Biopython/C2/Manipulating-Sequences/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Manipulating Sequences इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वागतम् । |
00:06 | अस्मिन् अनुशिक्षणे वयं बयोपैथन् टूल्स् ; किञ्चन DNA सीक्वेन्स् सृष्ट्यर्थं, |
00:13 | निर्दिष्टस्थलेषु डि.एन्.ए सीक्वेन्स् स्लैस् कर्तुं, |
00:17 | सीक्वेन्स्-द्वयं संयोज्य नूतनमेकं सीक्वेन्स् रचयितुम्, इत्युक्ते काङ्क्याटिनेट् (concatenate) कर्तुं, |
00:22 | सिक्वेन्स् दैर्घ्यम् ज्ञातुम् , |
00:26 | प्रत्येकं बेस् अथवा स्ट्रिङ्ग् इत्यस्य भागं गणयितुं, |
00:31 | किञ्चन निर्दिष्टं बेस् अथवा स्ट्रिङ्ग् भागम् अन्वेष्टुं, |
00:35 | किञ्चन सीक्वेन्स् आब्जेक्ट्, म्यूटेबल् सीक्वेन्स् आब्जेक्ट् (परिवर्तनयोग्यं सीक्वेन्स् आब्जेक्ट्) रूपेण परिवर्तयितुम् उपयुञ्ज्महे । |
00:40 | एतत् अनुशिक्षणम् अवगन्तुं, भवतां पदवीपूर्वस्तरीयस्य बयोकेमेस्ट्रि अथवा बयोइन्फर्मेटिक्स् |
00:47 | तथा बेसिक् पैथान् प्रोग्रामिङ्ग् इत्येतेषां ज्ञानं स्यात् । |
00:51 | तथा नास्ति चेत्, अधः निर्दिष्टायां पर्चन्यां पैथन् अनुशिक्षणानि पश्यन्तु । |
00:56 | एतत् अनुशिक्षणं रेकार्ड् कर्तुम्, अहं Ubuntu OS इत्यस्य 14.10 आवृत्तिः, |
01:03 | पैथन् इत्यस्य 2.7.8 आवृत्तिः, |
01:07 | Ipython interpreter इत्यस्य 2.3.0 आवृत्तिः, |
01:12 | बयोपैथन् इत्यस्य 1.64 आवृत्तिः, इत्येतेषाम् उपयोगं कुर्वन् अस्मि । |
01:16 | अहं टर्मिनल् उद्घाटयामि, ipython interpreter आरम्भं करोमि च । |
01:21 | Ctrl, Alt तथा T की युगपदेव नुदन्तु । |
01:26 | प्राम्प्ट् मध्ये, ipython इति टङ्कयित्वा Enter की नुदन्तु । |
01:31 | स्क्रीन् उपरि, Ipython प्राम्प्ट् दृश्यते । |
01:35 | बयोपैथन् उपयुज्य, किञ्चन निर्दिष्ट-दैर्घ्ययुतस्य, यस्य कस्यचित् DNA सीक्वेन्स् निमित्तम्, अस्माभिः सीक्वेन्स् आब्जेक्ट् रचयितुं शक्यते । |
01:44 | अधुना वयं 20 बेस् इत्येतेषां DNA सीक्वेन्स् निमित्तम्, किञ्चन सीक्वेन्स् आब्जेक्ट् रचयाम । |
01:50 | प्राम्पट् मध्ये, एवं टङ्कयन्तु : import random , Enter की नुदन्तु । |
01:56 | अनन्तरं, Bio प्याकेज् तः Seq माड्यूल् इम्पोर्ट् कुर्वन्तु । |
02:01 | तदा तदा Seq इत्येतत् seek इत्यपि उच्चार्यते । |
02:06 | प्राम्पट् मध्ये एवं टङ्कयन्तु From Bio dot Seq import Seq, Enter की नुदन्तु । |
02:15 | DNA सीक्वेन्स् मध्ये विद्यमानानां स्थानानाम् अक्षराणि सूचयितुं, वयं Bio.Alphabet माड्यूल् उपयुञ्ज्महे । |
02:22 | एवं टङ्कयन्तु from Bio dot Alphabet import generic underscore dna. Enter की नुदन्तु । |
02:32 | यस्य कस्यचन DNA सीक्वेन्स् निमित्तं, सीक्वेन्स् आब्जेक्ट् रचयितुम्, अधोनिर्दिष्टं कमाण्ड् टङ्कयन्तु । |
02:38 | सीक्वेन्स् इत्येतत्, dna1 इति वेरियबल्-मध्ये स्टोर् कुर्वन्तु । |
