलम् मेट्रिक्स् मध्ये संस्थाप्यन्ते ।
00:38 वामपार्श्वस्थम् इण्डेक्स् रो इतीदं द्योतयति ।
00:41 दक्षिणपार्श्वस्थम् इण्डेक्स् कोलम् इतीदं द्योतयति ।
00:44 C तथा C++ मध्ये , मेट्रिक्स् अथवा अरे इत्यस्य आदिमम् इण्डेक्स् सर्वदा 0 वर्तते ।
00:52 अत्र वयं एकं 2 डैमेन्शनल् अरे इतीदं, एकस्मिन् रो कोलम् मेट्रिक्स् मध्ये पश्यामः ।
00:58 आदिमम् इण्डेक्स् 0 वर्तते ।
01:01 अधुना वयं 2 dimensional array इत्यस्य डिक्लेर् करणं कथमिति जानाम ।
01:04 अस्य सिण्टेक्स् एवं वर्तते :
01:07 data-type ,array name, row and column
01:13 तद्यथा, वयमत्र num नाम्नः 2 रोस् तथा 3 कोलम्स् युतमेकं 2 डैमेन्शनल् अरे डिक्लेर् कृतवन्तः ।
01:21 अधुना उदाहरणं पश्यामः ।
01:23 अहमेकं प्रोग्राम् टङ्कितवानस्मि । तदुद्घाटयामि ।
01:28 स्मरन्तु यत् अस्माकं फ़ैल् नेम् 2d hyphen array dot c इत्यस्ति ।
01:33 अस्मिन् प्रोग्राम् मध्ये वयं 2डैमेन्शनल् अरे इत्यस्य एलिमेण्ट्स् इत्येतेषां सङ्कलनं कुर्मः ।
01:41 अधुनाहं कोड् विवृणोमि ।
01:44 इदमस्माकं header file वर्तते ।
01:46 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
01:49 वयमत्र वेरियेबल्स् i तथा j अनयोर्मौल्यं डिक्लेर् कृतवन्तः ।
01:53 पश्चाद्वयं num1 इतीदं 3 रोस् तथा 4 कोलम्स् इत्येतैः सह डिक्लेर् कृतवन्तः ।
01:58 अपि च num2, पुनः 3 रोस् तथा 4 कोलम्स् इत्येतैः सह ।
02:03 num1 तथा num2 इमे 2 डैमेन्शनल् अरेस् स्तः ।
02:07 वयमत्र मेट्रिक्स् इत्यस्य एलिमेण्ट्स् num1 इतीदम् उपयोक्तृणा इन्पुट् प्राप्नुमः ।
02:13 एलिमेण्ट्स् इतीमानि रो-वैस् सङ्गृहीतानि ।
02:16 वयं रोस् इत्यस्मै i इति तथा j इतीदं कोलम्स् इत्यस्मै च उपयुक्तवन्तः ।
02:22 इदं for लूप् इतीदं i runs from 0 to 2 इति कण्डीशन् परीक्षते ।
02:28 इदं for लूप् इतीदं j runs from 0 to 3 इति कण्डीशन् परीक्षते ।
02:33 तथैव, वयमत्र मेट्रिक्स् इत्यस्य एलिमेण्ट् num2 इतीदम् उपयोक्तृणा इन्पुट् स्वीकुर्मः ।
02:40 वयमत्र मेट्रिक्स् num1 इतीदं प्रदर्श्ययाम ।
02:43 अत्र percent 3d इतीदं मेट्रिक्स् इतीदं टर्मिनल् उपरि अलैन् कर्तुं उपयुज्यते ।
02:49 अत्र वयं, मेट्रिक्स् num2 इतीदं प्रदर्शयाम ।
02:52 पश्चात् वयं num1 मेट्रिक्स् तथा num2 मेट्रिक्स् आभ्यां संयोगं कृत्वा फलितं प्रदर्शयाम ।
02:59 इदमस्माकं return स्टेट्मेण्ट् वर्तते ।
03:01 अधुना Save नुदन्तु ।
03:05 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
03:07 Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
03:15 कम्पैल् कर्तुं gcc space 2d hyphen array dot c space hyphen o space arr इति टङ्कयित्वा Enter नुदन्तु ।
03:28 एक्सिक्यूट् कर्तुं, dot slash arr (./arr), इति टङ्कयित्वा Enter नुदन्तु ।
03:34 वयमत्र Enter the elements of 3 into 4 array num1 इति पश्यामः ।
03:39 अहमधुना वेल्यूस् ददामि ।
03:52 वयमधुना Enter the elements of 3 into 4 array num2 इति पश्यामः ।
03:57 अहमधुना वेल्यूस् ददामि ।
04:10 औट्पुट् प्रदर्शितं वर्तते ।
04:13 वयमत्र num1 मेट्रिक्स् पश्यामः ।
04:16 अत्र वयं num2 मेट्रिक्स् पश्यामः ।
04:20 अपि चेदमस्माकं num1 तथा num2 संयोगमौल्यं वर्तते ।