02:42 | कृपया अवलोकयन्तु : एतत् कमाण्ड्-मध्ये, डबल्-कोट्स् परतया, सिङ्गल्-कोट्-द्वयम् उपयोक्तव्यम् । Enter की नुदन्तु । |
02:50 | औट्-पुट्-निमित्तं, dna1 इति टङ्कनं कृत्वा, Enter की नुदन्तु । |
02:55 | औट्पुट् इतीदं, उक्ताय DNA सीक्वेन्स् इत्यस्मै, सीक्वेन्स् ओब्जेक्ट् दर्शयति । |
03:00 | भवद्भ्यः नूतनं सीक्वेन्स् अपेक्षितं चेत्, उपरितनमेव कमाण्ड् प्राप्तुम्, अप्-आरो (up-arrow) की नुदन्तु । Enter की नुदन्तु । |
03:11 | औट्-पुट्-निमित्तं, वेरियबल् नाम dna1 इति टैप् कुर्वन्तु । Enter की नुदन्तु । |
03:17 | औट्-पुट्, किञ्चन नूतनं DNA सीक्वेन्स् दर्शयति । एतत् प्रथमसीक्वेन्स् अपेक्षया भिन्नं भवति । |
03:23 | सीक्वेन्स् आब्जेक्ट् विषये : |
03:25 | सीक्वेन्स् आब्जेक्ट्स् सामान्यतः इतरे पैथन्-स्ट्रिङ्ग्स् इव व्यवहरति । |
03:30 | अतः, अन्य-पैथन्-स्ट्रिङ्ग्स्-निमित्तम् अनुस्रियमाणाः पद्धतीः अनुसरन्तु । |
03:35 | पैथन्-मध्ये, स्ट्रिङ्ग्स्-मध्ये विद्यमान-क्यारेक्टर्स् (अक्षराणि) 1 परतया 0 तः कुर्मः । |
03:41 | सीक्वेन्स्-मध्ये विद्यमानस्य प्रथम-अक्षरस्य स्थानं 0 (शून्यम्) अस्ति । |
03:45 | टर्मिनल् प्रति आगच्छ्न्तु । |
03:47 | बहुवारं, भवद्भिः, सीक्वेन्स् इत्यस्य एकस्मिन् भागे एव कार्यं करणीयं भवेत् । |
03:52 | इदानीं, स्ट्रिङ्ग्-भागान् निष्कास्य, तानि सीक्वेन्स् आब्जेक्ट्स्-रूपेण कथं स्टोर्-करणीयम् इति पश्यामः । |
03:58 | उदाहरणार्थं, वयं DNA सीक्वेन्स् इत्येतत् स्थानद्वये स्लैस् कुर्मः । |
04:04 | प्रथमं, 6 ,7 बेस् मध्ये अस्ति । |
04:08 | एतत् सीक्वेन्स् आरम्भात् 6 बेस् पर्यन्तमपि विद्यमानम् एकं भागम् उद्घाटयति । |
04:15 | द्वितीय स्लैस्, 11 ,12 बेस् मध्ये अस्ति । |
04:20 | द्वितीयः भागः, सीक्वेन्स् इत्यस्य 12 बेस्-तः सीक्वेन्स् अन्तपर्यन्तमपि भवति । |
04:26 | प्रथमभागम् उद्घाटयितुम्, प्राम्प्ट्-मध्ये अधोनिर्दिष्टं कमाण्ड् टैप्-कुर्वन्तु । |
04:31 | String1 equal to dna1 within brackets 0 colon 6. |
04:39 | string1, प्रथमभागं स्टोर्-कर्तुं विद्यमानं वेरियबल् अस्ति । |
04:43 | कमाण्ड् इत्यस्य अवशिष्टः भागः, सामान्यपैथन्-मध्ये यथा, तथैव भवति । |
04:47 | एतस्य आवरणस्य अन्तः विद्यमानं, कोलन्-द्वारा विभक्तं, आरम्भस्य अन्त्यस्य च स्थानम् । |
04:53 | एतानि स्थानानि प्रथमस्थानयुक्तानि किन्तु अन्तिमस्थानयुक्तानि न । Enter की नुदन्तु । |
05:01 | औट्-पुट् द्रष्टुं, string1 इति टैप् कुर्वन्तु । Enter की नुदन्तु । |
05:04 | औट्-पुट्, प्रथमभागं, सीक्वेन्स् आब्जेक्ट् इव दर्शयति |
05:10 | सीक्वेन्स्-तः द्वितीयस्ट्रिङ्ग् निष्कासयितुम्, अप्-आरो (up-arrow) की नुदन्तु कमाण्ड् एवम् edit कुर्वन्तु । |
05:17 | वेरियबल् नाम string2 इति, स्थानानि 11 , 20 इति च परिवर्तयन्तु । |
05:24 | औट्-पुट्-निमित्तं, string2 इति टङ्कयन्तु, Enter की नुदन्तु । |
05:30 | इदानीम् अस्माभिः द्वितीयं भागम् अपि सीक्वेन्स् आब्जेक्ट्-रूपेण प्राप्तम् । |
05:34 | इदानीं वयं काङ्क्याटिनेट् (concatenate) कुर्मः । तन्नाम, एतत् स्ट्रिङ्-द्वयं योजयित्वा किञ्चन नूतनं स्ट्रिङ् कुर्मः । |
05:42 | नूतनं सीक्वेन्स्, dna2 इत्याख्ये वेरियबल्-मध्ये स्टोर् कुर्मः । |
05:46 | एवं टङ्कनं कुर्वन्तु : dna2 equal to string1 plus string2, Enter की नुदन्तु । |
05:53 | कृपया अवलोकयन्तु : असङ्गत-अल्फाबेट्-युक्त-सीक्वेन्स् वयं योजयितुं न शक्नुमः । |
05:59 | तन्नाम, वयं DNA सीक्वेन्स् प्रोटीन् सीक्वेन्स् च काङ्क्याटिनेट्-कृत्वा नूतनं सीक्वेन्स् कर्तुं न शक्नुमः |
06:07 | सीक्वेन्स्-द्वयमपि समानविधमेव अल्फाबेट् अट्रिब्यूट्स् (गुणलक्षण)युक्तं स्यात् । |
06:12 | औट्-पुट् द्रष्टुं, dna2 इति टङ्कनं कृत्वा, Enter की नुदन्तु । |
06:17 | औट्-पुट्, string1 , string2 इत्येतयोः संयुक्तं नूतनं सीक्वेन्स् दर्शयति । |
06:23 | नूतनसीक्वेन्स् दैर्घ्यं ज्ञातुं, वयं len फङ्क्षन् इत्यस्य उपयोगं कुर्मः । |
06:29 | एवं टङ्कनं कुर्वन्तु : "len" within parenthesis "dna2" , Enter की नुदन्तु च । |
06:34 | औट्-पुट्, सीक्वेन्स् इत्येतत् 15 बेस्-दीर्घयुतं दर्शयति । |
06:39 | सीक्वेन्स्-मध्ये विद्यमान-प्रत्येक-बेस्-सङ्ख्याः अपि अस्माभिः गणयितुं शक्याः । |
06:44 | तथा कर्तुं, वयं count() फङ्क्षन् उपयोगं कुर्मः । |
06:47 | उदाहरणार्थं – सीक्वेन्स्-मध्ये विद्यमान-अलनैन्-सङ्ख्याः गणयितुम्, अधोनिर्दिष्टकमाण्ड् टङ्कयन्तु: dna2 dot count within parenthesis within double quotes alphabet A. |
07:02 | Enter की नुदन्तु । |
07:04 | औट्-पुट्, dna2 सीक्वेन्स्-मध्ये विद्यमानानाम् अलनैन् इत्येतेषां सङ्ख्यां दर्शयति । |
07:10 | किञ्चन निर्दिष्टं बेस् अथवा स्ट्रिङ्ग् इत्यस्य भागम् अन्वेष्टुं, वयं find() फङ्क्षन् उपयोगं कुर्मः । |
07:16 | एवं टैप् कुर्वन्तु : dna2 dot find within parenthesis within double quotes "GC". Enter की नुदन्तु । |
07:26 | औट्-पुट्, स्ट्रिङ्ग्-मध्ये प्रथमवारं GC इति दृश्यमानस्थानं दर्शयति । |
07:32 | सामान्यतः, सीक्वेन्स् आब्जेक्ट् एडिट् कर्तुं न शक्यते । |
07:35 | किञ्चन सीक्वेन्स् एडिट् कर्तुम्, अस्माभिः तत् म्यूटेबल् सीक्वेन्स् आब्जेक्ट् रूपेण परिवर्तनीयम् । |
07:41 | तत् कर्तुम्, एवं टङ्कयन्तु : dna3 equal to dna2 dot to mutable open and close parenthesis. Enter की नुदन्तु । |
07:52 | औट्-पुट्-निमित्तं, dna3 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु । |
07:55 | इदानीं सीक्वेन्स् आब्जेक्ट् एडिट् कर्तुं शक्यते । |
07:59 | वयं सीक्वेन्स् मध्ये विद्यमानं बेस् परिवर्त्य स्थापयामः । |