04:24 वयमधुना इदमेव प्रोग्राम् C++ मध्ये एक्सिक्यूट् करणं कथमिति पश्याम ।
04:29 अहमेकं प्रोग्राम् रचितवानस्मि । तदुद्घाट्य विवृणोमि अधुना ।
04:34 इदं C++ मध्ये 2 डैमेन्शनल् अरे इत्यस्मै प्रोग्राम् वर्तते ।
04:38 स्मरन्तु यत् 2d hyphen array dot cpp इत्यस्माकं फ़ैल् नेम् वर्तते ।
04:43 एक्स्टेन्शन् dot cpp (.cpp) वर्तते ।
04:47 अहमधुना कोड् विवृणोमि ।
04:50 इदमस्माकं हेडर् फ़ैल् iostream वर्तते ।
04:53 इदमस्माकं using स्टेट्मेण्ट् वर्तते ।
04:56 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
04:58 वयमत्र cout फ़ङ्क्षन् प्राप्तवन्तः । वयं cout इतीदं C++ मध्ये औट्पुट् मुद्रापयितुम् उपयुञ्ज्महे ।
05:06 पश्चाद्वयं cin फ़ङ्क्षन् प्राप्तवन्तः । वयं cin इतीदं C++ मध्ये पङ्क्तिं पठितुं उपयुञ्ज्महे ।
05:13 वयमत्र / t उपयुञ्ज्महे । बिट् नाम होरिज़ोण्टल् टेब् अर्थात् 4 स्पेसस् इत्यस्य समानं वर्तते ।
05:21 अन्यानि सर्वाणि अस्माकं C कोड् इवैवास्ति ।
05:25 अधुना Save नुदन्तु ।
05:27 अधुना एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
05:31 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
05:33 कम्पैल् कर्तुं, g++ space 2d hyphen array dot cpp hyphen o space arr1 इति टङ्कयित्वा Enter नुदन्तु ।
05:47 एक्सिक्यूट् कर्तुं, dot slash arr1, इति टङ्कयित्वा Enter नुदन्तु ।
05:52 वयमत्र Enter the elements of 3 into 4 array num1 इति पश्यामः ।
05:57 अहं वेल्यूस् ददामि ।
06:07 वयमधुना Enter the elements of 3 into 4 array num2इति पश्यामः ।
06:13 अहमेवं वेल्यूस् ददामि ।
06:24 औट्पुट् एवं प्रदर्शितम् ।
06:26 वयं num1 मेट्रिक्स् तथा num2 मेट्रिक्स् च पश्यामः ।
06:31 अपि चेदं num1 तथा num2 अनयोः संयोगं प्रदर्शयति ।
06:36 अनेन वयं पाठस्यान्तमागतवन्तः ।
06:39 अस्माकं स्लैड्स् प्रति आगच्छन्तु । सारं पश्यामः ।
06:43 अस्मिन् पाठे वयं :
06:45 2D अरे इत्यस्य एलिमेण्ट्स् संयोजनम्,
06:48 2D अरे इत्यस्य प्रिण्ट् करणम्,
06:50 अपि च 2डैमेन्शनल् अरे इत्यस्य संयोगं(sum) गणयितुं च ज्ञातवन्तः ।
06:54 पाठनियोजनरूपेण : यूसर् द्वारा इन्पुट् रूपेण 2डैमेन्शनल् अरे स्वीकर्तुं प्रोग्राम् रचयन्तु ।
07:01 तयोः व्यवकलनं कृत्वा फ़लितं प्रदर्श्यताम् ।
07:05 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
07:08 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
07:11 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
07:15 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
07:17 स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति ।
07:21 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
07:25 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:32 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:36 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
07:43 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
07:48 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
07:54 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14