08:01 | उदाहरणार्थं – 5 इत्यस्य स्थाने विद्यमानं बेस्, अनलैन्-तः रीप्लेस्-कर्तुं, एवं टङ्कनं कुर्वन्तु: dna3 within brackets 5 equal to within double quotes alphabet A. Enter की नुदन्तु । |
08:19 | औट्-पुट्-निमित्तं, dna3 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु । |
08:24 | औट्-पुट् अवलोकयन्तु । 5 इत्यस्य स्थाने विद्यमानं “सैटोसिन्” (cytosine) इत्येतत्, “अलनिन्” (alanine) इत्येतस्मात् परिवर्तितम् अस्ति । |
08:31 | स्ट्रिङ्ग् इत्यस्य किञ्चन भागं परिवर्तयितुम्, अधोनिर्दिष्टं कमाण्ड् टङ्कयन्तु । |
08:35 | Dna3 within brackets 6 colon 10 equal to within double quotes ATGC. Enter की नुदन्तु । |
08:45 | औट्-पुट्-निमित्तं, dna3 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु । |
08:52 | 6स्थानात् 9स्थानपर्यन्तं 4बेस्-परतया, नूतनानि बेस् ATGC आगतानि इति औट्-पुट् दर्शयति । |
09:01 | भवतां सीक्वेन्स् आब्जेक्ट् सकृत् भवद्भिः एडिट्-करणानन्तरं, तत् read only फार्म्-प्रति पुनः परिवर्तयन्तु । |
09:07 | एवं टङ्कनं कुर्वन्तु : dna4 equal to dna3 dot to seq open and close parenthesis. Enter की नुदन्तु । |
09:19 | औट्-पुट्-निमित्तं dna4 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु । |
09:25 | सङ्क्षेपेण, |
09:27 | अस्मिन् अनुशिक्षणे, अस्माभिः ज्ञाताः अंशाः : कस्यापि एकस्य DNA सीक्वेन्स्-रचनम्, |
09:32 | निर्दिष्टेषु स्थानेषु, DNA सीक्वेन्स् स्लैस्-करणम्, |
09:36 | किञ्चन नूतनं सीक्वेन्स् रचयितुं, सीक्वेन्स्-द्वयं मिलित्वा योजनं, तन्नाम काङ्क्याटिनेट्(concatenate)करणम् । |
09:43 | तथैव, len, count , find फङ्क्षन् इत्येतेषाम् उपयोगः । |
09:49 | सीक्वेन्स्-आब्जेक्ट् इत्येतत्, म्यूटेबल् सीक्वेन्स्-आब्जेक्ट्-रूपेण परिवर्तनं, स्ट्रिङ्ग् इत्यस्य बेस् अथवा एकस्य भागस्य परिवर्तनम् - एतत्सर्वम् अस्माभिः पठितम् । |
09:57 | गृहकार्यार्थं, 30 बेस्-युक्तं किञ्चन DNA सीक्वेन्स् रचयन्तु । |
10:02 | बयोपैथन्-टूल्स् उपयुज्य, GC पर्सेण्टेज् तथा सीक्वेन्स् मालिक्युलार् वेट् (molecular weight) अभिजानन्तु । |
10:09 | भवतां सम्पन्नं गृहकार्यम् एवं भवति । |
10:13 | औट्-पुट्, GC कण्टेण्ट् पर्सेण्टेज्-मध्ये दर्शयति । |
10:18 | औट्-पुट् , DNA सीक्वेन्स् इत्यस्य मालिक्युलार् वेट् (molecular weight) दर्शयति । |
10:23 | एतत् चलच्चित्रं, स्पोकन् ट्युटोरियल्-योजनायाः सारांशभूतम् अस्ति । |
10:26 | भवताम् अन्तर्जालसम्पर्कवेगः अल्पः अस्ति चेत्, भवन्तः एतत् अवचित्य द्रष्टुं शक्नुवन्ति । |
10:30 | वयं कार्यशालाः सञ्चालयामः, प्रमाणपत्राणि च दद्मः । |
10:32 | कृपया अस्माकं सम्पर्कं कुर्वन्तु । |
10:35 | स्पोकन् ट्युटोरियल्-योजना, राष्ट्रिय-साक्षरता-मिषन्, ICT, MHRD द्वारा भारतसर्वकारस्य सहयोगं प्राप्तवती अस्ति । |
10:43 | अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टनम् । धन्यवादाः । |